View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.5 - उपहोमशेषः - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - प्राणो रक्षति

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके पञ्चमः प्रपाठकः - उपहोमशेषः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

2.5.1 उपहोमाः
प्रा॒णो र॑क्षति॒ विश्व॒मेज॑त् । इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ । स इथ्सर्वं॒-व्याँ॑नशे ॥ यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः । आवृ॑दू॒दा-त्क्षेत्रिय॑द्ध्व॒गद्वृषा᳚ । तमि-त्प्रा॒ण-म्मन॒सो प॑शिक्षत । अग्र॑-न्दे॒वाना॑-मि॒दम॑त्तु नो ह॒विः ॥ मन॑स॒श्चित्ते॒दम् । भू॒त-म्भव्य॑-ञ्च गुप्यते । तद्धि दे॒वेष्व॑ग्रि॒यम् ॥ 1 ॥

आ न॑ एतु पुरश्च॒रम् । स॒ह दे॒वैरि॒मग्ं हव᳚म् । मन॒-श्श्रेय॑सि श्रेयसि । कर्म॑न्. य॒ज्ञप॑ति॒-न्दध॑त् ॥ जु॒षता᳚-म्मे॒ वागि॒दग्ं ह॒विः । वि॒राड्दे॒वी पु॒रोहि॑ता । ह॒व्य॒वाडन॑ पायिनी ॥ यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति । पेशाग्ं॑सि दे॒वाः प॑र॒मे ज॒नित्रे᳚ । सानो॑ वि॒राडन॑पस्फुरन्ती ॥ 2 ॥

वाग्दे॒वी जु॑षतामि॒दग्ं ह॒विः ॥ चक्षु॑-र्दे॒वाना॒-ञ्ज्योति॑र॒मृते॒ न्य॑क्तम् । अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते । तस्य॑ सु॒म्न-म॑शीमहि । मा नो॑ हासी-द्विचक्ष॒णम् ॥ आयु॒रिन्नः॒ प्रती᳚र्यताम् । अन॑न्धा॒-श्चक्षु॑षा व॒यम् । जी॒वा ज्योति॑रशीमहि । सुव॒र्ज्योति॑-रु॒तामृत᳚म् ॥ श्रोत्रे॑ण भ॒द्र मु॒त शृ॑ण्वन्ति स॒त्यम् । श्रोत्रे॑ण॒ वाच॑-म्बहु॒धोद्य मा॑नाम् । श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते । श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आशृ॑णोमि ॥ येन॒ प्राच्या॑ उ॒त द॑क्षि॒णा । प्र॒तीच्यै॑ दि॒श-श्शृ॒ण्वन्त्यु॑त्त॒रात् । तदिच्छ्रोत्र॑-म्बहु॒धोद्यमा॑नम् । अ॒रान्न ने॒मिः परि॒ सर्व॑-म्बभूव ॥ 3 ॥
(अ॒ग्रि॒ - यमन॑पस्फुरन्ती - स॒त्यग्ं स॒प्त च॑) (अ. 1)

2.5.2 उपहोमाः
उ॒देहि॑ वाजि॒न्यो अ॑स्य॒फ्स्व॑न्तः । इ॒दग्ं रा॒ष्ट्रमावि॑श सू॒नृता॑वत् । यो रोहि॑तो॒ विश्व॑मि॒द-ञ्ज॒जान॑ । स नो॑ रा॒ष्ट्रेषु॒ सुधि॑तान्दधातु ॥ रोहग्ं॑ रोह॒ग्ं॒ रोहि॑त॒ आरु॑रोह । प्र॒जाभि॒र्वृद्धि॑-ञ्ज॒नुषा॑मु॒पस्थ᳚म् । ताभि॒-स्सग्ंर॑ब्धो अविद॒थ्षडु॒र्वीः । गा॒तु-म्प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः᳚ ॥ आहा॑र्​षी-द्रा॒ष्ट्रमि॒ह रोहि॑तः । मृधो॒ व्या᳚स्थ॒दभ॑य-न्नो अस्तु ॥ 4 ॥

अ॒स्मभ्य॑-न्द्यावापृथिवी॒ शक्व॑रीभिः । रा॒ष्ट्र-न्दु॑हाथामि॒ह रे॒वती॑भिः ॥ विम॑मर्​श॒ रोहि॑तो वि॒श्वरू॑पः । स॒मा॒च॒क्रा॒णः प्र॒रुहो॒ रुह॑श्च । दिव॑ग॒न्त्वाय॑ मह॒ता म॑हि॒म्ना । वि नो॑ रा॒ष्ट्रमु॑नत्तु॒ पय॑सा॒ स्वेन॑ ॥ यास्ते॒ विश॒स्तप॑सा सम्बभू॒वुः । गा॒य॒त्रं-वँ॒थ्समनु॒ तास्त॒ आगुः॑ । तास्त्वा वि॑शन्तु॒ मह॑सा॒ स्वेन॑ । स-म्मा॑ता पु॒त्रो अ॒भ्ये॑तु॒ रोहि॑तः ॥ 5 ॥

