| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
1.2 - गवामयनब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - उद्धन्यमान-मस्या कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके द्वितीयः प्रपाठकः - गवामयनब्राह्मणं ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - आधानमन्त्राः पूर्वप्रपाठकशेषभूताः उ॒द्ध॒न्यमा॑न-म॒स्या अ॑मे॒द्ध्यम् । अप॑ पा॒प्मानं॒-यँज॑मानस्य हन्तु । शि॒वा न॑-स्सन्तु प्र॒दिश॒श्चत॑स्रः । श-न्नो॑ मा॒ता पृ॑थि॒वी तोक॑साता ॥ श-न्नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये᳚ । शं-योँर॒भि स्र॑वन्तु नः ॥ वै॒श्वा॒न॒रस्य॑ रू॒पम् । पृ॒थि॒व्या-म्प॑रि॒स्रसा᳚ । स्यो॒न-मावि॑शन्तु नः ॥ 1 ॥ यदि॒द-न्दि॒वो यद॒दः पृ॑थि॒व्याः । स॒ज॒ञ्ज्ञा॒ने रोद॑सी सम्बभू॒वतुः॑ । ऊषा᳚न् कृ॒ष्णम॑वतु कृ॒ष्णमूषाः᳚ । इ॒होभयो᳚-र्य॒ज्ञिय॒-माग॑मिष्ठाः ॥ ऊ॒तीः कु॑र्वा॒णो य-त्पृ॑थि॒वीमच॑रः । गु॒हा॒कार॑-माखुरू॒प-म्प्र॒तीत्य॑ । त-त्ते॒ न्य॑क्तमि॒ह स॒भंर॑न्तः । श॒त-ञ्जी॑वेम श॒रद॒-स्सवी॑राः ॥ ऊर्ज॑-म्पृथि॒व्या रस॑-मा॒भर॑न्तः । श॒त-ञ्जी॑वेम श॒रदः॑ पुरू॒चीः ॥ 2 ॥ व॒म्रीभि॒-रनु॑वित्त॒-ङ्गुहा॑सु । श्रोत्र॑-न्त उ॒र्व्यब॑धिरा भवामः ॥ प्र॒जाप॑ति सृष्टाना-म्प्र॒जाना᳚म् । क्षु॒धोप॑हत्यै सुवि॒त-न्नो॑ अस्तु । उप॒प्रभि॑न्न॒मिष॒-मूर्ज॑-म्प्र॒जाभ्यः॑ । सूद॑-ङ्गृ॒हेभ्यो॒ रस॒माभ॑रामि ॥ यस्य॑ रू॒प-म्बिभ्र॑दि॒मा-मवि॑न्दत् । गुहा॒ प्रवि॑ष्टाग्ं सरि॒रस्य॒ मद्ध्ये᳚ । तस्ये॒दं-विँह॑त-मा॒भर॑न्तः । अछ॑म्बट्कारम॒स्यां-विँ॑धेम ॥ 3 ॥ य-त्प॒र्यप॑श्य-थ्सरि॒रस्य॒ मद्ध्ये᳚ । उ॒र्वीमप॑श्य॒-ज्जग॑तः प्रति॒ष्ठाम् । त-त्पुष्क॑रस्या॒यत॑ना॒द्धि जा॒तम् । प॒र्ण-म्पृ॑थि॒व्याः प्रथ॑नग्ं हरामि ॥ याभि॒रदृग्ं॑ह॒ज्जग॑तः प्रति॒ष्ठाम् । उ॒र्वीमि॒मां-विँ॑श्वज॒नस्य॑ भ॒र्त्रीम् । ता न॑-श्शि॒वा-श्शर्क॑रा-स्सन्तु॒ सर्वाः᳚ ॥ अ॒ग्ने रेत॑श्च॒न्द्रग्ं हिर॑ण्यम् । अ॒द्भ्य-स्सम्भू॑त-म॒मृत॑-म्प्र॒जासु॑ । त-थ्स॒भंर॑न्नुत्तर॒तो नि॒धाय॑ ॥ 4 ॥ अ॒ति॒ प्र॒यच्छ॒-न्दुरि॑ति-न्तरेयम् ॥ अश्वो॑ रू॒प-ङ्कृ॒त्वा यद॑श्व॒त्थे ऽति॑ष्ठः । सं॒वँ॒थ्स॒र-न्दे॒वेभ्यो॑ नि॒लाय॑ । तत्ते॒ न्य॑क्तमि॒ह स॒भंर॑न्तः । श॒त-ञ्जी॑वेम श॒रद॒-स्सवी॑राः ॥ ऊ॒र्जः पृ॑थि॒व्या अद्ध्युत्थि॑तो-ऽसि । वन॑स्पते श॒तव॑ल्शो॒ विरो॑ह । त्वया॑ व॒यमिष॒मूर्ज॒-म्मद॑न्तः । रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥ गा॒य॒त्रि॒या ह्रि॒यमा॑णस्य॒ यत्ते᳚ ॥ 5 ॥ प॒र्णमप॑त-त्तृ॒तीय॑स्यै दि॒वो-ऽधि॑ । सो॑-ऽय-म्प॒र्ण-स्सो॑मप॒र्णाद्धि जा॒तः । ततो॑ हरामि सोमपी॒थस्याव॑-रुद्ध्यै । दे॒वाना᳚-म्ब्रह्मवा॒दं-वँद॑तां॒-यँत् । उ॒पाशृ॑णो-स्सु॒श्रवा॒ वै श्रु॒तो॑-ऽसि । ततो॒ मामावि॑शतु ब्रह्मवर्च॒सम् । त-थ्स॒भंर॒ग्ग्॒ स्तदव॑रुन्धीय सा॒क्षात् ॥ यया॑ ते सृ॒ष्टस्या॒ग्नेः । हे॒तिमश॑मय-त्प्र॒जाप॑तिः । तामि॒माम प्र॑दाहाय ॥ 6 ॥ श॒मीग्ं शान्त्यै॑ हराम्य॒हम् ॥ यत्ते॑ सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कत॒-म्भा आ᳚र्छज्जातवेदः । तया॑ भा॒सा सम्मि॑तः । उ॒रु-न्नो॑ लो॒कमनु॒ प्रभा॑हि ॥ यत्ते॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन् जातवेदः । म॒रुतो॒-ऽद्भिस्त॑मयि॒त्वा । ए॒तत्ते॒ तद॑श॒ने-स्सम्भ॑रामि । सात्मा॑ अग्ने॒ सहृ॑दयो भवे॒ह ॥ चित्रि॑यादश्व॒त्था-थ्सम्भृ॑ता बृह॒त्यः॑ ॥ 7 ॥ शरी॑रम॒भि सग्ग् स्कृ॑ता-स्स्थ । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताः । ति॒स्रस् त्रि॒वृद्भि॑-र्मिथु॒नाः प्रजा᳚त्यै ॥ अ॒श्व॒त्था-द्ध॑व्यवा॒हा-द्धि जा॒ताम् । अ॒ग्ने स्त॒नूं-यँ॒ज्ञिया॒ग्ं॒ सम्भ॑रामि । शा॒न्तयो॑निग्ं शमीग॒र्भम् । अ॒ग्नये॒ प्रज॑नयि॒तवे᳚ ॥ यो अ॑श्व॒त्थ-श्श॑मीग॒र्भः । आ॒रु॒रोह॒ त्वे सचा᳚ । त-न्ते॑ हरामि॒ ब्रह्म॑णा ॥ 8 ॥ य॒ज्ञियैः᳚ के॒तुभि॑-स्स॒ह ॥ य-न्त्वा॑ स॒मभ॑रन्-जातवेदः । य॒था॒ श॒री॒र-म्भू॒तेषु॒ न्य॑क्तम् । स सम्भृ॑त-स्सीद शि॒वः प्र॒जाभ्यः॑ । उ॒रु-न्नो॑ लो॒कमनु॑नेषि वि॒द्वान् ॥ प्र वे॒धसे॑ क॒वये॒ मेद्ध्या॑य । वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ । यतो॑ भ॒यमभ॑य॒-न्तन्नो॑ अस्तु । अव॑ दे॒वान्. य॑जे॒ हेड्यान्॑ ॥ स॒मिधा॒-ऽग्नि-न्दु॑वस्यत ॥ 9 ॥ घृ॒तै-र्बो॑धय॒ताति॑थिम् । आ-ऽस्मि॑न्. ह॒व्या जु॑होतन ॥ उप॑ त्वा-ऽग्ने ह॒विष्म॑तीः । घृ॒ताची᳚र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ ॥ त-न्त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य ॥ स॒मि॒द्ध्यमा॑नः प्रथ॒मो नु धर्मः॑ । सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ॥ 10 ॥ शो॒चिष्के॑शो घृ॒तनि॑र्णिक्-पाव॒कः । सु॒य॒ज्ञो अ॒ग्नि-र्य॒जथा॑य दे॒वान् ॥ घृ॒तप्र॑तीको घृ॒तयो॑निर॒ग्निः । घृ॒तै-स्समि॑द्धो घृ॒तम॒स्यान्न᳚म् । घृ॒त॒प्रुष॑स्त्वा स॒रितो॑ वहन्ति । घृ॒त-म्पिबन्᳚-थ्सु॒यजा॑ यक्षि दे॒वान् ॥ आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णः । घृ॒त प्र॑तीको घृ॒तयो॑निरेधि । घृ॒त-म्पी॒त्वा मधु॒चारु॒ गव्य᳚म् । पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मम् ॥ 11 ॥ त्वाम॑ग्ने समिधा॒नं-यँ॑विष्ठ । दे॒वा दू॒त-ञ्च॑क्रिरे हव्य॒वाह᳚म् । उ॒रु॒ज्रय॑स-ङ्घृ॒तयो॑नि॒-माहु॑तम् । त्वे॒ष-ञ्चक्षु॑र्दधिरे चोद॒यन्व॑ति ॥ त्वाम॑ग्ने प्र॒दिव॒ आहु॑त-ङ्घृ॒तेन॑ । सु॒म्ना॒यव॑-स्सुष॒मिधा॒ समी॑धिरे । स वा॑वृधा॒न ओष॑धीभिरुक्षि॒तः । उ॒रुज्रयाग्ं॑सि॒ पार्थि॑वा॒ विति॑ष्ठसे ॥ घृ॒त प्र॑तीकं-वँ ऋ॒तस्य॑ धू॒र्॒षद᳚म् (धूर्॒षद᳚म्) । अ॒ग्नि-म्मि॒त्रन्न स॑मिधा॒न ऋ॑ञ्जते ॥ 12 ॥ इन्धा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑त् । शु॒क्रव॑र्णा॒मुदु॑ नो यग्ंसते॒ धिय᳚म् ॥ प्र॒जा अ॑ग्ने॒ संवाँ॑सय । आशा᳚श्च प॒शुभि॑-स्स॒ह । रा॒ष्ट्राण्य॑स्मा॒ आधे॑हि । यान्यास᳚न्-थ्सवि॒तु-स्स॒वे ॥ म॒ही वि॒श्पत्नी॒ सद॑ने ऋ॒तस्य॑ । अ॒र्वाची॒ एत॑-न्धरुणे रयी॒णाम् । अ॒न्तर्व॑त्नी॒ जन्य॑-ञ्जा॒तवे॑दसम् । अ॒द्ध्व॒राणा᳚-ञ्जनयथः पुरो॒गाम् ॥ 13 ॥ आरो॑हत-न्द॒शत॒ग्ं॒ शक्व॑री॒-र्मम॑ । ऋ॒तेना᳚ग्न॒ आयु॑षा॒ वर्च॑सा स॒ह । ज्योग् जीव॑न्त॒ उत्त॑रामुत्तरा॒ग्ं॒ समा᳚म् । दर्श॑म॒ह-म्पू॒र्णमा॑सं-यँ॒ज्ञं-यँथा॒ यजै᳚ ॥ ऋत्वि॑यवती स्थो अ॒ग्निरे॑तसौ । गर्भ॑-न्दधाथा॒-न्ते वा॑म॒ह-न्द॑दे । त-थ्स॒त्यं-यँ-द्वी॒र-म्बि॑भृथः । वी॒र-ञ्ज॑नयि॒ष्यथः॑ । ते म-त्प्रा॒तः प्रज॑निष्येथे । ते मा॒ प्रजा॑ते॒ प्रज॑नयि॒ष्यथः॑ ॥ 14 ॥ प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ सुव॒र्गे लो॒के ॥ अनृ॑ता-थ्स॒त्यमुपै॑मि । मा॒नु॒षा-द्दैव्य॒-मुपै॑मि । दैवीं॒-वाँचं॑-यँच्छामि ॥ शल्कै॑र॒ग्निमि॑न्धा॒नः । उ॒भौ लो॒कौ स॑नेम॒हम् । उ॒भयो᳚-र्लो॒कयोर्॑. ऋ॒द्ध्वा । अति॑ मृ॒त्यु-न्त॑राम्य॒हम् ॥ जात॑वेदो॒ भुव॑नस्य॒ रेतः॑ । इ॒ह सि॑ञ्च॒ तप॑सो॒ यज्ज॑नि॒ष्यते᳚ ॥ 15 ॥ अ॒ग्निम॑श्व॒त्थादधि॑ हव्य॒वाह᳚म् । श॒मी॒ग॒र्भा-ज्ज॒नय॒न॒.यो म॑यो॒ भूः ॥ अ॒य-न्ते॒ योनि॑र्-ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । त-ञ्जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् ॥ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । ये-ऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं-यँ॒मो॑-ऽव॒सान॑-म्पृथि॒व्याः । अक्र॑न्नि॒म-म्पि॒तरो॑ लो॒कम॑स्मै ॥ 16 ॥ अ॒ग्नेर्भस्मा᳚स्य॒ग्नेः पुरी॑षमसि ॥ स॒ज्ञान्न॑मसि काम॒धर॑णम् । मयि॑ ते काम॒धर॑ण-म्भूयात् ॥ सं-वँ॑-स्सृजामि॒ हृद॑यानि । सग्ं सृ॑ष्ट॒-म्मनो॑ अस्तु वः । सग्ं सृ॑ष्टः प्रा॒णो अ॑स्तु वः ॥ सं-याँ वः॑ प्रि॒यास्त॒नुवः॑ । सम्प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु॒ सम्प्रि॑यः । सम्प्रि॑या-स्त॒नुवो॒ मम॑ ॥ 17 ॥ कल्पे॑ता॒-न्द्यावा॑पृथि॒वी । कल्प॑न्ता॒माप॒ ओष॑धीः । कल्प॑न्ताम॒ग्नयः॒ पृथ॑क् । मम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः ॥ ये᳚-ऽग्नय॒-स्सम॑नसः । अ॒न्त॒रा द्यावा॑पृथि॒वी । वास॑न्तिकावृ॒तू अ॒भि कल्प॑मानाः । इन्द्र॑मिव दे॒वा अ॒भि संविँ॑शन्तु ॥ दि॒वस्त्वा॑ वी॒र्ये॑ण । पृ॒थि॒व्यै-म॑हि॒म्ना ॥ 18 ॥ अ॒न्तरि॑क्षस्य॒ पोषे॑ण । स॒र्वप॑शु॒-माद॑धे ॥ अजी॑जन-न्न॒मृत॒-म्मर्त्या॑सः । अ॒स्रे॒माण॑-न्त॒रणिं॑-वीँ॒डुज॑म्भम् । दश॒ स्वसा॑रो अ॒ग्रुव॑-स्समी॒चीः । पुमाग्ं॑स-ञ्जा॒तम॒भि सग्ंर॑भन्ताम् ॥ प्र॒जाप॑तेस्त्वा प्रा॒णेनाभि॒ प्राणि॑मि । पू॒ष्णः पोषे॑ण॒ मह्य᳚म् । दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । श॒तग्ं श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से ॥ 19 ॥ जी॒वात्वै पुण्या॑य ॥ अ॒ह-न्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लो॑क॒कृ-ज्जा॑तवेदः ॥ प्रा॒णे त्वा॒ ऽमृत॒माद॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तार॒-ङ्गुप्त्यै᳚ ॥ सु॒गा॒र्॒ह॒प॒त्यो वि॒दह॒न्नरा॑तीः । उ॒षस॒-श्श्रेय॑सी-श्श्रेयसी॒-र्दध॑त् ॥ 20 ॥ अग्ने॑ स॒पत्नाग्ं॑ अप॒ बाध॑मानः । रा॒यस्पोष॒-मिष॒मूर्ज॑-म॒स्मासु॑ धेहि ॥ इ॒मा उ॒ मामुप॑तिष्ठन्तु॒ रायः॑ । आ॒भिः प्र॒जाभि॑रि॒ह सं-वँ॑सेय । इ॒हो इडा॑ तिष्ठतु विश्वरू॒पी । मद्ध्ये॒ वसो᳚-र्दीदिहि जातवेदः ॥ ओज॑से॒ बला॑य॒ त्वोद्य॑च्छे । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से । स॒प॒त्न॒तूर॑सि वृत्र॒तूः । यस्ते॑ दे॒वेषु॑ महि॒मा सु॑व॒र्गः ॥ 21 ॥ यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः । पुष्टि॒र्या ते॑ मनु॒ष्ये॑षु पप्र॒थे । तया॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ ॥ दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । वाता᳚-त्प॒शुभ्यो॒ अद्ध्योष॑धीभ्यः । यत्र॑यत्र जातवेद-स्स-म्ब॒भूथ॑ । ततो॑ नो अग्ने जु॒षमा॑ण॒ एहि॑ ॥ प्राची॒मनु॑ प्र॒दिश॒-म्प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्नि-र्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॑हि ॥ 22 ॥ ऊर्ज॑-न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ अन्व॒ग्निरु॒षसा॒-मग्र॑-मख्यत् । अन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः । अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् । अनु॒ द्यावा॑पृथि॒वी आत॑तान ॥ विक्र॑मस्व म॒हाग्ं अ॑सि । वे॒दि॒ष-न्मानु॑षेभ्यः । त्रि॒षु लो॒केषु॑ जागृहि ॥ यदि॒द-न्दि॒वो यद॒दः पृ॑थि॒व्याः । सं॒-विँ॒दा॒ने रोद॑सी स-म्बभू॒वतुः॑ ॥ 23 ॥ तयोः᳚ पृ॒ष्ठे सी॑दतु जा॒तवे॑दाः । श॒भूंः प्र॒जाभ्य॑-स्त॒नुवे᳚ स्यो॒नः ॥ प्रा॒ण-न्त्वा॒-ऽमृत॒ आद॑धामि । अ॒न्ना॒दम॒न्नाद्या॑य । गो॒प्तार॒-ङ्गुप्त्यै᳚ । यत्ते॑ शुक्र शु॒क्रं-वँर्च॑-श्शु॒क्रा त॒नूः । शु॒क्र-ञ्ज्योति॒-रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वा-ऽऽद॑धे । अ॒ग्निना᳚-ऽऽग्ने॒ ब्रह्म॑णा । आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒-र्व्या॑नशे ॥ 24 ॥ नर्य॑ प्र॒जा-म्मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसे᳚ । जा॒ता-ञ्ज॑नि॒ष्यमा॑णा-ञ्च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् ॥ अथ॑र्व पि॒तु-म्मे॑ गोपाय । रस॒मन्न॑मि॒हायु॑षे । अद॑ब्धा॒यो-ऽशी॑ततनो । अवि॑ष-न्नः पि॒तु-ङ्कृ॑णु ॥ शग्ग्स्य॑ प॒शू-न्मे॑ गोपाय । द्वि॒पादो॒ ये चतु॑ष्पदः ॥ 25 ॥ अ॒ष्टाश॑फाश्च॒ य इ॒हाग्ने᳚ । ये चैक॑शफा आशु॒गाः ॥ सप्र॑थ स॒भा-म्मे॑ गोपाय । ये च॒ सभ्या᳚-स्सभा॒सदः॑ । तानि॑न्द्रि॒याव॑तः कुरु । सर्व॒मायु॒-रुपा॑सताम् ॥ अहे॑बुद्ध्निय॒ मन्त्र॑-म्मे गोपाय । यमृष॑यस्त्रैवि॒दा वि॒दुः । ऋच॒-स्सामा॑नि॒ यजूग्ं॑षि । सा हि श्रीर॒मृता॑ स॒ताम् ॥ 26 ॥ चतु॑-श्शिखण्डा युव॒ति-स्सु॒पेशाः᳚ । घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मद्ध्ये᳚ । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय । मह्य॑-न्धुक्ष्व॒ यज॑मानाय॒ कामान्॑ ॥ इ॒हैव सन्तत्र॑ स॒तो वो॑ अग्नयः । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् । ज्योति॑षा वो वैश्वान॒रे-णोप॑तिष्ठे ॥ प॒ञ्च॒धा-ऽग्नीन्-व्य॑क्रामत् । वि॒राट्-थ्सृ॒ष्टा प्र॒जाप॑तेः । ऊ॒र्ध्वा-ऽऽरो॑ह-द्रोहि॒णी । योनि॑र॒ग्नेः प्रति॑ष्ठितिः ॥ 27 ॥ अनुवाकं 2 - विषूवन्नामक-म्मुख्यमह, तदुभयपार्श्ववर्तीनि चत्वार्यहानि चोच्यन्ते प॒शवो॒ वा उ॒क्थानि॑ । प॒शू॒नामव॑-रुद्ध्यै ॥ वि॒श्व॒जि॒द॒भि॒जिता॑-वग्निष्टो॒मौ ॥ उ॒क्थ्या᳚-स्सप्तद॒शाः पर॑-स्सामानः । ते सग्ग्स्तु॑ता वि॒राज॑म॒भि सम्प॑द्यन्ते । द्वे चर्चा॒वति॑ रिच्येते । एक॑या॒ गौरति॑रिक्तः । एक॒या-ऽऽयु॑रू॒नः । सु॒व॒र्गो वै लो॒को ज्योतिः॑ । ऊर्ग् वि॒राट् ॥ 29 ॥ सु॒व॒र्गमे॒व तेन॑ लो॒कम॒भि ज॑यन्ति ॥ य-त्पर॒ग्ं॒ राथ॑न्तरम् । त-त्प्र॑थ॒मे-ऽह॑न्-का॒र्य᳚म् । बृ॒ह-द्द्वि॒तीये᳚ । वै॒रू॒प-न्तृ॒तीये᳚ । वै॒रा॒ज-ञ्च॑तु॒र्थे । शा॒क्व॒र-म्प॑ञ्च॒मे । रै॒व॒तग्ं ष॒ष्ठे । तदु॑ पृ॒ष्ठेभ्यो॒ नय॑न्ति ॥ स॒तन्न॑य ए॒ते ग्रहा॑ गृह्यन्ते ॥ 30 ॥ अ॒ति॒ग्रा॒ह्याः᳚ पर॑-स्सामसु । इ॒माने॒वैतै-र्लो॒कान्-थ्सन्त॑न्वन्ति ॥ मि॒थु॒ना ए॒ते ग्रहा॑ गृह्यन्ते । अ॒ति॒ग्रा॒ह्याः᳚ पर॑-स्सामसु । मि॒थु॒नमे॒व तै-र्यज॑माना॒ अव॑रुन्धते ॥ बृ॒ह-त्पृ॒ष्ठ-म्भ॑वति । बृ॒ह-द्वै सु॑व॒र्गो लो॒कः । बृ॒ह॒तैव सु॑व॒र्गं-लोँ॒कं-यँ॑न्ति ॥ त्र॒य॒स्त्रि॒ग्ं॒शि नाम॒ साम॑ । माद्ध्य॑न्दिने॒ पव॑माने भवति ॥ 31 ॥ त्रय॑स्त्रिग्ंश॒द्वै दे॒वताः᳚ । दे॒वता॑ ए॒वाव॑रुन्धते ॥ ये वा इ॒तः परा᳚ञ्चग्ं संवँथ्स॒र-मु॑प॒ यन्ति॑ । न है॑न॒-न्ते स्व॒स्ति सम॑श्ञुवते । अथ॒ ये॑-ऽमुतो॒-ऽर्वाञ्च॑मुप॒ यन्ति॑ । ते है॑नग्ग् स्व॒स्ति सम॑श्ञुवते । ए॒तद्वा अ॒मुतो॒-ऽर्वाञ्च॒मुप॑ यन्ति । यदे॒वम् । यो ह॒ खलु॒ वाव प्र॒जाप॑तिः । स उ॑ वे॒वेन्द्रः॑ । तदु॑ दे॒वेभ्यो॒ नय॑न्ति ॥ 32 ॥ अनुवाकं 3 - विषुवद्दिने-ऽतिग्राह्यविशेषाः ए॒वग्ं सं॑वँथ्स॒रस्य॒ पक्ष॑सी दिवाकी॒र्त्य॑म॒भि सन्त॑न्वन्ति । नार्ति॒मार्च्छ॑न्ति ॥ ए॒क॒वि॒ग्ं॒श-मह॑र्भवति । शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥ सौ॒र्य॑ ए॒तदहः॑ प॒शुराल॑भ्यते । सौ॒र्यो॑-ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्-ह्रि॑यते ॥ स॒प्तै-तदह॑रति-ग्रा॒ह्या॑ गृह्यन्ते ॥ 34 ॥ स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः । अ॒सावा॑दि॒त्य-श्शिरः॑ प्र॒जाना᳚म् । शी॒र्॒षन्ने॒व प्र॒जाना᳚-म्प्रा॒णा-न्द॑धाति । तस्मा᳚थ्स॒प्त शी॒र्॒ष-न्प्रा॒णाः ॥ इन्द्रो॑ वृ॒त्रग्ं ह॒त्वा । असु॑रा-न्परा॒भाव्य॑ । स इ॒माँल्लो॒का-न॒भ्य॑जयत् । तस्या॒सौ लो॒को-ऽन॑भिजित आसीत् । तं-विँ॒श्वक॑र्मा भू॒त्वा-ऽभ्य॑जयत् । य-द्वै᳚श्वकर्म॒णो गृ॒ह्यते᳚ ॥ 35 ॥ सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ॥ प्र वा ए॒ते᳚-ऽस्मा-ल्लो॒का-च्च्य॑वन्ते । ये वै᳚श्वकर्म॒ण-ङ्गृ॒ह्णते᳚ । आ॒दि॒त्यश्श्वो गृ॑ह्यते । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥ अ॒न्यो᳚न्यो गृह्येते । विश्वा᳚न्ये॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति । अ॒स्याम॒न्येन॒ प्रति॑ तिष्ठन्ति ॥ तावा-ऽप॑रा॒र्धा-थ्सं॑वँथ्स॒रस्या॒-न्यो᳚न्यो गृह्येते ॥ तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते । य॒ज्ञस्यै॒वान्त॑-ङ्ग॒त्वा । उ॒भयो᳚-र्लो॒कयोः॒ प्रति॑ तिष्ठन्ति ॥ अ॒र्क्य॑मु॒क्थ-म्भ॑वति । अनुवाकं 4 - तस्मिन्नेव दिने दिवाकीर्त्यनामानि सामानि दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । परा॑चो-ऽतिपा॒दाद॑बिभयुः । त-ञ्छन्दो॑भिरदृग्ं ह॒न्धृत्यै᳚ । दे॒वा वा आ॑दि॒त्यस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । अवा॑चो-ऽवपा॒दाद॑बिभयुः । त-म्प॒ञ्चभी॑ र॒श्मिभि॒-रुद॑वयन्न् । तस्मा॑देकवि॒ग्ं॒शे ऽह॒-न्पञ्च॑ दिवाकी॒र्त्या॑नि क्रियन्ते । र॒श्मयो॒ वै दि॑वाकी॒र्त्या॑नि ॥ ये गा॑य॒त्रे । ते गा॑य॒त्रीषूत्त॑रयोः॒ पव॑मानयोः ॥ 38 ॥ म॒हादि॑वाकीर्त्य॒ग्ं॒ होतुः॑ पृ॒ष्ठम् । वि॒क॒र्ण-म्ब्र॑ह्मसा॒मम् । भा॒सो᳚-ऽग्निष्टो॒मः ॥ अथै॒तानि॒ परा॑णि । परै॒र्वै दे॒वा आ॑दि॒त्यग्ं सु॑व॒र्गं-लोँ॒कम॑पारयन्न् । यदपा॑रयन्न् । त-त्परा॑णा-म्पर॒त्वम् । पा॒रय॑न्त्येन॒-म्परा॑णि । य ए॒वं-वेँद॑ । अथै॒तानि॒ स्परा॑णि । स्परै॒र्वै दे॒वा आ॑दि॒त्यग्ं सु॑व॒र्गं-लोँ॒कम॑स्पारयन्न् । यदस्पा॑रयन्न् । त-थ्स्परा॑णाग् स्पर॒त्वम् । स्पा॒रय॑न्त्येन॒ग्ग्॒ स्परा॑णि । य ए॒वं-वेँद॑ ॥ 39 ॥ अनुवाकं 5 - पशवः वैष्णवाद्या नव वै॒श्व॒दे॒व-माल॑भन्ते । दे॒वता॑ ए॒वाव॑-रुन्धते । द्या॒वा॒पृ॒थि॒व्या᳚-न्धे॒नु-माल॑भन्ते । द्यावा॑पृथि॒व्योरे॒व प्रति॑ तिष्ठन्ति । वा॒य॒व्यं॑-वँ॒थ्समाल॑भन्ते । वा॒युरे॒वैभ्यो॑ यथा-ऽऽयत॒ना-द्दे॒वता॒ अव॑रुन्धे । आ॒दि॒त्यामविं॑-वँ॒शा-माल॑भन्ते । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति । मै॒त्रा॒व॒रु॒णी-माल॑भन्ते ॥ 41 ॥ मि॒त्रेणै॒व य॒ज्ञस्य॒ स्वि॑ष्टग्ं शमयन्ति । वरु॑णेन॒ दुरि॑ष्टम् । प्रा॒जा॒प॒त्य-न्तू॑प॒र-म्म॑हाव्र॒त आल॑भन्ते । प्रा॒जा॒प॒त्यो॑-ऽतिग्रा॒ह्यो॑ गृह्यते । अह॑रे॒व रू॒पेण॒ सम॑र्धयन्ति । अथो॒ अह्न॑ ए॒वैष ब॒लिर्-ह्रि॑यते । आ॒ग्ने॒यमाल॑भन्ते॒ प्रति॒ प्रज्ञा᳚त्यै ॥ अ॒ज॒पे॒त्वान्. वा ए॒ते पूर्वै॒र्मासै॒र-व॑रुन्धते । यदे॒ते ग॒व्याः प॒शव॑ आल॒भ्यन्ते᳚ । उ॒भये॑षा-म्पशू॒ना-मव॑रुद्ध्यै ॥ 42 ॥ यदति॑रिक्ता-मेकाद॒शिनी॑-मा॒लभे॑रन्न् । अप्रि॑य॒-म्भ्रातृ॑व्य-म॒भ्यति॑रिच्येत । य-द्द्वौद्वौ॑ प॒शू स॒मस्ये॑युः । कनी॑य॒ आयुः॑ कुर्वीरन्न् । यदे॒ते ब्राह्म॑णवन्तः प॒शव॑ आल॒भ्यन्ते᳚ । नाप्रि॑य॒-म्भ्रातृ॑व्य-म॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयुः॑ कुर्वते ॥ 43 ॥ अनुवाकं 6 - महाव्रतम् चतु॑र्विग्ंश-त्यर्धमास-स्संवँथ्स॒रः । य-द्वा ए॒तस्मिन्᳚-थ्संवँथ्स॒रे ऽधि॒प्राजा॑यत । तदन्न॑-म्पञ्चवि॒ग्ं॒श-म॑भवत् ॥ म॒द्ध्य॒तः क्रि॑यते । म॒द्ध्य॒तो ह्यन्न॑मशि॒त-न्धि॒नोति॑ । अथो॑ मद्ध्य॒त ए॒व प्र॒जाना॒मूर्ग्धी॑यते ॥ अथ॒ यद्वा इ॒दम॑न्त॒तः क्रि॒यते᳚ । तस्मा॑दुद॒न्ते प्र॒जा-स्समे॑धन्ते । अ॒न्त॒तः क्रि॑यते प्र॒जन॑नायै॒व ॥ त्रि॒वृच्छिरो॑ भवति ॥ 45 ॥ त्रे॒धा॒ वि॒हि॒तग्ं हि शिरः॑ । लोम॑ छ॒वीरस्थि॑ ॥ परा॑चा स्तुवन्ति । तस्मा॒-त्त-थ्स॒दृगे॒व । न मेद्य॒तो-ऽनु॑ मेद्यति । न कृश्य॒तो-ऽनु॑ कृश्यति ॥ प॒ञ्च॒द॒शो᳚-ऽन्यः प॒क्षो भ॑वति । स॒प्त॒द॒शो᳚-ऽन्यः । तस्मा॒-द्वयाग्॑स्य-न्यत॒रम॒र्धम॒भि प॒र्याव॑र्तन्ते । अ॒न्य॒त॒रतो॒ हि त-द्गरी॑यः क्रि॒यते᳚ ॥ 46 ॥ प॒ञ्च॒वि॒ग्ं॒श आ॒त्मा भ॑वति । तस्मा᳚-न्मद्ध्य॒तः प॒शवो॒ वरि॑ष्ठाः ॥ ए॒क॒वि॒ग्ं॒श-म्पुच्छ᳚म् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै ॥ सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्या᳚त्मना᳚-ऽऽत्म॒न्वी । स॒होत्पत॑न्ति ॥ एकै॑का॒-मुच्छिग्ं॑षन्ति । आ॒त्मन्न्. ह्यङ्गा॑नि ब॒द्धानि॑ ॥ न वा ए॒तेन॒ सर्वः॒ पुरु॑षः ॥ 47 ॥ यदि॒त इ॑तो॒ लोमा॑नि द॒तो न॒खान् । प॒रि॒मादः॑ क्रियन्ते । तान्ये॒व तेन॒ प्रत्यु॑प्यन्ते ॥ औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्ग्वा अन्न॑मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्या-व॑रुद्ध्यै ॥ यस्य॑ तल्प॒सद्य॒-मन॑भिजित॒ग्ग्॒ स्यात् । स दे॒वाना॒ग्ं॒ साम्य॑क्षे । त॒ल्प॒सद्य॑-म॒भिज॑या॒नीति॒ तल्प॑मा॒-रुह्यो-द्गा॑येत् । त॒ल्प॒सद्य॑-मे॒वाभिज॑यति ॥ 48 ॥ यस्य॑ तल्प॒सद्य॑-म॒भिजि॑त॒ग्ग्॒ स्यात् । स दे॒वाना॒ग्ं॒ साम्य॑क्षे । त॒ल्प॒सद्य॒-म्मा परा॑जे॒षीति॒ तल्प॑-मा॒रुह्यो-द्गा॑येत् । न त॑ल्प॒सद्य॒-म्परा॑जयते ॥ प्ले॒ङ्खे शग्ं॑सति । महो॒ वै प्ले॒ङ्खः । मह॑स ए॒वान्नाद्य॒स्या-व॑रुद्ध्यै ॥ दे॒वा॒सु॒रा-स्संयँ॑त्ता आसन्न् । त आ॑दि॒त्ये व्याय॑च्छन्त । त-न्दे॒वा-स्सम॑जयन्न् ॥ 49 ॥ ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते व्याय॑च्छेते । दैव्यो॒ वै वर्णो᳚ ब्राह्म॒णः । अ॒स॒र्य॑-श्शू॒द्रः । इ॒मे॑-ऽरा-थ्सुरि॒मे सु॑भू॒त-म॑क्र॒-न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म उ॑द्वासीका॒रिण॑ इ॒मे दु॑र्भू॒त-म॑क्र॒न्नित्य॑न्यत॒रः । यदे॒वैषाग्ं॑ सुकृ॒तं-याँ राद्धिः॑ । तद॑न्यत॒रो॑-ऽभिश्री॑णाति । यदे॒वैषा᳚-न्दुष्कृ॒तं-याँ-ऽरा᳚द्धिः । तद॑न्यत॒रो-ऽप॑हन्ति । ब्रा॒ह्म॒ण-स्स-ञ्ज॑यति । अ॒मुमे॒वादि॒त्य-म्भ्रातृ॑व्यस्य॒ संविँ॑न्दन्ते ॥ 50 ॥ (उ॒द्ध्य॒न्यमा॑नं॒ - नवै॒तानि॒ - सन्त॑ति - रेकवि॒ग्ं॒श ए॒षो - ऽप्र॑तिष्ठां - प्र॒जाप॑ति-र्वृ॒त्त-ष्षट् ) (उ॒द्ध॒न्यमा॑नग्ं - शो॒चिष्के॒शो - ऽग्ने॑ स॒पत्ना॑ - नतिग्रा॒ह्या॑ - वैश्वदे॒वमाल॑भन्ते पञ्चा॒शत् ) (उ॒द्ध॒न्यमा॑न॒ग्ं॒ - संविँ॑न्दन्ते ) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके द्विदीयः प्रपाठक-स्समाप्तः ॥
|