कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके तृतीयः प्रपाठकः - दर्.शपूर्णमासेष्टिब्राह्मणम्
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1 - स्त्रुख्सम्मार्गः
प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒-मप॑हत्यै । अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मीत्या॑ह मेद्ध्य॒त्वाय॑ ।
स्रुच॒-स्सम्मा᳚र्ष्टि । स्रु॒वमग्रे᳚ । पुमाग्ं॑ समे॒वाभ्य॒-स्सग्ग्श्य॑ति मिथुन॒त्वाय॑ । अथ॑ जु॒हूम् । अथो॑प॒भृत᳚म् । अथ॑ ध्रु॒वाम् । अ॒सौ वै जु॒हूः ॥ 1 ॥
अ॒न्तरि॑क्षमुप॒भृत् । पृ॒थि॒वी ध्रु॒वा ।
इ॒मे वै लो॒का-स्स्रुचः॑ । वृष्टि॑-स्स॒मांर्ज॑नानि । वृष्टि॒र्वा इ॒मान् ँलो॒कान॑नुपू॒र्व-ङ्क॑ल्पयति ।
ते ततः॑ क्लृ॒प्ता-स्समे॑धन्ते ।
समे॑धन्ते-ऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑ ।
य ए॒वं-वेँद॑ ॥ यदि॑ का॒मये॑त॒ वर्षु॑कः प॒र्जन्य॑-स्स्या॒दिति॑ । अ॒ग्र॒त-स्सम्मृ॑ज्यात् ॥ 2 ॥
वृष्टि॑मे॒व निय॑च्छति । अ॒वा॒चीना᳚ग्रा॒ हि वृष्टिः॑ ।
यदि॑ का॒मये॒ताव॑र्षुक-स्स्या॒दिति॑ । मू॒ल॒त-स्सम्मृ॑ज्यात् । वृष्टि॑मे॒वोद्य॑च्छति । तदु॒ वा आ॑हुः । अ॒ग्र॒त ए॒वोपरि॑ष्टा॒-थ्सम्मृ॑ज्यात् ।
मू॒ल॒तो॑-ऽधस्ता᳚त् । तद॑नुपू॒र्व-ङ्क॑ल्पते ।
वर्षु॑को भव॒तीति॑ ॥ 3 ॥
प्राची॑मभ्या॒कार᳚म् । अग्रै॑रन्तर॒तः । ए॒वमि॑व॒ ह्यन्न॑म॒द्यते᳚ । अथो॒ अग्रा॒द्वा ओष॑धीना॒मूर्ज॑-म्प्र॒जा उप॑जीवन्ति । ऊ॒र्ज ए॒वा-न्नाद्य॒स्याव॑रुद्ध्यै । अ॒धस्ता᳚-त्प्र॒तीची᳚म् । द॒ण्डमु॑त्तम॒तः ।
मूले॑न॒ मूल॒-म्प्रति॑ष्ठित्यै । तस्मा॑दर॒त्नौ प्राञ्च्यु॒परि॑ष्टा॒-ल्लोमा॑नि । प्र॒त्यञ्च्य॒धस्ता᳚त् ॥ 4 ॥
स्रुग्घ्ये॑षा ॥ प्रा॒णो वै स्रु॒वः । जु॒हूर्दक्षि॑णो॒ हस्तः॑ । उ॒प॒भृथ्स॒व्यः । आ॒त्मा ध्रु॒वा । अन्नग्ं॑ स॒मांर्ज॑नानि । मु॒ख॒तो वै प्रा॒णो॑-ऽपा॒नो भू॒त्वा ।
आ॒त्मान॒मन्न॑-म्प्र॒विश्य॑ । बा॒ह्य॒तस्त॒नुवग्ं॑ शुभयति । तस्मा᳚-थ्स्रु॒वमे॒वाग्रे॒ सम्मा᳚र्ष्टि ॥ मु॒ख॒तो हि प्रा॒णो॑-ऽपा॒नो भू॒त्वा ।
आ॒त्मान॒मन्न॑-मावि॒शति॑ । तौ प्रा॑णापा॒नौ ।
अव्य॑र्धुकः प्राणापा॒नाभ्या᳚-म्भवति । य ए॒वं-वेँद॑ ॥ 5 ॥
(जु॒हु--र् मृ॑ज्या-द्- भव॒तीति॑ - प्र॒त्यञ्च्य॒धस्ता᳚न् - मार्ष्टि॒ पञ्च॑ च) (अ. 1)
3.3.2 आनुवाकं 2 - सम्मार्जनानामग्नौ प्रहरणम्
दि॒व-श्शिल्प॒मव॑ततम् । पृ॒थि॒व्याः क॒कुभि॑ श्रि॒तम् ।
तेन॑ व॒यग्ं स॒हस्र॑वल्शेन ।
स॒पत्न॑-न्नाशयामसि॒ स्वाहेति॑ स्रुख्स॒मांर्ज॑नान्य॒ग्नौ प्रह॑रति ।
आपो॒ वै द॒र्भाः । रू॒पमे॒वैषा॑मे॒त-न्म॑हि॒मानं॒-व्याँच॑ष्टे ॥ अ॒नु॒ष्टुभ॒र्चा । आनु॑ष्टुभः प्र॒जाप॑तिः । प्रा॒जा॒प॒त्यो वे॒दः ।
वे॒दस्याग्रग्ग्॑ स्रुख्स॒मांर्ज॑नानि ॥ 6 ॥
स्वेनै॒वैना॑नि॒ छन्द॑सा । स्वया॑ दे॒वत॑या॒ सम॑र्धयति । अथो॒ ऋग्वाव योषा᳚ । द॒र्भो
वृषा᳚ । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ त-द्य॒ज्ञे क॑रोति प्र॒जन॑नाय । प्रजा॑यते प्र॒जया॑ प॒शुभि॒-र्यज॑मानः ॥ तान्येके॒ वृथै॒वापा᳚स्यन्ति ।
तत्तथा॒ न का᳚र्यम् । आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑ण॒-स्स वि॑दो॒हः ॥ 7 ॥
यद्ये॑नानि प॒शवो॑-ऽभि॒तिष्ठे॑युः ।
न त-त्प॒शुभ्यः॒ कम् । अ॒द्भिर्मा᳚-र्जयि॒त्वोत्क॒रे न्य॑स्येत् ।
यद्वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒-ऽन्यत्राहु॑तीभ्य-स्स॒न्तिष्ठ॑ते । उ॒त्क॒रो वाव तस्य॑ प्रति॒ष्ठा । ए॒ताग्ं हि तस्मै᳚ प्रति॒ष्ठा-न्दे॒वा-स्स॒मभ॑रन्न् ।
यद॒द्भिर्मा॒र्जय॑ति । तेन॑ शा॒न्तम् । यदु॑त्क॒रे न्य॒स्यति॑ । प्र॒ति॒ष्ठामे॒वैना॑नि॒ त-द्ग॑मयति ॥ 8 ॥
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥
अथो᳚ स्त॒म्बस्य॒ वा ए॒त-द्रू॒पम् । य-थ्स्रु॑ख्स॒मांर्ज॑नानि । स्त॒म्ब॒शो वा ओष॑धयः ।
तासा᳚-ञ्जरत्क॒क्षे प॒शवो॒ न र॑मन्ते । अप्रि॑यो॒ ह्ये॑षा-ञ्जरत्क॒क्षः । याव॑दप्रियो ह॒ वै ज॑रत्क॒क्षः प॑शू॒नाम् । ताव॑दप्रियः पशू॒ना-म्भ॑वति । यस्यै॒तान्य॒न्यत्रा॒ग्ने-र्दध॑ति ।
न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते ॥ 9 ॥
न॒व॒दा॒वो ह्ये॑षा-म्प्रि॒यः । याव॑त्प्रियो ह॒ वै न॑वदा॒वः प॑शू॒नाम् । ताव॑त्प्रियः पशू॒ना-म्भ॑वति । यस्यै॒तान्य॒ग्नौ प्र॒हर॑न्ति । तस्मा॑दे॒तान्य॒ग्नावे॒व प्रह॑रेत् । य॒त॒रस्मिन्᳚-थ्सम्मृ॒ज्यात् ।
प॒शू॒ना-न्धृत्यै᳚ ॥ यो भू॒ताना॒मधि॑पतिः । रु॒द्रस्त॑न्तिच॒रो वृषा᳚ । प॒शून॒स्माक॒-म्मा हिग्ं॑सीः । ए॒तद॑स्तु हु॒त-न्तव॒ स्वाहेत्य॑ग्नि स॒मांर्ज॑नान्य॒ग्नौ प्रह॑रति । ए॒षा वा ए॒तेषां॒-योँनिः॑ । ए॒षा प्र॑ति॒ष्ठा । स्वामे॒वैना॑नि॒ योनि᳚म् ।
स्वा-म्प्र॑ति॒ष्ठा-ङ्ग॑मयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः ॥ 10 ॥
(वे॒दस्याग्रग्ग्॑ स्रुख्स॒मांर्ज॑नानि - विदो॒हो - ग॑मयति - प॒शवो॑ रमन्ते - हिग्ंसी॒-ष्षट्च॑) (अ. 2)
अनुवाकं 3 - पत्नीसन्नहनम्
अय॑ज्ञो॒ वा ए॒षः । यो॑-ऽप॒त्नीकः॑ । न प्र॒जाः प्रजा॑येरन्न् । पत्न्यन्वा᳚स्ते । य॒ज्ञमे॒वाकः॑ । प्र॒जाना᳚-म्प्र॒जन॑नाय । य-त्तिष्ठ॑न्ती स॒नंह्ये॑त ।
प्रि॒य-ञ्ज्ञा॒तिग्ं रु॑न्ध्यात् । आसी॑ना॒ सन्न॑ह्यते ।
आसी॑ना॒ ह्ये॑षा वी॒र्य॑-ङ्क॒रोति॑ ॥ 11 ॥
य-त्प॒श्चात्-प्राच्य॒न्वासी॑त । अ॒नया॑ स॒मद॑-न्दधीत ।
दे॒वाना॒-म्पत्नि॑या स॒मद॑-न्दधीत । देशा᳚-द्दक्षिण॒त उदी॒च्यन्वा᳚स्ते । आ॒त्मनो॑ गोपी॒थाय॑ ॥ आ॒शासा॑ना सौमन॒समित्या॑ह । मेद्ध्या॑मे॒वैना॒-ङ्केव॑ली-ङ्कृ॒त्वा । आ॒शिषा॒ सम॑र्धयति ।
अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कमित्या॑ह । ए॒तद्वै पत्नि॑यै व्रतोप॒नय॑नम् ॥ 12 ॥
तेनै॒वैनां᳚-व्रँ॒तमुप॑नयति । तस्मा॑दाहुः ।
यश्चै॒वं-वेँद॒ यश्च॒न । योक्त्र॑मे॒व यु॑ते । यम॒न्वास्ते᳚ । तस्या॒मुष्मि॑न् ँलो॒के भ॑व॒तीति॒ योक्त्रे॑ण । य-द्योक्त्र᳚म् । स योगः॑ । यदास्ते᳚ । स क्षेमः॑ ॥ 13 ॥
यो॒ग॒क्षे॒मस्य॒ क्लृप्त्यै᳚ ॥ यु॒क्त-ङ्क्रि॑याता आ॒शीः कामे॑ युज्याता॒ इति॑ । आ॒शिष॒-स्समृ॑द्ध्यै । ग्र॒न्थि-ङ्ग्र॑थ्नाति । आ॒शिष॑ ए॒वास्या॒-म्परि॑गृह्णाति ।
पुमा॒न्॒. वै ग्र॒न्थिः । स्त्री पत्नी᳚ । त-न्मि॑थु॒नम् ।
मि॒थु॒नमे॒वास्य॒ त-द्य॒ज्ञे क॑रोति प्र॒जन॑नाय ।
प्रजा॑यते प्र॒जया॑ प॒शुभि॒-र्यज॑मानः ॥ 14 ॥
अथो॑ अ॒र्धो वा ए॒ष आ॒त्मनः॑ । य-त्पत्नी᳚ ।
य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलम्भावाय ॥
सु॒प्र॒जस॑स्त्वा व॒यग्ं सु॒पत्नी॒रुप॑सेदि॒मेत्या॑ह ।
य॒ज्ञमे॒व त-न्मि॑थु॒नी क॑रोति । ऊ॒ने-ऽति॑रिक्त-न्धीयाता॒ इति॒ प्रजा᳚त्यै ॥ म॒ही॒ना-म्पयो॒-ऽस्योष॑धीना॒ग्ं॒ रस॒ इत्या॑ह । रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒-व्याँच॑ष्टे । तस्य॒ ते-ऽक्षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ 15 ॥
(क॒रोति॑ - व्रतोप॒नय॑नं॒ - क्षेमो॒ - यज॑मानः - शास्ते) (अ. 3)
अनुवाकं 4 - आज्योत्पवनम्
घृ॒त-ञ्च॒ वै मधु॑ च प्र॒जाप॑तिरासीत् । यतो॒ मद्ध्वा॑सीत् । ततः॑ प्र॒जा अ॑सृजत ।
तस्मा॒-न्मधु॑षि प्र॒जन॑नमिवास्ति ।
तस्मा॒-न्मधु॑षा॒ न प्रच॑रन्ति । या॒तया॑म॒ हि । आज्ये॑न॒ प्रच॑रन्ति । य॒ज्ञो वा आज्य᳚म् । य॒ज्ञेनै॒व य॒ज्ञ-म्प्रच॑र॒न्त्यया॑तयामत्वाय ।
पत्न्यवे᳚क्षते ॥ 16 ॥
मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै । यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ । मि॒थु॒न-न्तत् । अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वार॒म्भो-ऽन॑वच्छित्त्यै ॥
अ॒मे॒द्ध्यं-वाँ ए॒त-त्क॑रोति । य-त्पत्न्य॒वेक्ष॑ते ।
गार्ह॑प॒त्ये ऽधि॑श्रयति मेद्ध्य॒त्वाय॑ । आ॒ह॒व॒नीय॑-म॒भ्युद्द्र॑वति । य॒ज्ञस्य॒ सन्त॑त्यै । तेजो॑-ऽसि॒ तेजो-ऽनु॒ प्रेहीत्या॑ह ॥ 17 ॥
तेजो॒ वा अ॒ग्निः । तेज॒ आज्य᳚म् । तेज॑सै॒व तेज॒-स्सम॑र्धयति । अ॒ग्निस्ते॒ तेजो॒ मा विनै॒दित्या॒हाहिग्ं॑सायै । स्फ्यस्य॒ वर्त्मन्᳚थ्
सादयति । य॒ज्ञस्य॒ सन्त॑त्यै । अ॒ग्नेर्जि॒ह्वा-ऽसि॑ सु॒भूर्दे॒वाना॒मित्या॑ह । य॒था॒ य॒जुरे॒वैतत् । धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भ॒वेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ 18 ॥
तद्वा अतः॑ प॒वित्रा᳚भ्यामे॒वो-त्पु॑नाति । यज॑मानो॒ वा आज्य᳚म् । प्रा॒णा॒पा॒नौ प॒वित्रे᳚ । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति । पु॒न॒रा॒हार᳚म् ।
ए॒वमि॑व॒ हि प्रा॑णापा॒नौ स॒चंर॑तः ।
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॒-ऽसीत्या॑ह ।
रू॒पमे॒वास्यै॒ त-न्म॑हि॒मानं॒-व्याँच॑ष्टे । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः ॥ 19 ॥
ए॒षां-लोँ॒काना॒माप्त्यै᳚ । त्रिः । त्र्या॑वृ॒द्धि य॒ज्ञः ।
अथो॑ मेद्ध्य॒त्वाय॑ । अथाज्य॑वतीभ्याम॒पः । रू॒पमे॒वासा॑मे॒त-द्वर्ण॑-न्दधाति ।
अपि॒ वा उ॒ताहुः॑ । यथा॑ ह॒ वै योषा॑ सु॒वर्ण॒ग्ं॒ हिर॑ण्य-म्पेश॒ल-म्बिभ्र॑ती रू॒पाण्यास्ते᳚ ।
ए॒वमे॒ता ए॒तर्हीति॑ । आपो॒ वै सर्वा॑ दे॒वताः᳚ ॥ 20 ॥
ए॒षा हि विश्वे॑षा-न्दे॒वाना᳚-न्त॒नूः । यदाज्य᳚म् ॥ तत्रो॒भयो᳚र्मीमा॒ग्ं॒सा । जा॒मि स्यात् । य-द्यजु॒षा-ऽऽज्यं॒-यँजु॑षा॒-ऽप उ॑त्पुनी॒यात् ।
छन्द॑सा॒-ऽप उत्पु॑ना॒त्यजा॑मित्वाय । अथो॑ मिथुन॒त्वाय॑ । सा॒वि॒त्रि॒यर्चा । स॒वि॒तृप्र॑सूत-म्मे॒ कर्मा॑स॒दिति॑ । स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति । प॒च्छो गा॑यत्रि॒या त्रि॑-ष्षमृद्ध॒त्वाय॑ । अ॒द्भिरे॒वौष॑धी॒-स्सन्न॑यति । ओष॑धीभिः प॒शून् । प॒शुभि॒र्यज॑मानम् । शु॒क्र-न्त्वा॑ शु॒क्राया॒-ञ्ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ ऽर्चिषीत्या॑ह
सर्व॒त्वाय॑ । पर्या᳚प्त्या॒ अन॑न्तरायाय ॥ 21 ॥
(ई॒क्ष॒त॒- आ॒ह॒-शा॒स्ते॒-लो॒का - दे॒वता॑ - भवति॒ षट्च॑) (अ. 4)
अनुवाकं 5 - आज्यग्रहणम्
दे॒वा॒सु॒रा-स्संयँ॑त्ता आसन्न् ।
स ए॒तमिन्द्र॒ आज्य॑स्यावका॒श-म॑पश्यत् ।
तेनावै᳚क्षत । ततो॑ दे॒वा अभ॑वन्न् । परा-ऽसु॑राः ।
य ए॒वं-विँ॒द्वानाज्य॑-म॒वेक्ष॑ते ।
भव॑त्या॒त्मना᳚ । परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यदाज्ये॑ना॒न्यानि॑ ह॒वीग्ष्य॑-भिघा॒रय॑ति ॥ 22 ॥
अथ॒ केनाज्य॒मिति॑ । स॒त्येनेति॑ ब्रूयात् । चक्षु॒र्वै स॒त्यम् । स॒त्येनै॒वैन॑द॒-भिघा॑रयति । ई॒श्व॒रो वा ए॒षो᳚-ऽन्धो भवि॑तोः । यश्चक्षु॒षा ऽऽज्य॑म॒वेक्ष॑ते । नि॒मील्यावे᳚क्षेत । दा॒धारा॒त्मञ्चक्षुः॑ । अ॒भ्याज्य॑-ङ्घारयति ॥ आज्य॑-ङ्गृह्णाति ॥ 23 ॥
छन्दाग्ं॑सि॒ वा आज्य᳚म् । छन्दाग्॑स्ये॒व प्री॑णाति । च॒तुर्जु॒ह्वा-ङ्गृ॑ह्णाति । चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । अ॒ष्टावु॑प॒भृति॑ ।
अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रः प्रा॒णः । प्रा॒णमे॒व प॒शुषु॑ दधाति ।
च॒तुर्ध्रु॒वाया᳚म् ॥ 24 ॥
चतु॑ष्पादः प॒शवः॑ । प॒शुष्वे॒-वोपरि॑ष्टा॒त्-प्रति॑तिष्ठति । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
च॒तुर्जु॒ह्वा-ङ्गृ॒ह्णन्भूयो॑ गृह्णीयात् । अ॒ष्टावु॑प॒भृति॑ गृ॒ह्णन् कनी॑यः ।
यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्ति-ङ्करोति ॥
गौर्वै स्रुचः॑ । च॒तुर्जु॒ह्वा-ङ्गृ॑ह्णाति । तस्मा॒च्चतु॑ष्पदी ॥ 25 ॥
अ॒ष्टावु॑प॒भृति॑ । तस्मा॑द॒ष्टाश॑फा । च॒तुर्ध्रु॒वाया᳚म् । तस्मा॒च्चतु॑-स्स्तना ।
गामे॒व त-थ्सग्ग्स्क॑रोति । सा-ऽस्मै॒ सग्ग्स्कृ॒तेष॒मूर्ज॑-न्दुहे ।
यज्जु॒ह्वा-ङ्गृ॒ह्णाति॑ । प्र॒या॒जेभ्य॒स्तत् ।
यदु॑प॒भृति॑ । प्र॒या॒जा॒नू॒या॒जेभ्य॒स्तत् । सर्व॑स्मै॒ वा ए॒त-द्य॒ज्ञाय॑ गृह्यते ।
यद्ध्रु॒वाया॒माज्य᳚म् ॥ 26 ॥
(अ॒भि॒घा॒रय॑ति - गृह्णाति - ध्रु॒वायां॒ - चतु॑ष्पदी॒ - प्रयाजानूया॒जेभ्य॒स्त-द्द्वे॒ च॑) (अ. 5)
अनुवाकं 6 - स्त्रुख्सादनम्
आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह । रू॒पमे॒वासा॑मे॒त-न्म॑हि॒मानं॒-व्याँच॑ष्टे ।
अग्र॑ इ॒मं-यँ॒ज्ञ-न्न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह । अग्र॑ ए॒व य॒ज्ञ-न्न॑यन्ति । अग्रे॑ य॒ज्ञप॑तिम् ।
यु॒ष्मानिन्द्रो॑-ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीद्ध्वं-वृँत्र॒तूर्य॒ इत्या॑ह ।
वृ॒त्रग्ं ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे । आपो॒ हेन्द्रं॑-वँव्रिरे । स॒ज्ञां-मे॒वासा॑-मे॒त-थ्सामा॑नं॒-व्याँच॑ष्टे । प्रोक्षि॑ता॒-स्स्थेत्या॑ह ॥ 27 ॥
तेनापः॒ प्रोक्षि॑ताः ॥ अ॒ग्नि-र्दे॒वेभ्यो॒ निला॑यत । कृष्णो॑ रू॒प-ङ्कृ॒त्वा । स वन॒स्पती॒-न्प्रावि॑शत् । कृष्णो᳚-ऽस्याखरे॒ष्ठो᳚-ऽग्नये᳚ त्वा॒ स्वाहेत्या॑ह ।
अ॒ग्नय॑ ए॒वैन॒-ञ्जुष्ट॑-ङ्करोति । अथो॑ अ॒ग्नेरे॒व मेध॒मव॑रुन्धे ॥ वेदि॑रसि ब॒र्॒हिषे᳚ त्वा॒ स्वाहेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । पृ॒थि॒वी वेदिः॑ ॥ 28 ॥
प्र॒जा ए॒व पृ॑थि॒व्या-म्प्रति॑ष्ठापयति ।
ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहेत्या॑ह ।
प्र॒जा वै ब॒र्॒हिः । यज॑मान॒-स्स्रुचः॑ । यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति ॥
दि॒वे त्वा॒-ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्॒हिरा॒साद्य॒ प्रोक्ष॑ति । ए॒भ्य ए॒वैनं॑-लोँ॒केभ्यः॒ प्रोक्ष॑ति । अथ॒ तत॑-स्स॒ह स्रु॒चा पु॒रस्ता᳚-त्प्र॒त्यञ्च॑-ङ्ग्र॒न्थि-म्प्रत्यु॑क्षति ।
प्र॒जा वै ब॒र्॒हिः । यथा॒ सूत्यै॑ का॒ल आपः॑
पु॒रस्ता॒-द्यन्ति॑ ॥ 29 ॥
ता॒दृगे॒व तत् ॥ स्व॒धा पि॒तृभ्य॒ इत्या॑ह । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । ऊर्ग्भ॑व बर्हि॒षद्भ्य॒ इति॒ दक्षि॑णायै॒ श्रोणे॒रोत्त॑रस्यै॒ निन॑यति॒ सन्त॑त्यै ।
मासा॒ वै पि॒तरो॑ बर्हि॒षदः॑ । मासा॑ने॒व प्री॑णाति ।
मासा॒ वा ओष॑धी-र्व॒र्धय॑न्ति । मासाः᳚ पचन्ति॒ समृ॑द्ध्यै । अन॑तिस्कन्दन्. ह प॒र्जन्यो॑ वर्षति । यत्रै॒तदे॒व-ङ्क्रि॒यते᳚ ॥ 30 ॥
ऊ॒र्जा पृ॑थि॒वी-ङ्ग॑च्छ॒तेत्या॑ह । पृ॒थि॒व्यामे॒वोर्ज॑-न्दधाति ।
तस्मा᳚-त्पृथि॒व्या ऊ॒र्जा भु॑ञ्जते । ग्र॒न्थिं-विँस्रग्ं॑सयति । प्रज॑नयत्ये॒व तत् । ऊ॒र्ध्व-म्प्राञ्च॒मुद्गू॑ढ-म्प्र॒त्यञ्च॒माय॑च्छति ।
तस्मा᳚-त्प्रा॒चीन॒ग्ं॒ रेतो॑ धीयते । प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते ॥ विष्णो॒-स्स्तूपो॒-ऽसीत्या॑ह ।
य॒ज्ञो वै विष्णुः॑ ॥ 31 ॥
य॒ज्ञस्य॒ धृत्यै᳚ । पु॒रस्ता᳚-त्प्रस्त॒र-ङ्गृ॑ह्णाति । मुख्य॑मे॒वैन॑-ङ्करोति । इय॑न्त-ङ्गृह्णाति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम् ।
इय॑न्त-ङ्गृह्णाति । य॒ज्ञ॒प॒रुषा॒ सम्मि॑तम् ।
इय॑न्त-ङ्गृह्णाति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य᳚म् ।
वी॒र्य॑ सम्मितम् ॥ 32 ॥
अप॑रिमित-ङ्गृह्णाति । अप॑रिमित॒स्याव॑रुद्ध्यै ।
तस्मि॑-न्प॒वित्रे॒ अपि॑सृजति । यज॑मानो॒ वै प्र॑स्त॒रः ।
प्रा॒णा॒पा॒नौ प॒वित्रे᳚ । यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति ॥ ऊर्णा᳚म्रदस-न्त्वा स्तृणा॒मीत्या॑ह । य॒था॒य॒जुरे॒वै तत् । स्वा॒स॒स्थ-न्दे॒वेभ्य॒ इत्या॑ह । दे॒वेभ्य॑ ए॒वैन॑-थ्स्वास॒स्थ-ङ्क॑रोति ॥ 33 ॥
ब॒र्॒॒हि-स्स्तृ॑णाति । प्र॒जा वै ब॒र्॒हिः । पृ॒थि॒वी वेदिः॑ । प्र॒जा ए॒व पृ॑थि॒व्या-म्प्रति॑ष्ठापयति ॥ अन॑तिदृश्नग्ग् स्तृणाति । प्र॒जयै॒वैन॑-म्प॒शुभि॒रन॑तिदृश्न-ङ्करोति । धा॒रय॑-न्प्रस्त॒र-म्प॑रि॒धी-न्परि॑ दधाति । यज॑मानो॒ वै प्र॑स्त॒रः ।
यज॑मान ए॒व त-थ्स्व॒य-म्प॑रि॒धी-न्परि॑ दधाति ॥
ग॒न्ध॒र्वो॑-ऽसि वि॒श्वाव॑सु॒रित्या॑ह ॥ 34 ॥
विश्व॑मे॒वायु॒-र्यज॑माने दधाति । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्ता॒मित्या॑ह ।
प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ । प्रा॒णा॒पा॒ना-वे॒वास्मि॑-न्दधाति । सूर्य॑स्त्वा पु॒रस्ता᳚-त्पा॒त्वित्या॑ह । रक्ष॑सा॒-मप॑हत्यै । कस्या᳚श्चिद॒भिश॑स्त्या॒ इत्या॑ह । अप॑रिमितादे॒वैन॑-म्पाति ॥ 35 ॥
वी॒तिहो᳚त्र-न्त्वा कव॒ इत्या॑ह । अ॒ग्निमे॒व हो॒त्रेण॒ सम॑र्धयति । द्यु॒मन्त॒ग्ं॒ समि॑धीम॒हीत्या॑ह॒ समि॑द्ध्यै । अग्ने॑ बृ॒हन्त॑मद्ध्व॒र इत्या॑ह॒ वृद्ध्यै᳚ । वि॒शो य॒न्त्रे स्थ॒ इत्या॑ह । वि॒शां-यँत्यै᳚ ।
उ॒दी॒चीना᳚ग्रे॒ निद॑धाति॒ प्रति॑ष्ठित्यै ।
वसू॑नाग्ं रु॒द्राणा॑-मादि॒त्याना॒ग्ं॒ सद॑सि सी॒देत्या॑ह । दे॒वता॑नामे॒व सद॑ने प्रस्त॒रग्ं सा॑दयति ॥ जु॒हूर॑सि घृ॒ताची॒ नाम्नेत्या॑ह ॥ 36 ॥
अ॒सौ वै जु॒हूः । अ॒न्तरि॑क्षमुप॒भृत् । पृ॒थि॒वी ध्रु॒वा । तासा॑मे॒तदे॒व प्रि॒य-न्नाम॑ । य-द्घृ॒ताचीति॑ । य-द्घृ॒ताचीत्याह॑ । प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति ॥
ए॒ता अ॑सदन्-थ्सुकृ॒तस्य॑ लो॒क इत्या॑ह ।
स॒त्यं-वैँ सु॑कृ॒तस्य॑ लो॒कः ।
स॒त्य ए॒वैना᳚-स्सुकृ॒तस्य॑ लो॒के सा॑दयति ।
ता वि॑ष्णो पा॒हीत्या॑ह । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञस्य॒ धृत्यै᳚ । पा॒हि य॒ज्ञ-म्पा॒हि य॒ज्ञप॑ति-म्पा॒हि मां-यँ॑ज्ञ॒निय॒मित्या॑ह । य॒ज्ञाय॒ यज॑मानाया॒त्मने᳚ । तेभ्य॑ ए॒वाशिष॒माशा॒स्ते-ऽना᳚र्त्यै ॥ 37 ॥
(स्थेत्या॑ह - पृथि॒वी वेदि॒--र् यन्ति॑ - क्रि॒यते॒ - विष्णु॑--र् वी॒र्य॑सम्मितं - करो - त्याह - पाति॒ - नाम्नेत्या॑ह - लो॒के सा॑दयति॒ षट्च॑) (अ. 6)
अनुवाकं 7 - आघारः
अ॒ग्निना॒ वै होत्रा᳚ । दे॒वा असु॑रा-न॒भ्य॑भवन्न् ।
अ॒ग्नये॑ समि॒द्ध्यमा॑ना॒या-नु॑ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै । एक॑विग्ंशति-मिद्ध्मदा॒रूणि॑ भवन्ति । ए॒क॒वि॒ग्ं॒शो वै पुरु॑षः ।
पुरु॑ष॒स्याप्त्यै᳚ ।
पञ्च॑दशेद्ध्मदा॒रूण्य॒-भ्याद॑धाति ।
पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रात्र॑यः ।
अ॒र्ध॒मा॒स॒श-स्सं॑वँथ्स॒र आ᳚प्यते ।
त्रीन्-प॑रि॒धीन्-परि॑-दधाति ॥ 38 ॥
ऊ॒र्ध्वे स॒मिधा॒वाद॑धाति । अ॒नू॒या॒जेभ्य॑-स्स॒मिध॒मति॑शिनष्टि । षट्थ्स-म्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । वे॒देनोप॑वाजयति ।
प्रा॒जा॒प॒त्यो वै वे॒दः । प्रा॒जा॒प॒त्यः प्रा॒णः । यज॑मान आहव॒नीयः॑ । यज॑मान ए॒व प्रा॒ण-न्द॑धाति ॥ 39 ॥
त्रिरुप॑वाजयति । त्रयो॒ वै प्रा॒णाः । प्रा॒णाने॒वास्मि॑-न्दधाति । वे॒देनो॑प॒यत्य॑ स्रु॒वेण॑ प्राजाप॒त्य-मा॑घा॒र-माघा॑रयति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑ति-म्मुख॒त आर॑भते ।
अथो᳚ प्र॒जाप॑ति॒-स्सर्वा॑ दे॒वताः᳚ । सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति ॥ अ॒ग्निम॑ग्नी-त्त्रिस्त्रि॒-स्सम्मृ॒ड्ढीत्या॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः ॥ 40 ॥
अथो॒ रक्ष॑सा॒मप॑हत्यै । प॒रि॒धीन्-थ्सम्मा᳚र्ष्टि । पु॒नात्ये॒वैनान्॑ । त्रिस्त्रि॒-स्सम्मा᳚र्ष्टि । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेद्ध्य॒त्वाय॑ । अथो॑ ए॒ते वै दे॑वाश्वाः । दे॒वा॒श्वाने॒व त-थ्सम्मा᳚र्ष्टि ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
आसी॑नो॒-ऽन्य-मा॑घा॒र-माघा॑रयति ॥ 41 ॥
तिष्ठ॑न्न॒न्यम् । यथा-ऽनो॑ वा॒ रथं॑वाँ यु॒ञ्ज्यात् ।
ए॒वमे॒व तद॑द्ध्व॒र्यु-र्य॒ज्ञं-युँ॑नक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्या॒भ्यू᳚ढ्यै ।
वह॑न्त्येन-ङ्ग्रा॒म्याः प॒शवः॑ ।
य ए॒वं-वेँद॑ ॥ भुव॑नमसि॒ विप्र॑थ॒स्वेत्या॑ह । य॒ज्ञो वै भुव॑नम् । य॒ज्ञ ए॒व यज॑मान-म्प्र॒जया॑ प॒शुभिः॑ प्रथयति । अग्ने॒ यष्ट॑रि॒द-न्नम॒ इत्या॑ह ॥ 42 ॥
अ॒ग्निर्वै दे॒वानां॒-यँष्टा᳚ । य ए॒व दे॒वानां॒-यँष्टा᳚ । तस्मा॑ ए॒व नम॑स्करोति ॥
जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ इत्या॑ह ।
आ॒ग्ने॒यी वै जु॒हूः । सा॒वि॒त्र्यु॑प॒भृत् । ताभ्या॑मे॒वैने॒ प्रसू॑त॒ आद॑त्ते ॥ अग्ना॑विष्णू॒ मा वा॒मव॑क्रमिष॒मित्या॑ह ।
अ॒ग्निः पु॒रस्ता᳚त् । विष्णु॑र्य॒ज्ञः प॒श्चात् ॥ 43 ॥
ताभ्या॑मे॒व प्र॑ति॒ प्रोच्या॒त्याक्रा॑मति ।
विजि॑हाथा॒-म्मा मा॒ सन्ता᳚प्त॒मित्या॒हाहिग्ं॑सायै ।
लो॒क-म्मे॑ लोककृतौ कृणुत॒मित्या॑ह ।
आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ विष्णो॒-स्स्थान॑म॒सीत्या॑ह । य॒ज्ञो वै विष्णुः॑ । ए॒त-त्खलु॒ वै दे॒वाना॒-मप॑राजित-मा॒यत॑नम् । य-द्य॒ज्ञः ।
दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने तिष्ठति ॥
इ॒त इन्द्रो॑ अकृणो-द्वी॒र्या॑णीत्या॑ह ॥ 44 ॥
इ॒न्द्रि॒यमे॒व यज॑माने दधाति ।
स॒मा॒रभ्यो॒र्ध्वो अ॑द्ध्व॒रो दि॑वि॒स्पृश॒मित्या॑ह॒ वृद्ध्यै᳚ । आ॒घा॒र-मा॑घा॒र्यमा॑ण॒मनु॑ समा॒रभ्य॑ । ए॒तस्मि॑न् का॒ले दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑यन्न् । सा॒क्षादे॒व यज॑मान-स्सुव॒र्गं-लोँ॒कमे॑ति । अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मान-स्सुव॒र्गं-लोँ॒कमे॑ति ।
अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रित्या॒हाना᳚र्त्यै ।
इन्द्रा॑वा॒न्-थ्स्वाहेत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । बृ॒हद्भा इत्या॑ह ॥ 45 ॥
सु॒व॒र्गो वै लो॒को बृ॒हद्भाः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः । भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् । प्रा॒ण आ॑घा॒रः ।
य-थ्सग्ग्॑स्प॒र्शये᳚त् । भ्रातृ॑व्ये-ऽस्य प्रा॒ण-न्द॑द्ध्यात् । असग्ग्॑स्पर्शयन्न॒त्याक्रा॑मति । यज॑मान ए॒व प्रा॒ण-न्द॑धाति । पा॒हिमा᳚-ऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भ॒जेत्या॑ह ॥ 46 ॥
अ॒ग्निर्वाव प॒वित्र᳚म् । वृ॒जि॒नमनृ॑त॒-न्दुश्च॑रितम् ।
ऋ॒जु॒क॒र्मग्ं स॒त्यग्ं सुच॑रितम् ।
अ॒ग्निरे॒वैनं॑-वृँजि॒नाद-नृ॑ता॒-द्दुश्च॑रितात्पाति ।
ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति । तस्मा॑दे॒वमाशा᳚स्ते । आ॒त्मनो॑ गोपी॒थाय॑ ॥ शिरो॒ वा ए॒त-द्य॒ज्ञस्य॑ । यदा॑घा॒रः । आ॒त्मा ध्रु॒वा ॥ 47 ॥
आ॒घा॒र-मा॒घार्य॑ ध्रु॒वाग्ं सम॑नक्ति ।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ।
द्वि-स्सम॑नक्ति । द्वौ हि प्रा॑णापा॒नौ । तदा॑हुः ।
त्रिरे॒व सम॑ञ्ज्यात् । त्रिधा॑तु॒ हि शिर॒ इति॑ । शिर॑ इवै॒त-द्य॒ज्ञस्य॑ । अथो॒ त्रयो॒ वै प्रा॒णाः ।
प्रा॒णाने॒वास्मि॑-न्दधाति ॥
म॒खस्य॒ शिरो॑-ऽसि॒ सञ्ज्योति॑षा॒ ज्योति॑रङ्क्ता॒मित्या॑ह ।
ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टा-द्दधाति ।
सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै ॥ 48 ॥
(परि॑दधाति - प्रा॒ण-न्द॑धाति॒ - हि य॒ज्ञो - घा॑रयति॒ - नम॒ इत्या॑ह - प॒श्चा-द्- वी॒र्या॑णीत्या॑ह॒ - भा इत्या॑ह - भ॒जेत्या॑ह - ध्रु॒ - वैवास्मि॑-न्दधाति॒ त्रीणि॑ च) (अ. 7)
अनुवाकं 8 - इडाभक्षणम्
धिष्णि॑या॒ वा ए॒ते न्यु॑प्यन्ते । यद्ब्र॒ह्मा । यद्धोता᳚ । यद॑द्ध्व॒र्युः । यद॒ग्नीत् । य-द्यज॑मानः । तान्. यद॑न्तरे॒यात् । यज॑मानस्य प्रा॒णान्-थ्सङ्क॑र्षेत् । प्र॒मायु॑क-स्स्यात् । पु॒रो॒डाश॑मप॒गृह्य॒ सञ्च॑रत्यद्ध्व॒र्युः ॥ 49 ॥
यज॑मानायै॒व तल्लो॒कग्ं शिग्ं॑षति ।
नास्य॑ प्रा॒णान्-थ्सङ्क॑र्षति । न प्र॒मायु॑को भवति । पु॒रस्ता᳚-त्प्र॒त्यङ्ङासी॑नः । इडा॑या॒ इडा॒माद॑धाति ।
हस्त्या॒ग्ं॒ होत्रे᳚ । प॒शवो॒ वा इडा᳚ । प॒शवः॒ पुरु॑षः । प॒शुष्वे॒व प॒शू-न्प्रति॑ष्ठापयति । इडा॑यै॒ वा ए॒षा प्रजा॑तिः ॥ 50 ॥
ता-म्प्रजा॑तिं॒-यँज॑मा॒नो-ऽनु॒ प्रजा॑यते । द्विर॒ङ्गुला॑वनक्ति॒ पर्व॑णोः ।
द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै । स॒कृदुप॑स्तृणाति । द्विराद॑धाति । स॒कृद॒भिघा॑रयति । च॒तु-स्सम्प॑द्यते । च॒त्वारि॒ वै प॒शोः प्र॑ति॒ष्ठाना॑नि ।
यावा॑ने॒व प॒शुः । तमुप॑ह्वयते ॥ 51 ॥
मुख॑मिव॒ प्रत्युप॑ह्वयेत । स॒मु॒ङ्खाने॒व प॒शूनुप॑ह्वयते । प॒शवो॒ वा इडा᳚ ।
तस्मा॒-थ्सा-ऽन्वा॒रभ्या᳚ । अ॒द्ध्व॒र्युणा॑ च॒ यज॑मानेन च । उप॑हूतः पशु॒मान॑सा॒नीत्या॑ह ।
उप॒ ह्ये॑नौ॒ ह्वय॑ते॒ होता᳚ । इडा॑यै दे॒वता॑ना-मुपह॒वे । उप॑हूतः पशु॒मा-न्भ॑वति ।
य ए॒वं-वेँद॑ ॥ 52 ॥
यां-वैँ हस्त्या॒मिडा॑मा॒दधा॑ति । वा॒च-स्सा भा॑ग॒धेय᳚म् । यामु॑प॒ह्वय॑ते । प्रा॒णाना॒ग्ं॒ सा । वाच॑-ञ्चै॒व प्रा॒णाग्श्चाव॑रुन्धे ॥
अथ॒ वा ए॒तर्ह्युप॑हूताया॒मिडा॑याम् ।
पु॒रो॒डाश॑स्यै॒व ब॑र्हि॒षदो॑ मीमा॒ग्ं॒सा । यज॑मान-न्दे॒वा अ॑ब्रुवन्न् । ह॒विर्नो॒ निर्व॒पेति॑ । नाहम॑भा॒गो निर्व॑फ्स्या॒मीत्य॑ब्रवीत् ॥ 53 ॥
न मया॑-ऽभा॒गया ऽनु॑वक्ष्य॒थेति॒ वाग॑ब्रवीत् ।
नाहम॑भा॒गा पु॑रो-ऽनुवा॒क्या॑ भविष्या॒मीति॑ पुरो-ऽनुवा॒क्या᳚ । नाहम॑भा॒गा या॒ज्या॑ भविष्या॒मीति॑
या॒ज्या᳚ । न मया॑-ऽभा॒गेन॒ वष॑ट्करिष्य॒थेति॑ वषट्का॒रः । य-द्य॑जमानभा॒ग-न्नि॒धाय॑ पुरो॒डाश॑-म्बर्हि॒षद॑-ङ्क॒रोति॑ ।
ताने॒व त-द्भा॒गिनः॑ करोति । च॒तु॒र्धा क॑रोति । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति । ब॒र्॒हि॒षद॑-ङ्करोति ॥ 54 ॥
यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा ब॒र्॒हिः ।
यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति ।
तस्मा॑द॒स्थ्ना-ऽन्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति । मा॒ग्ं॒सेना॒न्याः । अथो॒ खल्वा॑हुः । दक्षि॑णा॒ वा ए॒ता ह॑वि-र्य॒ज्ञस्या᳚न्तर्वे॒द्यव॑रुद्ध्यन्ते ।
य-त्पु॑रो॒डाश॑-म्बर्हि॒षद॑-ङ्क॒रोतीति॑ । च॒तु॒र्धा क॑रोति । च॒त्वारो॒ ह्ये॑ते ह॑वि-र्य॒ज्ञस्य॒र्त्विजः॑ ॥ 55 ॥
ब्र॒ह्मा होता᳚-ऽद्ध्व॒र्युर॒ग्नीत् । तम॒भिमृ॑शेत् । इ॒द-म्ब्र॒ह्मणः॑ । इ॒दग्ं होतुः॑ । इ॒दम॑द्ध्व॒र्योः । इ॒दम॒ग्नीध॒ इति॑ । यथै॒वाद-स्सौ॒म्ये᳚-ऽद्ध्व॒रे ।
आ॒देश॑मृ॒त्विग्भ्यो॒ दक्षि॑णा नी॒यन्ते᳚ । ता॒दृगे॒व तत् । अ॒ग्नीधे᳚ प्रथ॒मायाद॑धाति ॥ 56 ॥
अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ । अ॒ग्निमु॑खामे॒वर्धिं॒-यँज॑मान ऋद्ध्नोति ॥ स॒कृदु॑प॒स्तीर्य॒ द्विरा॒दध॑त् । उ॒प॒स्तीर्य॒ द्विर॒भिघा॑रयति ।
षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । वे॒देन॑ ब्र॒ह्मणे᳚ ब्रह्मभा॒ग-म्परि॑हरति । प्रा॒जा॒प॒त्यो वै वे॒दः । प्रा॒जा॒प॒त्यो ब्र॒ह्मा ॥ 57 ॥
स॒वि॒ता य॒ज्ञस्य॒ प्रसू᳚त्यै । अथ॒ काम॑म॒न्येन॑ । ततो॒ होत्रे᳚ । मद्ध्यं॒-वाँ ए॒त-द्य॒ज्ञस्य॑ । यद्धोता᳚ । म॒द्ध्य॒त ए॒व य॒ज्ञ-म्प्री॑णाति ।
अथा᳚द्ध्व॒र्यवे᳚ । प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॑ । यद॑द्ध्व॒र्युः ।
तस्मा᳚द्धवि-र्य॒ज्ञस्यै॒तामे॒वावृत॒मनु॑ ॥ 58 ॥
अ॒न्या दक्षि॑णा नीयन्ते । य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।
अ॒ग्निम॑ग्नी-थ्स॒कृ-थ्स॑कृ॒-थ्सम्मृ॒ड्ढीत्या॑ह ।
परां॑इव॒ ह्ये॑तर्हि॑ य॒ज्ञः ॥ इ॒षि॒ता दैव्या॒ होता॑र॒ इत्या॑ह । इ॒षि॒तग्ं हि कर्म॑ क्रि॒यते᳚ ।
भ॒द्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑ष-स्सूक्तवा॒काय॑ सू॒क्ता ब्रू॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
स्व॒गा दैव्या॒ होतृ॑भ्य॒ इत्या॑ह । य॒ज्ञमे॒व तथ्स्व॒गा क॑रोति । स्व॒स्ति-र्मानु॑षेभ्य॒ इत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा᳚स्ते । शं॒योँ-र्ब्रू॒हीत्या॑ह ।
शं॒युँमे॒व बा॑र्हस्प॒त्य-म्भा॑ग॒धेये॑न॒ सम॑र्धयति ॥ 59 ॥
(च॒र॒त्य॒द्ध्व॒र्युः - प्रजा॑ति--र् ह्वयते॒ - वेदा᳚ - ब्रवी-द्- बर्हि॒षद॑-ङ्करो-त्यृ॒त्विजो॑-दधाति-ब्र॒ह्मा-ऽनु॑-करोति च॒त्वारि॑ च) (अ. 8)
अनुवाकं 9 - प्रस्तरप्रहारादिकम्
अथ॒ स्रुचा॑वनु॒ष्टुग्भ्यां॒-वाँज॑वतीभ्यां॒-व्यूँ॑हति । प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक् । अन्नं॒-वाँजः॒ प्रति॑ष्ठित्यै । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । प्राची᳚-ञ्जु॒हूमू॑हति । जा॒ताने॒व भ्रातृ॑व्या॒-न्प्रणु॑दते । प्र॒तीची॑मुप॒भृत᳚म् ।
ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते ।
स विषू॑च ए॒वापोह्य॑ स॒पत्ना॒न्॒. यज॑मानः ।
अ॒स्मिन् ँलो॒के प्रति॑तिष्ठति ॥ 60 ॥
द्वाभ्या᳚म् । द्विप्र॑तिष्ठो॒ हि ॥ वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वा-ऽऽदि॒त्येभ्य॒स्त्वेत्या॑ह ।
य॒था॒य॒जुरे॒वै तत् । स्रु॒क्षु प्र॑स्त॒रम॑नक्ति ।
इ॒मे वै लो॒का-स्स्रुचः॑ । यज॑मानः प्रस्त॒रः । यज॑मानमे॒व तेज॑सा-ऽनक्ति । त्रे॒धा-ऽन॑क्ति ।
त्रय॑ इ॒मे लो॒काः ॥ 61 ॥
ए॒भ्य ए॒वैनं॑-लोँ॒केभ्यो॑-ऽनक्ति ।
अ॒भि॒पू॒र्वम॑नक्ति । अ॒भि॒पू॒र्वमे॒व यज॑मान॒-न्तेज॑सा-ऽनक्ति ॥ अ॒क्तग्ं रिहा॑णा॒ इत्या॑ह ।
तेजो॒ वा आज्य᳚म् । यज॑मानः प्रस्त॒रः ।
यज॑मानमे॒व तेज॑सा-ऽनक्ति । वि॒यन्तु॒ वय॒ इत्या॑ह । वय॑ ए॒वैन॑-ङ्कृ॒त्वा ।
सु॒व॒र्गं-लोँ॒क-ङ्ग॑मयति ॥ 62 ॥
प्र॒जां-योँनि॒-म्मा निर्मृ॑क्ष॒मित्या॑ह । प्र॒जायै॑ गोपी॒थाय॑ ॥ आप्या॑यन्ता॒माप॒ ओष॑धय॒ इत्या॑ह । आप॑ ए॒वौष॑धी॒राप्या॑ययति । म॒रुता॒-म्पृष॑तय॒-स्स्थेत्या॑ह । म॒रुतो॒ वै वृष्ट्या॑ ईशते ।
वृष्टि॑मे॒वाव॑रुन्धे । दिव॑-ङ्गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॒येत्या॑ह । वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑रुन्धे ॥ 63 ॥
याव॒द्वा अ॑द्ध्व॒र्युः प्र॑स्त॒र-म्प्र॒हर॑ति । ताव॑द॒स्यायु॑र्मीयते । आ॒यु॒ष्पा अ॑ग्ने॒-ऽस्यायु॑र्मे पा॒हीत्या॑ह । आयु॑रे॒वात्मन्-ध॑त्ते ।
याव॒द्वा अ॑द्ध्व॒र्युः प्र॑स्त॒र-म्प्र॒हर॑ति । ताव॑दस्य॒ चक्षु॑र्मीयते । च॒क्षु॒ष्पा अ॑ग्ने-ऽसि॒ चक्षु॑र्मे पा॒हीत्या॑ह । चक्षु॑रे॒वात्मन्-ध॑त्ते ॥
ध्रु॒वा-ऽसीत्या॑ह॒ प्रति॑ष्ठित्यै ॥
य-म्प॑रि॒धि-म्प॒र्यध॑त्था॒ इत्या॑ह ॥ 64 ॥
य॒था॒य॒जुरे॒वैतत् । अग्ने॑ देव प॒णिभि॑-र्वी॒यमा॑ण॒ इत्या॑ह । अ॒ग्नय॑ ए॒वैन॒-ञ्जुष्ट॑-ङ्करोति ।
त-न्त॑ ए॒तमनु॒ जोष॑-म्भरा॒मीत्या॑ह ।
स॒जा॒ताने॒वास्मा॒ अनु॑कान्करोति ।
नेदे॒ष त्वद॑पचे॒तया॑ता॒ इत्या॒हानु॑ख्यात्यै ॥ य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त॒मित्या॑ह ।
भू॒मान॑मे॒वोपै॑ति । प॒रि॒धीन्-प्रह॑रति ।
य॒ज्ञस्य॒ समि॑ष्ट्यै ॥ 65 ॥
स्रुचौ॒ स-म्प्रस्रा॑वयति । यदे॒व तत्र॑ क्रू॒रम् ।
तत्-तेन॑ शमयति । जु॒ह्वामु॑प॒भृत᳚म् । य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः ।
भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत् ।
यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्ति-ङ्करोति ॥
स॒ग्ग्॒स्रा॒वभा॑गा॒-स्स्थेत्या॑ह ।
वस॑वो॒ वै रु॒द्रा आ॑दि॒त्या-स्सग्ग्॑स्रा॒वभा॑गाः ।
तेषा॒-न्त-द्भा॑ग॒धेय᳚म् ॥ 66 ॥
ताने॒व तेन॑ प्रीणाति । वै॒श्व॒दे॒व्यर्चा । ए॒ते हि विश्वे॑ दे॒वाः । त्रि॒ष्टुग्-भ॑वति । इ॒न्द्रि॒यं-वैँ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥ अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादया॒मीत्या॑ह ।
इ॒यं-वाँ अ॒ग्निरप॑न्नगृहः । अ॒स्या ए॒वैने॒ सद॑ने सादयति । सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒मित्या॑ह ॥ 67 ॥
प्र॒जा वै प॒शव॑-स्सु॒म्नम् । प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते । धु॒रि धु॒र्यौ॑ पात॒मित्या॑ह । जा॒या॒प॒त्यो-र्गो॑पी॒थाय॑ ॥ अग्ने॑-ऽदब्धायो-ऽशीततनो॒ इत्या॑ह । य॒था॒य॒जुरे॒वैतत् । पा॒हि मा॒-ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
अवि॑ष-न्नः पि॒तु-ङ्कृ॑णु सु॒षदा॒ योनि॒ग्ग्॒ स्वाहेती᳚द्ध्म-सं॒वृँश्च॑नान्यन्वाहार्य॒पच॑ने ऽभ्या॒धाय॑ फलीकरणहो॒म-ञ्जु॑होति ।
अति॑रिक्तानि॒ वा इ॑द्ध्म सं॒वृँश्च॑नानि ॥ 68 ॥
अति॑रिक्ताः फली॒कर॑णाः । अति॑रिक्तमाज्योच्छेष॒णम् ।
अति॑रिक्त ए॒वाति॑रिक्त-न्दधाति । अथो॒ अति॑रिक्ते-नै॒वाति॑रिक्त-मा॒प्त्वा-ऽव॑रुन्धे ॥ वेदि॑-र्दे॒वेभ्यो॒ निला॑यत । तां-वेँ॒देनान्व॑विन्दन्न् । वे॒देन॒ वेदिं॑-विँविदुः पृथि॒वीम् । सा प॑प्रथे पृथि॒वी पार्थि॑वानि ।
गर्भ॑-म्बिभर्ति॒ भुव॑नेष्व॒न्तः ।
ततो॑ य॒ज्ञो जा॑यते विश्व॒दानि॒रिति॑ पु॒रस्ता᳚-थ्स्तम्बय॒जुषो॑ वे॒देन॒ वेदि॒ग्ं॒ सम्मा॒ष्ट्र्यनु॑वित्त्यै ॥ 69 ॥
अथो॒ य-द्वे॒दश्च॒ वेदि॑श्च॒ भव॑तः । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै । प्र॒जाप॑ते॒र्वा ए॒तानि॒ श्मश्रू॑णि । य-द्वे॒दः । पत्नि॑या उ॒पस्थ॒ आस्य॑ति ।
मि॒थु॒नमे॒व क॑रोति । वि॒न्दते᳚ प्र॒जाम् ।
वे॒दग्ं होता-ऽऽह॑व॒नीया᳚-थ्स्तृ॒णन्ने॑ति ।
य॒ज्ञमे॒व त-थ्सन्त॑नो॒त्योत्त॑रस्मा-दर्धमा॒सात् ।
तग्ं सन्त॑त॒मुत्त॑रे-ऽर्धमा॒स आल॑भते ॥ 70 ॥
त-ङ्का॒लेका॑ल॒ आग॑ते यजते ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वा अ॑द्ध्व॒र्यु-स्स्या᳚त् । यो यतो॑ य॒ज्ञ-म्प्र॑यु॒ङ्क्ते ।
तदे॑न-म्प्रतिष्ठा॒पय॒तीति॑ ।
वाता॒द्वा अ॑द्ध्व॒र्युर्य॒ज्ञ-म्प्रयु॑ङ्क्ते ।
देवा॑ गातुविदो गा॒तुं-विँ॒त्वा गा॒तुमि॒तेत्या॑ह ।
यत॑ ए॒व य॒ज्ञ-म्प्र॑यु॒ङ्क्ते ।
तदे॑न॒-म्प्रति॑ष्ठापयति ।
प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒-र्यज॑मानः ॥ 71 ॥
(ति॒ष्ठ॒ती॒ - मे लो॒का - ग॑मयति॒ - द्यौ-र्वृष्टि॑मे॒वाव॑रुन्धे - प॒र्यध॑त्था॒ इत्या॑ह॒ - समि॑ष्ट्यै - भाग॒धेयं॑ - धत्त॒मित्या॑ह॒ - वा इ॑द्ध्म सं॒वृँश्च॑ना॒ - न्यनु॑वित्त्यै - लभते॒ - यज॑मानः) (अ. 9)
अनुवाकं 10 - पत्नीयोक्रविमोकः
यो वा अय॑थादेवतं-यँ॒ज्ञमु॑प॒चर॑ति ।
आ दे॒वता᳚भ्यो वृश्च्यते । पापी॑या-न्भवति । यो य॑थादेव॒तम् । न दे॒वता᳚भ्य॒ आवृ॑श्च्यते ।
वसी॑या-न्भवति । वा॒रु॒णो वै पाशः॑ ।
इ॒मं-विँष्या॑मि॒ वरु॑णस्य॒ पाश॒मित्या॑ह ।
व॒रु॒ण॒पा॒शादे॒वैना᳚-म्मुञ्चति ।
स॒वि॒तृप्र॑सूतो यथादेव॒तम् ॥ 72 ॥
न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑या-न्भवति ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क इत्या॑ह । अ॒ग्निर्वै धा॒ता । पुण्य॒-ङ्कर्म॑ सुकृ॒तस्य॑ लो॒कः । अ॒ग्निरे॒वैना᳚-न्धा॒ता । पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति । स्यो॒न-म्मे॑ स॒ह पत्या॑ करो॒मीत्या॑ह ।
आ॒त्मन॑श्च॒ यज॑मानस्य॒ चाना᳚त्यै स॒त्वांयँ॑ ॥
समायु॑षा॒ सम्प्र॒जयेत्या॑ह ॥ 73 ॥
आ॒शिष॑मे॒वैतामाशा᳚स्ते पूर्णपा॒त्रे । अ॒न्त॒तो॑-ऽनु॒ष्टुभा᳚ । चतु॑ष्प॒द्वा ए॒तच्छन्दः॒ प्रति॑ष्ठित॒-म्पत्नि॑यै पूर्णपा॒त्रे भ॑वति ।
अ॒स्मिन् ँलो॒के प्रति॑तिष्ठा॒नीति॑ ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । अथो॒ वाग्वा अ॑नु॒ष्टुक् । वाम्मि॑थु॒नम् । आपो॒ रेतः॑ प्र॒जन॑नम् ।
ए॒तस्मा॒द्वै मि॑थु॒नाद्वि॒द्योत॑मान-स्स्त॒नय॑न्वर्षति । रेत॑-स्सि॒ञ्चन्न् ॥ 74 ॥
प्र॒जाः प्र॑ज॒नयन्न्॑ ॥ यद्वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते᳚ । ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः । अ॒द्भि-श्शान्तिः॑ । विमु॑क्तं॒-वाँ ए॒तर्हि॒ योक्त्र॒-म्ब्रह्म॑णा ।
आ॒दायै॑न॒त्पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै᳚ ।
अ॒ञ्ज॒लौ पू᳚र्णपा॒त्रमान॑यति । रेत॑ ए॒वास्या᳚-म्प्र॒जा-न्द॑धाति । प्र॒जया॒ हि म॑नु॒ष्यः॑ पू॒र्णः ।
मुखं॒-विँमृ॑ष्टे । अ॒व॒भृ॒थस्यै॒व रू॒प-ङ्कृ॒त्वोत्ति॑ष्ठति ॥ 75 ॥
(स॒वि॒तृप्र॑सूतो यथादेव॒तं-प्र॒जयेत्या॑ह-सि॒ञ्च-न्मृ॑ष्ट॒ एक॑-ञ्च) (अ. 10)
अनुवाकं 11 - उपवेषोपगूहनम्
प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑नाम् । यदु॑पवे॒षः । य ए॒वं-वेँद॑ । वि॒न्दते॑ परिवे॒ष्टार᳚म् । तमु॑त्क॒रे ॥ य-न्दे॒वा म॑नु॒ष्ये॑षु ।
उ॒प॒वे॒षमधा॑रयन्न् । ये अ॒स्मदप॑चेतसः । तान॒स्मभ्य॑-मि॒हाकु॑रु । उप॑वे॒षोप॑विड्ढि नः ॥ 76 ॥
प्र॒जा-म्पुष्टि॒मथो॒ धन᳚म् ।
द्वि॒पदो॑ न॒श्चतु॑ष्पदः । ध्रु॒वान-न॑पगान्-कु॒र्विति॑ पु॒रस्ता᳚-त्प्र॒त्यञ्च॒मुप॑गूहति ।
तस्मा᳚-त्पु॒रस्ता᳚-त्प्र॒त्यञ्च॑-श्शू॒द्रा अव॑स्यन्ति । स्थ॒वि॒म॒त उप॑गूहति । अप्र॑तिवादिन ए॒वैना᳚न् कुरुते ॥
धृष्टि॒र्वा उ॑पवे॒षः ।
शु॒चार्तो वज्रो॒ ब्रह्म॑णा॒ सग्ंशि॑तः ।
योप॑वे॒षे शुक् । सा-ऽमुमृ॑च्छतु॒ य-न्द्वि॒ष्म इति॑ ॥ 77 ॥
अथा᳚स्मै नाम॒ गृह्य॒ प्रह॑रति । निर॒मु-न्नु॑द॒ ओक॑सः । स॒पत्नो॒ यः पृ॑त॒न्यति॑ । नि॒र्बा॒द्ध्ये॑न ह॒विषा᳚ । इन्द्र॑ एण॒-म्परा॑शरीत् ।
इ॒हि ति॒स्रः प॑रा॒वतः॑ । इ॒हि पञ्च॒जना॒ग्ं॒ अति॑ ।
इ॒हि ति॒स्रो-ऽति॑ रोच॒ना याव॑त् । सूर्यो॒ अस॑-द्दि॒वि ।
प॒र॒मा-न्त्वा॑ परा॒वत᳚म् ॥ 78 ॥
इन्द्रो॑ नयतु वृत्र॒हा । यतो॒ न पुन॒राय॑सि ।
श॒श्व॒तीभ्य॒-स्समा᳚भ्य॒ इति॑ । त्रि॒वृद्वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सग्ंशि॑तः । शु॒चैवैनं॑-विँ॒द्ध्वा ।
ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॑ । वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते । ह॒तो॑ ऽसावव॑धिष्मा॒-मुमित्या॑ह॒
स्तृत्यै᳚ । य-न्द्वि॒ष्यात्त-न्ध्या॑येत् ।
शु॒चैवैन॑-मर्पयति ॥ 79 ॥
(नो॒-द्वि॒ष्म इति॑-परा॒वत॑-मर्पयति) (अ. 11)
(प्रत्यु॑ष्टं - दि॒व-श्शिल्प॒ - मय॑ज्ञो - धृ॒त-ञ्च॑ - देवासु॒रा-स्स ए॒तमिन्द्र॒ - आपो॑ देवी - र॒ग्निना॒ - धिष्णि॑या॒ - अथ॒ स्रुचौ॒ - यो वा अय॑थादेवतं - परिवे॒षो वा एका॑दश)
(प्रत्यु॑ष्ट॒ - मय॑ज्ञ - ए॒षा हि विश्वे॑षा-न्दे॒वाना॑ - मू॒र्जा पृ॑थि॒वी - मथो॒ रक्ष॑सां॒ - ता-म्प्रजा॑तिं॒ - द्वाभ्यां॒ - त-ङ्का॒लेका॑ले॒ नव॑सप्ततिः)
(प्रत्यु॑ष्टग्ं - शु॒चैवैन॑मर्पयति)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके तृतीय प्रपाठक-स्समाप्तः ॥