View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2 - स्वाध्यायब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - सह वै

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके द्वितीयः प्रपाठकः - स्वाध्यायब्राह्मणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1
सह॒ वै दे॒वाना॒-ञ्चासु॑राणा-ञ्च य॒ज्ञौ प्रत॑तावास्तां-वँ॒यग्ग्​ स्व॒र्गं-लोँ॒कमे᳚ष्यामो व॒यमे᳚ष्याम॒ इति॒ ते-ऽसु॑रा-स्स॒न्नह्य॒ सह॑सै॒वाच॑र-न्ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वास्ते-ऽसु॑रा अमुह्य॒ग्ग्॒स्ते न प्राजा॑न॒ग्ग्॒स्ते परा॑भव॒न्ते न स्व॒र्गं-लोँ॒कमा॑य॒न्, प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वा-स्स्व॒र्गं-लोँ॒कमा॑य॒-न्न प्रसृ॑ते॒नासु॑रा॒-न्परा॑-ऽभावय॒न् ,प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञो-ऽप्र॑सृ॒तो-ऽनु॑पवी॒तिनो॒ यत्किञ्च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्यधी॑ते॒ यज॑त ए॒व त-त्तस्मा᳚-द्यज्ञोपवी॒त्ये॑वाधी॑यीत या॒जये॒-द्यजे॑त वा य॒ज्ञस्य॒ प्रसृ॑त्या॒ , अजि॑नं॒-वाँसो॑ वा दक्षिण॒त उ॑प॒वीय॒ दक्षि॑ण-म्बा॒हुमुद्ध॑र॒ते-ऽव॑ धत्ते स॒व्यमिति॑ यज्ञोपवी॒तमे॒तदे॒व विप॑रीत-म्प्राचीनावी॒तग्ं सं॒​वीँत॑-म्मानु॒षम् ॥ 1 ॥

अनुवाकं 2
रक्षाग्ं॑सि॒ हवा॑ पुरोनुवा॒के तपो-ऽग्र॑मतिष्ठन्त॒ ता-न्प्र॒जाप॑ति-र्व॒रेणो॒पाम॑न्त्रयत॒ तानि॒ वर॑मवृणीतादि॒त्यो नो॒ योद्धा॒ इति॒ ता-न्प्र॒जाप॑ति-रब्रवी॒-द्योध॑य॒द्ध्वमिति॒ तस्मा॒दुत्ति॑ष्ठन्त॒ग्ं॒ हवा॒ तानि॒ रक्षाग्॑स्यादि॒त्यं-योँध॑यन्ति॒ याव॑दस्त॒मन्व॑गा॒-त्तानि॑ ह॒ वा ए॒तानि॒ रक्षाग्ं॑सि गायत्रि॒या ऽभि॑मन्त्रिते॒नाम्भ॑सा शाम्यन्ति॒ तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खा-स्स॒न्ध्याया᳚-ङ्गायत्रि॒या-ऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्ध्वं-विँक्षि॑पन्ति॒ ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रक्षाग्ं॑सि
म॒न्देहा-ऽरु॑णे द्वी॒पे प्रक्षि॑पन्ति॒ य-त्प्र॑दक्षि॒ण-म्प्रक्र॑मन्ति॒ तेन॑ पा॒प्मान॒मव॑ धून्वन्त्यु॒द्यन्त॑मस्तं॒-यँन्त॑मादि॒त्य-म॑भिद्ध्या॒यन् कु॒र्व-न्ब्रा᳚ह्म॒णो वि॒द्वान्-थ्स॒कल॑-म्भ॒द्रम॑श्नुते॒ ऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒व स-न्ब्रह्मा॒प्येति॒ य ए॒वं-वेँद॑ ॥ 2 ॥

अनुवाकं 3
य-द्दे॑वा देव॒हेड॑नं॒ (देव॒हेल॑नं॒) देवा॑सश्चकृ॒मा व॒यम् ।
आदि॑त्या॒स्तस्मा᳚न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त ॥
देवा॑ जीवनका॒म्या य-द्वा॒चा-ऽनृ॑तमूदि॒म ।
तस्मा᳚न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवा-स्स॒जोष॑सः ॥
ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वग्ं स॑रस्वति ।
कृ॒तान्नः॑ पा॒ह्येन॑सो॒ य-त्किञ्चानृ॑तमूदि॒म ॥
इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सोमो॑ धा॒ता बृह॒स्पतिः॑ ।
ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म ॥
स॒जा॒त॒श॒ग्ं॒सादु॒त जा॑मिश॒ग्ं॒ साज्ज्याय॑स॒-श्शग्ंसा॑दु॒त वा॒ कनी॑यसः ।
अना॑धृष्ट-न्दे॒वकृ॑तं॒-यँदेन॒स्तस्मा॒-त्त्वम॒स्मा-ञ्जा॑तवेदो मुमुग्धि ॥
यद्वा॒चा य-न्मन॑सा बा॒हुभ्या॑-मू॒रुभ्या॑मष्ठी॒वद्भ्या॑ शि॒श्नैर्यदनृ॑त-ञ्चकृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सा॒ गार्​ह॑पत्यः॒ प्रमु॑ञ्चतु चकृ॒म यानि॑ दुष्कृ॒ता ॥
येन॑ त्रि॒तो अ॑र्ण॒वा-न्नि॑र्ब॒भूव॒ येन॒ सूर्य॒-न्तम॑सो निर्मु॒मोच॑ ।
येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒ह-ञ्ज्योति॑षा॒ ज्योति॑रानशा॒न आ᳚क्षि ॥
य-त्कुसी॑द॒मप्र॑तीत्त॒-म्मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि ।
ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति॒ तत्ते॑ दधामि ॥
यन्मयि॑ मा॒ता गर्भे॑ स॒ति । एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ यदा॑ पि॒पेष॑ मा॒तर॑-म्पि॒तर᳚म् । पु॒त्रः प्रमु॑दितो॒ धयन्न्॑ । अहिग्ं॑सितौ पि॒तरौ॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि ॥ यद॒न्तरि॑क्ष-म्पृथि॒वीमु॒त द्याम् । यन्मा॒तर॑-म्पि॒तरं॑-वाँ जिहिग्ंसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥
यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा᳚ । यदेन॑श्च कृ॒मा नूत॑नं॒-यँत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ अति॑क्रामामि दुरि॒तं-यँदेनः॑ । जहा॑मि रि॒प्र-म्प॑र॒मे स॒धस्थे᳚ । यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमारो॑हामि सु॒कृता॒-न्नु लो॒कम् ॥ त्रि॒ते दे॒वा अ॑मृजतै॒-तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे । ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥
दि॒वि जा॒ता अ॒फ्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः । अथो॒ या अ॑ग्नि॒जा आपः॑ । ता न॑-श्शुन्धन्तु॒ शुन्ध॑नीः ॥ यदापो॒ नक्त॑-न्दुरि॒त-ञ्चरा॑म । यद्वा॒ दिवा॒ नूत॑नं॒-यँत्पु॑रा॒णम् । हिर॑ण्य-वर्णा॒स्तत॒ उत्पु॑नीत नः ॥ इ॒म-म्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वा-न्दे॒वस्य॒ हेडो-ऽव॑ यासि सीष्ठाः । यजि॑ष्ठो॒ वह्नि॑ तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥ स त्वन्नो॑ अग्ने-ऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ ररा॑णो वी॒हि मृ॑डी॒क सु॒हवो॑ न एधि ॥ त्वम॑ग्ने अ॒या-ऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सनःअ॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतः पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒द-न्नमः॑ ॥ 3 ॥
(मु॒मु॒ग्धि॒ स॒प्त च॑) (अ. 3)