यू॒यमु॑ग्रा मरुतः पृश्निमातरः । इन्द्रे॑ण स॒युजा॒ प्रमृ॑णीथ॒ शत्रून्॑ । आ वो॒ रोहि॑तो अशृणोदभिद्यवः । त्रिस॑प्तासो मरुत-स्स्वादुसम्मुदः ॥ रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान । तस्मि॒ग्ग्॒स्तन्तु॑-म्परमे॒ष्ठी त॑तान । तस्मि॑ञ्छिश्रिये अ॒ज एक॑पात् । अदृग्ं॑ ह॒द्द्यावा॑पृथि॒वी बले॑न ॥ रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृग्ंहत् । तेन॒ सुव॑-स्स्तभि॒त-न्तेन॒ नाकः॑ ॥ 6 ॥

सो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॑ । तेन॑ दे॒वा-स्सुव॒रन्व॑विन्दन्न् ॥ सु॒शेव॑-न्त्वा भा॒नवो॑ दीदि॒वाग्ंस᳚म् । सम॑ग्रासो जु॒ह्वो॑ जातवेदः । उ॒क्षन्ति॑ त्वा वा॒जिन॒मा घृ॒तेन॑ । सग्ंस॑मग्ने युवसे॒ भोज॑नानि ॥ अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्ना-न्यु॑त्त॒मानि॑ सन्तु । स-ञ्जा᳚स्प॒त्यग्ं सु॒यम॒माकृ॑णुष्व । श॒त्रू॒य॒ताम॒भिति॑ष्ठा॒ महा॑सि ॥ 7 ॥
(अ॒- स्त्वे॒तु॒ रोहि॑तो॒ - नाको॒ - महाग्ं॑सि) (अ. 2)

2.5.3 उपहोमाः
पुन॑र्न॒ इन्द्रो॑ म॒घवा॑ ददातु । धना॑नि श॒क्रो घन्य॑-स्सु॒राधाः᳚ । अ॒र्वा॒चीन॑-ङ्कृणुतां-याँचि॒तो मनः॑ । श्रु॒ष्टी नो॑ अ॒स्य ह॒विषो॑ जुषा॒णः ॥ यानि॑ नो जि॒न-न्धना॑नि । ज॒हर्थ॑ शूर म॒न्युना᳚ । इन्द्रानु॑विन्द न॒स्तानि॑ । अ॒नेन॑ ह॒विषा॒ पुनः॑ ॥ इन्द्र॒ आशा᳚भ्यः॒ परि॑ । सर्वा॒भ्यो-ऽभ॑य-ङ्करत् ॥ 8 ॥

जेता॒ शत्रू॒न्॒. विच॑र्​षणिः ॥ आकू᳚त्यै त्वा॒ कामा॑य त्वा स॒मृधे᳚ त्वा । पु॒रो द॑धे अमृत॒त्वाय॑ जी॒वसे᳚ ॥ आकू॑तिम॒स्याव॑से । काम॑मस्य॒ समृ॑द्ध्यै । इन्द्र॑स्य युञ्जते॒ धियः॑ ॥ आकू॑ति-न्दे॒वी-म्मन॑सः पु॒रो द॑धे । य॒ज्ञस्य॑ मा॒ता सु॒हवा॑ मे अस्तु । यदि॒च्छामि॒ मन॑सा॒ सका॑मः । वि॒देय॑मेन॒द्धृद॑ये॒ निवि॑ष्टम् ॥ 9 ॥

सेद॒ग्निर॒ग्नीग्ं रत्ये᳚त्य॒न्यान् । यत्र॑ वा॒जी तन॑यो वी॒डुपा॑णिः । स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥ आशा॑ना-न्त्वा ऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः । इ॒द-म्भू॒तस्याद्ध्य॑क्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ विश्वा॒ आशा॒ मधु॑ना॒ सग्ंसृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु । अ॒यं-यँज॑मानो॒ मृधो॒ व्य॑स्यताम् ॥ 10 ॥

अगृ॑भीताः प॒शव॑-स्सन्तु॒ सर्वे᳚ ॥ अ॒ग्नि-स्सोमो॒ वरु॑णो मि॒त्र इन्द्रः॑ । बृह॒स्पति॑-स्सवि॒ता य-स्स॑ह॒स्री । पू॒षा नो॒ गोभि॒रव॑सा॒ सर॑स्वती । त्वष्टा॑ रू॒पाणि॒ सम॑नक्तु य॒ज्ञैः ॥ त्वष्टा॑ रू॒पाणि॒ दध॑ती॒ सर॑स्वती । पू॒षा भगग्ं॑ सवि॒ता नो॑ ददातु । बृह॒स्पति॒-र्दद॒दिन्द्र॑-स्स॒हस्र᳚म् । मि॒त्रो दा॒ता वरु॑ण॒-स्सोमो॑ अ॒ग्निः ॥ 11 ॥
(क॒र॒न् - निवि॑ष्ट - मस्यतां॒ - +नव॑ च) (अ. 3)

2.5.4 उपहोमाः
आ नो॑ भर॒ भग॑मिन्द्र द्यु॒मन्त᳚म् । नि ते॑ दे॒ष्णस्य॑ धीमहि प्ररे॒के । उ॒र्व इ॑व पप्रथे॒ कामो॑ अ॒स्मे । तमापृ॑णा वसुपते॒ वसू॑नाम् ॥ इ॒म-ङ्काम॑-म्मन्दया॒ गोभि॒रश्वैः᳚ । च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । सु॒व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒-विँप्राः᳚ । इन्द्रा॑य॒ वाहः॑ कुशि॒कासो॑ अक्रन्न् ॥ इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् । यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥ 12 ॥

अह॒-न्नहि॒मन्व॒पस्त॑तर्द । प्र व॒क्षणा॑ अभिन॒-त्पर्व॑तानाम् ॥ अह॒न्नहि॒-म्पर्व॑ते शिश्रिया॒णम् । त्वष्टा᳚-ऽस्मै॒ वज्रग्ग्॑ स्व॒र्य॑-न्ततक्ष । वा॒श्रा इ॑व धे॒नव॒-स्स्यन्द॑मानाः । अञ्ज॑-स्समु॒द्र-मव॑जग्मु॒रापः॑ ॥ वृ॒षा॒यमा॑णो-ऽवृणीत॒ सोम᳚म् । त्रिक॑द्रुकेष्व-पिब-थ्सु॒तस्य॑ । आ साय॑क-म्म॒घवा॑ दत्त॒ वज्र᳚म् । अह॑न्नेन-म्प्रथम॒जा मही॑नाम् ॥ 13 ॥

यदिन्द्राह॑न्-प्रथम॒जा मही॑नाम् । आन्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः । आ-थ्सूर्य॑-ञ्ज॒नय॒-न्द्यामु॒षास᳚म् । ता॒दीक्ना॒ शत्रू॒न्न किला॑विविथ्से ॥ अह॑न् वृ॒त्रं-वृँ॑त्र॒तरं॒-व्यँग्ंस᳚म् । इन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धाग्ं॑सीव॒ कुलि॑शेना॒ विवृ॑क्णा । अहि॑-श्शयत उप॒पृक्-पृ॑थि॒व्याम् ॥ अ॒यो॒द्ध्येव दु॒र्मद॒ आ हि जु॒ह्वे । म॒हा॒वी॒र-न्तु॑ विबा॒ध-मृ॑जी॒षम् ॥ 14 ॥

नाता॑रीरस्य॒ समृ॑तिं-वँ॒धाना᳚म् । सग्ं रु॒जानाः᳚ पिपिष॒ इन्द्र॑शत्रुः ॥ विश्वो॒ विहा॑या अर॒तिः । वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे । त॒रणि॒र्न शि॑श्रथत् । श्र॒व॒स्य॑या॒ न शि॑श्रथत् । विश्व॑स्मा॒ इदि॑षुद्ध्य॒से । दे॒व॒त्रा ह॒व्यमूहि॑षे । विश्व॑स्मा॒ इथ्सु॒कृते॒ वार॑मृण्वति । अ॒ग्नि-र्द्वारा॒ व्यृ॑ण्वति ॥ 15 ॥

उदु॒ज्जिहा॑नो अ॒भि काम॑मी॒रयन्न्॑ । प्र॒पृ॒ञ्चन् विश्वा॒ भुव॑नानि पू॒र्वथा᳚ । आ के॒तुना॒ सुष॑मिद्धो॒ यजि॑ष्ठः । काम॑-न्नो अग्ने अ॒भिह॑र्य दि॒ग्भ्यः ॥ जु॒षा॒णो ह॒व्यम॒मृते॑षु दू॒ढ्यः॑ । आ नो॑ र॒यि-म्ब॑हु॒ला-ङ्गोम॑ती॒मिष᳚म् । निधे॑हि॒ यक्ष॑द॒मृते॑षु॒ भूषन्न्॑ ॥ अश्वि॑ना य॒ज्ञमाग॑तम् । दा॒शुषः॒ पुरु॑दग्ंससा । पू॒षा र॑क्षतु नो र॒यिम् ॥ 16 ॥

इ॒मं-यँ॒ज्ञम॒श्विना॑ व॒र्धय॑न्ता । इ॒मौ र॒यिं-यँज॑मानाय धत्तम् । इ॒मौ प॒शू-न्र॑क्षतां-विँ॒श्वतो॑ नः । पू॒षा नः॑ पातु॒ सद॒म-प्र॑युच्छन्न् ॥ प्र ते॑ म॒हे स॑रस्वति । सुभ॑गे॒ वाजि॑नीवति । स॒त्य॒वाचे॑ भरे म॒तिम् ॥ इ॒द-न्ते॑ ह॒व्य-ङ्घृ॒तव॑-थ्सरस्वति । स॒त्य॒वाचे॒ प्रभ॑रेमा ह॒वीग्ंषि॑ । इ॒मानि॑ ते दुरि॒ता सौभ॑गानि । तेभि॑र्व॒यग्ं सु॒भगा॑स-स्स्याम ॥ 17 ॥
(व॒ज् - य्रही॑ना - मृजी॒षं - ँव्यृ॑ण्वति - रक्षतु नो र॒यिग्ं - सौभ॑गा॒न्येक॑-ञ्च) (अ. 4)

2.5.5 उपहोमाः
य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् । य॒ज्ञ-स्स॒स्याना॑मु॒त सु॑क्षिती॒नाम् । य॒ज्ञ इ॒ष्टः पू॒र्वचि॑त्ति-न्दधातु । य॒ज्ञो ब्र॑ह्म॒ण्वाग्ं अप्ये॑तु दे॒वान् ॥ अ॒यं-यँ॒ज्ञो व॑र्धता॒-ङ्गोभि॒रश्वैः᳚ । इ॒यं-वेँदि॑-स्स्वप॒त्या सु॒वीरा᳚ । इ॒द-म्ब॒र्॒हिरति॑ ब॒र॒ःईग्​ष्य॒न्या । इ॒मं-यँ॒ज्ञं-विँश्वे॑ अवन्तु दे॒वाः ॥ भग॑ ए॒व भग॑वाग्ं अस्तु देवाः । तेन॑ व॒य-म्भग॑वन्त-स्स्याम ॥ 18 ॥

त-न्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥ भग॒ प्रणे॑त॒-र्भग॒ सत्य॑राधः । भगे॒मा-न्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्रणो॑ जनय॒ गोभि॒रश्वैः᳚ । भग॒ प्र नृभि॑-र्नृ॒वन्त॑-स्स्याम ॥ शश्व॑ती॒-स्समा॒ उप॑यन्ति लो॒काः । शश्व॑ती॒-स्समा॒ उप॑य॒न्त्यापः॑ । इ॒ष्ट-म्पू॒र्तग्ं शश्व॑तीना॒ग्ं॒ समा॑नाग्ं शाश्व॒तेन॑ । ह॒विषे॒ष्ट्वा ऽन॒न्तं-लोँ॒क-म्पर॒मारु॑रोह ॥ 19 ॥

इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑त् । सा रू॒पाणि॑ कुरुते॒ पञ्च॑ दे॒वी ॥ द्वे स्वसा॑रौ वयत॒स्तन्त्र॑मे॒तत् । स॒ना॒तनं॒-विँत॑त॒ग्ं॒ षण्म॑यूखम् । अवा॒न्याग्​ स्तन्तू᳚न् कि॒रतो॑ ध॒त्तो अ॒न्यान् । नाव॑पृ॒ज्याते॒ न ग॑माते॒ अन्त᳚म् ॥ आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य । वृष्टिं॒-येँ विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । अ॒यं-योँ अ॒ग्नि-र्म॑रुत॒-स्समि॑द्धः । ए॒त-ञ्जु॑षद्ध्व-ङ्कवयो युवानः ॥ 20 ॥

धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्णुवो॑जसः । मृ॒गा न भी॒मास्त॑वि॒षेभि॑-रू॒र्मिभिः॑ । अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणः॑ । भ्रुमि॒-न्धम॑न्त॒ उप॒ गा अ॑वृण्वत ॥ विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒-र्मनु॑षे दश॒स्यन्न् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । उ॒रु॒क्षि॒तिग्ं सु॒जनि॑मा चकार ॥, त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑स-म्महि॒त्वा । प्र विष्णु॑-रस्तु त॒वस॒स्त वी॑यान् । त्वे॒षग्ग्​ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥॥ आवे॒धस॒-न्नील॑पृष्ठ-म्बृ॒हन्त᳚म् । बृह॒स्पति॒ग्ं॒ सद॑ने सादयद्ध्वम् । सा॒दद्यो॑नि॒-न्दम॒ आदी॑दि॒वाग्ंस᳚म् । हिर॑ण्यवर्णमरु॒षग्ं स॑पेम ॥ स हि शुचि॑-श्श॒तप॑त्र॒-स्स शु॒न्ध्यूः ॥ 21 ॥

हिर॑ण्यवाशीरिषि॒र-स्सु॑व॒र॒.षाः । बृह॒स्पति॒-स्स स्वा॑वे॒श ऋ॒ष्वाः । पू॒रू सखि॑भ्य आ सु॒ति-ङ्क॑रिष्ठः ॥ पूष॒ग्ग्॒स्तव॑ व्र॒ते व॒यम् । न रि॑ष्येम क॒दा च॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि ॥ यास्ते॑ पूष॒न्नावो॑ अ॒न्त-स्स॑मु॒द्रे । हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति । याभि॑र्यासि दू॒त्याग्ं सूर्य॑स्य । कामे॑न कृ॒त-श्श्रव॑ इ॒च्छमा॑नः ॥ 22 ॥

अर॑ण्या॒न्यर॑ण्यान्य॒सौ । या प्रेव॒ नश्य॑सि । क॒था ग्राम॒-न्न पृ॑च्छसि । न त्वा॒ भीरि॑व विन्दती(3) ॥ वृ॒षा॒र॒वाय॒ वद॑ते । यदु॒पाव॑ति चिच्चि॒कः । आ॒घा॒टीभि॑रिव धा॒वयन्न्॑ । अ॒र॒ण्या॒नि-र्म॑हीयते ॥ उ॒त गाव॑ इवादन्न् । उ॒तो वेश्मे॑व दृश्यते ॥ 23 ॥

उ॒तो अ॑रण्या॒नि-स्सा॒यम् । श॒क॒टीरि॑व सर्जति ॥ गाम॒ङ्गैष॒ आह्व॑यति । दार्व॒ङ्गैष॒ उपा॑वधीत् । वस॑न्नरण्या॒न्याग्ं सा॒यम् । अक्रु॑क्ष॒दिति॑ मन्यते ॥ न वा अ॑रण्या॒निर्​ह॑न्ति । अ॒न्यश्चेन्नाभि॒गच्छ॑ति । स्वा॒दोः फल॑स्य ज॒ग्ध्वा । यत्र॒ काम॒-न्निप॑द्यते ॥ आञ्ज॑नगन्धीग्ं सुर॒भीम् । ब॒ह्व॒न्नामकृ॑षीवलाम् । प्राह-म्मृ॒गाणा᳚-म्मा॒तर᳚म् । अ॒र॒ण्या॒नीम॑शग्ं-सिषम् ॥ 24 ॥
(स्या॒म॒ - रु॒रो॒ह॒ - यु॒वा॒नः॒ - शु॒न्ध् - यूरि॒च्छमा॑नो - दृश्यते॒ - निप॑द्यते च॒त्वारि॑ च) (अ. 5)

2.5.6 उपहोमाः
वार्त्र॑हत्याय॒ शव॑से । पृ॒त॒ना॒-साह्या॑य च । इन्द्र॒त्वा-ऽऽव॑र्तयामसि ॥ सु॒ब्रह्मा॑णं-वीँ॒रव॑न्त-म्बृ॒हन्त᳚म् । उ॒रु-ङ्ग॑भी॒र-म्पृ॒थुबु॑द्ध्नमिन्द्र । श्रु॒तर्​षि॑-मु॒ग्रम॑भि-माति॒षाह᳚म् । अ॒स्मभ्य॑-ञ्चि॒त्रं-वृँष॑णग्ं र॒यि-न्दाः᳚ ॥ क्षे॒त्रि॒यै त्वा॒ निर्-ऋ॑त्यै त्वा । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् । अ॒ना॒गस॒-म्ब्रह्म॑णे त्वा करोमि ॥ 25 ॥

शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे ॥ श-न्ते॑ अ॒ग्नि-स्स॒हाद्भिर॑स्तु । श-न्द्यावा॑पृथि॒वी स॒हौष॑धीभिः । शम॒न्तरि॑क्षग्ं स॒ह वाते॑न ते । श-न्ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु ॥ या दैवी॒श्चत॑स्रः प्र॒दिशः॑ । वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे । तासा᳚-न्त्वा ज॒रस॒ आद॑धामि । प्र यक्ष्म॑ एतु॒ निर्-ऋ॑ति-म्परा॒चैः ॥ अमो॑चि॒ यक्ष्मा᳚-द्दुरि॒ता-दव॑र्त्यै ॥ 26 ॥

द्रु॒हः पाशा॒न्निर्-ऋ॑त्यै॒ चोद॑मोचि । अहा॒ अव॑र्ति॒मवि॑द-थ्स्यो॒नम् । अप्य॑भू-द्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के ॥ सूर्य॑मृ॒त-न्तम॑सो॒ ग्राह्या॒ यत् । दे॒वा अमु॑ञ्च॒-न्नसृ॑ज॒न्व्ये॑नसः । ए॒वम॒हमि॒म-ङ्क्षे᳚त्रि॒याज्जा॑मिश॒ग्ं॒सात् । द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त् ॥ बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वः॑ । दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तग्ं र॒यिग्ग्​ स्तु॑व॒ते की॒रये॑ चित् ॥ 27 ॥

यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ दे॒वा॒युध॒मिन्द्र॒माजोहु॑वानाः । वि॒श्वा॒वृध॑म॒भि ये रक्ष॑माणाः । येन॑ ह॒ता दी॒र्घमद्ध्वा॑न॒मायन्न्॑ । अ॒न॒न्तमर्थ॒मनि॑वर्-थ्स्यमानाः ॥ यत्ते॑ सुजाते हि॒मव॑थ्सु भेष॒जम् । म॒यो॒भू-श्शन्त॑मा॒ यद्धृ॒दो-ऽसि॑ । ततो॑ नो देहि सीबले ॥ अ॒दो गि॒रिभ्यो॒ अधि॒ यत्प्र॒धाव॑सि । स॒ग्ं॒शोभ॑माना क॒न्ये॑व शुभ्रे ॥ 28 ॥

ता-न्त्वा॒ मुद्ग॑ला ह॒विषा॑ वर्धयन्ति । सा न॑-स्सीबले र॒यिमाभा॑जये॒ह ॥ पूर्व॑-न्देवा॒ अप॑रेणा-नु॒पश्य॒ञ्जन्म॑भिः । जन्मा॒न्यव॑रैः॒ परा॑णि । वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् । अ॒हग्ं हि॒त्वा शरी॑र-ञ्ज॒रसः॑ प॒रस्ता᳚त् ॥ प्रा॒णा॒पा॒नौ चक्षु॒-श्श्रोत्र᳚म् । वाच॒-म्मन॑सि॒ सम्भृ॑ताम् । हि॒त्वा शरी॑र-ञ्ज॒रसः॑ प॒रस्ता᳚त् । आ भूति॒-म्भूतिं॑-वँ॒यम॑श्नवामहै ॥ इ॒मा ए॒व ता उ॒षसो॒ याः प्र॑थ॒मा व्यौच्छन्न्॑ । ता दे॒व्यः॑ कुर्वते॒ पञ्च॑ रू॒पा । शश्व॑ती॒र्नाव॑पृज्यन्ति । न ग॑म॒न्त्यन्त᳚म् ॥ 29 ॥
(क॒रो॒ - म्यव॑र्त्यै - चि - च्छुभ्रे - ऽश्नवामहै च॒त्वारि॑ च) (अ. 6)

2.5.7 उपहोमाः
वसू॑ना॒-न्त्वा-ऽऽधी॑तेन । रु॒द्राणा॑मू॒र्म्या । आ॒दि॒त्याना॒-न्तेज॑सा । विश्वे॑षा-न्दे॒वाना॒-ङ्क्रतु॑ना । म॒रुता॒मेम्ना॑ जुहोमि॒ स्वाहा᳚ ॥ अ॒भिभू॑ति-र॒हमाग॑मम् । इन्द्र॑सखा स्वा॒युधः॑ । आस्वाशा॑सु दु॒ष्षहः॑ ॥ इ॒दं-वँर्चो॑ अ॒ग्निना॑ द॒त्तमागा᳚त् । यशो॒ भर्ग॒-स्सह॒ ओजो॒ बल॑-ञ्च ॥ 30 ॥

दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय । प्रति॑गृभ्णामि मह॒ते वी॒र्या॑य ॥ आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि । सर्व॑-म्म॒ आयु॑र्भूयात् । सर्व॒मायु॑र्गेषम् ॥ भूर्भुव॒-स्सुवः॑ ॥ अ॒ग्नि-र्धर्मे॑णान्ना॒दः । मृ॒त्यु-र्धर्मे॒णान्न॑पतिः । ब्रह्म॑ क्ष॒त्रग्ग्​ स्वाहा᳚ ॥ 31 ॥

प्र॒जाप॑तिः प्रणे॒ता । बृह॒स्पतिः॑ पुर ए॒ता । य॒मः पन्थाः᳚ । च॒न्द्रमाः᳚ पुनर॒सु-स्स्वाहा᳚ ॥ अ॒ग्निर॑न्ना॒दो-ऽन्न॑पतिः । अ॒न्नाद्य॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ सोमो॒ राजा॒ राज॑पतिः । रा॒ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ वरु॑ण-स्स॒म्रा-ट्थ्स॒म्राट्प॑तिः । साम्रा᳚ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ 32 ॥

मि॒त्रः, क्ष॒त्र-ङ्क्ष॒त्रप॑तिः । क्ष॒त्रम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ इन्द्रो॒ बल॒-म्बल॑पतिः । बल॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ बृह॒स्पति॒-र्ब्रह्म॒ ब्रह्म॑पतिः । ब्रह्मा॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ स॒वि॒ता रा॒ष्ट्रग्ं रा॒ष्ट्रप॑तिः । रा॒ष्ट्रम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ पू॒षा वि॒शां-विँट्प॑तिः । विश॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ सर॑स्वती॒ पुष्टिः॒ पुष्टि॑पत्नी । पुष्टि॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा᳚ ॥ त्वष्टा॑ पशू॒ना-म्मि॑थु॒नानाग्ं॑ रूप॒कृ-द्रू॒पप॑तिः । रू॒पेणा॒स्मिन्. य॒ज्ञे यज॑मानाय प॒शू-न्द॑दातु॒ स्वाहा᳚ ॥ 33 ॥
(च - स्वाहा॒ - साम्रा᳚ज्यम॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॒ - विश॑म॒स्मिन्. य॒ज्ञे यज॑मानाय ददातु॒ स्वाहा॑ च॒त्वारि॑ च) (अ. 7)

(अ॒ग्नि-स्सोमो॒ वरु॑णो मि॒त्र इन्द्रो॒ बृह॒स्पति॑-स्सवि॒ता पू॒षा सरस्वती॒ त्वष्टा॒ दश॑)

2.5.8 उपहोमाः
स ई᳚-म्पाहि॒ य ऋ॑जी॒षी तरु॑त्रः । य-श्शिप्र॑वान् वृष॒भो यो म॑ती॒नाम् । यो गो᳚त्र॒भि-द्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः । स इ॑न्द्र चि॒त्राग्ं अ॒भितृ॑न्धि॒ वाजान्॑ ॥ आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्ता᳚त् । आ वि॒श्वतो॑ अ॒भि समे᳚त्व॒र्वाम् । इन्द्र॑ द्यु॒म्नग्ं सुव॑र्वद्धेह्य॒स्मे ॥ प्रोष्व॑स्मै पुरोर॒थम् । इन्द्रा॑य शू॒षम॑र्चत ॥ 34 ॥

अ॒भीके॑ चिदु लोक॒कृत् । स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा । अ॒स्माक॑-म्बोधि चोदि॒ता । नभ॑न्ता-मन्य॒केषा᳚म् । ज्या॒का अधि॒ धन्व॑सु ॥ इन्द्रं॑-वँ॒यग्ं शु॑ना॒सीर᳚म् । अ॒स्मिन्. य॒ज्ञे ह॑वामहे । आवाजै॒रुप॑ नो गमत् ॥ इन्द्रा॑य॒ शुना॒सीरा॑य । स्रु॒चा जु॑हुत नो ह॒विः ॥ 35 ॥

जु॒षता॒-म्प्रति॒ मेधि॑रः ॥ प्र ह॒व्यानि॑ घृ॒तव॑न्त्यस्मै । हर्य॑श्वाय भरता स॒जोषाः᳚ । इन्द्र॒र्तुभि॒-र्ब्रह्म॑णा वावृधा॒नः । शु॒ना॒सी॒री ह॒विरि॒द-ञ्जु॑षस्व ॥ वय॑-स्सुप॒र्णा उप॑सेदु॒रिन्द्र᳚म् । प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षुः॑ । मु॒मु॒ग्ध्य॑स्मा-न्नि॒धये॑व ब॒द्धान् ॥ बृ॒हदिन्द्रा॑य गायत ॥ 36 ॥

मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒-रज॑नयन्नृता॒वृधः॑ । दे॒व-न्दे॒वाय॒ जागृ॑वि ॥ का मि॒हैकाः॒ क इ॒मे प॑त॒ङ्गाः । मा॒न्था॒लाः कुलि॒ परि॑ मा पतन्ति । अना॑वृतैना॒न्-प्रध॑मन्तु दे॒वाः । सौप॑र्ण॒-ञ्चक्षु॑स्त॒नुवा॑ विदेय ॥ ए॒वा व॑न्दस्व॒ वरु॑ण-म्बृ॒हन्त᳚म् । न॒म॒स्या धीर॑म॒मृत॑स्य गो॒पाम् । स न॒-श्शर्म॑ त्रि॒वरू॑थं॒-विँयग्ं॑सत् ॥ 37 ॥

यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ नाके॑ सुप॒र्णमुप॒ यत्-पत॑न्तम् । हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒-वँरु॑णस्य दू॒तम् । य॒मस्य॒ योनौ॑ शकु॒न-म्भु॑र॒ण्युम् ॥ श-न्नो॑ दे॒वीर॒भिष्ट॑ये । आपो॑ भवन्तु पी॒तये᳚ । शं-योँर॒भिस्र॑वन्तु नः ॥ ईशा॑ना॒ वार्या॑णाम् । क्षय॑न्ती-श्चर्​षणी॒नाम् ॥ 38 ॥

अ॒पो या॑चामि भेष॒जम् ॥ अ॒फ्सु मे॒ सोमो॑ अब्रवीत् । अ॒न्त-र्विश्वा॑नि भेष॒जा । अ॒ग्नि-ञ्च॑ वि॒श्वश॑म्भुवम् । आप॑श्च वि॒श्वभे॑षजीः ॥ यद॒फ्सु ते॑ सरस्वति । गोष्वश्वे॑षु॒ यन्मधु॑ । तेन॑ मे वाजिनीवति । मुख॑मङ्ग्धि सरस्वति ॥ या सर॑स्वती वैशम्भ॒ल्या ॥ 39 ॥

तस्या᳚-म्मे रास्व । तस्या᳚स्ते भक्षीय । तस्या᳚स्ते भूयिष्ठ॒भाजो॑ भूयास्म ॥ अ॒ह-न्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममे॒व सन्वह॑ ह॒व्यान्य॑ग्ने । पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदः ॥ इ॒हैव सन्तत्र॒ सन्त॑-न्त्वा ऽग्ने । प्रा॒णेन॑ वा॒चा मन॑सा बिभर्मि । ति॒रो मा॒ सन्त॒मायु॒र्मा प्रहा॑सीत् ॥ 40 ॥

ज्योति॑षा त्वा वैश्वान॒रेणोप॑तिष्ठे ॥ अ॒य-न्ते॒ योनि॑र्-ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः । त-ञ्जा॒नन्न॑ग्न॒ आरो॑ह । अथा॑ नो वर्धया र॒यिम् ॥ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तये-ह्यारो॑हा॒त्मा-ऽऽत्मान᳚म् । अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ । य॒ज्ञो भू॒त्वा य॒ज्ञमासी॑द॒ स्वां-योँनि᳚म् । जात॑वेदो॒ भुव॒ आजाय॑मान॒-स्सक्ष॑य॒ एहि॑ ॥ उ॒पाव॑रोह जातवेदः॒ पुन॒स्त्वम् ॥ 41 ॥

दे॒वेभ्यो॑ ह॒व्यं-वँ॑ह नः प्रजा॒नन्न् । आयुः॑ प्र॒जाग्ं र॒यिम॒स्मासु॑ धेहि । अज॑स्रो दीदिहि नो दुरो॒णे ॥ तमिन्द्र॑-ञ्जोहवीमि म॒घवा॑नमु॒ग्रम् । स॒त्रादधा॑न॒-मप्र॑तिष्कुत॒ग्ं॒ शवाग्ं॑सि । मग्ंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ ऽव॒वर्त॑त् । रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥ त्रिक॑द्रुकेषु महि॒षो यवा॑शिर-न्तुवि॒शुष्म॑स्तृ॒पत् । सोम॑मपिब॒-द्विष्णु॑ना सु॒तं-यँथाव॑शत् । स ई᳚-म्ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुम् ॥ 42 ॥

सैनग्ं॑ सश्च-द्दे॒व-न्दे॒व-स्स॒त्यमिन्दुग्ं॑ स॒त्य इन्द्रः॑ ॥ वि॒दद्यती॑ स॒रमा॑ रु॒ग्णमद्रेः᳚ । महि॒ पाथः॑ पू॒र्व्यग्ं स॒द्ध्रिय॑क्कः । अग्र॑-न्नय-थ्सु॒पद्यक्ष॑राणाम् । अच्छा॒ रव॑-म्प्रथ॒मा जा॑न॒ती गा᳚त् ॥ वि॒द-द्गव्यग्ं॑ स॒रमा॑ दृ॒ढमू॒र्वम् । येना॒ नुक॒-म्मानु॑षी॒ भोज॑ते॒ विट् । आ ये विश्वा᳚ स्वप॒त्यानि॑ च॒क्रुः । कृ॒ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ॥ त्व-न्नृभि॑र्नृपते दे॒वहू॑तौ ॥ 43 ॥

भूरी॑णि वृ॒त्वा ह॑र्यश्व हग्ंसि । त्व-न्निद॑स्यु॒-ञ्चुमु॑रिम् । धुनि॒-ञ्चास्वा॑पयो द॒भीत॑ये सु॒हन्तु॑ ॥ ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा । श्रु॒धि ब्रह्म॑ वावृधस्वो॒त गी॒र्भिः । आ॒वि-स्सूर्य॑-ङ्कृणु॒हि पी॒पिही॒षः । ज॒हि शत्रूग्ं॑र॒भि गा इ॑न्द्र तृन्धि ॥ अग्ने॒ बाध॑स्व॒ विमृधो॑ नुदस्व । अपामी॑वा॒ अप॒ रक्षाग्ं॑सि सेध । अ॒स्मा-थ्स॑मु॒द्रा-द्बृ॑ह॒तो दि॒वो नः॑ ॥ 44 ॥

अ॒पा-म्भू॒मान॒मुप॑ न-स्सृजे॒ह ॥ यज्ञ॒ प्रति॑तिष्ठ सुम॒तौ सु॒शेवा॒ आ त्वा᳚ । वसू॑नि पुरु॒धा वि॑शन्तु । दी॒र्घमायु॒-र्यज॑मानाय कृ॒ण्वन्न् । अथा॒मृते॑न जरि॒तार॑मङ्ग्धि ॥ इन्द्र॑-श्शु॒नाव॒-द्वित॑नोति॒ सीर᳚म् । सं॒​वँ॒थ्स॒रस्य॑ प्रति॒माण॑मे॒तत् । अ॒र्कस्य॒ ज्योति॒स्तदिदा॑स॒ ज्येष्ठ᳚म् । सं॒​वँ॒थ्स॒रग्ं शु॒नव॒थ्सीर॑मे॒तत् ॥ इन्द्र॑स्य॒ राधः॒ प्रय॑त-म्पु॒रु त्मना᳚ । तद॑र्करू॒पं-विँ॒मिमा॑नमेति । द्वाद॑शारे॒ प्रति॑तिष्ठ॒ती-द्वृषा᳚ ॥ अ॒श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तः । हवा॑महे॒ त्वोप॑गन्त॒ वा उ॑ । आ॒भूष॑न्तस्त्वा सुम॒तौ नवा॑याम् । व॒यमि॑न्द्र त्वा शु॒नग्ं हु॑वेम ॥ 45 ॥
(अ॒र्च॒त॒ - ह॒वि--र् गा॑यत - यग्ंसच् - चर्​षणी॒नां - ँवै॑शम्भ॒ल्या - हा॑सी॒त् - त्व - मु॒रुं - दे॒वहू॑तौ - नः॒ - त्मना॒ षट् च॑) (अ. 8)

(प्रा॒ण - उ॒देहि॒ - पुन॑र्न॒ - आ नो॑ भर - य॒ज्ञो रा॒यो - वार्त्र॑हत्याय॒ - वसू॑ना॒ग्ं॒ - स ई॑-म्पाह्य॒ ष्टौ)

(प्रा॒णो र॑क्ष॒ - त्यगृ॑भीता - धाराव॒रा म॒रुतो॑ - दीर्घायु॒त्वाय॒ - ज्योति॑षा त्वा॒ पञ्च॑चत्वारिग्ंशत् )

(प्रा॒णः - शु॒नग्ं हु॑वेम)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके पञ्चमः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: