श्रीमान् यस्याः प्रियस्सन् सकलमपि जगज्जंगमस्थावराद्यं
स्वर्भूपातालभेदं विविधविधमहाशिल्पसामर्थ्यसिद्धम् ।
रंजन् ब्रह्मामरेंद्रैस्त्रिभुवनजनकः स्तूयते भूरिशो यः
सा विष्णोरेकपत्नी त्रिभुवनजननी पातु पद्मावती नः ॥ 1 ॥
श्रीशृंगारैकदेवीं विधिमुखसुमनःकोटिकोटीरजाग्र-
द्रत्नज्योत्स्नाप्रसारप्रकटितचरणांभोजनीराजितार्चाम् ।
गीर्वाणस्त्रैणवाणीपरिफणितमहाकीर्तिसौभाग्यभाग्यां
हेलानिर्दग्धदैन्यश्रमविषममहारण्यगण्यां नमामि ॥ 2 ॥
विद्युत्कोटिप्रकाशां विविधमणिगणोन्निद्रसुस्निग्धशोभा-
संपत्संपूर्णहाराद्यभिनवविभवालंक्रियोल्लासिकंठाम् ।
आद्यां विद्योतमानस्मितरुचिरचितानल्पचंद्रप्रकाशां
पद्मां पद्मायताक्षीं पदनलिननमत्पद्मसद्मां नमामि ॥ 3 ॥
शश्वत्तस्याः श्रयेऽहं चरणसरसिजं शार्ङ्गपाणेः पुरंध्र्याः
स्तोकं यस्याः प्रसादः प्रसरति मनुजे क्रूरदारिद्र्यदग्धे ।
सोऽयं सद्योऽनवद्यस्थिरतररुचिरश्रेष्ठभूयिष्ठनव्य-
स्तव्यप्रासादपंक्तिप्रसितबहुविधप्राभवो बोभवीति ॥ 4 ॥
सौंदर्योद्वेलहेमांबुजमहितमहासिंहपीठाश्रयाढ्यां
पुष्यन्नीलारविंदप्रतिमवरकृपापूरसंपूर्णनेत्राम् ।
ज्योत्स्नापीयूषधारावहनवसुषमक्षौमधामोज्ज्वलांगीं
वंदे सिद्धेशचेतस्सरसिजनिलयां चक्रिसौभाग्यऋद्धिम् ॥ 5 ॥
संसारक्लेशहंत्रीं स्मितरुचिरमुखीं सारशृंगारशोभां
सर्वैश्वर्यप्रदात्रीं सरसिजनयनां संस्तुतां साधुबृंदैः ।
संसिद्धस्निग्धभावां सुरहितचरितां सिंधुराजात्मभूतां
सेवे संभावनीयानुपमितमहिमां सच्चिदानंदरूपाम् ॥ 6 ॥
सिद्धस्वर्णोपमानद्युतिलसिततनुं स्निग्धसंपूर्णचंद्र-
व्रीडासंपादिवक्त्रां तिलसुमविजयोद्योगनिर्निद्रनासाम् ।
तादात्वोत्फुल्लनीलांबुजहसनचणात्मीयचक्षुः प्रकाशां
बालश्रीलप्रवालप्रियसखचरणद्वंद्वरम्यां भजेऽहम् ॥ 7 ॥
यां देवीं मौनिवर्याः श्रयदमरवधूमौलिमाल्यार्चितांघ्रिं
संसारासारवारान्निधितरतरणे सर्वदा भावयंते ।
श्रीकारोत्तुंगरत्नप्रचुरितकनकस्निग्धशुद्धांतलीलां
तां शश्वत्पादपद्मश्रयदखिलहृदाह्लादिनीं ह्लादयेऽहम् ॥ 8 ॥
आकाशाधीशपुत्रीं श्रितजननिवहाधीनचेतःप्रवृत्तिं
वंदे श्रीवेंकटेशप्रभुवरमहिषीं दीनचित्तप्रतोषाम् ।
पुष्यत्पादारविंदप्रसृमरसुमहश्शामितस्वाश्रितांत-
स्तामिस्रां तत्त्वरूपां शुकपुरनिलयां सर्वसौभाग्यदात्रीम् ॥ 9 ॥
श्रीशेषशर्माभिनवोपक्लुप्ता
प्रियेण भक्त्या च समर्पितेयम् ।
पद्मावतीमंगलकंठभूषा
विराजतां श्रीनवरत्नमाला ॥ 10 ॥
इति श्री पद्मावती नवरत्नमालिका स्तुतिः ।