अनुवाकं 4
यददी᳚व्यन्नृ॒णम॒ह-म्ब॒भूवादि॑-थ्सन्वा सञ्ज॒गर॒ जने᳚भ्यः । अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च सं​विँदा॒नौ प्रमु॑ञ्चताम् ॥ यद्धस्ता᳚भ्या-ञ्च॒कर॒ किल्बि॑षाण्य॒क्षाणां᳚-वँ॒ग्नुमु॑प॒जिघ्न॑मानः ।
उ॒ग्र॒म्प॒श्या च॑ राष्ट्र॒भृच्च॒ तान्य॑फ्स॒रसा॒ वनु॑दत्ता-मृ॒णानि॑ ॥ उग्र॑पंश्ये॒ राष्ट्र॑भृ॒-त्किल्बि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑दत्तमे॒तत् ।
नेन्न॑ ऋ॒णानृ॒णव॒ इथ्स॑मानो य॒मस्य॑ लो॒के अधि॑ रज्जु॒राय॑ ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाग्ं॑सि शिश्रथः कृ॒तानि॑ ॥ उदु॑त्त॒मं-वँ॑रुण॒ पाश॑म॒स्मदवा॑-ऽध॒मं-विँम॑द्ध्य॒मग्ग्​ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवा-ऽना॑गसो॒ अदि॑तये स्याम ॥ इ॒म-म्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वा-न्दे॒वस्य॒ हेडो-ऽव॑ यासि सीष्ठाः । यजि॑ष्ठो॒ वह्नि॑ तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥ स त्वन्नो॑ अग्ने-ऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ ररा॑णो वी॒हि मृ॑डी॒क सु॒हवो॑ न एधि ॥ सङ्कु॑सुको॒ विकु॑सुको निर्-ऋ॒थो यश्च॑ निस्व॒नः । ते-ऽ(1॒)स्म-द्यक्ष्म॒मना॑गसो दू॒रा-द्दू॒रम॑चीचतम् ॥ निर्य॑क्ष्ममचीचते कृ॒त्या-न्निर्-ऋ॑ति-ञ्च । तेन॒ यो-ऽ(1॒)स्मथ्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि ॥ दु॒श्श॒ग्ं॒सा॒नु॒श॒ग्ं॒साभ्या᳚-ङ्घ॒णेना॑नुघ॒णेन॑ च । तेना॒न्यो-ऽ(1)॒स्म-थ्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि ॥
सं​वँर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सग्ं शि॒वेन॑ । त्वष्टा॑ नो॒ अत्र॒ विद॑धातु रा॒यो-ऽनु॑मार्​ष्टु त॒न्वो(1॒) य-द्विलि॑ष्टम् ॥ 4 ॥
(कृ॒त्या-न्निर्-ऋ॑ति-ञ्च॒ पञ्च॑ च) (अ. 4)

अनुवाकं 5
आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे᳚ण्यः ।
पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒ यक्ष्मग्ं॑ सुवामि ते ॥
आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि । घृ॒त-म्पी॒त्वा मधु॒ चारु॒ गव्य॑-म्पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मम् ॥
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरुण॒ सग्ंशि॑शाधि । मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒-र्यथा-ऽस॑त् ॥
अग्न॒ आयूग्ं॑षि पवस॒ आसु॒वोर्ज॒मिष॑-ञ्च नः ।
आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑-स्सु॒वीर्य᳚म् । दध॑-द्र॒यि-म्मयि॒ पोष᳚म् ॥ 5.1अ ॥
अ॒ग्निर्-ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् ॥ अग्ने॑ जा॒ता-न्प्रणु॑दा न-स्स॒पत्ना॒-न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।
अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒ञ्छर्म॑न्ते (अहे॑ल॒ञ्छर्म॑न्ते) स्याम त्रि॒वरू॑थ उ॒द्भौ ॥
सह॑सा जा॒ता-न्प्रणु॑दा न-स्स॒पत्ना॒-न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यग्ग्​ स्या॑म॒ प्रणु॑दा न-स्स॒पत्नान्॑ ॥ अग्ने॒ यो नो॒-ऽभितो॒ जनो॒ वृको॒ वारो॒ जिघाग्ं॑सति । ताग्​स्त्वं-वृँ॑त्रहञ्जहि॒ वस्व॒स्मभ्य॒मा भ॑र ॥ अग्ने॒ यो नो॑-ऽभि॒दास॑ति समा॒नो यश्च॒ निष्ट्यः॑ । तं-वँ॒यग्ं स॒मिध॑-ङ्कृ॒त्वा तुभ्य॑म॒ग्ने-ऽपि॑दद्ध्मसि ॥ 5.1ब् ॥

यो न॒-श्शपा॒दश॑पतो॒ यश्च॑ न॒-श्शप॑त॒-श्शपा᳚त् ।
उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॒ सर्व॑-म्पा॒पग्ं समू॑हताम् ॥
यो न॑-स्स॒पत्नो॒ यो रणो॒ मर्तो॑-ऽभि॒दास॑ति देवाः ।
इ॒द्ध्मस्ये॑व प्र॒क्षाय॑तो॒ मा तस्योच्छे॑षि॒ किञ्च॒न ॥ यो मान्द्वेष्टि॑ जातवेदो॒ य-ञ्चा॒ह-न्द्वेष्मि॒ यश्च॒ माम् । सर्वा॒ग्॒स्तान॑ग्ने॒ सन्द॑ह॒ याग्​श्चा॒ह-न्द्वेष्मि॒ ये च॒ माम् ॥ यो अ॒स्मभ्य॑मराती॒या-द्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मा-न्दिफ्सा᳚च्च॒ सर्वा॒ग्॒स्तान्म॑ष्म॒षा कु॑रु ॥
सग्ंशि॑त-म्मे॒ ब्रह्म॒ सग्ंशि॑तं-वीँ॒र्याम् (1॒) बल᳚म् । सग्ंशि॑त-ङ्क्ष॒त्र-म्मे॑ जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥
उदे॑षा-म्बा॒हू अ॑तिर॒मु-द्वर्चो॒ अथो॒ बल᳚म् ।
क्षि॒णोमि॒ ब्रह्म॑णा॒-ऽमित्रा॒नुन्न॑यामि॒ स्वाँ(2) अ॒हम् ॥ पुन॒र्मनः॒ पुन॒रायु॑र्म॒ आगा॒-त्पुन॒श्चक्षुः॒ पुन॒-श्श्रोत्र॑-म्म॒ आगा॒त्
पुनः॑ प्रा॒णः पुन॒राधी॑त-म्म॒ आगा᳚त् ।
वै॒श्वा॒न॒रो मे-ऽद॑ब्धस्तनू॒पा अव॑बाधता-न्दुरि॒तानि॒ विश्वा᳚ ॥ 5.1च् ॥
(पोषं॑ - दद्ध्मसि - पु॒रोहि॑तश्च॒त्वारि॑ च) (अ. 5)

अनुवाकं 6
वै॒श्वा॒न॒राय॒ प्रति॑वेदयामो॒ यदी॑नृ॒णग्ं स॑ङ्ग॒रो दे॒वता॑सु । स ए॒ता-न्पाशा᳚-न्प्र॒मुच॒-न्प्रवे॑द॒ स नो॑ मुञ्चातु दुरि॒तादव॒द्यात् ॥
वै॒श्वा॒न॒रः पव॑यान्नः प॒वित्रै॒र्य-थ्स॑ङ्ग॒र-म॒भिधावा᳚म्या॒शाम् । अना॑जान॒-न्मन॑सा॒ याच॑मानो॒ यदत्रैनो॒ अव॒ त-थ्सु॑वामि ॥
अ॒मी ये सु॒भगे॑ दि॒वि वि॒चृतौ॒ नाम॒ तार॑के ।
प्रेहामृत॑स्य यच्छता-मे॒त-द्ब॑द्धक॒मोच॑नम् ॥
विजि॑हीर्​ष्व लो॒कान् कृ॑धि ब॒न्धा-न्मु॑ञ्चासि॒ बद्ध॑कम् । योने॑रिव॒ प्रच्यु॑तो॒ गर्भ॒-स्सर्वा᳚-न्प॒थो अ॑नुष्व ॥
स प्र॑जा॒न-न्प्रति॑गृभ्णीत वि॒द्वा-न्प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ । अ॒स्माभि॑र्द॒त्त-ञ्ज॒रसः॑ प॒रस्ता॒दच्छि॑न्न॒-न्तन्तु॑मनु॒ सञ्च॑रेम ॥ 6.1अ ॥

त॒त-न्तन्तु॒मन्वेके॒ अनु॒ सञ्च॑रन्ति॒ येषा᳚-न्द॒त्त-म्पित्र्य॒माय॑नवत् । अ॒ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छा॒-द्दातु॒च्चे-च्छ॒क्नवा॒ग्ं॒ स-स्स्व॒र्ग ए॑षाम् ॥
आर॑भेथा॒मनु॒ सग्ंर॑भेथाग्ं समा॒न-म्पन्था॑मवथो घृ॒तेन॑ । यद्वा᳚-म्पू॒र्त-म्परि॑विष्टं॒-यँद॒ग्नौ तस्मै॒ गोत्रा॑ये॒ह जाया॑पती॒ सग्ंर॑भेथाम् ॥ यद॒न्तरि॑क्ष-म्पृथि॒वीमु॒त द्यां-यँन्मा॒तर॑-म्पि॒तरं॑-वाँ जिहिग्ंसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्​ह॑पत्य॒ उन्नो॑ नेष-द्दुरि॒ता यानि॑ चकृ॒म ॥ भूमि॑र्मा॒ता-ऽदि॑तिर्नो ज॒नित्र॒-म्भ्राता॒न्तरि॑क्ष-म॒भिश॑स्त एनः ।
द्यौर्नः॑ पि॒ता पि॑तृ॒याच्छ-म्भ॑वासि जा॒मि मि॒त्वा मा वि॑विथ्सि लो॒कात् ॥ यत्र॑ सु॒हार्द॑-स्सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोग॑-न्त॒न्वा(1)॒ग्ग्॒ स्वाया᳚म् ।
अ॒श्लो॒णाङ्गै॒रह्रु॑ता-स्स्व॒र्गे तत्र॑ पश्येम पि॒तर॑-ञ्च पु॒त्रम् ॥ यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा᳚स्यन्नु॒त वा॑ करि॒ष्यन्न् ।
य-द्दे॒वाना॒-ञ्चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒ण-ङ्कृ॑णोतु ॥
यदन्न॒मद्मि॑ बहु॒धा विरू॑पं॒-वाँसो॒ हिर॑ण्यमु॒त गाम॒जामवि᳚म् ।
य-द्दे॒वाना॒-ञ्चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒ण-ङ्कृ॑णोतु ॥
य॒न्मया॑ मन॑सा वा॒चा॒ कृ॒त॒मेनः॑ कदा॒चन ।
सर्वस्मा᳚-न्मेडि॑तो (मेल॑ता) मो॒ग्धि॒ त्वग्ं हि
वेत्थ॑ यथात॒थम् ॥ 6.1ब् ॥
(च॒रे॒म॒ - पु॒त्रग्ं षट्च॑) (अ. 6)

अनुवाकं 7
वात॑रशना ह॒ वा ऋष॑य-श्श्रम॒णा ऊ॒र्ध्वम॑न्थि॒नो ब॑भूवु॒स्ता-नृष॑यो॒-ऽर्थ-मा॑य॒ग्ग्॒स्ते नि॒लाय॑-मचर॒ग्ग्॒स्ते-ऽनु॑प्रविशुः कूश्मा॒ण्डानि॒ ताग्​-स्तेष्वन्व॑विन्द-ञ्छ्र॒द्धया॑ च॒ तप॑सा च॒ , तानृष॑यो-ऽब्रुवन् क॒था नि॒लाय॑-ञ्चर॒थेति॒ त ऋषी॑नब्रुव॒न्नमो॑ वो-ऽस्तु भगवन्तो॒-ऽस्मि-न्धा᳚म्नि॒ केन॑ व-स्सपर्या॒मेति॒ तानृष॑यो-ऽब्रुव-न्प॒वित्र॑-न्नो ब्रूत॒ येना॑रे॒पस॑-स्स्या॒मेति॒ त ए॒तानि॑ सू॒क्तान्य॑पश्य॒न्॒. ,
य-द्दे॑वा देव॒हेड॑नं॒ (देव॒हेल॑नं॒) ँयददी᳚व्यन्नृ॒णम॒ह-म्ब॒भूवायु॑ष्टे वि॒श्वतो॑
दध॒दित्ये॒तैराज्य॑-ञ्जुहुत वैश्वान॒राय॒ प्रति॑वेदयाम॒ इत्युप॑तिष्ठत॒ यद॑र्वा॒चीन॒मेनो᳚ भ्रूणह॒त्याया॒स्तस्मा᳚-न्मोक्ष्यद्ध्व॒ इति॒ ,त ए॒तैर॑जुहवु॒स्ते-ऽरे॒पसो॑-ऽभवन् कर्मा॒दिष्वे॒तै-र्जु॑हुया-त्पू॒तो दे॑वलो॒का-न्थ्सम॑श्नुते ॥ 7 ॥

अनुवाकं 8
कू॒श्मा॒ण्डै-र्जु॑हुया॒-द्यो-ऽपू॑त इव॒ मन्ये॑त॒ यथा᳚ स्ते॒नो यथा᳚ भ्रूण॒हैवमे॒ष भ॑वति॒ यो-ऽयोनौ॒ रेत॑-स्सि॒ञ्चति॒, यद॑र्वा॒चीन॒मेनो᳚ भ्रूणह॒त्याया॒स्तस्मा᳚-न्मुच्यते॒ याव॒देनो॑ दी॒क्षामुपै॑ति दीक्षि॒त ए॒तै-स्स॑त॒ति जु॑होति सं​वँथ्स॒र-न्दी᳚क्षि॒तो भ॑वति सं​वँथ्स॒रादे॒वात्मान॑-म्पुनीते॒ मास॑-न्दीक्षि॒तो भ॑वति॒ यो मास॒-स्स सं​वँथ्स॒र-स्सं॑​वँथ्स॒रादे॒वात्मान॑-म्पुनीते॒ चतु॑र्विग्ंशति॒ग्ं॒ रात्री᳚र्दीक्षि॒तो भ॑वति॒ चतु॑र्विग्ंशति-रर्धमा॒सा-स्सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रादे॒वात्मान॑-म्पुनीते॒ द्वाद॑श॒ रात्री᳚र्दीक्षि॒तो भ॑वति॒ द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रादे॒वात्मान॑-म्पुनीते॒ षड्रात्री᳚र्दीक्षि॒तो भ॑वति॒ षड्वा ऋ॒तव॑-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒रादे॒वात्मान॑-म्पुनीते ति॒स्रो रात्री᳚-र्दीक्षि॒तो भ॑वति त्रि॒पदा॑ गाय॒त्री गा॑यत्रि॒या ए॒वात्मान॑-म्पुनीते॒ न मा॒ग्ं॒सम॑श्ञीया॒न्न स्त्रिय॒मुपे॑या॒न्नोपर्या॑सीत॒ जुगु॑फ्से॒तानृ॑ता॒त्पयो᳚ ब्राह्म॒णस्य॑ व्र॒तं-यँ॑वा॒गू रा॑ज॒न्य॑स्या॒मिक्षा॒ वैश्य॒स्याथो॑ सौ॒म्ये-ऽप्य॑द्ध्व॒र ए॒तद्व्र॒त-म्ब्रू॑या॒-द्यदि॒ मन्ये॑-तोप॒दस्या॒मीत्यो॑द॒न-न्धा॒ना-स्सक्तू᳚-ङ्घृ॒तमित्यनु॑व्रतयेदा॒त्मनो-ऽनु॑पदासाय ॥ 8 ॥

अनुवाकं 9
अ॒जान्. ह॒ वै पृश्ञीग्॑स्तप॒स्यमा॑ना॒-न्ब्रह्म॑ स्वय॒म्भ्व॑भ्यान॑र्​ष॒त्त ऋष॑यो-ऽभव॒-न्तदृषी॑णा-मृषि॒त्व-न्ता-न्दे॒वता॒मुपा॑तिष्ठन्त य॒ज्ञका॑मा॒स्त ए॒त-म्ब्र॑ह्मय॒ज्ञ-म॑पश्य॒न्-तमा-ऽह॑र॒न्-तेना॑यजन्त॒ यदृ॒चो-ऽद्ध्यगी॑षत॒ ताः पय॑ आहुतयो दे॒वाना॑मभव॒न्॒. य-द्यजूग्ं॑षि घृ॒ताहु॑तयो॒ य-थ्सामा॑नि॒ सोमा॑हुतयो॒ यदथ॑र्वाङ्गि॒रसो॒ मद्ध्वा॑हुतयो॒ यद्ब्रा᳚ह्म॒णानी॑तिहा॒सान्-पु॑रा॒णानि॒ कल्पा॒-न्गाथा॑ नाराश॒ग्ं॒सीर्मे॑दाहु॒तयो॑ दे॒वाना॑-मभव॒न्ताभिः॒, क्षुध॑-म्पा॒प्मान॒-मपा᳚घ्न॒-न्नप॑हतपाप्मानो दे॒वा-स्स्व॒र्गं-लोँ॒कमा॑य॒-न्ब्रह्म॑ण॒-स्सायु॑ज्य॒-मृष॑यो-ऽगच्छन्न् ॥ 9 ॥

अनुवाकं 10
पञ्च॒ वा ए॒ते म॑हाय॒ज्ञा-स्स॑त॒ति प्रता॑यन्ते सत॒ति सन्ति॑ष्ठन्ते देवय॒ज्ञः पि॑तृय॒ज्ञो भू॑तय॒ज्ञो म॑नुष्यय॒ज्ञो ब्र॑ह्मय॒ज्ञ इति॒ यद॒ग्नौ जु॒होत्य॒पि स॒मिध॒-न्त-द्दे॑वय॒ज्ञ-स्सन्ति॑ष्ठते॒ य-त्पि॒तृभ्य॑-स्स्व॒धा क॒रोत्यप्य॒पस्त-त्पि॑तृय॒ज्ञ-स्सन्ति॑ष्ठते॒य-द्भू॒तेभ्यो॑ ब॒लिग्ं हर॑ति॒ त-द्भू॑तय॒ज्ञ-स्सन्ति॑ष्ठते॒ यद्ब्रा᳚ह्म॒णेभ्यो-ऽन्न॒-न्ददा॑ति॒ तन्म॑नुष्यय॒ज्ञ-स्सन्ति॑ष्ठते॒ यथ्स्वा᳚द्ध्या॒य-मधी॑यी॒-तैका॑मप्यृ॒चं-यँजुः॒-साम॑ वा॒ तद्ब्र॑ह्मय॒ज्ञ-स्सन्ति॑ष्ठते॒ यदृ॒चो-ऽधी॑ते॒ पय॑सः॒ कूल्या॑ अस्य पि॒तॄ-न्थ्स्व॒धा अ॒भिव॑हन्ति॒ य-द्यजूग्ं॑षि घृ॒तस्य॑ कूल्या॒ य-थ्सामा॑नि॒ सोम॑ एभ्यः पवते॒ यदथ॑र्वाङ्गि॒रसो॒ मधोः᳚ कूल्या॒ यद्ब्रा᳚ह्म॒णा-नी॑तिहा॒सान्-पु॑रा॒णानि॒ कल्पा॒-न्गाथा॑ नाराश॒ग्ं॒सी-र्मेद॑सः॒ कूल्या॑ अस्य पि॒तॄन्-थ्स्व॒धा अ॒भिव॑हन्ति॒ यदृ॒चो-ऽधी॑ते॒ पय॑ आहुतिभिरे॒व त-द्दे॒वाग्​स्त॑र्पयति॒ य-द्यजूग्ं॑षि घृ॒ताहु॑तिभि॒र्य-थ्सामा॑नि॒ सोमा॑हुतिभि॒-र्यदथ॑र्वाङ्गि॒रसो॒ मद्ध्वा॑हुतिभि॒-र्यद्ब्रा᳚ह्म॒णा-नी॑तिहा॒सान्-पु॑रा॒णानि॒ कल्पा॒-न्गाथा॑ नाराश॒ग्ं॒सी-र्मे॑दाहु॒तिभि॑रे॒व त-द्दे॒वाग्​स्त॑र्पयति॒ त ए॑न-न्तृ॒प्ता आयु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑सा ब्रह्मवर्च॒सेना॒न्नाद्ये॑न च तर्पयन्ति ॥ 10 ॥

अनुवाकं 11
ब्र॒ह्म॒य॒ज्ञेन॑ य॒क्ष्यमा॑णः॒ प्राच्या᳚-न्दि॒शि ग्रामा॒दछ॑दिर्द॒र्॒श उदी᳚च्या-म्प्रागुदी॒च्यां-वोँ॒दित॑ आदि॒त्ये द॑क्षिण॒त उ॑प॒वीयो॑प॒विश्य॒ हस्ता॑वव॒निज्य॒ त्रिराचा॑मे॒द्द्विः प॑रि॒मृज्य॑ स॒कृदु॑प॒स्पृश्य॒ शिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ्य॒ य-त्त्रिरा॒चाम॑ति॒ तेन॒ ऋचः॑ प्रीणाति॒ यद्द्विः प॑रि॒मृज॑ति॒ तेन यजूग्ं॑षि॒ य-थ्स॒कृदु॑प॒स्पृश॑ति॒ तेन॒ सामा॑नि॒ (य-थ्स॒व्य-म्पा॒णि पा॒दौ प्रो॒क्षति॒) यच्छिर॒श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृद॑यमा॒लभ॑ते॒ तेनाथ॑र्वाङ्गि॒रसो᳚ ब्राह्म॒णा-नी॑तिहा॒सा-न्पु॑रा॒णानि॒ कल्पा॒-न्गाथा॑ नाराश॒ग्ं॒सीः प्री॑णाति॒ दर्भा॑णा-म्म॒हदु॑प॒स्तीर्यो॒पस्थ॑-ङ्कृ॒त्वा प्रांआसी॑न-स्स्वाद्ध्या॒यमधी॑यीता॒पां-वाँ ए॒ष ओष॑धीना॒ग्ं॒ रसो॒ य-द्द॒र्भा-स्सर॑समॆ॒व ब्रह्म॑ कुरुते दक्षिणोत्त॒रौ पा॒णी (पा॒दौ) कृ॒त्वा सप॒वित्रा॒वोमिति॒ प्रति॑पद्यत ए॒तद्वै यजु॑स्त्रयीं-विँ॒द्या-म्प्रत्ये॒षा वागे॒तत्प॑र॒मम॒क्षर॒-न्तदे॒तदृ॒चा-ऽभ्यु॑क्तमृ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्॒. यस्मि॑-न्दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॒ त्रीने॒व प्रायु॑ङ्क्त॒ भूर्भुव॒स्स्व॑रित्या॑है॒तद्वै वा॒च-स्स॒त्यं-यँदे॒व वा॒च-स्स॒त्य-न्त-त्प्रायु॒ङ्क्ताथ॑ सावि॒त्री-ङ्गा॑य॒त्री-न्त्रिरन्वा॑ह प॒च्छो᳚-ऽर्धर्च॑शो-ऽनवा॒नग्ं स॑वि॒ता श्रियः॑ प्रसवि॒ता श्रिय॑मे॒वाप्नो॒त् यथो᳚ प्र॒ज्ञात॑यै॒व प्र॑ति॒पदा॒ छन्दाग्ं॑सि॒ प्रति॑पद्यते ॥ 11 ॥

अनुवाकं 12
ग्रामे॒ मन॑सा स्वाद्ध्या॒यमधी॑यीत॒ दिवा॒ नक्तं॑-वेँ॒ति ह॑ स्मा॒ह शौ॒च आ᳚ह्ने॒य उ॒तार॑ण्ये॒-ऽबल॑ उ॒त वा॒चोत तिष्ठ॑न्नु॒त व्रज॑न्नु॒तासी॑न उ॒त शया॑नो॒-ऽधीयी॑तै॒व स्वा᳚द्ध्या॒य-न्तप॑स्वी॒ पुण्यो॑ भवति॒ य ए॒वं-विँ॒द्वान्-थ्स्वा᳚द्ध्या॒यमधी॑ते॒ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥ 12 ॥

अनुवाकं 13
म॒द्ध्यन्दि॑ने प्र॒बल॒मधी॑यीता॒सौ खलु॒ वावैष आ॑दि॒त्यो यद्ब्रा᳚ह्म॒णस्तस्मा॒त्तर्​हि॒ तेक्ष्णि॑ष्ठ-न्तपति॒ तदे॒षा-ऽभ्यु॑क्ता ॥
चि॒त्र-न्दे॒वाना॒मुद॑गा॒दनी॑क॒-ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ-ऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ग्ं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॒श्चेति॒ स वा ए॒ष य॒ज्ञ-स्स॒द्यः प्रता॑यते स॒द्य-स्सन्ति॑ष्ठते॒ तस्य॒ प्राख्सा॒यम॑वभृ॒थो नमो॒ ब्रह्म॑ण॒ इति॑ परिधा॒नीया॒-न्त्रिरन्वा॑हा॒प उ॑प॒स्पृश्य॑ गृ॒हाने॑ति॒ ततो॒ यत्किञ्च॒ ददा॑ति॒ सा दक्षि॑णा ॥ 13 ॥

अनुवाकं 14
तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ मेघो॑ हवि॒र्धानं॑-विँ॒द्युद॒ग्निर्व॒र्॒षग्ं ह॒वि-स्स्त॑नयि॒त्नु-र्व॑षट्का॒रो यद॑व॒स्फूर्ज॑ति॒ सो-ऽनु॑वषट्का॒रो वा॒युरा॒त्मा-ऽमा॑वा॒स्या᳚ स्विष्ट॒कृद्य ए॒वं-विँ॒द्वान्मे॒घे व॒र्॒षति॑ वि॒द्योत॑माने स्त॒नय॑त्यव॒स्फूर्ज॑ति॒ पव॑माने वा॒याव॑मावा॒स्या॑याग्​ स्वाद्ध्या॒यमधी॑ते॒
तप॑ ए॒व तत्त॑प्यते॒ तपो॑ हि स्वाद्ध्या॒य इत्यु॑त्त॒म-न्नाकग्ं॑ रोहत्युत्त॒म-स्स॑मा॒नाना᳚-म्भवति॒ याव॑न्तग्ं ह॒ वा इ॒मां-विँ॒त्तस्य॑ पू॒र्णा-न्दद॑थ्स्व॒र्गं-लोँ॒क-ञ्ज॑यति॒ ताव॑न्तं-लोँ॒क-ञ्ज॑यति॒ भूयाग्ं॑स-ञ्चाक्ष॒य्य-ञ्चाप॑ पुनर्मृ॒त्यु-ञ्ज॑यति॒ ब्रह्म॑ण॒-स्सायु॑ज्य-ङ्गच्छति ॥ 14 ॥

अनुवाकं 15
तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वाव॑नद्ध्या॒यौ यदा॒-ऽऽत्मा-ऽशुचि॒-र्य-द्दे॒श-स्समृ॑द्धिर्दैव॒तानि॒ य ए॒वं-विँ॒द्वा-न्म॑हारा॒त्र उ॒षस्युदि॑ते॒ व्रज॒ग्ग्॒स्तिष्ठ॒-न्नासी॑न॒-श्शया॑नो॒-ऽरण्ये᳚ ग्रामे॒ वा याव॑त्त॒रसग्ग्॑ स्वाद्ध्या॒यमधी॑ते॒ सर्वा᳚न् ँलो॒काञ्ज॑यति॒ सर्वा᳚न् ँलो॒कान॑नृ॒णो-ऽनु॒ सञ्च॑रति॒ तदे॒षा-ऽभ्यु॑क्ता ॥ अ॒नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिग्ग्​स्तृ॒तीये॑ लो॒के अ॑नृ॒णा-स्स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणा॒-स्सर्वा᳚-न्प॒थो अ॑नृ॒णा आक्षी॑ये॒मेत्य॒ग्निं-वैँ जा॒त-म्पा॒प्मा ज॑ग्राह॒ तन्दे॒वा आहु॑तीभिः पा॒प्मान॒मपा᳚घ्न॒-न्नाहु॑तीनां-यँ॒ज्ञेन॑ य॒ज्ञस्य॒ दक्षि॑णाभि॒-र्दक्षि॑णाना-म्ब्राह्म॒णेन॑ ब्राह्म॒णस्य॒ छन्दो॑भि॒-श्छन्द॑साग्​ स्वाद्ध्या॒येनाप॑हतपाप्मा स्वाद्ध्या॒यो॑ दे॒वप॑वित्रं॒-वाँ ए॒तत्तं-योँ-ऽनू᳚-थ्सृ॒जत्यभा॑गो वा॒चि भ॑व॒त्यभा॑गो ना॒के तदे॒षा-ऽभ्यु॑क्ता ॥ यस्ति॒त्याज॑ सखि॒विद॒ग्ं॒ सखा॑य॒-न्न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति । यदीग्ं॑ शृ॒णोत्य॒लकग्ं॑ शृणोति॒ न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॒ तस्मा᳚-थ्स्वाद्ध्या॒यो-ऽद्ध्ये॑त॒व्यो॑ यं-यँ॑-ङ्क्र॒तुमधी॑ते॒ तेन॑ तेनास्ये॒ष्ट-म्भ॑वत्य॒ग्ने-र्वा॒यो-रा॑दि॒त्यस्य॒ सायु॑ज्य-ङ्गच्छति॒ तदे॒षा-ऽभ्यु॑क्ता ॥
ये अ॒र्वांउ॒त वा॑ पुरा॒णे वे॒दं-विँ॒द्वाग्ंस॑म॒भितो॑ वदन्त्यादि॒त्यमे॒व ते परि॑वदन्ति॒ सर्वे॑ अ॒ग्नि-न्द्वि॒तीय॑-न्तृ॒तीय॑-ञ्च ह॒ग्ं॒समिति॒ याव॑ती॒र्वै दे॒वता॒स्ता-स्सर्वा॑ वेद॒विदि॑ ब्राह्म॒णे व॑सन्ति॒ तस्मा᳚-द्ब्राह्म॒णेभ्यो॑ वेद॒विद्भ्यो॑ दि॒वेदि॑वे॒ नम॑स्कुर्या॒न्नाश्ली॒ल-ङ्की᳚र्तयेदे॒ता ए॒व दे॒वताः᳚ प्रीणाति ॥ 15 ॥

अनुवाकं 16
रिच्य॑त इव॒ वा ए॒ष प्रेव रि॑च्यते॒ यो या॒जय॑ति॒ प्रति॑ वा गृ॒ह्णाति॑ या॒जयि॑त्वा प्रतिगृ॒ह्य वा-ऽन॑श्न॒न्त्रि-स्स्वा᳚द्ध्या॒यं-वेँ॒दमधी॑यीत त्रिरा॒त्रं-वाँ॑ सावि॒त्री-ङ्गा॑य॒त्री-म॒न्वाति॑रेचयति॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरग्ग्॑ स्पृणोत्या॒त्मा हि वरः॑ ॥ 16 ॥

अनुवाकं 17
दु॒हे ह॒ वा ए॒ष छन्दाग्ं॑सि॒ यो या॒जय॑ति॒ स येन॑ यज्ञक्र॒तुना॑ या॒जये॒-थ्सो-ऽर॑ण्य-म्प॒रेत्य॑ शुचौ दे॒शे स्वा᳚द्ध्या॒य-मे॒वैन॒-मधी॑यन्नासी॒त तस्या॒नश॑न-न्दी॒क्षा स्था॒नमु॑प॒सद॒ आस॑नग्ं सु॒त्या वाग्जु॒हूर्मन॑ उप॒भृद्धृ॒तिर्ध्रु॒वा प्रा॒णो ह॒वि-स्सामा᳚द्ध्व॒र्यु-स्स वा ए॒ष य॒ज्ञः
प्रा॒णद॑क्षि॒णो-ऽन॑न्तदक्षिण॒-स्समृ॑द्धतरः ॥ 17 ॥

अनुवाकं 18
क॒ति॒धा-ऽव॑कीर्णी प्रवि॒शति॑ चतु॒र्धेत्या॑हु-र्ब्रह्मवा॒दिनो॑ म॒रुतः॑ प्रा॒णैरिन्द्र॒-म्बले॑न॒ बृह॒स्पति॑-म्ब्रह्मवर्च॒सेना॒ग्निमे॒वेत॑रेण॒ सर्वे॑ण॒ तस्यै॒ता-म्प्राय॑श्चित्तिं-विँ॒दाञ्च॑कार सुदे॒वः का᳚श्य॒पो यो
ब्र॑ह्मचा॒र्य॑व॒किरे॑दमावा॒स्या॑या॒ग्ं॒ रात्र्या॑म॒ग्नि-म्प्र॒णीयो॑पसमा॒धाय॒ द्विराज्य॑स्योप॒घात॑-ञ्जुहोति॒ कामाव॑कीर्णो॒-ऽस्म्यव॑कीर्णो-ऽस्मि॒ काम॒ कामा॑य॒ स्वाहा॒ कामाभि॑द्रुग्धो॒-ऽस्म्यभि॑द्रुग्धो-ऽस्मि॒ काम॒ कामा॑य॒ स्वाहेत्य॒मृतं॒-वाँ आज्य॑म॒मृत॑मे॒वात्म-न्ध॑त्ते हु॒त्वा प्रय॑ताञ्ज॒लिः कवा॑तिर्यङ्ङ॒ग्निम॒भि म॑न्त्रयेत॒ स-म्मा॑ सिञ्चन्तु म॒रुत॒-स्समिन्द्र॒-स्सम्बृह॒स्पतिः॑ ।
स-म्मा॒-ऽयम॒ग्नि-स्सि॑ञ्च॒त्वायु॑षा च॒ बले॑न॒ चायु॑ष्मन्त-ङ्करोत॒ मेति॒ प्रति॑ हास्मै म॒रुतः॑ प्रा॒णा-न्द॑धति॒ प्रतीन्द्रो॒ बल॒-म्प्रति॒ बृह॒स्पति॑-र्ब्रह्मवर्च॒स-म्प्रत्य॒ग्निरि॒तर॒थ्सर्व॒ग्ं॒ सर्व॑तनुर्भू॒त्वा सर्व॒मायु॑रेति॒ त्रिर॒भिम॑न्त्रयेत॒ त्रिष॑त्या॒ हि दे॒वा यो-ऽपू॑त इव॒ मन्ये॑त॒ स इ॒त्थ-ञ्जु॑हुयादि॒त्थ-म॒भिम॑न्त्रयेत॒ पुनी॑त ए॒वात्मान॒-मायु॑रे॒वात्म-न्ध॑त्ते॒ वरो॒ दक्षि॑णा॒ वरे॑णै॒व वरग्ग्॑ स्पृणोत्या॒त्मा हि वरः॑ ॥ 18 ॥

अनुवाकं 19
भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ स्वः॑ प्रप॑द्ये॒ भूर्भुव॒स्स्वः॑ प्रप॑द्ये॒ ब्रह्म॒ प्रप॑द्ये ब्रह्मको॒श-म्प्रप॑द्ये॒-ऽमृत॒-म्प्रप॑द्ये-ऽमृतको॒श-म्प्रप॑द्ये चतुर्जा॒ल-म्ब्र॑ह्मको॒शं-यँ-म्मृ॒त्युर्नाव॒पश्य॑ति॒ त-म्प्रप॑द्ये दे॒वा-न्प्रप॑द्ये देवपु॒र-म्प्रप॑द्ये॒ परी॑वृतो॒ वरी॑वृतो॒ ब्रह्म॑णा॒ वर्म॑णा॒-ऽह-न्तेज॑सा॒ कश्य॑पस्य॒ यस्मै॒ नम॒स्तच्छिरो॒ धर्मो॑ मू॒र्धान॑-म्ब्र॒ह्मोत्त॑रा॒ हनु॑र्य॒ज्ञो-ऽध॑रा॒ विष्णु॒र्॒ हृद॑यग्ं सं​वँथ्स॒रः प्र॒जन॑नम॒श्विनौ॑ पूर्व॒पादा॑व॒त्रिर्मद्ध्य॑-म्मि॒त्रावरु॑णा वपर॒पादा॑व॒ग्निः पुच्छ॑स्य प्रथ॒म-ङ्काण्ड॒-न्तत॒ इन्द्र॒स्ततः॑ प्र॒जाप॑ति॒रभ॑य-ञ्चतु॒र्थग्ं स वा ए॒ष दि॒व्य-श्शा᳚क्व॒र-श्शिशु॑मार॒स्तग्ं ह॒ य ए॒वं-वेँदाप॑ पुनर्मृ॒त्यु-ञ्ज॑यति॒ जय॑ति स्व॒र्गं-लोँ॒क-न्नाद्ध्वनि॒ प्रमी॑यते॒ नाफ्सु प्रमी॑यते॒ नाग्नौ प्रमी॑यते॒ नान॒पत्यः॑ प्रमी॒यते॑ ल॒घ्वान्नो॑ भवति ध्रु॒वस्त्वम॑सि ध्रु॒वस्य क्षि॑तमसि॒ त्व-म्भू॒ताना॒मधि॑पतिरसि॒ त्व-म्भू॒ताना॒ग्॒ श्रेष्ठो॑-ऽसि॒ त्वा-म्भू॒तान्युप॑प॒र्याव॑र्तन्ते॒ नम॑स्ते॒ नम॒-स्सर्व॑-न्ते॒ नमो॒ नमः॑ ॥
[फाट भ्हेदम् - नमो॒ नम॑-श्शिशुकुमाराय॒ नमः॑ ] ॥ 19 ॥

अनुवाकं 20
नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमो दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमः॒ प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नम॑ ऊ॒र्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमो-ऽध॑रायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमो॑-ऽवान्त॒रायै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्या॒-म्प्रति॑वसन्त्ये॒ ताभ्य॑श्च॒ नमो॒ नमो गङ्गायमुनयोर्मद्ध्ये ये॑ वस॒न्ति॒ ते मे प्रसन्नात्मानस्चिर-ञ्जीवितं-वँ॑र्धय॒न्ति॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गङ्गायमुनयोर्मुनि॑भ्यश्च॒ नमः ॥ 20 ॥

(सह॒ - रक्षाग्ं॑सि॒ - य-द्दे॑वा-स्स॒प्तद॑श॒ - यददी᳚व्य॒-न्पञ्च॑दश॒ - यु॑ष्टे॒ चतु॑स्त्रिग्ंश-द्- वैश्वान॒राय॒ षड्विग्ं॑शति॒-र्वात॑रशना ह - कुश्मा॒ण्डै- र॒जान्. ह॒ - पञ्च॑ - ब्रह्मय॒ज्ञेन॒ - ग्रामे॑ - म॒द्ध्यन्दि॑ने॒ - तस्य॒ वै मेघ॒ - स्तस्य॒ वै द्वौ - रिच्य॑ते - दु॒हे ह॑ - कति॒धा-ऽव॑कीर्णी॒ - भू--र् नमः॒ प्राच्यै॑ विग्ंश॒तिः )

(सह॑ वै - मुनि॑भ्यश्च॒ नमः )

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके द्वितीयः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: