View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1 - अरुणकेतुकचयनं - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - भद्रं कर्णेभिः

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके प्रथमः प्रपाठकः - अरुणकेतुकचयनं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1
भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः ।
भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
आप॑मापाम॒प-स्सर्वाः᳚ ।
अ॒स्मा-द॒स्मा-दि॒तो-ऽमुतः॑ ॥ 1 ॥

अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्च-स्क॒रर्धि॑या ॥ वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः । दे॒वी-र्भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत ॥ महानाम्नी-र्म॑हामा॒नाः । म॒ह॒सो म॑हस॒-स्स्वः॑ ।
दे॒वीः प॑र्जन्य॒ सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत ॥ 2 ॥

अ॒पाश्न्यु॑ष्णि-म॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णि-म॒पा रघ᳚म् । अपा᳚घ्रा॒मप॑ चा॒वर्ति᳚म् । अप॑ दे॒वीरि॒तो हि॑त ॥ वज्र॑-न्दे॒वीरजी॑ताग्​श्च ।
भुव॑न-न्देव॒सूव॑रीः । आ॒दि॒त्यानदि॑ति-न्दे॒वीम् । योनि॑नोर्ध्व-मु॒दीष॑त ॥ शि॒वा न॒-श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः( ) ।
सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ 3 ॥
(अ॒मुतः॑ - सु॒ - तौष॑धयो॒ द्वे च॑ ) (अ. 1)

अनुवाकं 2
स्मृतिः॑ प्र॒त्यक्ष॑-मैति॒ह्य᳚म् । अनु॑मान-श्चतुष्ट॒यम् । ए॒तैरादि॑त्य मण्डलम् ।
सर्वै॑रेव॒ विधा᳚स्यते ॥ सूर्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा᳚-द्भुव॑नाद॒धि । तस्याः पाक वि॑शेषे॒ण । स्मृ॒त-ङ्का॑ल वि॒शेष॑णम् ॥
न॒दीव॒ प्रभ॑वा-त्का॒चित् । अ॒क्षय्या᳚-थ्स्यन्द॒ते य॑था ॥ 4 ॥

तान्नद्यो-ऽभि स॑माय॒न्ति । सो॒रु-स्सती॑ न नि॒वर्त॑ते ॥
ए॒वन्ना॒ना स॑मुत्था॒नाः । का॒ला-स्सं॑​वँथ्स॒रग्ग्​ श्रि॑ताः । अणुशश्च म॑हश॒श्च । सर्वे॑ समव॒यन्त्रि॑ तम् ॥ स तै᳚-स्स॒र्वै-स्स॑मावि॒ष्टः । ऊ॒रु-स्स॑न्न नि॒वर्त॑ते । अधि सं​वँथ्स॑रं-विँ॒द्यात् ।
तदेव॑ लक्ष॒णे ॥ 5 ॥

अणुभिश्च म॑हद्भि॒श्च । स॒मारू॑ढः प्र॒दृश्य॑ते । सं​वँथ्सरः प्र॑त्यक्षे॒ण ।
ना॒धिस॑त्त्वः प्र॒दृश्य॑ते ॥ प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒त-द्व॑रुण॒ लक्ष॑णम् । यत्रैत॑-दुप॒दृश्य॑ते । स॒हस्र॑-न्तत्र॒ नीय॑ते ॥
एकग्ं हि शिरो ना॑ना मु॒खे । कृ॒थ्स्न-न्त॑दृत॒ लक्ष॑णम् ॥ 6 ॥

उभयत-स्सप्ते᳚न्द्रिया॒णि । ज॒ल्पित॑-न्त्वेव॒ दिह्य॑ते ॥
शुक्लकृष्णे सं​वँ॑थ्सर॒स्य । दक्षिण वाम॑योः पा॒र्​श्वयोः । तस्यै॒षा भव॑ति ॥ शु॒क्र-न्ते॑ अ॒न्यद्य॑ज॒त-न्ते॑ अ॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ ॥
नात्र॒ भुव॑नम् । न पू॒षा । न प॒शवः॑ ।
नादित्य-स्सं​वँथ्सर एव प्रत्यक्षेण प्रियत॑मं-विँ॒द्यात् । एतद्वै सं​वँथ्सरस्य प्रियत॑मग्ं रू॒पम् । यो-ऽस्य महानर्थ उत्पथ्स्यमा॑नो भ॒वति । इद-म्पुण्य-ङ्कु॑रुष्वे॒ति । तमाहर॑ण-न्द॒द्यात् ॥ 7 ॥
(य॒था॒ - ल॒क्ष॒ण - ऋ॑तु॒लक्ष॑णं॒ - भुव॑नग्ं स॒प्त च॑) (अ. 2)

अनुवाकं 3
सा॒क॒ञ्जानाग्ं॑ स॒प्तथ॑माहु-रेक॒जम् । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥ कोनु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑षते ॥
यस्ति॒त्याज॑ सखि॒विद॒ग्ं॒ सखा॑यम् ।
न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
यदीग्ं॑ शृ॒णोत्य॒लकग्ं॑ शृणोति ॥ 8 ॥

न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ ॥
ऋ॒तुर्-ऋ॑तुना नु॒द्यमा॑नः ।
विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिग्ंश॑का व॒ल्गाः ।
शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ ॥
सा॒रा॒ग॒व॒स्त्रै-र्ज॒रद॑क्षः ।
व॒स॒न्तो वसु॑भि-स्स॒ह । सं॒​वँ॒थ्स॒रस्य॑ सवि॒तुः । प्रै॒ष॒कृ-त्प्र॑थ॒म-स्स्मृ॑तः ॥ अ॒मूना॒दय॑-तेत्य॒न्यान् ॥ 9 ॥

अ॒मूग्​श्च॑ परि॒रक्ष॑तः । ए॒ता वा॒चः प्र॑युज्य॒न्ते । यत्रै त॑दुप॒दृश्य॑ते ॥ ए॒तदे॒व वि॑जानी॒यात् । प्र॒माण॑-ङ्काल॒पर्य॑ये । वि॒शे॒ष॒ण-न्तु॑ वक्ष्या॒मः । ऋ॒तूना᳚-न्तन्नि॒बोध॑त ॥ शुक्लवासा॑ रुद्र॒गणः । ग्री॒ष्मेणा॑वर्त॒ते स॑ह ।
नि॒जह॑-न्पृथि॑वीग्ं स॒र्वाम् ॥ 10 ॥

ज्यो॒तिषा᳚ ऽप्रति॒ख्येन॑ सः ॥ वि॒श्व॒रू॒पाणि॑ वासा॒ग्ं॒सि । आ॒दि॒त्याना᳚-न्नि॒बोध॑त । सं​वँथ्सरीण॑-ङ्कर्म॒फलम् । वर्​षाभि-र्द॑दता॒ग्ं॒ सह ॥ अदुःखो॑ दुःख च॑क्षुरि॒व । तद्मा॑ पीत इव॒ दृश्य॑ते । शीतेना᳚ व्यथ॑यन्नि॒व । रु॒रुद॑क्ष इव॒ दृश्य॑ते ॥ ह्लादयते᳚ ज्वल॑तश्चै॒व ।
शा॒म्यत॑श्चास्य॒ चक्षु॑षी । यावै प्रजा भ्रग्ग्॑श्य॒न्ते । सं​वँथ्सरात्ता भ्रग्ग्॑श्य॒न्ते ॥ याः॒ प्रति॑तिष्ठ॒न्ति । सं​वँथ्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्॒षाभ्य॑ इत्य॒र्थः ॥ 11 ॥
(शृ॒णो॒ - त्य॒न्यान्थ् - स॒र्वा - मे॒व षट्च॑) (अ. 3)

अनुवाकं 4
अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्ते चाद्ग॑ण-न्ना॒स्ति । ऋ॒भूणा᳚-न्तन्नि॒बोध॑त ॥ क॒न॒का॒भानि॑ वासा॒ग्ं॒सि । अ॒हता॑नि नि॒बोध॑त ।
अन्नमश्र्नीत॑ मृज्मी॒त । अ॒हं-वोँ॑ जीव॒नप्र॑दः ॥ ए॒ता वा॒चः प्र॑युज्य॒न्ते ।
श॒रद्य॑त्रोप॒ दृश्य॑ते ॥ 12 ॥
अभिधून्वन्तो-ऽभिघ्न॑न्त इ॒व । वा॒तव॑न्तो म॒रुद्ग॑णाः ॥ अमुतो जेतुमिषुमु॑खमि॒व । सन्नद्धा-स्सह द॑दृशे॒ ह । अपद्ध्वस्तै-र्वस्तिव॑र्णैरि॒व । वि॒शि॒खासः॑ कप॒र्दिनः ॥ अक्रुद्धस्य योथ्स्य॑मान॒स्य । कृ॒द्धस्ये॑व॒ लोहि॑नी । हेमतश्चक्षु॑षी वि॒द्यात् । अ॒क्ष्णयोः᳚, क्षिप॒णोरि॑व ॥ 13 ॥

दुर्भिक्ष-न्देव॑लोके॒षु । म॒नूना॑मुद॒क-ङ्गृ॑हे । ए॒ता वा॒चः प्र॑वद॒न्तीः । वै॒द्युतो॑ यान्ति॒ शैशि॑रीः ॥ ता अ॒ग्निः पव॑माना॒ अन्वै᳚क्षत । इ॒ह जी॑वि॒काम-प॑रिपश्यन्न् । तस्यै॒षा भव॑ति ॥ इ॒हेह व॑-स्स्वत॒पसः । मरु॑त॒-स्सूर्य॑त्वचः । शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ 14 ॥
(दृश्य॑त - इ॒वा - वृ॑णे) (अ. 4)

अनुवाकं 5
अति॑ ता॒म्राणि॑ वासा॒ग्ं॒सि । अ॒ष्टिव॑ज्रि श॒तघ्नि॑ च ।
विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्व अ॒सश्च॑त ॥ नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः । नाग्नि-र्नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्च न॒ विद्य॑ते ॥ दि॒व्यस्यैका॒ धनु॑रार्त्निः ।
पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ 15 ॥

तस्येन्द्रो वम्रि॑रूपे॒ण । ध॒नुर्ज्या॑-मछि॒नथ्स्व॑यम् ॥ तदि॑न्द्र॒धनु॑रित्य॒ज्यम् । अ॒भ्रव॑र्णेषु॒ चक्ष॑ते । एतदेव शं​योँ-र्बार्​ह॑स्पत्य॒स्य । ए॒त-द्रु॑द्रस्य॒ धनुः ॥ रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः । शिर॒ उत्पि॑पेष ।
स प्र॑व॒र्ग्यो॑-ऽभवत् । तस्मा॒-द्य-स्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते ।
रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति । नैनग्ं॑ रु॒द्र आरु॑को भवति । य ए॒वं-वेँद॑ ॥ 16 ॥
(श्रि॒ता - यज॑ते॒ त्रीणि॑ च) (अ. 5)

अनुवाकं 6
अ॒त्यू॒र्ध्वा॒क्षो-ऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते ।
नैव रूप-न्न॑ वासा॒ग्ं॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते ॥ अ॒न्योन्य॒-न्तु न॑ हिग्ग्​स्रा॒तः । स॒त स्त॑-द्देव॒लक्ष॑णम् । लोहितो-ऽक्ष्णि शा॑रशी॒र्​ष्णिः ।
सू॒र्यस्यो॑दय॒न-म्प्र॑ति ॥ त्व-ङ्करोषि॑ न्यञ्ज॒लिकाम् । त्व॒-ङ्करो॑षि नि॒जानु॑काम् ॥ 17 ॥

निजानुकामे᳚ न्यञ्ज॒लिका । अमी वाच-मुपास॑तामि॒ति ॥
तस्मै सर्व ऋतवो॑ नम॒न्ते । मर्यादा करत्वा-त्प्र॑पुरो॒धाम् । ब्राह्मण॑ आप्नो॒ति । य ए॑वं-वेँ॒द ।
स खलु सं​वँथ्सर एतै-स्सेनानी॑भि-स्स॒ह ।
इन्द्राय सर्वान्-कामान॑भिव॒हति । स द्र॒फ्सः ।
तस्यै॒षा भव॑ति ॥ 18 ॥

अव॑ द्र॒फ्सो अग्ं॑श॒मती॑मतिष्ठत् । इ॒या॒नः कृ॒ष्णो द॒शभि॑-स्स॒हस्रैः᳚ ।
आव॒र्त-मिन्द्र॒-श्शच्या॒ धम॑न्तम् । उपस्नुहि त-न्नृमणा-मथ॑द्रामि॒ति ॥ एतयै वेन्द्र-स्सला वृ॑क्या स॒ह । असुरा-न्प॑रिवृ॒श्चति । पृथि॑व्य॒ग्ं॒ शुम॑ती । ताम॒न्व-व॑स्थित-स्सं​वँथ्स॒रो दि॒वञ्च॑ ।
नैवं-विँदुषा-ऽऽचार्या᳚-न्तेवा॒सिनौ । अन्योन्यस्मै᳚ द्रुह्या॒ताम् । यो द्रु॒ह्यति । भ्रश्यते स्व॑र्गा-ल्लो॒कात् । इत्यतु म॑ण्डला॒नि । सूर्य मण्डला᳚ न्याख्या॒यिकाः । अत ऊर्ध्वग्ंस॑निर्व॒चनाः ॥ 19 ॥
(नि॒जानु॑कां॒ - भव॑ति - द्रुह्या॒ता-म्पञ्च॑ च) (अ. 6)
अनुवाकं 7
आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषीमान्॑. विभा॒सः । ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्ज-न्दुहाना अनपस्फुर॑न्त इ॒ति ॥ कश्य॑पो-ऽष्ट॒मः । स महामेरु-न्न॑ जहा॒ति । तस्यै॒षा भव॑ति ॥ यत्ते॒ शिल्प॑-ङ्कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑-त्पुष्क॒ल-ञ्चि॒त्रभा॑नु ।
यस्मि॒-न्थ्सूर्या॒ अर्पि॑ता-स्स॒प्त सा॒कम् ॥ 20 ॥

तस्मि-न्राजान-मधिविश्रये॑ममि॒ति ॥ ते अस्मै सर्वे कश्यपा-ज्ज्योति॑--र्लभ॒न्ते । तान्​थ्सोमः कश्यपादधि॑ निर्ध॒मति । भ्रस्ता कर्म कृ॑दिवै॒वम् ॥
प्राणो जीवानीन्द्रिय॑ जीवा॒नि । सप्त शीर्​ष॑ण्याः प्रा॒णाः ।
सूर्या इ॑त्याचा॒र्याः ॥ अपश्यमह मेतान्-थ्सप्त सू᳚र्यानि॒ति । पञ्चकर्णो॑ वाथ्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः ॥ 21 ॥

आनुश्रविक एव नौ कश्य॑प इ॒ति । उभौ॑ वेद॒यिते ।
न हि शेकुमिव महामे॑रु-ङ्ग॒न्तुम् ॥
अपश्यमहमेत-थ्सूर्यमण्डल-म्परिव॑र्तमा॒नम् ।
गा॒र्ग्यः प्रा॑णत्रा॒तः । गच्छन्त म॑हामे॒रुम् । एक॑ञ्चाज॒हतम् ॥ भ्राजपटर पत॑ङ्गा नि॒हने । तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑ तपाः ॥ 22 ॥

अ॒मुत्रे॒तरे । तस्मा॑दि॒हा तप्त्रि॑ तपाः ॥ तेषा॑मेषा॒ भव॑ति ॥ स॒प्त सूर्या॒ दिव॒-मनु॒ प्रवि॑ष्टाः । तान॒न्वेति॑ प॒थिभि॑-र्दक्षि॒णावान्॑ । ते अस्मै सर्वे घृतमा॑तप॒न्ति । ऊर्ज-न्दुहाना अनपस्फुर॑न्त इ॒ति ॥
सप्तर्त्विज-स्सूर्या इ॑त्याचा॒र्याः ॥ तेषा॑मेषा॒ भव॑ति ॥
स॒प्त दिशो॒ नाना॑ सूर्याः ॥ 23 ॥
स॒प्त होता॑र ऋ॒त्विजः॑ । देवा आदित्या॑ ये स॒प्त ।
तेभि-स्सोमाभी रक्ष॑ण इ॒ति ॥ तद॑प्याम्ना॒यः । दिग्भ्राज ऋतू᳚न् करो॒ति ॥ एत॑यैवा॒वृता ऽऽसहस्रसूर्यताया इति वै॑शम्पा॒यनः ॥ तस्यै॒षा भव॑ति ॥
यद्द्याव॑ इन्द्र ते श॒तग्ं श॒त-म्भूमीः᳚ । उ॒त स्युः ।
न त्वा॑ वज्रिन्-थ्स॒हस्र॒ग्ं॒ सूर्याः᳚ ॥ 24 ॥

अनु न जातमष्ट रोद॑सी इ॒ति ॥ नाना लिङ्गत्वा-दृतूना-न्नाना॑ सूर्य॒त्वम् ॥ अष्टौ तु व्यवसि॑ता इ॒ति ॥ सूर्यमण्डला-न्यष्टा॑त ऊ॒र्ध्वम् ॥
तेषा॑मेषा॒ भव॑ति ॥ चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑कम् । चक्षु॑-र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आ-ऽप्रा॒ द्यावा॑ पृथि॒वी अ॒न्तरि॑क्षम् ।
सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥ 25 ॥
(सा॒कं - प्ला॒क्षि - स्तप्त्रि॑तपा॒ - नाना॑सूर्याः॒ - सूर्या॒ - +नव॑ च) (अ. 7)

अनुवाकं 8
क्वेदमभ्र॑-न्निवि॒शते । क्वायग्ं॑ सं​वँथ्स॒रो मि॑थः । क्वाहः क्वेय-न्दे॑व रा॒त्री । क्व मासा ऋ॑तव॒-श्श्रिताः ॥ अर्धमासा॑ मुहू॒र्ताः । निमेषास्तु॑टिभिः॒ (निमेषास्त्र॑टिभिः॒) सह । क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ सम्प्र॑ति ॥ काला अफ्सु नि॑विश॒न्ते । आ॒प-स्सूर्ये॑ स॒माहि॑ताः ॥ 26 ॥

अभ्रा᳚ण्य॒पः प्र॑पद्य॒न्ते । वि॒द्युथ्सूर्ये॑ स॒माहि॑ता ॥ अनवर्णे इ॑मे भू॒मी । इ॒यञ्चा॑सौ च॒ रोद॑सी ॥ किग्ग्​ स्विदत्रान्त॑रा भू॒तम् । ये॒नेमे वि॑धृते॒ उभे ।
वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑थ्सस्य॒ वेद॑ना ॥
इरा॑वती धेनु॒मती॒ हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ ॥ 27 ॥

व्य॑ष्टभ्ना॒-द्रोद॑सी॒ विष्ण॑वे॒ते । दा॒धर्थ॑ पृथि॒वी-म॒भितो॑ म॒यूखैः᳚ ॥
किन्त-द्विष्णो र्बल॑मा॒हुः । का॒ दीप्तिः॑ कि-म्प॒राय॑णम् ।
एको॑ य॒द्धा-र॑य द्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे ॥ वाताद्विष्णो-र्ब॑ल मा॒हुः । अ॒क्षरा᳚-द्दीप्ति॒ रुच्य॑ते । त्रि॒पदा॒द्धार॑य-द्दे॒वः । यद्विष्णो॑रेक॒-मुत्त॑मम् ॥ 28 ॥

अ॒ग्नयो॑ वाय॑वश्चै॒व । ए॒तद॑स्य प॒राय॑णम् ॥ पृच्छामि त्वा प॑र-म्मृ॒त्युम् । अ॒वम॑-म्मद्ध्य॒मञ्च॑तुम् । लो॒कञ्च॒ पुण्य॑पापा॒नाम् ।
ए॒त-त्पृ॑च्छामि॒ सम्प्र॑ति ॥ अ॒मुमा॑हुः प॑र-म्मृ॒त्युम् । प॒वमा॑न-न्तु॒ मद्ध्य॑मम् । अ॒ग्निरे॒वाव॑मो मृ॒त्युः । च॒न्द्रमा᳚-श्चतु॒रुच्य॑ते ॥ 29 ॥

अ॒ना॒भो॒गाः प॑र-म्मृ॒त्युम् । पा॒पा-स्सं॑​यँन्ति॒ सर्व॑दा । आभोगास्त्वेव॑ सं​यँ॒न्ति । य॒त्र पु॑ण्यकृ॒तो ज॑नाः ॥ ततो॑ म॒द्ध्यम॑माय॒न्ति । च॒तुम॑ग्निञ्च॒ सम्प्र॑ति ॥ पृच्छामि त्वा॑ पाप॒कृतः । य॒त्र या॑तय॒ते य॑मः । त्वन्नस्त--द्ब्रह्म॑-न्प्रब्रू॒हि । य॒दि वे᳚त्था-ऽस॒तो गृ॑हान् ॥ 30 ॥

क॒श्यपा॑ दुदि॑ता-स्सू॒र्याः । पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा ।
रोदस्योरन्त॑-र्देशे॒षु । तत्र न्यस्यन्ते॑ वास॒वैः ॥
ते ऽशरीराः प्र॑पद्य॒न्ते ।
य॒था ऽपु॑ण्यस्य॒ कर्म॑णः । अपा᳚ण्य॒पाद॑ केशा॒सः । त॒त्र ते॑-ऽयोनि॒जा ज॑नाः ॥ मृत्वा पुनर्मृत्यु-मा॑पद्य॒न्ते । अ॒द्यमा॑ना-स्स्व॒कर्म॑भिः ॥ 31 ॥

आशातिकाः क्रिम॑य इ॒व । ततः पूयन्ते॑ वास॒वैः ॥
अपै॑त-म्मृ॒त्यु-ञ्ज॑यति । य ए॒वं-वेँद॑ । स खल्वैवं॑-विँद्ब्रा॒ह्मणः । दी॒र्घश्रु॑त्तमो॒ भव॑ति । कश्य॑प॒स्याति॑थि॒-स्सिद्धग॑मन॒-स्सिद्धाग॑मनः ॥
तस्यै॒षा भव॑ति ॥ आयस्मिन᳚-थ्स॒प्त वा॑स॒वाः ।
रोह॑न्ति पू॒र्व्या॑ रुहः॑ ॥ 32 ॥

ऋषि॑र्​ह दीर्घ॒श्रुत्त॑मः । इन्द्रस्य घर्मो अति॑थिरि॒ति ॥
कश्यपः पश्य॑को भ॒वति । यथ्सर्व-म्परिपश्यती॑ति सौ॒क्ष्म्यात् ॥ अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा भव॑ति ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् ।
विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒णमेनः॑ । भूयिष्ठान्ते नम उक्तिं-विँ॑धेमे॒ति ॥ 33 ॥
स॒माहि॑ता - दश॒स्ये॑ - उत्त॑म॒-मुच्य॑ते-गृहान्-थ्स्व॒कर्म॑भिः-पू॒र्व्या॑ रुह॑-इ॒ति) (अ. 8)

अनुवाकं 9
अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च । प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः ।
विसर्पे वाष्ट॑मो-ऽग्नी॒नाम् । एते-ऽष्टौ वसवः, क्षि॑ता इ॒ति ॥ यथर्त्वे-वाग्ने-रर्चिर्वर्ण॑ विशे॒षाः ।
नीलार्चिश्च पीतका᳚र्चिश्चे॒ति ॥ अथ वायो-रेकादश-पुरुषस्यैकादश॑स्त्रीक॒स्य ॥
प्रभ्राजमाना व्य॑वदा॒ताः ॥ 34 ॥

याश्च वासु॑कि वै॒द्युताः । रजताः परु॑षा-श्श्या॒माः ।
कपिला अ॑तिलो॒हिताः । ऊर्ध्वा अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश ॥ नैनं-वैँद्युतो॑ हिन॒स्ति । य ए॑वं-वेँ॒द ॥ स होवाच व्यासः पा॑राश॒र्यः ।
विद्युद्वधमेवाह-म्मृत्युमै᳚च्छमि॒ति ॥
न त्वका॑मग्ं ह॒न्ति ॥ 35 ॥

य ए॑वं-वेँ॒द ॥ अथ ग॑न्धर्व॒गणाः । स्वान॒ भ्राट् । अङ्घा॑रि॒-र्बम्भा॑रिः । हस्त॒-स्सुह॑स्तः । कृशा॑नु-र्वि॒श्वाव॑सुः । मूर्धन्वान्-थ्सू᳚र्यव॒र्चाः ।
कृतिरित्येकादश ग॑न्धर्व॒गणाः ॥ देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑ गर॒गिरः ॥ 36 ॥

नैन-ङ्गरो॑ हिन॒स्ति । य ए॑वं-वेँ॒द ॥ गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ । सहस्राक्षरा परमे व्यो॑मन्नि॒ति ॥ वाचो॑ विशे॒षणम् ॥
अथ निगद॑व्याख्या॒ताः । ताननुक्र॑मिष्या॒मः ॥
व॒राहवः॑-स्वत॒पसः ॥ 37 ॥

वि॒द्यु-न्म॑हसो॒ धूप॑यः । श्वापयो गृहमेधा᳚श्चेत्ये॒ते । ये॒ चेमे-ऽशि॑मिवि॒द्विषः ॥ पर्जन्या-स्सप्त पृथिवीमभिव॑र्​ष॒न्ति ।
वृष्टि॑भिरि॒ति । एतयैव विभक्ति वि॑परी॒ताः । स॒प्तभि॒र्वातै॑ रुदी॒रिताः । अमूं-लोँका-नभिव॑र्​ष॒न्ति । तेषा॑मेषा॒ भव॑ति ॥ स॒मा॒न-मे॒तदुद॑कम् ॥ 38 ॥

उ॒च्चैत्य॑व॒ चाह॑भिः । भूमि॑-म्प॒र्जन्या॒ जिन्व॑न्ति ।
दिव-ञ्जिन्वन्-त्यग्न॑य इ॒ति ॥ यदक्ष॑र-म्भू॒तकृ॑तम् ।
विश्वे॑ देवा उ॒पास॑ते । म॒हर्​षि॑मस्य गो॒प्तार᳚म् । ज॒मद॑ग्नि॒-मकु॑र्वत ॥ ज॒मद॑ग्नि॒-राप्या॑यते । छन्दो॑भि-श्चतुरुत्त॒रैः । राज्ञ॒-स्सोम॑स्य तृ॒प्तासः॑ ॥ 39 ॥

ब्रह्म॑णा वी॒र्या॑वता । शि॒वा नः॑ प्र॒दिशो॒ दिशः॑ ॥ तच्छं॒​योँरा वृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः ।
स्व॒स्ति-र्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ । शञ्चतु॑ष्पदे ॥
सोमपा(3) असोमपा(3) इति निगद॑व्याख्या॒ताः ॥ 40 ॥
(व्य॒व॒दा॒ता - ह॒न्ति - ग॑र॒गिर - स्त॒पस - उद॑कं - तृप्तास॒ - श्वतु॑ष्पद॒ एक॑-ञ्च) (अ. 9)

अनुवाकं 10
स॒ह॒स्र॒वृदि॑य-म्भू॒मिः । प॒रं-व्योँ॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑ नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती ॥ जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मम् ॥ शु॒क्रं-वाँ॑म॒न्यद्य॑ज॒तं-वाँ॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ 41 ॥

विश्वा॒ हि मा॒या अव॑थ-स्स्वधावन्तौ । भ॒द्रा वा᳚-म्पूषणावि॒ह रा॒तिर॑स्तु ॥ वासा᳚त्यौ चि॒त्रौ जग॑तो नि॒धानौ᳚ । द्यावा॑भूमी च॒रथ॑-स्स॒ग्ं॒ सखा॑यौ ।
ताव॒श्विना॑ रा॒सभा᳚श्वा॒ हव॑-म्मे । शु॒भ॒स्प॒ती॒ आ॒गतग्ं॑ सू॒र्यया॑ स॒ह ॥ त्युग्रो॑ ह भु॒ज्यु-म॑श्विनोद मे॒घे । र॒यिन्न कश्चि॑-न्ममृ॒वाँ(2) अवा॑हाः । तमू॑हथु-र्नौ॒भिरा᳚त्म॒न्-वती॑भिः ।
अ॒न्त॒रि॒क्ष॒ प्रुड्भि॒र-पो॑दकाभिः ॥ 42 ॥

ति॒स्रः, क्षप॒स्त्रिरहा॑ ऽति॒व्रज॑द्भिः । नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भी रथै᳚-श्श॒तप॑द्भि॒-ष्षड॑श्वैः ॥ स॒वि॒तारं॒-विँत॑न्वन्तम् । अनु॑बद्ध्नाति शाम्ब॒रः । आपपूर्​षं-ब॑रश्चै॒व ।
स॒विता॑ ऽरेप॒सो॑ ऽभवत् ॥ त्यग्ं सुतृप्तं-विँ॑दित्वै॒व । ब॒हुसो॑म गि॒रं-वँ॑शी ॥ 43 ॥

अन्वेति तुग्रो व॑क्रिया॒न्तम् । आयसूयान्-थ्सोम॑तृफ्सु॒षु ॥
स सङ्ग्राम-स्तमो᳚द्यो-ऽत्यो॒तः । वाचो गाः पि॑पाति॒ तत् ।
स तद्गोभि-स्स्तवा᳚ ऽत्येत्य॒न्ये । र॒क्षसा॑ ऽनन्वि॒ताश्च॑ ये ॥ अ॒न्वेति॒ परि॑वृत्त्या॒-ऽस्तः । ए॒वमे॒तौ स्थो॑ अश्विना । ते ए॒ते द्युः॑ पृथि॒व्योः । अह॑रह॒-र्गर्भ॑न्दधाथे ॥ 44 ॥

तयो॑ रे॒तौ व॒थ्सा व॑होरा॒त्रे । पृ॒थि॒व्या अहः॑ । दि॒वो रात्रिः॑ । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः ॥ तयो॑ रे॒तौ व॒थ्सौ । अ॒ग्निश्चा॑-दि॒त्यश्च॑ । रा॒त्रेर्व॒थ्सः । श्वे॒त आ॑दि॒त्यः । अह्नो॒-ऽग्निः ॥ 45 ॥
ता॒म्रो अ॑रु॒णः । ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः ॥ तयो॑ रे॒तौ व॒थ्सौ । वृ॒त्रश्च॑ वैद्यु॒तश्च॑ । अ॒ग्नेर्वृ॒त्रः । वै॒द्युत॑ आदि॒त्यस्य॑ ।
ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः ॥ तयो॑ रे॒तौ व॒थ्सौ ॥ 46 ॥

उ॒ष्मा च॑ नीहा॒रश्च॑ । वृ॒त्रस्यो॒ष्मा । वै॒द्यु॒तस्य॑ नीहा॒रः । तौ तावे॒व प्रति॑पद्येते ॥ सेयग्ं रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ सं​वँ॑सति ।
तस्या॒ वा ए॒तदु॒ल्बण᳚म् । यद्रात्रौ॑ र॒श्मयः॑ । यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बण᳚म् । ए॒वमे॒तस्या॑ उ॒ल्बण᳚म् ॥ प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति ।
य ए॑वं-वेँ॒द । एतमुद्यन्त-मपिय॑न्तञ्चे॒ति । आदित्यः पुण्य॑स्य व॒थ्सः । अथ पवि॑त्राङ्गि॒रसः ॥ 47 ॥
(स्थो - ऽपो॑दकाभि--र् वशी - दधाथे - अ॒ग्नि - स्तयो॑ रे॒तौ व॒थ्सौ - भ॒वति च॒त्वारि॑ च) (अ. 10)

अनुवाकं 11
प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषा᳚-म्प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् । म॒हस्स॑मु॒द्रं-वँरु॑ण स्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभ᳚म् ॥
प॒वित्र॑-न्ते॒ वित॑त॒-म्ब्रह्म॑ण॒स्पते᳚ । प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।
अत॑प्ततनू॒-र्न तदा॒मो अ॑श्नुते । शृ॒तास॒ इद्वह॑न्-त॒स्त-थ्समा॑शत ॥ ब्र॒ह्मा दे॒वाना᳚-म्पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णा-म्महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृध्रा॑णा॒ग्॒ स्वधि॑ति॒-र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ ॥ अस॑त-स्स॒द्ये तत॑क्षुः ॥ 48 ॥

ऋष॑य-स्स॒प्तात्रि॑श्च॒ यत् । सर्वे-ऽत्रयो अ॑गस्त्य॒श्च ।
नक्ष॑त्रै॒-श्शङ्कृ॑तो ऽवसन्न् ॥ अथ॑ सवितु॒-श्श्यावाश्व॒स्या ऽवर्ति॑कामस्य ॥ अ॒मी य ऋक्षा॒ निहि॑ता स उ॒च्चा । नक्त॒-न्ददृ॑श्रे॒ कुह॑चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चा॒कश॑-च्च॒न्द्रमा॒ नक्ष॑त्रमेति ॥
त-थ्स॑वि॒तु-र्वरे᳚ण्यम् । भर्गो॑ दे॒वस्य॑ धीमहि ॥ 49 ॥

धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥ तथ्स॑वि॒तु-र्वृ॑णीमहे ।
व॒य-न्दे॒वस्य॒ भोज॑नम् । श्रेष्ठग्ं॑ सर्व॒धात॑मम् । तुर॒-म्भग॑स्य धीमहि ॥
अपा॑गूहत सविता॒ तृभीन्॑ । सर्वा᳚-न्दि॒वो अन्ध॑सः ।
नक्त॑006छ्;॒तान्य॑भव-न्दृ॒शे । अस्थ्य॒स्थ्ना सम्भ॑विष्यामः ॥ नाम॒ नामै॒व ना॒म मे᳚ ॥ 50 ॥

नपुग्ंस॑क॒-म्पुमा॒ग्॒स्त्र्य॑स्मि । स्थाव॑रो-ऽस्म्यथ॒ जङ्ग॑मः ।
य॒जे-ऽयक्षि॒ यष्टा॒हे च॑ ॥ मया॑ भू॒तान्य॑यक्षत । प॒शवो॑ मम॑ भूता॒नि । अनूबन्ध्यो ऽस्म्य॑हं-विँ॒भुः ॥ स्त्रिय॑-स्स॒तीः । ता उ॑ मे पु॒ग्ं॒स आ॑हुः ।
पश्य॑दक्ष॒ण्वान्न-विचे॑तद॒न्धः । क॒विर्यः पु॒त्र-स्स इ॒मा चि॑केत ॥ 51 ॥

यस्ता वि॑जा॒ना-थ्स॑वि॒तुः पि॒ता-ऽस॑त् ॥ अ॒न्धो मणिम॑विन्दत् । तम॑नङ्गुलि॒-राव॑यत् । अ॒ग्री॒वः प्रत्य॑मुञ्चत् । तमजि॑ह्व अ॒सश्च॑त ॥
ऊर्ध्वमूल-म॑वाक्छा॒खम् । वृ॒क्षं-याँ॑ वेद॒ सम्प्र॑ति । न स जातु जन॑-श्श्रद्द॒द्ध्यात् । मृ॒त्युर्मा॑ मार॒यादि॑तिः ॥ हसितग्ं रुदि॑तङ्गी॒तम् ॥ 52 ॥

वीणा॑ पण व॒लासि॑तम् । मृ॒तञ्जी॒वञ्च॑ यत्कि॒ञ्चित् ।
अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् ॥ अतृ॑ष्य॒ग्ग्॒स्तृष्य॑ ध्यायत् । अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्न्॑ । पुत्रो निर्-ऋत्या॑ वैदे॒हः । अ॒चेता॑ यश्च॒ चेत॑नः ॥ स॒ त-म्मणिम॑विन्दत् । सो॑-ऽनङ्गुलि॒राव॑यत् ।
सो॒-ऽग्री॒वः प्रत्य॑मुन्चत् ॥ 53 ॥

सो-ऽजि॑ह्वो अ॒सश्च॑त ॥ नैतमृषिं-विँदित्वा नग॑र-म्प्र॒विशेत् । य॑दि प्र॒विशेत् । मि॒थौ चरि॑त्वा प्र॒विशेत् । तथ्सम्भव॑स्य व्र॒तम् ॥ आ॒ तम॑ग्ने र॒थन्ति॑ष्ठ । एका᳚श्वमेक॒ योज॑नम् । एकचक्र॑-मेक॒धुरम् ।
वा॒त ध्रा॑जि ग॒तिं-विँ॑भो ॥ न॒ रि॒ष्यति॑ न व्य॒थते ॥ 54 ॥

ना॒स्याक्षो॑ यातु॒ सज्ज॑ति । यच्छ्वेता᳚-न्रोहि॑ताग्​श्चा॒ग्नेः । र॒थे यु॑क्त्वा-ऽधि॒तिष्ठ॑ति ॥ एकया च दशभिश्च॑ स्वभू॒ते । द्वाभ्या मिष्टये विग्ं॑शत्या॒ च । तिसृभिश्च वहसे त्रिग्ं॑शता॒ च ।
नियुद्भि-र्वायविह ता॑ विमु॒ञ्च ॥ 55 ॥
(तत॑क्षु--र् धीमहि - ना॒म मे॑ - चिकेत - गी॒तं - प्रत्य॑मुञ्च-द्- व्य॒थते - +स॒प्त च॑) (अ. 11)

अनुवाकं 12
आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाध॑म॒ सन्ध॑म । आदित्ये चन्द्र॑वर्णा॒नाम् । गर्भ॒ मा धे॑हि॒ यः पुमान्॑ ॥ इ॒त-स्सि॒क्तग्ं सूर्य॑गतम् ।
च॒न्द्रम॑से॒ रस॑ङ्कृधि ।
वाराद-ञ्जन॑या-ग्रे॒-ऽग्निम् । य एको॑ रुद्र॒ उच्य॑ते ॥
अ॒स॒-ङ्ख्या॒ता-स्स॑हस्रा॒णि ।
स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ 56 ॥

ए॒वमे॒तन्नि॑बोधत ॥ आ म॒न्द्रै-रि॑न्द्र॒ हरि॑भिः । या॒ हि म॒यूर॑-रोमभिः । मात्वा केचिन्निये मुरि॑न्न पा॒शिनः । द॒ध॒न्वेव॒ ता इ॑हि ॥ मा म॒न्द्रै-रि॑न्द्र॒ हरि॑भिः । या॒मि म॒यूर॑ रोमभिः । मा मा केचिन्निये मुरि॑न्न पा॒शिनः । नि॒ध॒न्वेव॒ ताँ(2) इ॑मि ॥
अणुभिश्च म॑हद्भि॒श्च ॥ 57 ॥

नि॒घृष्वै॑ रस॒मायु॑तैः । कालैर्-हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑ युक् ॥ अ॒ग्नि-र्वि॒भ्राष्टि॑ वसनः । वा॒यु-श्श्वेत॑सिकद्रु॒कः । सं॒​वँ॒थ्स॒रो वि॑षू॒ वर्णैः᳚ । नित्या॒स्ते ऽनुच॑रास्त॒व ॥
सुब्रह्मण्योग्ं सुब्रह्मण्योग्ं सु॑ब्रह्म॒ण्योम् ।
इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः । मेष वृषणश्व॑स्य मे॒ने ॥ 58 ॥

गौरावस्कन्दिन्न-हल्या॑यै जा॒र । कौशिक-ब्राह्मण गौतम॑ब्रुवा॒ण ॥ अ॒रु॒णाश्वा॑ इ॒हाग॑ताः । वस॑वः पृथिवि॒ क्षितः॑ । अ॒ष्टौ दि॒ग्वास॑सो॒ ऽग्नयः॑ । अग्निश्च जातवेदा᳚श्चेत्ये॒ते ॥ ताम्राश्वा᳚-स्ताम्र॒रथाः । ताम्रवर्णा᳚ स्तथा॒-ऽसिताः । दण्डहस्ताः᳚ खाद॒ग्दतः । इतो रुद्राः᳚ परा॒ङ्गताः ॥ 59 ॥

उक्तग्ग्​ स्थान-म्प्रमाणञ्च॑ पुर॒ इत ॥ बृह॒स्पति॑श्च सवि॒ता च॑ । वि॒श्वरू॑पै-रि॒हाग॑ताम् । रथे॑नोदक॒वर्त्म॑ना । अ॒फ्सुषा॑ इति॒ तद्द्व॑योः ॥
उक्तो वेषो॑ वासा॒ग्ं॒सि च । कालावयवाना-मितः॑ प्रती॒ज्या । वासात्या॑ इत्य॒श्विनोः । को-ऽन्तरिक्षे शब्दङ्क॑रोती॒ति । वासिष्ठो रौहिणो मीमाग्ं॑सा-ञ्च॒क्रे । तस्यै॒षा भव॑ति ॥
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्स-न्न मा॒ता सि॑षक्ति । यदे॑षां-वृँ॒ष्टिरस॑र्जि ॥ दिति॑ ॥ ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्म॑ण उदी॒रण॑मसि । ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ 60 ॥
(दृश्य॑ते॒ - च - मे॒ने - प॑रा॒-ङ्गता - श्च॒क्रे षट् च॑) (अ. 12)

अनुवाकं 13
अ॒ष्टयो॑नी-म॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नी-मि॒मा-म्मही᳚म् । अ॒हं-वेँद॒ न मे॑ मृत्युः ।
न चामृ॑त्युर॒घाह॑रत् ॥ अ॒ष्टयो᳚न्य॒ष्ट पु॑त्रम् । अ॒ष्टप॑दि॒द-म॒न्तरि॑क्षम् । अ॒हं-वेँद॒ न मे॑ मृत्युः । न चामृ॑त्युर॒घाह॑रत् । अ॒ष्टयो॑नी-म॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नी-म॒मून्दिव᳚म् ॥ 61 ॥

अ॒हं-वेँद॒ न मे॑ मृत्युः ।
न चामृ॑त्युर॒घाह॑रत् ॥ सु॒त्रामा॑ण-म्पृथि॒वी-न्द्याम॑ने॒हसग्ं॑ सु॒शर्मा॑ण॒ मदि॑तिग्ं सु॒प्रणी॑तिम् । दैवी॒-न्नावग्ग्॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ॥ म॒हीमू॒षुम॒हीमू॒ षु मा॒तरग्ं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीग्ं सु॒शर्मा॑ण॒मदि॑तिग्ं सु॒प्रणी॑तिम् ॥ अदि॑ति॒र्द्यौ-रदि॑ति-र॒न्तरि॑क्षम् ।
अदि॑ति र्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जनाः᳚ । अदि॑ति-र्जा॒त-मदि॑ति॒-र्जनि॑त्वम् ॥ अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः । ये जा॒ता स्त॒न्वः॑ परि॑ । दे॒वाँ (2) उप॑प्रै-थ्स॒प्तभिः॑ ॥ 62 ॥

प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् ॥ स॒प्तभिः॑ पु॒त्रै-रदि॑तिः । उप॒ प्रै-त्पू॒र्व्यं॑-युँग᳚म् । प्र॒जायै॑ मृ॒त्यवे त॑त् । प॒रा॒ मा॒र्ता॒ण्ड-माभ॑र॒दिति॑ ॥ ताननुक्र॑मिष्या॒मः ॥ मि॒त्रश्च॒ वरु॑णश्च । धा॒ता चा᳚र्य॒मा च॑ । अग्ंश॑श्च॒ भग॑श्च । इन्द्रश्च विवस्वाग्॑श्चेत्ये॒ते ॥ हि॒र॒ण्य॒ग॒र्भ-स्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वी-न्द्या मु॒तेमा-ङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ह॒ग्ं॒स-श्शु॑चि॒ष-द्वसु॑रन्तरिक्ष॒-सद्धोता॑ वेदि॒षदति॑थि र्दुरोण॒सत् । नृ॒ष-द्व॑र॒सदृ॑त॒स-द्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं-बृ॒हत् ॥
ब्रह्म॑ जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒द्वि सी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ तदित्प॒द-न्न विचि॑केत वि॒द्वान् । यन्मृ॒तः पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्य-द्भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒त-स्स जी॑वात् ॥ मिति॑ ॥
ग॒र्भः प्रा॑जाप॒त्यः । अथ॒ पुरु॑ष-स्स॒प्तपुरु॑षः ॥ 63 ॥
(अ॒मू-न्दिवग्ं॑ - स॒प्तभि॑ - रे॒ते च॒त्वारि॑ च) (अ. 13)

अनुवाकं 14
[ य॒था॒स्था॒न-ङ्ग॑र्भि॒ण्यः॑ ]
यो-ऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णाना॒दायो॒देति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायोद॑गाः ॥
अ॒सौ यो᳚ ऽस्त॒मेति॑ । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णाना॒दाया॒स्तमेति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दाया स्त॑ङ्गाः ॥
अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै रा॒पूर्य॑ति ॥ 64 ॥

मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णै-रा॒पूरि॑ष्ठाः ॥ अ॒सौ यो॑-ऽप॒क्षीय॑ति । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै-रप॑क्षीयति । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णै-रप॑क्षेष्ठाः ॥ अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च ।
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत ॥ 65 ॥

इ॒मे मासा᳚-श्चार्धमा॒साश्च॑ ।
सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत । इ॒म ऋ॒तवः॑ । सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च ।
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत ॥ अ॒यग्ं सं॑​वँथ्स॒रः ।
सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णैरप॑ प्रसर्पति॒ चोथ्स॑र्पति च ॥ 66 ॥

मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोथ्सृ॑प ॥
इ॒दमहः॑ । सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै-रप॑ प्रसर्पति॒ चोथ्स॑र्पति च ।
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोथ्सृ॑प ।
इ॒यग्ं रात्रिः॑ । सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै-रप॑ प्रसर्पति॒ चोथ्स॑र्पति च ।
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोथ्सृ॑प ॥
औ-म्भूर्भुव॒स्स्वः॑ ॥ एतद्वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 67 ॥
(प्रा॒णैरा॒पूर्य॑ति॒-मोथ्सृ॑पत॒-चोथ्स॑र्पति च॒ - मोथ्सृ॑प॒ द्वे च॑) (अ. 14)

(योसौ॒ षोड॑शा॒मूनि॒ द्वाद॑शा॒य-ञ्चतु॑र्दश)
(उ॒देत्य॑स्त॒मेत्या॒पूर्य॑त्यप॒क्षीय॑त्य॒मूनि॒ नक्ष॑त्राणी॒ मे मासा॑ इ॒म ऋ॒तवो॒-ऽयग्ं सं॑​वँथ्स॒र इ॒दमह॑रि॒यग्ं रात्रि॒र्दश॑)

अनुवाकं 15
अथादित्यस्याष्ट पु॑रुष॒स्य ॥
वसूना मादित्यानाग्​ स्थाने स्वतेज॑सा भा॒नि ॥
रुद्राणा-मादित्यानाग्​ स्थाने स्वतेज॑सा भा॒नि ॥
आदित्याना-मादित्यानाग्​ स्थाने स्वतेज॑सा भा॒नि ॥ सताग्ं॑सत्या॒नाम् । आदित्यानाग्​ स्थाने स्वतेज॑सा भा॒नि ॥ अभिधून्वता॑-मभि॒घ्नताम् । वातव॑ता-म्म॒रुताम् । आदित्यानाग्​ स्थाने स्वतेज॑सा भा॒नि ॥
ऋभूणा-मादित्यानाग्​ स्थाने स्वतेज॑सा भा॒नि ॥
विश्वेषा᳚-न्देवा॒नाम् । आदित्यानाग्​ स्थाने स्वतेज॑सा भा॒नि ॥ सं​वँथ्सर॑स्य स॒वितुः । आदित्यस्य स्थाने स्वतेज॑सा भा॒नि ॥ औ-म्भूर्भुव॒स्स्वः॑ ।
रश्मयो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 68 ॥
(ऋभूणामादित्यानाग्​ स्थाने स्वतेज॑सा भा॒नि षट्च॑) (अ. 15)

अनुवाकं 16
आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि । पटरस्य स्थाने स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि ।
स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि ।
ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि ।
विभासस्य स्थाने स्वतेज॑सा भा॒नि ।
कश्यपस्य स्थाने स्वतेज॑सा भा॒नि । औ-म्भूर्भुव॒स्स्वः॑ । आपो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 69 ॥
(आरोगस्य दश॑) (अ. 16)

अनुवाकं 17
अथ वायो-रेकादश-पुरुषस्यैकादश॑-स्त्रीक॒स्य ॥
प्रभ्राजमानानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
रजतानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
श्यामानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
कपिलानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ॥ 70 ॥

अवपतन्तानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
वैद्युतानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒नि ।
प्रभ्राजमानीनाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातीनाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतीनाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
रजतानाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
श्यामानाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
कपिलानाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितीनाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
अवपतन्तीनाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
वैद्युतीनाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि ।
औ-म्भूर्भुव॒स्स्वः॑ ।
रूपाणि वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 71 ॥
(ऊर्ध्वानाग्ं रुद्राणाग्​ स्थाने स्वतेज॑सा भा॒ - न्यतिलोहितीनाग्ं रुद्राणीनाग्​ स्थाने स्वतेज॑सा भा॒नि पञ्च॑ च) (अ. 17)

अनुवाकं 18
अथाग्ने॑रष्ट पु॑रुष॒स्य ॥ अग्नेः पूर्व-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
सहोजसो दक्षिण-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
औ-म्भूर्भुव॒स्स्वः॑( ) । दिशो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 72 ॥
(स्व॑रेक॑-ञ्च) (अ. 18)
(एत-द्रश्मय आपो रूपाणि दिशः पञ्च॑)

अनुवाकं 19
दक्षिणपूर्व-स्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि ॥
दक्षिणा-परस्या-न्दिश्य विस॑र्पी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ॥
उत्तर-पूर्वस्या-न्दिशि विषा॑दी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ॥
उत्तरा-परस्या-न्दिश्य विषा॑दी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ॥
आयस्मिन्᳚ थ्स॒प्तवा॑स॒वा स्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्​ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ॥ इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥ वित्ये॒ते ॥ 73 ॥
(दक्षिणपूर्वस्या-न्नव॑) (अ. 19)

अनुवाकं 20
इ॒न्द्र॒ घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒-दुप॑दधताम् ।
मनो॑जवसो वः पि॒तृभि॑-र्दक्षिण॒त उप॑दधताम् ।
प्रचे॑ता वो रु॒द्रैः प॒श्चा-दुप॑दधताम् ।
वि॒श्वक॑र्मा व आदि॒त्यै-रु॑त्तर॒त उप॑दधताम् ।
त्वष्टा॑ वो रू॒पै-रु॒परि॑ष्टा॒-दुप॑दधताम् । सञ्ज्ञानं-वः ँप॑श्चादि॒ति ॥ आ॒दि॒त्य-स्सर्वो॒-ऽग्निः पृ॑थि॒व्याम् । वा॒युर॒न्तरि॑क्षे । सूर्यो॑ दि॒वि ।
च॒न्द्रमा॑ दि॒क्षु । नक्ष॑त्राणि॒ स्वलो॒के ॥ ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा ही᳚न्द्र । ए॒वा हि पू॑षन्न् । ए॒वा हि दे॑वाः ॥ 74 ॥
दि॒क्षु स॒प्त च॑) (अ. 20)

अनुवाकं 21
आप॑मापाम॒प-स्सर्वाः᳚ । अ॒स्मा-द॒स्मादि॒तो-ऽमुतः॑ ।
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्धि॑या ॥
वा॒य्वश्वा॑ रश्मि॒ पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः ।
दे॒वी र्भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत ॥
महानाम्नी-र्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ॥ 75 ॥

दे॒वीः प॑र्जन्य॒ सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत ॥
अ॒पाश्न्यु॑ष्णि-म॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णि-म॒पा रघ᳚म् । अपा᳚घ्रा॒मप॑ चा॒वर्ति᳚म् । अप॑ दे॒वीरि॒तो हि॑त ॥
वज्र॑-न्दे॒वीरजी॑ताग्​श्च । भुव॑न-न्देव॒ सूव॑रीः । आ॒दि॒त्यानदि॑ति-न्दे॒वीम् । योनि॑नोर्ध्व-मु॒दीष॑त ॥ 76 ॥

भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः ।
भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚ स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥ के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः( ) । प्र॒ति॒ष्ठाग्ं श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् ॥ शि॒वा न॒-श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः ॥ सु॒मृ॒डी॒का सर॑स्वति । माते॒ व्यो॑म स॒न्दृशि॑ ॥ 77 ॥
(स्व॑ - रु॒दीष॑त॒ - वात॑रश॒ना-ष्षट्च॑) (अ. 21)

अनुवाकं 22
यो॑-ऽपा-म्पुष्पं॒-वेँद॑ । पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति । च॒न्द्रमा॒ वा अ॒पा-म्पुष्प᳚म् । पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति । यो᳚-ऽग्नेरा॒यत॑नं॒-वेँद॑ ॥ 78 ॥

आ॒यत॑नवा-न्भवति । आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवा-न्भवति । य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति ।
वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति ।
यो वा॒योरा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति ॥ 79 ॥

आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवा-न्भवति । य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । अ॒सौ वै तप॑न्न॒पा-मा॒यत॑नम् । आ॒यत॑नवा-न्भवति । यो॑-ऽमुष्य॒-तप॑त आ॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । आपो॒वा अ॒मुष्य॒-तप॑त आ॒यत॑नम् ॥ 80 ॥

आ॒यत॑नवा-न्भवति । य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवा-न्भवति ॥ 81 ॥

य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति । यो नक्ष॑त्राणा-मा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । आपो॒ वै नक्ष॑त्राणा-मा॒यत॑नम् । आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ॥ 82 ॥

यो॑-ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति ।
यः प॒र्जन्य॑-स्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति । आपो॒ वै प॒र्जन्य॑-स्या॒यत॑नम् ।
आ॒यत॑नवा-न्भवति । य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ॥ 83 ॥

आ॒यत॑नवा-न्भवति । सं॒​वँ॒थ्स॒रो वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति । य-स्सं॑​वँथ्स॒र-स्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति । आपो॒ वै सं॑​वँथ्स॒र-स्या॒यत॑नम् । आ॒यत॑नवा-न्भवति । य ए॒वं-वेँद॑ ॥
यो᳚-ऽफ्सु नाव॒-म्प्रति॑ष्ठितां॒-वेँद॑ । प्रत्ये॒व ति॑ष्ठति ॥ 84 ॥

इ॒मे वै लो॒का अ॒फ्सु प्रति॑ष्ठिताः । तदे॒षा-ऽभ्यनू᳚क्ता ॥
अ॒पाग्ं रस॒मुद॑यग्ंसन्न् । सूर्ये॑ शु॒क्रग्ं स॒माभृ॑तम् । अ॒पाग्ं रस॑स्य॒ यो रसः॑ । तं-वोँ॑ गृह्णा-म्युत्त॒ममिति॑ ॥ इ॒मे वै लो॒का अ॒पाग्ं रसः॑ । ते॑-ऽमुष्मि॑-न्नादि॒त्ये स॒माभ॑ताः ॥
जा॒नु॒द॒घ्नी-मु॑त्तर-वे॒दीङ्खा॒त्वा । अ॒पा-म्पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ 85 ॥

पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सग्ग्​स्ती॒र्य । तस्मि॑न् विहा॒यसे । अ॒ग्नि-म्प्र॒णीयो॑प-समा॒धाय॑ ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा᳚-त्प्रणी॒ते-ऽय-म॒ग्निश्ची॒यते᳚ । साः प्र॑णी॒ते-ऽयम॒फ्सु ह्यय॑ञ्ची॒यते᳚ ।
अ॒सौ भुव॑ने॒-ऽप्य-ना॑हिताग्नि-रे॒ताः ।
तम॒भित॑ ए॒ता अ॒भीष्ट॑का॒ उप॑दधाति ॥
अ॒ग्नि॒हो॒त्रे द॑र्​शपूर्ण-मा॒सयोः᳚ ।
प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ॥ 86 ॥

अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ ॥
ए॒तद्ध॑ स्म॒ वा आ॑हु-श्शण्डि॒लाः । कम॒ग्निञ्चि॑नुते ॥ स॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः ।
सं॒​वँ॒थ्स॒र-म्प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । सा॒वि॒त्र-म॒ग्निञ्चि॑न्वा॒नः । अ॒मुमा॑दि॒त्य-म्प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ॥ 87 ॥

ना॒चि॒के॒त-म॒ग्निञ्चि॑न्वा॒नः । प्रा॒णा-न्प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । चा॒तु॒र्॒हो॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः । ब्रह्म॑ प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒ज-म॒ग्निञ्चि॑न्वा॒नः । शरी॑र-म्प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ।
उ॒पा॒नु॒वा॒क्य॑मा॒शु-म॒ग्निञ्चि॑न्वा॒नः ॥ 88 ॥

इ॒मान् ँलो॒का-न्प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ।
इ॒ममा॑रुण-केतुक-म॒ग्निञ्चि॑न्वा॒न इति॑ । य ए॒वासौ ।
इ॒तश्चा॒-मुत॑श्चा-व्यतीपा॒ती । तमिति॑ ॥ यो᳚-ऽग्नेर्मि॑थू॒या वेद॑ । मि॒थु॒न॒वा-न्भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑थू॒याः ।
मि॒थु॒न॒वा-न्भ॑वति । य ए॒वं-वेँद॑ ॥ 89 ॥
(वेद॑ - भव - त्या॒यत॑नं - भवति॒ - वेद॒ - वेद॑ - तिष्ठति - गुल्फद॒घ्नं - चा॑तुर्मा॒स्ये - ष्व॒मुमा॑दि॒त्य-म्प्र॒त्यक्षे॑ण॒ कम॒ग्नि-ञ्चि॑नुत - उपानुवा॒क्य॑मा॒शुम॒ग्नि-ञ्चि॑न्वा॒नो - मि॑थू॒या मि॑थुन॒वा-न्भ॑व॒त्येक॑-ञ्च) (अ. 22)

(पुष्प॑म॒ग्निर्वा॒युर॒सौ वै तप॑ञ्च॒न्द्रमा॒ नक्ष॑त्राणि प॒र्जन्य॑-स्सं​वँथ्स॒रो यो᳚-ऽफ्सु नाव॑मे॒तद्ध॑ स्म॒ वै स॑त्रि॒यग्ं सं॑​वँथ्स॒रग्ं सा॑वि॒त्रम॒मु-न्ना॑चिके॒त-म्प्रा॒णाग्​श्चा॑तुर्​होत्रि॒य-म्ब्रह्म॑ वैश्वसृ॒जग्ं शरी॑रमुपानुवा॒क्य॑मा॒शुमि॒मान् ँलो॒कानि॒ममा॑रुणकेतुकं॒-यँ ए॒वासौ)

अनुवाकं 23
आपो॒ वा इ॒दमा॑सन्-थ्सलि॒लमे॒व ।
स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् ।
तस्यान्त॒-र्मन॑सि काम॒-स्सम॑वर्तत । इ॒दग्ं सृ॑जेय॒मिति॑ । तस्मा॒द्य-त्पुरु॑षो॒ मन॑सा-ऽभि॒गच्छ॑ति । तद्वा॒चा व॑दति ।
तत्कर्म॑णा करोति । तदे॒षा ऽभ्यनू᳚क्ता ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं-यँदासी᳚त् ॥ 90 ॥

स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ ॥ उपै॑न॒न्तदुप॑नमति । य-त्का॑मो॒ भव॑ति । य ए॒वं-वेँद॑ ॥ स तपो॑-ऽतप्यत ।
स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ य-न्मा॒ग्ं॒समासी᳚त् । ततो॑-ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन्न् ॥ 91 ॥

ये नखाः᳚ । ते वै॑खान॒साः । ये वालाः᳚ । ते वा॑लखि॒ल्याः । यो रसः॑ । सो॑-ऽपाम् ॥ अ॒न्त॒र॒तः कू॒र्म-म्भू॒तग्ं सर्प॑न्तम् । तम॑ब्रवीत् । मम॒ वै त्वं-मा॒ग्ं॒सा । सम॑भूत् ॥ 92 ॥

नेत्य॑ब्रवीत् । पूर्व॑मे॒वाह-मि॒हास॒मिति॑ । तत्पुरु॑षस्य पुरुष॒त्वम् । स स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् । भू॒त्वोद॑तिष्ठत् । तम॑ब्रवीत् । त्वं-वैँ पूर्वग्ं॑ सम॑भूः ।
त्वमि॒द-म्पूर्वः॑ कुरु॒ष्वेति॑ ॥ स इ॒त आ॒दायापः॑ ॥ 93 ॥

अ॒ञ्ज॒लिना॑ पु॒रस्ता॑-दु॒पाद॑धात् । ए॒वा ह्ये॒वेति॑ ।
तत॑ आदि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक् ॥
अथा॑रु॒णः के॒तु-र्द॑क्षिण॒त उ॒पाद॑धात् । ए॒वा ह्यग्न॒ इति॑ । ततो॒ वा अ॒ग्निरुद॑तिष्ठत् । सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् ।
ए॒वा हि वायो॒ इति॑ ॥ 94 ॥

ततो॑ वा॒युरुद॑तिष्ठत् । सा प्र॒तीची॒ दिक् ।
अथा॑रु॒णः के॒तु-रु॑त्तर॒त उ॒पाद॑धात् । ए॒वा हीन्द्रेति॑ ।
ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक् ।
अथा॑रु॒णः के॒तु-र्मद्ध्य॑ उ॒पाद॑धात् । ए॒वा हि पूष॒न्निति॑ । ततो॒ वै पू॒षोद॑तिष्ठत् । सेयन्दिक् ॥ 95 ॥

अथा॑रु॒णः के॒तुरु॒परि॑ष्टा-दु॒पाद॑धात् । ए॒वा हि देवा॒ इति॑ । ततो॑ देव मनु॒ष्याः पि॒तरः॑ । ग॒न्ध॒र्वा॒-फ्स॒रस॒ श्चोद॑-तिष्ठन्न् ।
सोर्ध्वा दिक् ॥ या वि॒प्रुषो॑ वि॒परा॑पतन्न् ।
ताभ्यो-ऽसु॑रा॒ रक्षाग्ं॑सि पिशा॒चाश्चो-द॑तिष्ठन्न् । तस्मा॒त्ते परा॑भवन्न् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन्न् ॥ तदे॒षा-ऽभ्यनू᳚क्ता ॥ 96 ॥

आपो॑ ह॒ य-द्बृ॑ह॒ती-र्गर्भ॒मायन्न्॑ । दक्ष॒-न्दधा॑ना ज॒नय॑न्ती-स्स्वय॒म्भुम् । तत॑ इ॒मे-ऽद्ध्य-सृ॑ज्यन्त॒ सर्गाः᳚ । अद्भ्यो॒ वा इ॒दग्ं सम॑भूत् ।
तस्मा॑दि॒दग्ं सर्व॒-म्ब्रह्म॑ स्वय॒भ्विन्ति॑ ॥
तस्मा॑दि॒दग्ं सर्व॒ग्ं॒ शिथि॑ल-मि॒वा ध्रुव॑-मिवाभवत् ॥ प्र॒जाप॑ति॒-र्वाव तत् । आ॒त्मना॒-ऽऽत्मानं॑-विँ॒धाय॑ ।
तदे॒वानु॒ प्रावि॑शत् ॥ तदे॒षा-ऽभ्यनू᳚क्ता ॥ 97 ॥

वि॒धाय॑ लो॒कान्. वि॒धाय॑ भू॒तानि॑ । वि॒धाय॒ सर्वाः᳚ प्र॒दिशो॒ दिश॑श्च । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । आ॒त्मना॒-ऽऽत्मा-न॑म॒भि-सं​विँ॑वे॒शेति॑ ॥
सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑-मव॒रुद्ध्य॑ । तदे॒वानु॒ प्रवि॑शति । य ए॒वं-वेँद॑ ॥ 98 ॥
(आसी॑ - दतिष्ठन् - नभू॒ - दपो॒ - वायो॒ इति - सेय-न्दिग॒ - भ्यनू᳚क्ता॒ - ऽभ्यनू᳚क्ता॒ -+-ऽष्टौ च॑) (अ. 23)

अनुवाकं 24
चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाग्ं रू॒पाणि॑ । मेघो॑ वि॒द्युत् । स्त॒न॒यि॒त्नु-र्वृ॒ष्टिः । तान्ये॒वा व॑रुन्धे ॥ आ॒तप॑ति॒ वर्​ष्या॑ गृह्णाति ।
ताः पु॒रस्ता॒-दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒स-मव॑रुन्धे ।
तस्मा᳚-न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ 99 ॥

कूप्या॑ गृह्णाति । ता द॑क्षिण॒त उप॑दधाति । ए॒ता वै ते॑ज॒स्विनी॒रापः॑ । तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति । तस्मा॒-द्दक्षि॒णोर्ध॑ ऽस्तेज॒स्वित॑रः ॥
स्था॒व॒रा गृ॑ह्णाति । ताः प॒श्चादुप॑दधाति । प्रति॑ष्ठिता॒ वै स्था॑व॒राः ।
प॒श्चादे॒व प्रति॑तिष्ठति ॥ वह॑न्ती-र्गृह्णाति ॥ 100 ॥

ता उ॑त्तर॒त उप॑दधाति । ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वो-द्ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः । ओज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रो-ऽद्ध॑ ओज॒स्वित॑रः ॥ स॒भां॒र्या गृ॑ह्णाति ।
ता मद्ध्य॒ उप॑दधाति । इ॒यं-वैँ स॑भां॒र्याः । अ॒स्यामे॒व प्रति॑तिष्ठति ॥ प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टा-दु॒पाद॑धाति ॥ 101 ॥

अ॒सौ वै प॑ल्व॒ल्याः । अ॒मुष्या॑मे॒व प्रति॑तिष्ठति ॥ दि॒क्षूप॑दधाति । दि॒क्षु वा आपः॑ । अन्नं॒-वाँ आपः॑ । अ॒द्भ्यो वा अन्न॑ञ्जायते । यदे॒वाद्भ्यो-ऽन्न॒-ञ्जाय॑ते । तदव॑रुन्धे ॥ तं-वाँ ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑यो-ऽचिन्वन्न् । तस्मा॑-दारुण के॒तुकः॑ ॥ तदे॒षा-ऽभ्यनू᳚क्ता ॥ के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः ।
प्र॒ति॒ष्ठाग्ं श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ ॥ श॒तश॑श्चै॒व ऽस॒हस्र॑शश्च॒ प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते ।
य उ॑चैनमे॒वं-वेँद॑ ॥ 102 ॥
(ब्र॒ह्म॒व॒र्च॒सित॑रो॒ - वह॑न्ती-र्गृह्णाति॒ - ता उ॒परि॑ष्टादु॒पाद॑धा - त्यारुणके॒तुको॒-ऽष्टौ च॑) (अ. 24)

अनुवाकं 25
जा॒नु॒द॒घ्नी-मु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पा-म्पू॑रयति । अ॒पाग्ं स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णग्ं रु॒क्म-म्पुरु॑ष॒-मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णम् ।
स॒त्यग्ं रु॒क्मः । अ॒मृत॒-म्पुरु॑षः । ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ 103 ॥

तदव॑रुन्धे ॥ कू॒र्ममुप॑दधाति । अ॒पामे॒व मेध॒मव॑रुन्धे । अथो᳚ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ आप॑मापाम॒प-स्सर्वाः᳚ ।
अ॒स्माद॒स्मा दि॒तो-ऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒ह स॑ञ्चस्क॒रर्धि॑या॒ इति॑ । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः । दे॒वी-र्भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ लो॒क-म्पृ॑णच्छि॒द्र-म्पृ॑ण ॥ 104 ॥

यास्ति॒स्रः प॑रम॒जाः ॥ ) (शोर्त् अन्-द्लोन्ग्fऒरं अरे थे समॆ इ-न्ति॑ ॥ पञ्च॒ चित॑य॒ उप॑दधाति । पाङ्क्त॒-ऽग्निः । यावा॑ने॒वाग्निः । तञ्चि॑नुते ॥
लो॒क-म्पृ॑णया द्वि॒तीया॒-मुप॑दधाति ।
पञ्च॑पदा॒ वै वि॒राट् । तस्या॒ वा इ॒य-म्पादः॑ । अ॒न्तरि॑क्ष॒-म्पादः॑ । द्यौः पादः॑ । दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑ ॥ वि॒राज्ये॒व प्रति॑तिष्ठति ।
य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं-वेँद॑ ॥ 105 ॥
(अस्ति॑ - पृणा॒ - न्तरि॑क्ष॒-म्पाद॒-ष्षट्च॑) (अ. 25)

अनुवाकं 26
अ॒ग्नि-म्प्र॒णीयो॑प-समा॒धाय॑ । तम॒भित॑ ए॒ता अ॒भीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्​शपूर्ण-मा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ।
अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ ॥
अथ॑ हस्मा हारु॒ण-स्स्वा॑य॒म्भुवः॑ ।
सा॒वि॒त्र-स्सर्वो॒-ऽग्नि-रित्यन॑नुषङ्ग-म्मन्यामहे ।
नाना॒ वा ए॒तेषां᳚-वीँ॒र्या॑णि ॥ कम॒ग्निञ्चि॑नुते ॥ 106 ॥

स॒त्रि॒य म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।
सा॒वि॒त्र म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते । ना॒चि॒के॒त म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।
चा॒तु॒र्॒ हो॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒ज म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ॥ 107 ॥

उ॒पा॒नु॒वा॒क्य॑-मा॒शु म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते । इ॒ममा॑रुण-केतुक म॒ग्निञ्चि॑न्वा॒न इति॑ ॥ वृषा॒ वा अ॒ग्निः । वृषा॑णौ॒ सग्ग्​स्फा॑लयेत् । ह॒न्येता᳚स्य य॒ज्ञः । तस्मा॒न्नानु॒षज्यः॑ ॥
सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत । उ॒त्त॒र॒वे॒द्याग्​ ह्य॑ग्निश्ची॒यते᳚ ॥ प्र॒जाका॑मश्चिन्वीत ॥ 108 ॥

प्रा॒जा॒प॒त्यो वा ए॒षो᳚-ऽग्निः । प्रा॒जा॒प॒त्याः प्र॒जाः । प्र॒जावा᳚-न्भवति । य ए॒वं-वेँद॑ ॥ प॒शुका॑मश्चिन्वीत । स॒ञ्ज्ञानं॒-वाँ ए॒त-त्प॑शू॒नाम् । यदापः॑ ।
प॒शू॒नामे॒व स॒ज्ञान्ने॒ ऽग्निञ्चि॑नुते । प॒शु॒मा-न्भ॑वति । य ए॒वं-वेँद॑ ॥ 109 ॥

वृष्टि॑कामश्चिन्वीत । आपो॒ वै वृष्टिः॑ । प॒र्जन्यो॒ वर्​षु॑को भवति । य ए॒वं-वेँद॑ ॥ आ॒म॒या॒वी चि॑न्वीत । आपो॒ वै भे॑ष॒जम् । भे॒ष॒ज-मे॒वास्मै॑ करोति । सर्व॒मायु॑रेति ॥ अ॒भि॒चरग्ग्॑ श्चिन्वीत । वज्रो॒ वा आपः॑ ॥ 110 ॥

वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति । स्तृ॒णु॒त ए॑नम् ॥ तेज॑स्कामो॒ यश॑स्कामः ।
ब्र॒ह्म॒व॒र्च॒सका॑म-स्स्व॒र्गका॑मश्चिन्वीत । ए॒ता व॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ । तदव॑रुन्धे ॥ तस्यै॒ तद्व्र॒तम् । वर्​ष॑ति॒ न धा॑वेत् ॥ 111 ॥

अ॒मृतं॒-वाँ आपः॑ । अ॒मृत॒स्या-न॑न्तरित्यै ॥
नाफ्सु-मूत्र॑पुरी॒षङ्कु॑र्यात् । न निष्ठी॑वेत् । न वि॒वस॑न-स्स्नायात् । गुह्यो॒ वा ए॒षो᳚-ऽग्निः ।
ए॒तस्या॒ग्ने रन॑ति दाहाय ॥ न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒-वाँ-ऽधि॒तिष्ठे᳚त् । ए॒तस्या॒ग्ने-रन॑भ्यारोहाय ॥ न कूर्म॒स्याश्ञी॑यात् ।
नोद॒कस्या॒-घातु॑का॒न्येन॑-मोद॒कानि॑ भवन्ति । अ॒घातु॑का॒ आपः॑ । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं-वेँद॑ ॥ 112 ॥
(चि॒नु॒ते॒ - चि॒नु॒ते॒ - प्र॒जाका॑मश्चिन्वीत॒ - य ए॒वं-वेँदा - पो॑ - धावे॒ - दश्ञी॑याच्च॒त्वारि॑ च) (अ. 26)

अनुवाकं 27
इ॒मा नु॑क॒-म्भुव॑ना सीषधेम । इन्द्र॑श्च॒ विश्वे॑च दे॒वाः ॥ य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्द॑-स्स॒ह सी॑षधातु ॥
आ॒दि॒त्यैरिन्द्र॒-स्सग॑णो-म॒रुद्भिः॑ । अ॒स्माक॑-म्भूत्ववि॒ता त॒नूना᳚म् ॥ आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डी भ॑व ज॒ मा मु॒हुः । सुखादीन्दुः॑ खनि॒धनाम् । प्रति॑मुञ्चस्व॒ स्वा-म्पु॒रम् ॥ 113 ॥

मरी॑चय-स्स्वायम्भु॒वाः । ये श॑री॒राण्य॑ कल्पयन्न् ।
ते ते॑ दे॒हङ्क॑ल्पयन्तु । मा च॑ ते॒ ख्या स्म॑ तीरिषत् ॥ उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्नि-मि॑च्छद्ध्व॒-म्भार॑ताः । राज्ञ॒-स्सोम॑स्य तृ॒प्तासः॑ । सूर्ये॑ण स॒युजो॑षसः ॥ युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा᳚त् । स उ॒ श्रेया᳚-न्भवति॒ जाय॑मानः । त-न्धीरा॑सः क॒वय॒ उन्न॑यन्ति । स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ ॥
अ॒ष्टाच॑क्रा॒ नव॑द्वारा ॥ 114 ॥

दे॒वाना॒-म्पूर॑यो॒द्ध्या । तस्याग्ं॑ हिरण्म॑यः को॒शः । स्व॒र्गो लो॒को ज्योति॒षा ऽऽवृ॑तः ॥ यो वै ता᳚-म्ब्रह्म॑णो वे॒द । अ॒मृते॑नावृ॒ता-म्पु॑रीम् । तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ च । आ॒युः कीर्ति॑-म्प्र॒जान्द॑दुः ॥ वि॒भ्राज॑माना॒ग्ं॒ हरि॑णीम् । य॒शसा॑ सम्प॒रीवृ॑ताम् । पुरग्ं॑ हिरण्म॑यी-म्ब्र॒ह्मा ॥ 115 ॥

वि॒वेशा॑प॒राजि॑ता ॥ पराङ्गेत्य॑ (परांअत्य॑) ज्याम॒यी ।
पराङ्गेत्य॑ (परांअत्य॑) नाश॒की । इ॒ह चा॑मुत्र॑ चान्वे॒ति । वि॒द्वा-न्दे॑वासु॒रानु॑भ॒यान् ॥
यत्कु॑मा॒री म॒न्द्रय॑ते । य॒द्यो॒षिद्य-त्प॑ति॒व्रता᳚ । अरि॑ष्टं॒-यँत्किञ्च॑ क्रि॒यते᳚ ।
अ॒ग्नि-स्तदनु॑ वेधति ॥ अ॒शृता॑स-श्शृ॑तास॒श्च ॥ 116 ॥

य॒ज्वानो॒ ये-ऽप्य॑य॒ज्वनः॑ । स्व॑र्यन्तो॒ नापे᳚क्षन्ते ।
इन्द्र॑-म॒ग्निञ्च॑ ये वि॒दुः ॥ सिक॑ता इव सं॒​यँन्ति॑ ।
र॒श्मिभिः॑-समु॒दीरि॑ताः । अ॒स्मा-ल्लो॒काद॑-मुष्मा॒च्च । ऋ॒षिभि॑-रदात्-पृ॒श्निभिः॑ ॥ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । ये-ऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भि-र॒द्भि-र॒क्तुभि॒-र्व्य॑क्तम् ॥ 117 ॥

य॒मो द॑दात्व-व॒सान॑मस्मै ॥ नृ मु॑णन्तु नृ पा॒त्वर्यः॑ । अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः । कु॒मारी॑षु क॒नीनी॑षु । जा॒रिणी॑षु च॒ ये हि॒ताः ॥ रेतः॑ पीता॒ आण्ड॑पीताः । अङ्गा॑रेषु च॒ ये हु॒ताः । उ॒भया᳚-न्पुत्र॑ पौत्र॒कान् । यु॒वे॒-ऽहं-यँ॒मराज॑गान् ॥ श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रस॑-न्त॒नूना᳚म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः᳚ ॥
अदो॒ यद्ब्रह्म॑ विल॒बम् । पि॒तृ॒णाञ्च॑ य॒मस्य॑ च ।
वरु॑ण॒-स्याश्वि॑नो-र॒ग्नेः । म॒रुता᳚ञ्च वि॒हाय॑साम् ॥
का॒म॒प्र॒यव॑ण-म्मे अस्तु । स ह्ये॑वास्मि॑ स॒नात॑नः । इति नाको ब्रह्मिश्रवो॑ रायो॒ धनम् । पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता ॥ 118 ॥
(पु॒रं - नव॑द्वारा - ब्र॒ह्मा - च - व्य॑क्तग्ं - श॒रदो॒-ऽष्टौ च॑) (अ. 27)

अनुवाकं 28
विशी᳚र्​ष्णी॒-ङ्गृद्ध्र॑-शीर्​ष्णीञ्च । अपेतो॑ निर्-ऋ॒तिग्ं ह॑थः । परिबाधग्ग्​ श्वे॑तकु॒क्षम् । नि॒जङ्घग्ं॑ शब॒लोद॑रम् ॥ स॒ तान्. वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य स॒न्दृशः॑ । ई॒र्​ष्या॒सू॒ये बु॑भु॒क्षाम् । म॒न्यु-ङ्कृ॒त्या-ञ्च॑ दीधिरे । रथे॑न किग्ंशु॒काव॑ता । अग्ने॒ नाश॑य स॒न्दृशः॑ ॥ 119 ॥
(विशी᳚र्​ष्णी॒-न्दश॑) (अ. 28)

अनुवाकं 29
प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु ॥ इ॒दं-वँचः॑ प॒र्जन्या॑य स्व॒राजे᳚ । हृ॒दो अ॒स्त्वन्त॑र॒न्त-द्यु॑योत ।
म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टय-स्सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धी-र्दे॒वगो॑पाः ॥
यो गर्भ॒-मोष॑धीनाम् । गवा᳚ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरु॒षीणा᳚म् ॥ 120 ॥
(प॒र्जन्या॑य॒ दश॑) (अ. 29)

अनुवाकं 30
पुन॑र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒-र्ब्राह्म॑ण-मैतु मा । पुन॒-र्द्रवि॑ण मैतु मा ॥ यन्मे॒-ऽद्य रेतः॑ पृथि॒वीमस्कान्॑ ।
यदोष॑धीर॒प्यस॑र॒-द्यदापः॑ । इ॒दन्त-त्पुन॒राद॑दे । दी॒र्घा॒यु॒त्वाय॒ वर्च॑से ॥ यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑( ) । तेन॑ माम॒मृत॑-ङ्कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ 121 ॥
(पुन॒र्द्वे च॑) (अ. 30)

अनुवाकं 31
अ॒द्भय-स्तिरो॒धा जा॑यत । तव॑ वैश्रव॒ण-स्स॑दा । तिरो॑ धेहि सप॒त्नान्नः॑ । ये अपो॒-ऽश्नन्ति॑ केच॒न ॥ त्वा॒ष्ट्री-म्मा॒यां-वँ᳚श्रव॒णः ।
रथग्ं॑ सहस्र॒ वन्धु॑रम् । पु॒रु॒श्च॒क्रग्ं सह॑स्राश्वम् । आस्था॒ याया॑हि नो ब॒लिम् ॥ यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒ हिर॑ण्य॒मश्वान्॑ ॥ 122 ॥

असा॑म सुम॒तौ य॒ज्ञिय॑स्य । श्रिय॒-म्बिभ्र॒तो ऽन्न॑मुखीं-विँ॒राज᳚म् ॥ सु॒द॒र्॒श॒ने च॑ क्रौ॒ञ्चे च॑ । मै॒ना॒गे च॑ म॒हागि॑रौ । श॒तद्वा॒ट्टर॑गम॒न्ता (स॒तद्वा॒ट्टर॑गम॒न्ता) ।
स॒ग्ं॒हार्य॒-न्नग॑र॒-न्तव॑ ॥
इति मन्त्राः᳚ । कल्पो॑-ऽत ऊ॒र्ध्वम् ॥
यदि॒ बलि॒ग्ं॒ हरे᳚त् । हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒य-म्ब॑लिः ॥ 123 ॥

सर्वभूताधिपतये न॑म इ॒ति । अथ बलिग्ं हृत्वोप॑तिष्ठे॒त ॥ क्ष॒त्र-ङ्क्ष॒त्रं-वैँ᳚श्रव॒णः । ब्राह्मणा॑ वय॒ग्ग्॒ स्मः ।
नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः । अस्मा-त्प्रविश्यान्न॑मद्धी॒ति ॥ अथ तमग्नि-मा॑दधी॒त । यस्मिन्ने तत्कर्म प्र॑युञ्जी॒त ॥
ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः॑ ॥ 124 ॥

ति॒रोधा॒-स्स्वः॑ । ति॒रोधा॒ भूर्भुव॒स्स्वः॑ ।
सर्वेषां-लोँकाना-माधिपत्ये॑ सीदे॒ति ॥ अथ तमग्नि॑-मिन्धी॒त । यस्मिन्ने तत्कर्म प्र॑युञ्जी॒त ॥ ति॒रोधा॒ भू-स्स्वाहा᳚ । ति॒रोधा॒ भुव॒-स्स्वाहा᳚ । ति॒रोधा॒-स्स्व॑-स्स्वाहा᳚ । ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा᳚ ॥
यस्मिन्नस्य काले सर्वा आहुतीर्-हुता॑ भवे॒युः ॥ 125 ॥

अपि ब्राह्मण॑मुखी॒नाः । तस्मिन्नह्नः काले प्र॑युञ्जी॒त ।
पर॑-स्सु॒प्तज॑नाद्वे॒पि ॥ मा स्म प्रमाद्यन्त॑ माद्ध्या॒पयेत् । सर्वार्था᳚-स्सिद्ध्य॒न्ते । य ए॑वं-वेँ॒द । क्षुद्ध्य-न्निद॑मजा॒नताम् ।
सर्वार्था न॑ सिद्ध्य॒न्ते ॥ यस्ते॑ वि॒घातु॑को भ्रा॒ता ।
ममान्तर्-हृ॑दये॒ श्रितः ॥ 126 ॥

तस्मा॑ इ॒ममग्र॒ पिण्ड॑ञ्जुहोमि । स मे᳚-ऽर्था॒-न्मा विव॑धीत् । मयि॒ स्वाहा᳚ ॥ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ । नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्य᳚म् । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाग्ं श॒तधा॑ हि ।
स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वा न॒-श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ 127 ॥
(अश्वा᳚न्-बलि॒-र्भुवो॑ - भवे॒युः - श्रित - श्च॑ स॒प्त च॑) (अ. 31)

अनुवाकं 32
सं​वँथ्सरमेत॑-द्व्रत॒ञ्चरेत् । द्वौ॑ वा मा॒सौ ॥ नियम-स्स॑मासे॒न ॥ तस्मि-न्नियम॑ विशे॒षाः । त्रिषवण-मुदको॑पस्प॒र्॒शी । चतुर्थ कालपान॑भक्त॒-स्स्यात् । अहरहर्वा भैक्ष॑मश्न॒यात् ।
औदुम्बरीभि-स्समिद्भि-रग्नि॑-म्परि॒चरेत् ।
पुनर्मा मैत्विन्द्रिय-मित्येतेना-ऽनु॑वाके॒न ।
उद्धृत परिपूताभिरद्भिः कार्य॑-ङ्कुर्वी॒त ॥ 128 ॥

अ॑सञ्च॒यवान् । अग्नये वायवे॑ सूर्या॒य । ब्रह्मणे प्र॑जाप॒तये । चन्द्रमसे न॑क्षत्रे॒भ्यः । ऋतुभ्य-स्सं​वँ॑थ्सरा॒य । वरुणा-यारुणायेति व्र॑तहो॒माः । प्र॒व॒र्ग्यव॑दादे॒शः । अरुणाः का᳚ण्ड ऋ॒षयः ॥ अरण्ये॑-ऽधीयी॒रन्न् । भद्रङ्कर्णेभिरिति द्वे॑ जपि॒त्वा ॥ 129 ॥

महानाम्नीभि-रुदकग्ं सग्ग्॑स्प॒र्​श्य । तमाचा᳚र्यो द॒द्यात् । शिवान-श्शन्तमे-त्योषधी॑राल॒भते । सुमृडीके॑ति भू॒मिम् । एवम॑पव॒र्गे ।
धे॑नु-र्द॒क्षिणा । कग्ं सं​वाँस॑श्च क्षौ॒मम् । अन्य॑द्वा शु॒क्लम् । य॑था श॒क्ति वा । एवग्ग्​ स्वाद्ध्याय॑ धर्मे॒ण । अरण्ये॑-ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ 130 ॥
(कु॒र्वी॒त - ज॑पि॒त्वा - स्वाद्ध्याय॑धर्मे॒ण द्वे च॑) (अ. 32)

(भ॒द्रग्ग्​ - स्मृतिः॑ - साक॒जान्ना॒ - मक्ष्य- ति॑ता॒म्रा - ण्य॑त्युर्ध्वा॒क्ष - आरोगः - क्वेद - मग्निश्च - स॑हस्र॒वृत् - प॒वित्र॑वन्त॒ -आत॑नुष्वा॒ -ष्टयो॑नीं॒ - ँयो-ऽसा॒ - वथादित्य - स्यारोग-स्याथ वायो- रथाग्ने॒--र् दक्षिणपूर्वस्या - मि॑न्द्रघो॒षा व॒-आप॑मापां॒​योँ॑-ऽपा - मापो॒ वै - चतु॑ष्टय्यो - जानुद॒घ्नी - म॒ग्नि-म्प्र॒णीये॒ - मा नु॑ कं॒ - ँविशी᳚र्​ष्णीं - प॒र्जन्या॑य॒ - पुन॑ - र॒द्भ्यः -सं​वँथ्सर-न्द्वात्रिग्ं॑शत्)

(भ॒द्रं - ज्यो॒तिषा॒ - तस्मि-न्राजानं - क॒श्यपा᳚-थ्सहस्र॒वृदि॑यं॒- नपुग्ंस॑क - म॒ष्टयो॑नी॒ - मवपतन्ताना - मा॒यत॑नवा-न्भवति - स॒तो बन्धुं॒ - ता उ॑त्तर॒तो - वज्र॑मे॒व - पुन॑र्मामैतु
त्रि॒ग्ं॒शदु॑त्तरश॒तम्)

(भद्रं - तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति)

॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके प्रथमः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: