View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.9 - अष्टादशिनां पशूनां प्रयोगः - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - प्रजापतिः अश्वमेधम्

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके नवमः प्रपाठकः - अष्टादशिना-म्पशूना-म्प्रयोगः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

(अश्वमेधस्य द्वितीय-तृतीया हर्विधानम्)

अनुवाकं 1 - अष्टादशिना-ङ्ग्राभ्याणां आरण्याना-ञ्च पशूना-म्प्रयोगः
प्र॒जाप॑ति-रश्वमे॒धम॑सृजत । सो᳚-ऽस्माथ्सृ॒ष्टो-ऽपा᳚क्रामत् ।
तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तमा᳚प्नोत् । तमा॒प्त्वा ऽष्टा॑द॒शिभि॒रवा॑रुन्ध ।
यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते᳚ । य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नो-ऽव॑रुन्धे ॥
सं॒​वँ॒थ्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा । यद॑ष्टाद॒शिनः॑ ।
द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ ॥ 1 ॥

सं॒​वँ॒थ्स॒रो᳚-ऽष्टाद॒शः । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ ।
सं॒​वँ॒थ्स॒रमे॒व तैरा॒प्त्वा
यजमा॒नो-ऽव॑रुन्धे ॥
अ॒ग्नि॒ष्ठे᳚ ऽन्या-न्प॒शूनु॑पा-क॒रोति॑ ।
इत॑रेषु॒ यूपे᳚ष्वष्टाद॒शिनो-ऽजा॑मित्वाय ॥
नव॑ न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ ॥ यदा॑र॒ण्यै-स्सग्ग्॑ स्था॒पये᳚त् । व्यव॑स्येता-म्पिता पु॒त्रौ । व्यद्ध्वा॑नः क्रामेयुः ।
विदू॑र॒-ङ्ग्राम॑यो र्ग्रामा॒न्तौ स्या॑ताम् ॥ 2 ॥

ऋ॒क्षीकाः᳚ पुरुषव्या॒घ्राः प॑रिमो॒षिण॑ आव्या॒धिनी॒-स्तस्क॑रा॒ अर॑ण्ये॒ष्वा-जा॑येरन्न् ॥
तदा॑हुः । अप॑शवो॒ वा ए॒ते । यदा॑र॒ण्याः ।
यदा॑र॒ण्यै-स्सग्ग्॑स्था॒पये᳚त । क्षि॒प्रे यज॑मान॒-मर॑ण्य-म्मृ॒तग्ं ह॑रेयुः ।
अर॑ण्यायतना॒ ह्या॑र॒ण्याः प॒शव॒ इति॑ । यत्प॒शून्नालभे॑त । अन॑वरुद्धा अस्य प॒शव॑-स्स्युः । यत्पर्य॑ग्नि-कृतानुथ्सृ॒जेत् ॥ 3 ॥

य॒ज्ञ॒वे॒श॒स-ङ्कु॑र्यात् ॥ यत्प॒शूना॒लभ॑ते । तेनै॒व प॒शूनव॑रुन्धे ।
यत्पर्य॑ग्नि-कृतानुथ्सृ॒जत्य-य॑ज्ञवेशसाय ।
अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति ।
न य॑ज्ञवेश॒ सम्भ॑वति ।
न यज॑मान॒-मर॑ण्य-म्मृ॒तग्ं ह॑रन्ति ॥
ग्रा॒म्यै-स्सग्ग्​स्था॑पयति । ए॒ते वै प॒शवः॒, क्षेमो॒ नाम॑ । स-म्पि॑ता पु॒त्राव व॑स्यतः । समद्ध्वा॑नः क्रामन्ति ।
स॒म॒न्ति॒क-ङ्ग्राम॑यो-र्ग्रामा॒न्तौ भ॑वतः ।
नर्क्षीकाः᳚ पुरुषव्या॒घ्राः प॑रिमो॒षिण॑ आव्या॒धिनी॒-स्तस्क॑रा॒ अर॑ण्ये॒ष्वा जा॑यन्ते ॥ 4 ॥
(ऋ॒तवः॑ - स्याता - मुथ्सृ॒जेथ् - स्य॑त॒स्त्रीणि॑ च)(आ1)

अनुवाकं 2 - चातुर्मास्यपशूना-म्प्रयोगः
प्र॒जाप॑तिर-कामयतो॒भौ लो॒काव-व॑रुन्धी॒येति॑ ।
स ए॒तानु॒भया᳚-न्प॒शून॑ पश्यत् । ग्रा॒म्याग्​श्चा॑-र॒ण्याग्​श्च॑ । तानाल॑भत ।
तैर्वै स उ॒भौ लो॒काव वा॑रुन्ध । ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मं-लोँ॒कम वा॑रुन्ध ।
आ॒र॒ण्यैर॒मुम् । यद्ग्रा॒म्या-न्प॒शूना॒लभ॑ते ।
इ॒ममे॒व तैर्लो॒कमव॑रुन्धे । यदा॑र॒ण्यान् ॥ 5 ॥

अ॒मु-न्तैः ॥ अन॑वरुद्धो॒ वा ए॒तस्य॑ सं​वँथ्स॒र इत्या॑हुः । य इ॒त इ॒तश्चातुर्मा॒स्यानि॑ सं॒​वँथ्स॒र-म्प्र॑यु॒ङ्क्त इति॑ ।
ए॒तावा॒न्॒. वै सं॑​वँथ्स॒रः । यच्चा॑तुर्मा॒स्यानि॑ । यदे॒ते चातु॑र्मा॒स्याः प॒शव॑ आल॒भ्यन्ते᳚ । प्र॒त्यक्ष॑मे॒व तै-स्सं॑​वँथ्स॒रं-यँज॑मा॒नो-ऽव॑रुन्धे । ॥
वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्-ऋद्ध्यते ।
य-स्सं॑​वँथ्स॒र-म्प्र॑यु॒ङ्क्ते । सं॒​वँ॒थ्स॒र-स्सु॑व॒र्गो लो॒कः ॥ 6 ॥

सु॒व॒र्ग-न्तु लो॒क-न्नाप॑राद्ध्नोति ।
प्र॒जा वै प॒शव॑ एकाद॒शिनी᳚ ।
यदे॒त ऐ॑कादशि॒नाः प॒शव॑ आल॒भ्यन्ते᳚ ।
सा॒क्षादे॒व प्र॒जा-म्प॒शून्. यज॑मा॒नो-ऽव॑रुन्धे ॥ प्र॒जाप॑ति-र्वि॒राज॑मसृजत ।
सा सृ॒ष्टा-ऽश्व॑मे॒ध-म्प्रावि॑शत् ।
ता-न्द॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तामा᳚प्नोत् ।
तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध । यद्द॒शिन॑ आल॒भ्यन्ते᳚ ॥ 7 ॥

वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नो-ऽव॑रुन्धे ॥
एका॑दश द॒शत॒ आल॑भ्यन्ते । एका॑दशाक्षरा त्रि॒ष्टुप् । त्रैष्टु॑भाः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे ॥ वै॒श्व॒दे॒वो वा अश्वः॑। ना॒ना॒दे॒व॒त्याः᳚ प॒शवो॑ भवन्ति ।
अश्व॑स्य सर्व॒त्वाय॑ । नाना॑रूपा भवन्ति । तस्मा॒न्नाना॑रूपाः प॒शवः॑( ) ।
ब॒हु॒रू॒पा भ॑वन्ति । तस्मा᳚-द्बहुरू॒पाः प॒शव॒-स्समृ॑द्ध्यै ॥ 8 ॥
(आ॒र॒ण्यान्-ँलो॒को-द॒शिन॑ आल॒भ्यन्ते॒-नाना॑रूपाः प॒शवो॒ द्वे च॑) (अ. 2)

अनुवाकं 3 - रोहितादीना-म्पशूनां-वँपाहोमसाहित्यम्
अ॒स्मै वै लो॒काय॑ ग्रा॒म्याः प॒शव॒ आल॑भ्यन्ते । अ॒मुष्मा॑ आर॒ण्याः । यद्ग्रा॒म्या-न्प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑रुन्धे । यदा॑र॒ण्यान् । अ॒मु-न्तैः । उ॒भया᳚-न्प॒शूनाल॑भते । ग्रा॒म्याग्​श्चा॑-र॒ण्याग्​श्च॑ ।
उ॒भयो᳚-र्लो॒कयो॒र व॑रुद्ध्यै । उ॒भया᳚-न्प॒शूनाल॑भते ॥ 9 ॥

ग्रा॒म्याग्​श्चा॑-र॒ण्याग्​श्च॑ । उ॒भय॑स्या॒-न्नाद्य॒स्या-व॑रुद्ध्यै । उभया᳚-न्प॒शूनालभते । ग्राम्याग्​श्चा॑र॒ण्याग्​श्च॑ ।
उ॒भये॑षा-म्पशू॒नामव॑रुद्ध्यै ॥
त्रय॑स्त्रयो भवन्ति । त्रय॑ इ॒मे लो॒काः ।
ए॒षां-लोँ॒काना॒माप्त्यै᳚ ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा᳚थ्स॒त्यात् ॥ 10 ॥

अ॒स्मिन् ँलो॒के ब॒हवः॒ कामा॒ इति॑ ।
यथ्स॑मा॒नीभ्यो॑ दे॒वता᳚भ्यो॒-ऽन्ये᳚-ऽन्ये प॒शव॑ आल॒भ्यन्ते᳚ । अ॒स्मिन्ने॒व तल्लो॒के कामा᳚न्दधाति । तस्मा॑द॒स्मिन्-ँलो॒के ब॒हवः॒ कामाः᳚ ॥ त्र॒या॒णा-न्त्र॑याणाग्ं स॒ह व॒पा जु॑होति । त्र्या॑वृतो॒ वै दे॒वाः ।
त्र्या॑वृत इ॒मे लो॒काः । ए॒षां-लोँ॒काना॒माप्त्यै᳚ । ए॒षां-लोँ॒काना॒-ङ्क्लृप्त्यै᳚ ॥ पर्य॑ग्नि-कृता-नार॒ण्या-नुथ्सृ॑ज॒न्त्यहिग्ं॑सायै ॥ 11 ॥
(अव॑रुद्ध्या उ॒भया᳚-न्प॒शूनाल॑भते - स॒त्या - दहिग्ं॑सायै)(आ3)

अनुवाकं 4 - अश्वस्य रथयोजनालङ्कारादयः
यु॒ञ्जन्ति॑ ब्र॒द्ध्नमित्या॑ह । अ॒सौ वा आ॑दि॒त्यो ब्र॒द्ध्नः । आ॒दि॒त्य-मे॒वास्मै॑ युनक्ति । अ॒रु॒षमित्या॑ह । अ॒ग्निर्वा अ॑रु॒षः ।
अ॒ग्निमे॒वास्मै॑ युनक्ति । चर॑न्त॒मित्या॑ह । वा॒युर्वै चरन्न्॑ । वा॒युमे॒वास्मै॑ युनक्ति । परि॑त॒स्थुष॒ इत्या॑ह ॥ 12 ॥

इ॒मे वै लो॒काः परि॑त॒स्थुषः॑ । इ॒मने॒वास्मै॑ लो॒कान्. यु॑नक्ति ॥ रोच॑न्ते रोच॒ना दि॒वीत्या॑ह । नक्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि ।
नक्ष॑त्राण्ये॒वास्मै॑ रोचयति ॥ यु॒ञ्जन्त्य॑स्य॒ काम्येत्या॑ह । कामा॑ने॒वास्मै॑ युनक्ति ॥ हरी॒ विप॑क्ष॒सेत्या॑ह ।
इ॒मे वै हरी॒ विप॑क्षसा । इ॒मे ए॒वास्मै॑ युनक्ति ॥ 13 ॥

शोणा॑ धृ॒ष्णू नृ॒वाह॒सेत्या॑ह । अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा । अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति ॥ ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥
के॒तु-ङ्कृ॒ण्वन्न॑-के॒तव॒ इति॑ द्ध्व॒ज-म्प्रति॑मुञ्चति । यश॑ ए॒वैन॒ग्ं॒ राज्ञा᳚-ङ्गमयति ॥ जी॒मूत॑स्येव भवति॒ प्रती॑क॒मित्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ ये ते॒ पन्था॑न-स्सवितः पू॒र्व्यास॒ इत्य॑द्ध्व॒र्यु-र्यज॑मानं
ँवाचयत्य॒भिजि॑त्यै ॥ 14 ॥

परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति । यस्य॑ प॒शुरु॒पा-कृ॑तो॒-ऽन्यत्र॒ वेद्या॒ एति॑ । एतग्ग्​ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒-माव॑र्तयासि न॒ इत्या॑ह ।
वा॒युर्वै स्तोता᳚ । वा॒युमे॒वास्य॑ प॒रस्ता᳚-द्दधा॒त्यावृ॑त्त्यै ॥ यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं-वाँ ए॒तदश्व॑स्य स्कन्दति । यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते । यद्वाले॑षु का॒चाना॒वय॑न्ति ।
लोमा᳚न्ये॒वास्य॒ तथ्सम्भ॑रन्ति ॥ 15 ॥

भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्या-भि॒राव॑यन्ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
स्वयै॒वैन॑-न्दे॒वत॑या॒ सम॑द्र्धयन्ति ॥ भूरिति॒ महि॑षी । भुव॒ इति॑ वा॒वाता᳚ ।
सुव॒रिति॑ परिवृ॒क्ती । ए॒षां-लोँ॒काना॑-म॒भिजि॑त्यै ॥ हि॒र॒ण्ययाः᳚ का॒चा भ॑वन्ति । ज्योति॒र्वै हिर॑ण्यम् । रा॒ष्ट्रम॑श्वमे॒धः ॥ 16 ॥

ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्र-ञ्च॑ स॒मीची॑ दधाति ॥ स॒हस्र॑-म्भवन्ति । स॒हस्र॑ सम्मित-स्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ॥
अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒य-म्प॒शव॒-श्श्रीः क्रा॑मन्ति । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ।
वस॑वस्त्वा-ऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति । तेजो॒ वा आज्य᳚म् । तेजो॑ गाय॒त्री । तेज॑सै॒वास्मै॒ तेजो-ऽव॑रुन्धे ॥ 17 ॥

रु॒द्रास्त्वा᳚-ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता᳚ । तेजो॒ वा आज्य᳚म् । इ॒न्द्रि॒य-न्त्रि॒ष्टुप् । तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे ।
आ॒दि॒त्या-स्त्वा᳚-ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती । तेजो॒ वा आज्य᳚म् । प॒शवो॒ जग॑ती ।
तेज॑सै॒वास्मै॑ प॒शूनव॑रुन्धे ॥
पत्न॑यो॒-ऽभ्य॑ञ्जन्ति । श्रि॒या वा ए॒त-द्रू॒पम् ॥ 18 ॥

यत्पत्न॑यः । श्रिय॑-मे॒वास्मि॒-न्तद्द॑धति ।
नास्मा॒त्तेज॑ इन्द्रि॒य-म्प॒शव॒-श्श्रीरप॑क्रामन्ति ॥
लाजी(3)ञ्छाची(3)न्. यशो॑ म॒माँ(4) इत्यति॑रिक्त॒-मन्न॒मश्वा॑यो॒ पाह॑रन्ति ।
प्र॒जामे॒वान्ना॒दी-ङ्कु॑र्वते ॥
ए॒तद्दे॑वा॒ अन्न॑मत्तै॒त-दन्न॑मद्धि प्रजापत॒ इत्या॑ह । प्र॒जाया॑मे॒वान्नाद्य॑-न्दधते ॥
यदि॒ नाव॒जिघ्र᳚त् । अ॒ग्निः प॒शुरा॑सी॒दित्यव॑-घ्रापयेत् । अव॑ है॒व जि॑घ्रति ॥
आक्रान॑. वा॒जी क्रमै॒रत्य॑-क्रमीद्वा॒जी द्यौस्ते॑ पृ॒ष्ठ-म्पृ॑थि॒वी
स॒धस्थ॒मित्यश्व॒-मनु॑मन्त्रयते ।
ए॒षां-लोँ॒काना॑-म॒भिजि॑त्यै ॥
समि॑द्धो अ॒ञ्जन्कृद॑र-म्मती॒ना-मित्यश्व॑स्या॒ प्रियो॑ भवन्ति सरूप॒त्वाय॑ ॥ 19 ॥
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च) (अ. 4)

अनुवाकं 5 - ब्रह्मोद्यनामकः होतृब्राह्मणोस्सं​वाँदः
तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ।
होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्यं॑-वँदतः ।
तेज॑सा चै॒वैन॑-म्ब्रह्मवर्च॒सेन॑ च॒ सम॑द्र्धयतः ॥ द॒क्षि॒ण॒तो ब्र॒ह्मा भ॑वति ।
द॒क्षि॒ण॒त आ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्॒ह॒स्प॒त्यो वै ब्र॒ह्मा ।
ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दक्षिण॒तो (दक्षि॒णतो) द॑धाति ।
तस्मा॒-द्दक्षि॒णो-ऽद्र्धो᳚ ब्रह्मवर्च॒सित॑रः ॥
उ॒त्त॒र॒तो होता॑ भवति ॥ 20 ॥

उ॒त्त॒र॒त आ॑यतनो॒ वै होता᳚ । आ॒ग्ने॒यो वै होता᳚ । तेजो॒ वा अ॒ग्निः । तेज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रो-ऽद्र्ध॑-स्तेज॒स्वित॑रः ॥
यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑द्र्धयतः ॥
किग्ग्​ स्वि॑दासीत्-पू॒र्वचि॑त्ति॒-रित्या॑ह ।
द्यौर्वै वृष्टिः॑ पू॒र्वचि॑त्तिः ॥ 21 ॥

दिव॑मे॒व वृष्टि॒मव॑रुन्धे ॥ किग्ग्​ स्वि॑दासी-द्बृ॒हद्वय॒ इत्या॑ह । अश्वो॒ वै बृ॒हद्वयः॑ । अश्व॑मे॒वाव॑रुन्धे ॥ किग्ग्​ स्वि॑दासीत्-पिशङ्गि॒लेत्या॑ह । रात्रि॒र्वै पि॑शङ्गि॒ला ।
रात्रि॑मे॒वाव॑रुन्धे ॥ किग्ग्​ स्वि॑दासीत्-पिलिप्पि॒लेत्या॑ह । श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे ॥ 22 ॥

क-स्स्वि॑देका॒की च॑र॒तीत्या॑ह । अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे ॥
क उ॑ स्विज्जायते॒ पुन॒रित्या॑ह ।
च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ ।
आयु॑रे॒वाव॑रुन्धे ॥
किग्ग्​ स्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह ।
अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥
किग्ग्​ स्वि॑दा॒-वप॑न-म्म॒हदित्या॑ह ॥ 23 ॥

अ॒यं-वैँ लो॒क आ॒वप॑न-म्म॒हत् ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ॥
पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑-म्पृथि॒व्या इत्या॑ह । वेदि॒र्वै परो-ऽन्तः॑ पृथि॒व्याः ।
वेदि॑मे॒वाव॑रुन्धे ॥ पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह ।
य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञमे॒वाव॑रुन्धे ॥
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह ।
सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ । सो॒म॒पी॒थ-मे॒वाव॑रुन्धे ॥
पृ॒च्छामि॑ वा॒चः प॑र॒मं-व्योँ॑मेत्या॑ह । ब्रह्म॒ वै वा॒चः प॑र॒मं-व्योँ॑म ।
ब्र॒ह्म॒व॒र्च॒स-मे॒वाव॑रुन्धे ॥ 24 ॥
(होता॑ भवति॒ - वै वृष्टिः॑ पू॒र्वचि॑त्ति - र॒न्नाद्य॑मे॒वाव॑रुन्धे - म॒हदित्या॑ह॒ - सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च) (अ. 5)

अनुवाकं 6 - अश्वस्य मृतोपचार-स्सञ्ज्ञपनप्रकारः
अप॒ वा ए॒तस्मा᳚-त्प्रा॒णाः क्रा॑मन्ति । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ।
प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ सञ्ज्ञ॒प्यमा॑न॒ आहु॑ती-र्जुहोति ।
प्रा॒णाने॒वास्मि॑न्दधाति । नास्मा᳚त्प्रा॒णा अप॑क्रामन्ति ॥ अव॑न्तीः॒-स्थाव॑न्ती-स्त्वा-ऽवन्तु । प्रि॒य-न्त्वा᳚ प्रि॒याणा᳚म् । वर्​षि॑ष्ठ॒माप्यानाम् । नि॒धी॒ना-न्त्वा॑ निधि॒पतिग्ं॑ हवामहे
वसोम॒-मेत्या॑ह ।
अपै॒वास्मै॒ तद्ध्नु॑वते ॥ 25 ॥

अथो॑ धु॒वन्त्ये॒वैन᳚म् । अथो॒ न्ये॑वास्मै᳚ ह्नुवते ॥ त्रिः परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनं॑-लोँ॒केभ्यो॑ धुवते ॥ त्रिः पुनः॒ परि॑यन्ति । षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैन॑-न्धुवते ॥ अप॒ वा ए॒तेभ्यः॑ प्रा॒णाः क्रा॑मन्ति ॥ 26 ॥

ये य॒ज्ञे धुव॑न-न्त॒न्वते᳚ । न॒व॒कृत्वः॒ परि॑यन्ति । नव॒ वै पुरु॑षे प्रा॒णाः ।
प्रा॒णाने॒वात्मन्द॑धते । नैभ्यः॑ प्रा॒णा अप॑क्रामन्ति ॥ अम्बे॒ अम्बा॒ल्यम्बि॑क॒ इति॒ पत्नी॑मु॒दान॑यति । अह्व॑तै॒वैना᳚म् ॥
सुभ॑गे॒ काम्पी॑ल-वासि॒नीत्या॑ह । तप॑ ए॒वैना॒-मुप॑नयति ॥ सु॒व॒र्गे लो॒के सम्प्रोर्ण्वा॑था॒-मित्या॑ह ॥ 27 ॥

सु॒व॒र्गमे॒वैनां᳚-लोँ॒क-ङ्ग॑मयति ॥
आ-ऽहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धमित्या॑ह । प्र॒जा वै प॒शवो॒ गर्भः॑ । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते ॥
दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गं-लोँ॒क-न्न प्राजा॑नन्न् । तमश्वः॒ प्राजा॑नात् । यथ्सू॒चीभि॑-रसिप॒था-न्क॒ल्पय॑न्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै ॥ गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह ॥ 28 ॥

य॒था॒ य॒जुरे॒वैतत् ॥ त्र॒य्य-स्सू॒च्यो॑ भवन्ति ।
अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः । अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑ । अ॒न्तरि॑क्षस्य रज॒ताः । दि॒वो हरि॑ण्यः । दिशो॒ वा अ॑य॒स्मय्यः॑ ।
अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः । ऊ॒द्र्ध्वा हरि॑ण्यः ।
दिश॑ ए॒वास्मै॑ कल्पयति ॥
कस्त्वा᳚-छ्यति॒ कस्त्वा॒ विशा॒स्ती-त्या॒हा हिग्ं॑सायै ॥ 29 ॥
(ह्नु॒व॒ते॒-क्रा॒म॒-न्त्यू॒र्ण्वा॒था॒मित्या॑ह॒-जग॒तीत्या॑ह-कल्पय॒त्येक॑-ञ्च) (अ. 6)

अनुवाकं 7 - तत्र मन्त्राः
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्र-ङ्क्रा॑मति । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ।
ऊ॒द्र्ध्वामे॑ना॒-मुच्छ्र॑यता॒-दित्या॑ह ।
श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः ।
श्रिय॑मे॒वास्म॑ रा॒ष्ट्रमू॒द्र्ध्व-मुच्छ्र॑यति ॥ वे॒णु॒भा॒र-ङ्गि॒रावि॒-वेत्या॑ह ।
रा॒ष्ट्रं-वैँ भा॒रः । रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति ॥ अथा᳚स्या॒ मद्ध्य॑मेधता॒-मित्या॑ह । श्रीर्वै रा॒ष्ट्रस्य॒ मद्ध्य᳚म् ॥ 30 ॥

श्रिय॑मे॒वा-व॑रुन्धे ॥ शी॒ते वाते॑ पु॒नन्नि॒-वेत्या॑ह । क्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ । क्षेम॑मे॒वा-व॑रुन्धे ॥ यद्ध॑रि॒णी यव॒मत्तीत्या॑ह । विड्वै ह॑रि॒णी । रा॒ष्ट्रं-यँवः॑ । विश॑-ञ्चै॒वास्मै॑ रा॒ष्ट्र-ञ्च॑ स॒मीची॑ दधाति ॥
न पु॒ष्ट-म्प॒शु म॑न्यत॒ इत्या॑ह ।
तस्मा॒-द्राजा॑ प॒शून्न पुष्य॑ति ॥ 31 ॥

शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह ।
तस्मा᳚-द्वैशीपु॒त्र-न्नाभिषि॑ञ्चन्ते ॥ इ॒यं-यँ॒का श॑कुन्ति॒केत्या॑ह । विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विश॑-ञ्चै॒वास्मै॑ रा॒ष्ट्र-ञ्च॑ स॒मीची॑ दधाति ॥
आ॒हल॒मिति॒ सर्प॒तीत्या॑ह । तस्मा᳚-द्रा॒ष्ट्राय॒ विश॑-स्सर्पन्ति ॥ आह॑त-ङ्ग॒भे पस॒ इत्या॑ह । विड्वै गभः॑ ॥ 32 ॥

रा॒ष्ट्र-म्पसः॑ । रा॒ष्ट्रम॒व वि॒श्याह॑न्ति । तस्मा᳚-द्रा॒ष्ट्रं-विँश॒-ङ्घातु॑कम् ॥
मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह । इ॒यं-वैँ मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैन॒-म्परि॑ददाति ॥
अग्रं॑-वृँ॒क्षस्य॑ रोहत॒ इत्या॑ह ।
श्रीर्वै व॒क्षस्याग्र᳚म् । श्रिय॑मे॒वाव॑रुन्धे ॥ 33 ॥

प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तग्ंसय॒-दित्या॑ह । विड्वै गभः॑ । रा॒ष्ट्र-म्मु॒ष्टिः । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्मा᳚-द्रा॒ष्ट्रं-विँश॒-ङ्घातु॑कम् ॥ अप॒ वा ए॒तेभ्यः॑ प्रा॒णाः क्रा॑मन्ति । ये य॒ज्ञे-ऽपू॑तं॒-वँद॑न्ति ।
द॒धि॒क्राव्.ण्णो॑ अकारिष॒मिति॑ सुरभि॒-मती॒मृचं॑-वँदन्ति ।
प्रा॒णा वै सु॑र॒भयः॑ । प्रा॒णाने॒वात्मन्द॑धते । नैभ्यः॑ प्रा॒णा अप॑क्रामन्ति ॥
आपो॒ हिष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मा᳚र्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः᳚ ।
दे॒वता॑भिरे॒-वात्मान॑-म्पवयन्ते ॥ 34 ॥
(रा॒ष्ट्रस्य॒ मद्ध्य॒म् - पुष्य॑ति॒ - गभो॑ - रुन्धे - दधते च॒त्वारि॑ च) (अ. 7)

अनुवाकं 8 - अश्वमेधस्य तत्पशूना-ञ्च प्रशंसा
प्र॒जाप॑तिः प्र॒जा-स्सृ॒ष्ट्वा प्रे॒णा-ऽनु॒ प्रावि॑शत् । ताभ्यः॒ पुन॒-स्सम्भ॑वितु॒-न्नाश॑क्नोत् । सो᳚-ऽब्रवीत् । ऋ॒द्ध्नव॒दिथ्सः । यो मे॒तः पुन॑-स्स॒भंर॒दिति॑ । त-न्दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन्न् । ततो॒ वै त आ᳚द्र्ध्नुवन्न । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ।
प्र॒जाप॑तिमे॒व सम्भ॑रत्यृ॒द्ध्नोति॑ ॥ पुरु॑ष॒माल॑भते ॥ 35 ॥

वै॒रा॒जो वै पुरु॑षः । वि॒राज॑-मे॒वाल॑भते । अथो॒ अन्नं॒-वैँ वि॒राट् । अन्न॑मे॒वाव॑रुन्धे ॥ अश्व॒माल॑भते । प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑ति-मे॒वाल॑भते । अथो॒ श्रीर्वा एक॑शफम् ।
श्रिय॑-मे॒वाव॑रुन्धे ॥ गामाल॑भते ॥ 36 ॥

य॒ज्ञो वै गौः । य॒ज्ञमे॒वाल॑भते ।
अथो॒ अन्नं॒-वैँ गौः । अन्न॑मे॒वाव॑रुन्धे ॥
अ॒जा॒वी आल॑भते भू॒म्ने । अथो॒ पुष्टि॒र्वै भू॒मा ।
पुष्टि॑मे॒वाव॑रुन्धे ॥
पर्य॑ग्निकृत॒-म्पुरु॑ष-ञ्चार॒ण्याग्​-श्चो-थ्सृ॑ज॒न्त्यहिग्ं॑सायै ॥ उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते । यश्चा॑व॒मो यश्च॑ पर॒मः ।
ते᳚-ऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति ॥ नैन॑-न्द॒ङ्क्ष्णवः॑ प॒शवो॑ य॒ज्ञे ब॒द्धाः ।
अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता हिग्ंसन्ति । यो᳚-ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ 37 ॥
(ल॒भ॒ते॒ - गामाल॑भते - पर॒मो᳚-ऽष्टौ च॑) (अ. 8)

अनुवाकं 9 - उत्तमे-ऽहनि प्रशवः
प्र॒थ॒मेन॒ वा ए॒ष स्तोम॑न रा॒द्ध्वा ।
च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒-मुत्त॒रे-ऽहन्न्॑ ।
ए॒क॒वि॒ग्ं॒शे प्र॑ति॒ष्ठाया॒-म्प्रति॑तिष्ठति ॥
ए॒क॒वि॒ग्ं॒शा-त्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति । ऋ॒तवो॒ वै पृ॒ष्ठानि॑ । ऋ॒तव॑-स्सं​वँथ्स॒रः । ऋ॒तुष्वे॒व सं॑​वँथ्स॒रे प्र॑ति॒ष्ठाय॑ । दे॒वता॑ अ॒भ्यारो॑हति । शक्व॑रयः पृ॒ष्ठ-म्भ॑वन्त्य॒-न्यद॑न्य॒-च्छन्दः॑ । अ॒न्ये᳚-ऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते ॥ 38 ॥

उ॒तेव॑ ग्रा॒म्याः । उ॒तेवा॑र॒ण्याः । अह॑रे॒व रू॒पेण॒ सम॑द्र्धयति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्​ह्रि॑यते ॥ तदा॑हुः । अप॑शवो॒ वा ए॒ते ।
यद॑जा॒-वय॑श्चार॒ण्याश्च॑ । ए॒ते वै सर्वे॑ प॒शवः॑ । यद्ग॒व्या इति॑ ।
ग॒व्या-न्प॒शूनु॑त्त॒मे-ऽह॒न्नाल॑भते ॥ 39 ॥

तेनै॒वोभया᳚-न्प॒शूनव॑रुन्धे ॥ प्रा॒जा॒प॒त्या भ॑वन्ति । अन॑भिजितस्या॒-भिजि॑त्यै ॥ सौ॒रीर्नव॑ श्वे॒ताव॒शा अ॑नूब॒न्ध्या॑ भवन्ति ।
अ॒न्त॒त ए॒व ब॑ह्मवर्च॒समव॑रुन्धे ॥
सोमा॑य स्व॒राज्ञे॑-ऽनोवा॒हा-व॑न॒ड्वाहा॒विति॑ द्व॒न्द्विनः॑ प॒शूनाल॑भते ।
अ॒हो॒रा॒त्राणा॑-म॒भिजि॑त्यै ॥ प॒शुभि॒र्वा ए॒ष व्यृ॑द्ध्यते । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ।
छ॒ग॒ल-ङ्क॒ल्माष॑-ङ्किकिदी॒विं-विँ॑दी॒गय॒मिति॑ त्वा॒ष्ट्रा-न्प॒शूनाल॑भते ।
प॒शुभि॑रे॒वात्मान॒ग्ं॒ सम॑द्र्धयति ॥
ऋ॒तुभि॒र्वा ए॒ष व्यृ॑द्ध्यते । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ।
पि॒शङ्गा॒-स्त्रयो॑ वास॒न्ता इत्यृ॑तु-प॒शूनाल॑भते । ऋ॒तुभि॑रे॒-वात्मान॒ग्ं॒ सम॑द्र्धयति ॥
आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते ।
यो᳚-ऽश्वमे॒धेन॒ यज॑ते । पर्य॑ग्निकृता॒ उथ्सृ॑ज॒न्त्यना᳚व्रस्काय ॥ 40 ॥
(ल॒भ्य॒न्ते॒ - ल॒भ॒ते॒ - त्वा॒ष्ट्रा-न्प॒शूनाल॑भते॒-ऽष्टौ च॑) (अ. 9)

अनुवाकं 10 - महिमाभिधानौ प्रहौ
प्र॒जाप॑ति-रकामयत म॒हान॑न्ना॒द-स्स्या॒मिति॑ ।
स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् । ताव॑गृह्णीत । ततो॒ वै स म॒हान॑न्ना॒दो॑-ऽभवत् । यः का॒मये॑त म॒हान॑न्ना॒द-स्स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत ।
म॒हाने॒वान्ना॒दो भ॑वति ॥ य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा । राजा॑ महि॒मा ।
यद्व॒पा-म्म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति ।
यज॑मानमे॒व रा॒ज्येनो॑भ॒यतः॒ परि॑गृह्णाति ॥
पु॒रस्ता᳚-थ्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः ।
उ॒परि॑ष्टा-थ्स्वाहाकारा अ॒न्ये । ते वा ए॒ते-ऽश्व॑ ए॒व मेद्ध्य॑ उ॒भये-ऽव॑रुद्ध्यन्ते ।
यद्व॒पा-म्म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति । ताने॒वोभया᳚-न्प्रीणाति ॥ 41 ॥
(प॒रि॒यज॑ति॒ षट्च॑) (अ. 10)

अनुवाकं 11 - शरीरहोमा-स्स्विष्टकृदादयश्च
वै॒श्व॒दे॒वो वा अश्वः॑ । तं-यँत्प्रा॑जाप॒त्य-ङ्कु॒र्यात् । या दे॒वता॒ अपि॑भागाः ।
ता भा॑ग॒धेये॑न॒ व्य॑द्र्धयेत् । दे॒वता᳚भ्य-स्स॒मद॑-न्दद्ध्यात् । स्ते॒गान्-दग्ग्​ष्ट्रा᳚भ्या-म्म॒ण्डूका॒-ञ्जम्भ्ये॑-भि॒रिति॑ ।
आज्य॑-मव॒दान॑-ङ्कृ॒त्वा प्रति॑स॒ङ्ख्याय॒-माहु॑ती-र्जुहोति । या ए॒व दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ सम॑द्र्धयति ।
न दे॒वता᳚भ्य-स्स॒मद॑-न्दधाति ॥ 42 ॥

चतु॑र्दशै॒ता-न॑नुवा॒काञ्जु॑हो॒त्य-न॑न्तरित्यै ॥
प्र॒या॒साय॒ स्वाहेति॑ पञ्चद॒शम् । पञ्च॑दश॒ वा अ॑द्र्धमा॒सस्य॒ रात्र॑यः ।
अ॒द्र्ध॒मा॒स॒श-स्सं॑​वँथ्स॒र आ᳚प्यते ॥ दे॒वा॒सु॒रा-स्सं​यँ॑न्त्ता आसन्न् ।
ते᳚-ऽब्रुवन्न॒ग्नय॑-स्स्विष्ट॒कृतः॑ । अश्व॑स्य॒ मेद्ध्य॑स्य व॒यमु॑द्धा॒र-मुद्ध॑रामहै ।
अथै॒तान॒भि-भ॑वा॒मेति॑ । ते लोहि॑त॒-मुद॑हरन्त ।
ततो॑ दे॒वा अभ॑वन्न् ॥ 43 ॥

परा-ऽसु॑राः । यथ्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑त-ञ्जु॒होति॒ भ्रातृ॑व्याभिभूत्यै । भव॑त्या॒त्मना᳚ । परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति ॥
गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मा-माहु॑ति-ञ्जुहोति ।
प॒शवो॒ वै गो॑मृ॒गः । रु॒द्रो᳚-ऽग्नि-स्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षा-ऽऽहु॑तिर्-हू॒यते᳚ ।
न तत्र॑ रु॒द्रः प॒शून॒भिम॑न्यते ॥ 44 ॥

अ॒श्व॒श॒फेन॑ द्वि॒तीया॒-माहु॑ति-ञ्जुहोति । प॒शवो॒ वा एक॑शफम् । रु॒द्रो᳚-ऽग्नि-स्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति ।
अथो॒ यत्रै॒षा-ऽऽहु॑तिरःअ॒यते᳚ ।
न तत्र॑ रु॒द्रः प॒शून॒भिम॑न्यते ॥
अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीया᳚म् ।
आहु॑ति-ञ्जुहोत्या-य॒स्यो॑ वै प्र॒जाः । रु॒द्रो᳚-ऽग्नि-स्स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति । अथो॒ यत्रै॒षा-ऽऽहु॑तिर्-हू॒यते᳚ ।
न तत्र॑ रु॒द्रः प्र॒जा अ॒भिम॑न्यते ॥ 45 ॥
(द॒धा॒ - त्यभ॑वन् - मन्यते - प्र॒जा अ॒न्त-र्द॑धाति॒ द्वे च॑) (अ. 11)

अनुवाकं 12 - तदुभयहोममध्यवर्त्यश्चस्तोमीयहोमः
अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् । तद॑श्वस्तो॒मीय॑-मभवत् ।
यद॑श्वस्तो॒मीय॑-ञ्जु॒होति॑ । समे॑धमे॒वैन॒-माल॑भते ॥ आज्ये॑न जुहोति । मेधो॒ वा आज्य᳚म् । मेधो᳚-ऽश्वस्तो॒मीय᳚म् । मेधे॑नै॒वास्मि॒-न्मेध॑-न्दधाति ॥ षटत्रग्ं॑शत-ञ्जुहोति ।
षटत्रग्ं॑शदक्षरा बृह॒ती ॥ 46 ॥

बार्​ह॑ताः प॒शवः॑ । सा प॑शू॒ना-म्मात्रा᳚ । प॒शूने॒व मात्र॑या॒ सम॑द्र्धयति ॥
ता यद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् । प॒शून्मात्र॑या॒ व्य॑द्र्धयेत् ।
षटत्रग्ं॑शत-ञ्जुहोति । षटत्रग्ं॑शदक्षरा बृह॒ती । बार्​ह॑ताः प॒शवः॑ ।
सा प॑शू॒ना-म्मात्रा᳚ । प॒शूने॒व मात्र॑या॒ सम॑द्र्धयति ॥ 47 ॥

अ॒श्व॒स्तो॒मीयग्ं॑ हु॒त्वा द्वि॒पदा॑ जुहोति । द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः ।
तदे॑न-म्प्रति॒ष्ठया॒ सम॑द्र्धयति ॥ तदा॑हुः । अ॒श्व॒स्तो॒मीय॒-म्पूर्वग्ं॑ होत॒व्या(3)-न्द्वि॒पदा(3) इति॑ । अश्वो॒ वा अ॑श्वस्तो॒मीय᳚म् । पुरु॑षो द्वि॒पदाः᳚ । अ॒श्व॒स्तो॒मीयग्ं॑ हु॒त्वा द्वि॒पदा॑ जुहोति । तस्मा᳚-द्द्वि॒पाच्चतु॑ष्पादमत्ति ।
अथो᳚ द्वि॒पद्ये॒व चतु॑ष्पदः॒ प्रति॑ष्ठापयति ॥ द्वि॒पदा॑ हु॒त्वा । नान्यामुत्त॑रा॒-माहु॑ति-ञ्जुहुयात् । यद॒न्यामुत्त॑रा॒-माहु॑ति-ञ्जुहु॒यात् ।
प्र प्र॑ति॒ष्ठाया᳚श्च्यवेत । द्वि॒पदा॑ अन्त॒तो ज॑होति॒ प्रति॑ष्ठित्यै ॥ 48 ॥
(बृ॒ह॒ - त्य॑द्र्धयति - स्थापयति॒ पञ्च॑ च) (अ. 12)

अनुवाकं 13 - सं​वँथ्सरानुष्ठानमिष्टीनाम्
प्र॒जाप॑ति-रश्वमे॒ध-म॑सृजत ।
सो᳚-ऽस्माथ्सृ॒ष्टो-ऽपा᳚क्रामत् ।
तं-यँ॑ज्ञ-क्र॒तुभि॒-रन्वै᳚च्छत् । तं-यँ॑ज्ञ-क्र॒तुभि॒-र्नान्व॑विन्दत् । तमिष्टि॑भि॒-रन्वै᳚च्छत् । तमिष्टि॑भि॒-रन्व॑विन्दत् । तदिष्टी॑ना-मिष्टि॒त्वम् ।
यथ्सं॑​वँथ्स॒र-मिष्टि॑भि॒-र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति ॥
सा॒वि॒त्रियो॑ भवन्ति ॥ 49 ॥

इ॒यं-वैँ स॑वि॒ता । यो वा अ॒स्या-न्नश्य॑ति॒ यो नि॒लय॑ते । अ॒स्यां-वाँव तं-विँ॑न्दन्ति । न वा इ॒मा-ङ्कश्च॒नेत्या॑हुः । ति॒र्यन्नोद्र्ध्वो-ऽत्ये॑तुमर्​ह॒तीति॑ । यथ्सा॑वि॒त्रियो॒ भव॑न्ति ।
स॒वि॒तृ-प्र॑सूत ए॒वैन॑मिच्छति ॥
ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परा᳚-म्परा॒वत॒-ङ्गन्तोः᳚ । यथ्सा॒य-न्धृती᳚र्जु॒होति॑ । अश्व॑स्य॒ यत्यै॒ धृत्यै᳚ ॥ 50 ॥

यत्प्रा॒तरिष्टि॑भि॒-र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । यथ्सा॒य-न्धृती᳚र्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै᳚ । तस्मा᳚थ्सा॒य-म्प्र॒जाः, क्षे॒म्या॑
भवन्ति ॥ यत्प्रा॒त-रिष्टि॑भि॒-र्यज॑ते ।
अश्व॑मे॒व तदन्वि॑च्छति । तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति ॥ यत्प्रा॒तरिष्टि॑भि॒-र्यज॑ते सा॒य-न्धृती᳚र्जु॒होति॑ । अ॒हो॒रा॒त्राभ्या॑-मे॒वैन॒-मन्वि॑च्छति । अथो॑ अहोरा॒त्राभ्या॑-मे॒वास्मै॑ योगक्षे॒म-ङ्क॑ल्पयति ॥ 51 ॥
(भ॒व॒न्ति॒ - धृत्या॑ - एन॒ मन्वि॑च्छ॒त्येक॑-ञ्च) (अ. 13)

अनुवाकं 14 - तास्विष्टिषु ब्राह्मणराजन्ययोर्गानम्
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्र-ङ्क्रा॑मति । यो᳚-ऽश्वमे॒धेन॒ यज॑ते । ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः । श्रि॒या वा ए॒त-द्रू॒पम् । यद्वीणा᳚ । श्रिय॑-मे॒वास्मि॒-न्तद्ध॑त्तः । य॒दा खलु॒ वै पुरु॑ष॒-श्श्रिय॑मश्नु॒ते ।
वीणा᳚-ऽस्मै वाद्यते ॥ तदा॑हुः ।
यदु॒भौ ब्रा᳚ह्म॒णौ गाये॑ताम् ॥ 52 ॥

प्र॒भ्रग्ंशु॑का-ऽस्मा॒च्छ्री-स्स्या᳚त् ।
न वै ब्रा᳚ह्म॒णे श्री र॑मत॒ इति॑ ।
ब्रा॒ह्म॒णो᳚-ऽन्यो गाये᳚त् । रा॒ज॒न्यो᳚-ऽन्यः ।
ब्रह्म॒ वै ब्रा᳚ह्म॒णः । क्ष॒त्रग्ं रा॑ज॒न्यः॑ ।
तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यत॒-श्श्रीः परि॑गृहीता भवति ॥
तदा॑हुः । यदु॒भौ दिवा॒ गाये॑ताम् ।
अपा᳚स्मा-द्रा॒ष्ट्र-ङ्क्रा॑मेत् ॥ 53 ॥

न वै ब्रा᳚ह्म॒णे रा॒ष्ट्रग्ं र॑मत॒ इति॑ । य॒दा खलु॒ वै राजा॑ का॒मय॑ते । अथ॑ ब्राह्म॒ण-ञ्जि॑नाति । दिवा᳚ ब्राह्म॒णो गा॑येत् । नक्तग्ं॑ राज॒न्यः॑ ।
ब्रह्म॑णो॒ वै रू॒पमहः॑ । क्ष॒त्रस्य॒ रात्रिः॑ ।
तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्र-म्परि॑गृहीत-म्भवति ॥ इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गाये᳚त् ।
इ॒ष्टा॒पू॒र्तं-वैँ ब्रा᳚ह्म॒णस्य॑ ॥ 54 ॥

इ॒ष्टा॒पू॒र्ते-नै॒वैन॒ग्ं॒ स सम॑द्र्धयति ॥
इत्य॑जिना॒ इत्य॑युद्ध्यथा॒ इत्य॒मुग्ं स॑ग्रा॒म्म-म॑ह॒न्निति॑ राज॒न्यः॑ । यु॒द्धं-वैँ रा॑ज॒न्य॑स्य । यु॒द्धेनै॒वैन॒ग्ं॒ स सम॑द्र्धयति ॥ अक्लृ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः । यो᳚-ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
ति॒स्रो᳚-ऽन्यो गाय॑ति ति॒स्रो᳚-ऽन्यः । षट्थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒वास्मै॑ कल्पयतः ॥ ताभ्याग्ं॑ स॒ग्ग्॒स्थाया᳚म् । अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥ 55 ॥
(गाये॑ताम् - क्रामे-द्- ब्राह्म॒णस्य॑ - कल्पयतश्च॒त्वारि॑ च) (अ. 14)

अनुवाकं 15 - अवभृथहोमविशेषाः
सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒-ऽन्वाय॑त्ताः । तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् । लो॒के लो॑क एन-म्मृ॒त्युर्वि॑न्देत् ।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भि पू॒र्वमाहु॑ती-र्जुहोति ।
लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते ।
नैनं॑-लोँ॒के ला॑के मृ॒त्युर्वि॑न्दति ॥
यद॒मुष्मै॒ स्वाहा॒-ऽमुष्मै॒ स्वाहेति॒ जुह्व॑थ्स॒-ञ्चक्षी॑त । ब॒हु-म्मृ॒त्युम॒मित्र॑-ङ्कुर्वीत । मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैका᳚-ञ्जुहुयात् । एको॒ वा अ॒मुष्मि॑न् ँला॒के मृ॒त्युः ॥ 56 ॥

अ॒श॒न॒या॒ मृ॒त्युरे॒व । तमे॒वामुष्मि॑न् ँलो॒के-ऽव॑यजते ॥ भ्रू॒ण॒ह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑ति-ञ्जुहोति ।
भ्रू॒ण॒ह॒त्यामे॒ वा व॑यजते ॥ तदा॑हुः । यद्भ्रू॑णह॒त्या ऽपा॒त्र्या-ऽथ॑ ।
कस्मा᳚-द्य॒ज्ञे-ऽपि॑ क्रियत॒ इति॑ ॥
अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः ।
भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ ।
यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहुति॑-ञ्जु॒होति॑ ॥ 57 ॥

मृ॒त्युमे॒ वा हु॑त्या तर्पयि॒त्वा प॑रि॒पाण॑-ङ्कृ॒त्वा ।
भ्रू॒ण॒घ्ने भे॑ष॒ज-ङ्क॑रोति ॥ ए॒ताग्ं ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः ।
भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिं-विँ॒दाञ्च॑कार ।
यो हा॒स्यापि॑ प्र॒जाया᳚-म्ब्राह्म॒णग्ं हन्ति॑ । सर्व॑स्मै॒ तस्मै॑ भेष॒ज-ङ्क॑रोति ॥
जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑ति-ञ्जुहोति । वरु॑णो॒ वै जु॑म्ब॒कः । अ॒न्त॒त ए॒व वरु॑ण॒-मव॑यजते ॥ ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒क्षस्य॑ मू॒द्र्धञ्जु॑होति ।
ए॒तद्वै वरु॑णस्य रू॒पम् । रू॒पेणै॒व वरु॑ण॒मव॑यजते ॥ 58 ॥
(लो॒के मृ॒त्यु--र् जु॒होति॑ - मू॒द्र्धञ्जु॑होति॒ द्वे च॑) (अ. 15)

अनुवाकं 16 - उपाकरणमन्त्रव्याख्यानादिः
वा॒रु॒णो वा अश्वः॑ । त-न्दे॒वत॑या॒ व्य॑द्र्धयति । यत्प्रा॑जाप॒त्य-ङ्क॒रोति॑ ।
नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येत्या॑ह । वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैन॑-न्दे॒वत॑या॒ सम॑द्र्धयति ॥ नमो-ऽश्वा॑य॒ नमः॑ प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैन॑-न्दे॒वत॑या॒ सम॑द्र्धयति ॥
नमो-ऽधि॑पतय॒ इत्या॑ह ॥ 59 ॥

धर्मो॒ वा अधि॑पतिः । धर्म॑मे॒वा-व॑रुन्धे ॥
अधि॑पति-र॒स्यधि॑पति-म्मा कु॒र्वधि॑पतिर॒ह-म्प्र॒जाना᳚-म्भूयास॒-मित्या॑ह ।
अधि॑पति-म॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति ॥
मा-न्ध॑हि॒ मयि॑ ध॒हीत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥
उ॒पाकृ॑ताय॒ स्वाहेत्यु॒पाकृ॑ते जुहोति ।
आल॑ब्धाय॒ स्वाहेति॒ नियु॑क्ते जुहोति ।
हु॒ताय॒ स्वाहेति॑ हु॒ते जु॑होति ।
ए॒षां-लोँ॒काना॑-म॒भिजि॑त्यै ॥ 60 ॥
प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ।
आ॒ग्ने॒य-मै᳚न्द्रा॒ग्न-मा᳚श्वि॒नम् ।
ता-न्प॒शूनाल॑भते॒ प्रति॑ष्ठित्यै ॥
यदा᳚-ऽग्ने॒यो भव॑ति । अ॒ग्नि-स्सर्वा॑ दे॒वताः᳚ । दे॒वता॑ ए॒वाव॑रुन्धे ॥
ब्रह्म॒ वा अ॒ग्निः । क्ष॒त्रमिन्द्रः॑ । यदै᳚न्द्रा॒ग्नो भव॑ति ॥ 61 ॥

ब्र॒ह्म॒क्ष॒त्रे ए॒वाव॑रुन्धे ॥
यदा᳚-ऽश्वि॒नो भव॑ति । आ॒शिषा॒मव॑रुद्ध्यै ॥
त्रयो॑ भवन्ति । त्रय॑ इ॒मे लो॒काः ।
ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति ॥
अ॒ग्नये-ऽग्ं॑हो॒मुचे॒-ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टि॒-न्निर्व॑पति ।
दशा᳚क्षरा वि॒राट् । अन्नं॑-विँ॒राट् ।
वि॒राजै॒-वान्नाद्य॒-मव॑रुन्धे ॥
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ॥ 62 ॥
(अधि॑पतय॒ इत्या॑ - हा॒भिजि॑त्या - ऐन्द्रा॒ग्नो भव॑ति - रुन्ध॒ एक॑-ञ्च) (अ. 16)

अनुवाकं 17 - अश्वस्य रोगादिनिमित्त-म्प्रायश्चित्तम्
यद्यश्व॑मुप॒तप॑द्वि॒न्देत् ।
आ॒ग्ने॒य-म॒ष्टाक॑पाल॒-न्निर्व॑पेत् ।
सौ॒म्य-ञ्च॒रुम् । सा॒वि॒त्र-म॒ष्टाक॑पालम् ॥ यदा᳚ग्ने॒यो भव॑ति ।
अ॒ग्नि-स्सर्वा॑ दे॒वताः᳚ । दे॒वता॑-भिरे॒वैन॑-म्भिषज्यति ॥ यथ्सौ॒म्यो भव॑ति ।
सोमो॒ वा ओष॑धीना॒ग्ं॒ राजा᳚ ।
याभ्य॑ ए॒वैनं॑-विँ॒न्दति॑ ॥ 63 ॥

ताभि॑रे॒वैन॑-म्भिषज्यति ॥ यथ्सा॑वि॒त्रो भव॑ति ।
स॒वि॒तृप्र॑सूत ए॒वैन॑-म्भिषज्यति ॥ ए॒ताभि॑रे॒वैन॑-न्दे॒वता॑भि-र्भिषज्यति ।
अ॒ग॒दो है॒व भ॑वति ॥ पौ॒ष्ण-ञ्च॒रु-न्निर्व॑पेत् । यदि॑ श्लो॒ण-स्स्यात् । पू॒षा वै श्लौण्य॑स्य भि॒षक् । स ए॒वैन॑-म्भिषज्यति । अश्लो॑णो है॒व भ॑वति ॥ 64 ॥

रौ॒द्र-ञ्च॒रु-न्निर्व॑पेत् । यदि॑ मह॒ती दे॒वता॑-ऽभि॒मन्ये॑त । ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ । स्वयै॒वैन॑-न्दे॒वत॑या भिषज्यति ।
अ॒ग॒दो है॒व भ॑वति ॥ वै॒श्वा॒न॒र-न्द्वाद॑श-कपाल॒-न्निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छे᳚त् ।
इ॒यं-वाँ अ॒ग्निर्वै᳚श्वान॒रः । इ॒यमे॒वैन॑-म॒र्चिभ्या᳚-म्परि॒रोध॒मान॑यति ।
आ है॒व सुत्य॒मह॑-र्गच्छति ॥ यद्य॑धी॒यात् ॥ 65 ॥

अ॒ग्नये-ऽग्ं॑हो॒मुचे॒-ऽष्टाक॑पालः । सौ॒र्य-म्पयः॑ । वा॒य॒व्य॑ आज्य॑भागः ॥ यज॑मानो॒ वा अश्वः॑ । अग्ंह॑सा॒ वा ए॒ष गृ॑ही॒तः ।
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒-ऽद्ध्येति॑ । यदग्ं॑हो॒मुचे॑ नि॒र्वप॑ति ।
अग्ंह॑स ए॒व तेन॑ मुच्यते ॥ यज॑मानो॒ वा अश्वः॑ । रेत॑सा॒ वा ए॒ष व्यृ॑द्ध्यते ॥ 66 ॥

यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒-ऽद्ध्येति॑ । सौ॒र्यग्ं रेतः॑ । यथ्सौ॒र्य-म्पयो॒ भव॑ति । रेत॑सै॒वैन॒ग्ं॒ स सम॑द्र्धयति ॥
यज॑मानो॒ वा अश्वः॑ । गर्भै॒र्वा ए॒ष व्यृ॑द्ध्यते । यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒-ऽद्ध्येति॑ । वा॒य॒व्या॑ गर्भाः᳚ ।
यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति । गर्भै॑रे॒वैन॒ग्ं॒ स सम॑द्र्धयति ॥
अथो॒ यस्यै॒षा-ऽश्व॑मे॒धे प्राय॑श्चित्तः क्रि॒यते᳚ । इ॒ष्ट्वा वसी॑या-न्भवति ॥ 67 ॥
(वि॒न्द - त्यश्लो॑णो है॒व भ॑व - त्यधी॒या - दृ॑द्ध्यते॒ - गर्भै॑रे॒वैन॒ग्ं॒ स सम॑द्र्धयति॒ द्वे च॑) (अ. 17)

अनुवाकं 18 - ब्रह्मौदना उच्यन्ते
तदा॑हुः । द्वाद॑श ब्रह्मौद॒ना-न्थ्सग्ग्​स्थि॑त॒ निर्व॑पेत् । द्वा॒द॒शभि॒र्वेष्टि॑भि॒-र्यजे॒तेति॑ ॥ यदिष्टि॑-भि॒र्यजे॑त । उ॒प॒नामु॑क एनं-यँ॒ज्ञ-स्स्या᳚त् । पापी॑या॒ग्॒स्तु स्या᳚त् ।
आ॒प्तानि॒ वा ए॒तस्य॒ छन्दाग्ं॑सि । य ई॑जा॒नः ।
तानि॒ क ए॒ताव॑दाशु॒ पुनः॒ प्रयु॑ञ्जी॒तेति॑ ।
सर्वा॒ वै सग्ग्​स्थि॑ते य॒ज्ञे वागा᳚प्यते ॥ 68 ॥

सा-ऽऽप्ता भ॑वति या॒तया᳚म्नी । क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता । सा न पुनः॑ प्र॒युज्येत्या॑हुः ॥ द्वाद॑शै॒व ब्र॑ह्मौद॒ना-न्थ्सग्ग्​स्थि॑ते॒ निर्व॑पेत् । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । य॒ज्ञः प्र॒जाप॑तिः । उ॒प॒नामु॑क एनं-यँ॒ज्ञो भ॑वति ।
न पापी॑या-न्भवति ॥ द्वाद॑श भवन्ति ।
द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रः ।
सं॒​वँ॒थ्स॒र ए॒व प्रति॑तिष्ठति ॥ 69 ॥
(आ॒प्य॒ते॒ - सं॒​वँ॒थ्स॒र एक॑-ञ्च) (अ. 18)

अनुवाकं 19 - विभुत्वादिभिः द्वादशभिर्गुणौरश्वमेधप्रशंसा
ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः । सर्वग्ं॑ ह॒ वै तत्र॑ वि॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः । सर्वग्ं॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः । सर्वग्ं॑ ह॒ वै तत्रोर्ज॑स्व-द्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः ॥ 70 ॥

सर्वग्ं॑ ह॒ वै तत्र॒ पय॑स्व-द्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥
ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः ।
सर्वग्ं॑ ह॒ वै तत्र॒ विधृ॑त-म्भवति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः ।
सर्वग्ं॑ ह॒ वै तत्र॒ व्यावृ॑त्त-म्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥
ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः ।
सर्वग्ं॑ ह॒ वै तत्र॒ प्रति॑ष्ठित-म्भवति ॥ 71 ॥
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः । सर्वग्ं॑ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥
ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः ।
आ ह॒ वै तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥
ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः ।
आ ह॒ वै तत्र॑ राज॒न्यो॑-ऽतिव्या॒धी जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥
ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः ।
दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥
ए॒ष वै क्लृ॒प्तो नाम॑ य॒ज्ञः ।
कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ 72 ॥
(पय॑स्वा॒न्नाम॑ य॒ज्ञः - प्रति॑ष्ठित-म्भवति॒ - यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते॒ षट्च॑) (अ. 19)

(ए॒ष वै वि॒भूः प्र॒भूरूर्ज॑स्वा॒-न्पय॑स्वा॒न्॒. विधृ॑तो॒ व्यावृ॑त्तः॒ प्रति॑ष्ठितस्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑तिव्या॒धी दी॒र्घः क्लु॒प्तो द्वाद॑श)

अनुवाकं 20 - अश्वसञ्ज्ञपनप्रकारः
ता॒र्प्येणाश्व॒ग्ं॒ सञ्ज्ञ॑पयन्ति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैन॒ग्ं॒ सम॑द्र्धयन्ति ॥ या॒मेन॒ साम्ना᳚ प्रस्तो॒ता-ऽनूप॑तिष्ठते ।
य॒म॒लो॒क-मे॒वैन॑-ङ्गमयति ॥
ता॒र्प्ये च॑ कृत्त्यधीवा॒से चाश्व॒ग्ं॒ सञ्ज्ञ॑पयन्ति । ए॒तद्वै प॑शू॒नाग्ं रू॒पम् । रू॒पेणै॒व प॒शूनव॑रुन्धे ॥
हि॒र॒ण्य॒क॒शि॒पु भ॑वति । तेज॒सो-ऽव॑रुद्ध्यै ॥ 73 ॥

रु॒क्मो भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या-नु॑ख्यात्यै ॥ अश्वो॑ भवति । प्र॒जाप॑ते॒-राप्त्यै᳚ ॥ अ॒स्य वै लो॒कस्य॑ रू॒प-न्ता॒र्प्यम् । अ॒न्तरि॑क्षस्य कृत्त्यधीवा॒सः । दि॒वो हि॑रण्यकशि॒पु ।
आ॒दि॒त्यस्य॑ रु॒क्मः । प्र॒जाप॑ते॒रश्वः॑ ।
इ॒ममे॒व लो॒क-न्ता॒र्प्येणा᳚प्नोति ॥ 74 ॥

अ॒न्तरि॑क्ष-ङ्कृत्यधीवा॒सेन॑ । दिवग्ं॑ हिरण्यकशि॒पुना᳚ । आ॒दि॒त्यग्ं रु॒क्मेण॑ ।
अश्वे॑नै॒व मेद्ध्ये॑न प्र॒जाप॑ते॒-स्सायु॑ज्यग्ं सलो॒कता॑-माप्नोति ॥ ए॒तासा॑मे॒व दे॒वता॑ना॒ग्ं॒ सायु॑ज्यम् ।
सा॒र्​ष्टिताग्ं॑ समान लो॒कता॑माप्नोति ।
यो᳚-ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ 75 ॥
(अव॑रुद्ध्या - आप्नोत्य॒ -+ष्टौ च॑) (अ. 20)

अनुवाकं 21 - उत्तरवेद्युपवापः
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के᳚-ऽस्पद्र्धन्त । ते-ऽङ्गि॑रस आदि॒त्येभ्यः॑ ।
अ॒मुमा॑दि॒त्य-मश्वग्ग्॑ श्वे॒त-म्भू॒त-न्दक्षि॑णा-मनयन्न् । ते᳚-ऽब्रुवन्न् ।
य-न्नो-ऽन᳚ष्ट । स वर्यो॑-ऽभू॒दिति॑ । तस्मा॒दश्व॒ग्ं॒ सव॒र्येत्या-ह्व॑यन्ति ।
तस्मा᳚द्य॒ज्ञे वरो॑ दीयते ॥ यत्प्र॒जाप॑ति॒-राल॒ब्धो-ऽश्वो-ऽभ॑वत् ।
तस्मा॒दश्वो॒ नाम॑ ॥ 76 ॥

यच्छ्वय॒दरु॒रासी᳚त् । तस्मा॒दर्वा॒ नाम॑ ॥
यथ्स॒द्यो वाजा᳚-न्थ्स॒मज॑यत् । तस्मा᳚द्वा॒जी नाम॑ ॥ यदसु॑राणां-लोँ॒कानाद॑त्त । तस्मा॑दादि॒त्यो नाम॑ ॥ अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम् । सूर्यो॒-ऽग्नेर्योनि॑-रा॒यत॑नम् ।
यद॑श्वमे॒धे᳚-ऽग्नौ चित्य॑ उत्तरवे॒दि-मु॑प॒वप॑ति । योनि॑-मन्तमे॒वैन॑-मा॒यत॑नवन्त-ङ्करोति ॥ 77 ॥

योनि॑-माना॒यत॑नवा-न्भवति । स ए॒वं-वेँद॑ ॥
प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना᳚म् । यद॑र्काश्वमे॒धौ । प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे ॥ ओजो॒ बलं॒-वाँ ए॒तौ दे॒वाना᳚म् ।
यद॑र्काश्वमे॒धौ । ओजो॒ बल॑मे॒वाव॑रुन्धे ॥
अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑-रा॒यत॑नम् ।
सूर्यो॒-ऽग्नेर्योनि॑-रा॒यत॑नम् ।
यद॑श्वमे॒धे᳚-ऽग्नौ चित्य॑ उत्तरवे॒दि-ञ्चि॒नोति॑ ।
ताव॑र्काश्वमे॒धौ । अ॒र्का॒श्व॒मे॒धावे॒वा व॑रुन्धे । अथो॑ अर्काश्व-मे॒धयो॑रे॒व प्रति॑तिष्ठति ॥ 78 ॥
(नाम॑ - करोति॒ - सूर्यो॒-ऽग्नेर्योनि॑रा॒यत॑न-ञ्च॒त्वारि॑ च) (अ. 21)

अनुवाकं 22 - ऋषभालम्भः
प्र॒जाप॑तिं॒-वैँ दे॒वाः पि॒तर᳚म् ।
प॒शु-म्भू॒त-म्मेधा॒याल॑भन्त ।
तमा॒लभ्योपा॑वसन्न् । प्रा॒तर्यष्टा᳚स्मह॒ इति॑ ।
एकं॒-वाँ ए॒तद्दे॒वाना॒महः॑ । यथ्सं॑​वँथ्स॒रः । तस्मा॒दश्वः॑ पु॒रस्ता᳚-थ्सं​वँथ्स॒र आल॑भ्यते ॥
यत्प्र॒जाप॑ति॒-राल॒ब्धो-ऽश्वो-ऽभ॑वत् । तस्मा॒दश्वः॑ । यथ्स॒द्यो मेधो-ऽभ॑वत् ॥ 79 ॥

तस्मा॑दश्वमे॒धः ॥ वेदु॒को-ऽश्व॑मा॒शु-म्भ॑वति । य ए॒वं-वेँद॑ ॥ यद्वै तत्प्र॒जाप॑ति॒-राल॒ब्धो-ऽश्वो-ऽभ॑वत् । तस्मा॒दश्वः॑ प्र॒जाप॑तेः पशू॒ना-मनु॑रूपतमः ॥
आ-ऽस्य॑ पु॒त्रः प्रति॑रूपो जायते । य ए॒वं-वेँद॑ ॥ सर्वा॑णि भू॒तानि॑ स॒भृन्त्याल॑भते ।
समे॑न-न्दे॒वा-स्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति ।
यो᳚-ऽश्वमे॒धेन॒ यज॑ते ॥ 80 ॥

य उ॑ चैनमे॒वं-वेँद॑ ॥ ए॒तद्वै तद्दे॒वा ए॒ता-न्दे॒वता᳚म् । प॒शु-म्भू॒त-म्मेधा॒याल॑भन्त । य॒ज्ञम॒व । य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । का॒म॒प्रं-यँ॒ज्ञम॑ कुर्वत । ते॑-ऽमृत॒त्वम॑कामयन्त ।
त॑-ऽमृत॒त्व-म॑गच्छन्न् ॥ यो᳚-ऽश्वमे॒धेन॒ यज॑ते । दे॒वाना॑मे॒वा-य॑नेनैति ॥ 81 ॥

प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑ । अपु॑नर्मारमे॒व ग॑च्छति ॥ ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्ता᳚-त्प्राजाप॒त्य-मृ॑ष॒भ-न्तू॑प॒रं
ब॑हुरू॒प-माल॑भते । सर्वे᳚भ्यः॒ कामे᳚भ्यः । सर्व॒स्याप्त्यै᳚ । सर्व॑स्य॒ जित्यै᳚ ॥ सर्व॑मे॒व तेना᳚प्नोति । सर्व॑-ञ्जयति ।
यो᳚-ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ 82 ॥
(मेधो-ऽभ॑व॒--द्यज॑त - एति॒ - वेद॑) (अ. 22)

अनुवाकं 23 - अश्वावयवेषूपासनम्
यो वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोम॑नी॒ वेद॑ ।
अश्व॑स्यै॒व मेद्ध्य॑स्य॒ लोमं॑-लोँमञ्जुहोति ।
अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोम॑नी । यथ्सा॒य-म्प्रा॑तर्जु॒होति॑ । अश्व॑स्यै॒व मेद्ध्य॑स्य॒ लोमं॑-लोँमञ्जुहोति ।
ए॒तद॑नुकृति हस्म॒ वै पु॒रा । अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोमं॑-लोँमञ्जुह्वति ॥
यो वा अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे वेद॑ ।
अश्व॑स्यै॒व मेद्ध्य॑स्य प॒दे प॑दे जुहोति ।
द॒र्॒श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे ॥ 83 ॥

यद्द॑र्​शपूर्णमा॒सौ यज॑ते ।
अश्व॑स्यै॒व मेद्ध्य॑स्य प॒दे प॑दे जुहोति ।
ए॒तद॑नुकृति ह स्म॒ वै पु॒रा ।
अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे प॑दे जुह्वति ॥
यो वा अश्व॑स्य॒ मेद्ध्य॑स्य वि॒वर्त॑नं॒-वेँद॑ । अश्व॑स्यै॒व मेद्ध्य॑स्य वि॒वर्त॑ने विवर्तने जुहोति । अ॒सौ वा आ॑दि॒त्यो-ऽश्वः॑ । स आ॑हव॒नीय॒-माग॑च्छति । तद्विव॑र्तते ।
यद॑ग्निहो॒त्र-ञ्जु॒होति॑ ।
अश्व॑स्यै॒व मेद्ध्य॑स्य वि॒वर्त॑ने विवर्तने जुहोति । ए॒तद॑नुकृति ह स्म॒ वै पु॒रा ।
अश्व॑स्य॒ मेद्ध्य॑स्य वि॒वर्त॑ने विवर्तने जुह्वति ॥ 84 ॥
(प॒दे - अ॑ग्निहो॒त्र-ञ्जु॒होति॒ त्रीणि॑ च) (अ. 23)

(प्र॒जाप॑ति॒स्तम॑ष्टाद॒शिभिः॑ - प्र॒जाप॑तिरकामयतो॒भा - व॒स्मै - यु॒ञ्जन्ति॒-तेज॒सा - ऽप॑ प्रा॒णा - अप॒ श्रीरू॒द्र्ध्वम् - प्र॒जाप॑तिः प्रे॒णा-ऽनु॑ - प्रथ॒मेन॑ - प्र॒जाप॑तिरकामयत म॒हान्. - वै᳚श्वदे॒वो वा अश्वो - ऽश्व॑स्य - प्र॒जाप॑ति॒स्तं-यँ॑ज्ञक्र॒तुभि॒ - रप॒ श्रीर्ब्रा᳚ह्म॒णौ - सर्वे॑षु- वारु॒णो - यद्यश्व॒म् - तदा॑हु- रे॒ष वै वि॒भू - स्ता॒र्प्येणा॑- दि॒त्याः - प्र॒जाप॑ति-म्पि॒तरं॒ - ँयो वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोम॑नी॒ त्रयो॑विग्ंशतिः)

(प्र॒जाप॑तिर॒ - स्मिन् ँलो॒के - उ॑त्तर॒तः - श्रिय॑मे॒व - प्र॒जाप॑तिरकामयत म॒हान्.-य-त्प्रा॒त - प्र वा ए॒ष ए॒भ्यो
लो॒केभ्यः॒- सर्वग्ं॑ ह॒ वै तत्र॒ पय॑स्व॒द्य -उ॑ चैनमे॒वं-वेँद॑ च॒त्वार्यशी॑तिः)

(प्र॒जाप॑तिरश्वमे॒धं - जु॑ह्वति)

॥ हरिः ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके नवमः प्रपाठक-स्समाप्तः ॥
++++++++++++++++++++




Browse Related Categories: