| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
2.3 - होतृब्राह्मणशेषः - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - ब्रह्मवादिनो वदन्ति कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके तृतीयः प्रपाठकः - होतृब्राह्मणशेषः ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - सर्वेषां होतृमन्त्राणा-ञ्चतुर्होतृशब्देन व्यवहार ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कि-ञ्चतु॑र्होतृणा-ञ्चतुर्होतृ॒त्वमिति॑ । यदे॒वैषु च॑तु॒र्धा होता॑रः । तेन॒ चतु॑र्होतारः । तस्मा॒च्चतु॑र्होतार उच्यन्ते । तच्चतु॑र्होतृणा-ञ्चतुर्होतृ॒त्वम् ॥ सोमो॒ वै चतु॑र्होता । अ॒ग्निः पञ्च॑होता । धा॒ता षड्ढो॑ता । इन्द्र॑-स्स॒प्तहो॑ता ॥ 1 ॥ प्र॒जाप॑ति॒-र्दश॑होता । य ए॒व-ञ्चतु॑र्होतृणा॒-मृद्धिं॒-वेँद॑ । ऋ॒ध्नोत्ये॒व ॥ य ए॑षामे॒व-म्ब॒न्धुतां॒-वेँद॑ । बन्धु॑मान्भवति । य ए॑षामे॒व-ङ्क्लृप्तिं॒-वेँद॑ । कल्प॑ते-ऽस्मै । य ए॑षामे॒व-मा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवान्-भवति । य ए॑षामे॒व-म्प्र॑ति॒ष्ठां-वेँद॑ ॥ 2 ॥ प्रत्ये॒व ति॑ष्ठति ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । दश॑होता॒ चतु॑र्होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । अथ॒ कस्मा॒च्चतु॑र्होतार उच्यन्त॒ इति॑ । इन्द्रो॒ वै चतु॑र्होता । इन्द्रः॒ खलु॒ वै श्रेष्ठो॑ दे॒वता॑ना-मुप॒देश॑नात् । य ए॒वमिन्द्र॒ग्ग्॒ श्रेष्ठ॑-न्दे॒वता॑ना-मुप॒देश॑ना॒-द्वेद॑ । वसि॑ष्ठ-स्समा॒नाना᳚-म्भवति । तस्मा॒च्छ्रेष्ठ॑मा॒यन्त॑-म्प्रथ॒मेनै॒वानु॑बुद्ध्यन्ते । अ॒यमागन्न्॑ । अ॒यमवा॑सा॒दिति॑ । की॒र्तिर॑स्य॒ पूर्वा-ऽऽग॑च्छति ज॒नता॑माय॒तः । अथो॑ एन-म्प्रथ॒मेनै॒वानु॑ बुद्ध्यन्ते । अ॒यमागन्न्॑ । अ॒यमवा॑सा॒दिति॑ ॥ 3 ॥ अनुवाकं 2 - नैमित्तिको होतृमन्त्रहोमः प्रा॒णाने॒वास्योप॑दासयति ॥ यद्ये॑न॒-म्पुन॑रुप॒ शिक्षे॑युः । आग्नी᳚द्ध्र ए॒व जु॑हुया॒-द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । प॒श्चा-त्प्रांआसी॑नः । अ॒नु॒लो॒म-मवि॑ग्राहम् । प्रा॒णाने॒वास्मै॑ कल्पयति ॥ प्राय॑श्चित्ती॒-वाघोते-त्यृ॑तुमु॒ख ऋ॑तुमुखे जुहोति । ऋ॒तूने॒वास्मै॑ कल्पयति । कल्प॑न्ते-ऽस्मा ऋ॒तवः॑ ॥ 5 ॥ क्लृ॒ता अ॑स्मा ऋ॒तव॒ आय॑न्ति ॥ षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒दग्ं सर्व॑मसृजत । स मनो॑-ऽसृजत । मन॒सो-ऽधि॑ गाय॒त्रीम॑सृजत । तद्गा॑य॒त्रीं-यँश॑ आर्च्छत् । तामा-ऽल॑भत । गा॒य॒त्रि॒या अधि॒ छन्दाग्॑स्य सृजत । छन्दो॒भ्यो-ऽधि॒ साम॑ । त-थ्साम॒ यश॑ आर्च्छत् । तदा-ऽल॑भत ॥ 6 ॥ साम्नो-ऽधि॒ यजूग्॑ष्यसृजत । यजु॒र्भ्यो-ऽधि॒ विष्णु᳚म् । त-द्विष्णुं॒-यँश॑ आर्च्छत् । तमा-ऽल॑भत । वि॒ष्णोरद्ध्योष॑धीरसृजत । ओष॑धी॒भ्यो-ऽधि॒ सोम᳚म् । त-थ्सोमं॒-यँश॑ आर्च्छत् । तमा-ऽल॑भत । सोमा॒दधि॑ प॒शून॑सृजत । प॒शुभ्यो-ऽधीन्द्र᳚म् ॥ 7 ॥ तदिन्द्रं॒-यँश॑ आर्च्छत् । तदे॑न॒-न्नाति॒ प्राच्य॑वत । इन्द्र॑ इव यश॒स्वी भ॑वति । य ए॒वं-वेँद॑ । नैनं॒-यँशो-ऽति॒ प्रच्य॑वते ॥ यद्वा इ॒द-ङ्कि-ञ्च॑ । त-थ्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सः प्रत्य॑गृह्णात् । तदे॑न॒-म्प्रति॑गृहीत॒-न्नाहि॑नत् । य-त्किञ्च॑ प्रति गृह्णी॒यात् । त-थ्सर्व॑मुत्ता॒नस्त्वा᳚ङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यं-वाँ उ॑त्ता॒न आ᳚ङ्गीर॒सः । अ॒नयै॒वैन॒त्-प्रति॑ गृह्णाति । नैनग्ं॑ हिनस्ति ॥ ब॒र॒ःइषा॒ प्रती॑या॒द्गां-वाँ-ऽश्वं॑-वाँ । ए॒तद्वै प॑शू॒ना-म्प्रि॒य-न्धाम॑ । प्रि॒येणै॒वैन॒-न्धाम्ना॒ प्रत्ये॑ति ॥ 8 ॥ अनुवाकं 3 - केशवपनाङ्ग-म्पुष्टिवेदनं पृ॒थि॒वी न्य॑वर्तयत । सौष॑धीभि॒-र्वन॒स्पति॑भि-रपुष्यत् । वा॒युर्न्य॑वर्तयत । स मरी॑चीभि-रपुष्यत् । अ॒न्तरि॑क्ष॒-न्न्य॑वर्तयत । तद्वयो॑भि-रपुष्यत् । आ॒दि॒त्यो न्य॑वर्तयत । स र॒श्मिभि॑-रपुष्यत् । द्यौर्न्य॑वर्तयत । सा नक्ष॑त्रै-रपुष्यत् । च॒न्द्रमा॒ न्य॑वर्तयत । सो॑-ऽहोरा॒त्रै-र॑र्धमा॒सै-र्मासैर्॑ ऋ॒तुभि॑-स्संवँथ्स॒रेणा॑-पुष्यत् । तान्पोषा᳚न्-पुष्यति । याग्स्ते-ऽपु॑ष्यन्न् । य ए॒वं-विँ॒दान्नि च॑ व॒र्तय॑ते॒ परि॑ च ॥ 10 ॥ अनुवाकं 4 - प्रतिग्रहमन्त्रमहिमज्ञानम् तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्त । तृती॑यमिन्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्ते । य ए॒वं-विँ॒द्वान्. वासः॑ प्रति गृ॒ह्णाति॑ । अथ॒ यो-ऽवि॑द्वा-न्प्रति गृ॒ह्णाति॑ । तृती॑यमस्येन्द्रि॒यस्याप॑ क्रामति ॥ तस्य॒ वै रु॒द्रस्य॒ गा-म्प्र॑तिजग्र॒हुषः॑ । च॒तु॒र्थमि॑न्द्रि॒यस्या-पा᳚क्रामत् । तामे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्त ॥ 12 ॥ च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्ते । य ए॒वं-विँ॒द्वा-न्गा-म्प्र॑ति गृ॒ह्णाति॑ । अथ॒ यो-ऽवि॑द्वा-न्प्रति गृ॒ह्णाति॑ । च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑ क्रामति ॥ तस्य॒ वै वरु॑ण॒स्याश्व॑-म्प्रतिजग्र॒हुषः॑ । प॒ञ्च॒ममि॑न्द्रि॒यस्या-पा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्त । प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्ते । य ए॒वं-विँ॒द्वानश्व॑-म्प्रति गृ॒ह्णाति॑ ॥ 13 ॥ अथ॒ यो-ऽवि॑द्वा-न्प्रतिगृ॒ह्णाति॑ । प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति ॥ तस्य॒ वै प्र॒जाप॑तेः॒ पुरु॑ष-म्प्रतिजग्र॒हुषः॑ । ष॒ष्ठमि॑न्द्रि॒यस्या-पा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्त । ष॒ष्ठमि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्ते । य ए॒वं-विँ॒द्वा-न्पुरु॑ष-म्प्रति गृ॒ह्णाति॑ । अथ॒ यो-ऽवि॑द्वा-न्प्रति गृ॒ह्णाति॑ । ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑-क्रामति ॥ 14 ॥ तस्य॒ वै मनो॒स्तल्प॑-म्प्रतिजग्र॒हुषः॑ । स॒प्त॒ममि॑न्द्रि॒यस्या-पा᳚क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒य-स्या॒त्म-न्नु॒पाध॑त्त । स॒प्त॒ममि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्ते । य ए॒वं-विँ॒द्वाग्स्तल्प॑-म्प्रतिगृ॒ह्णाति॑ । अथ॒ यो-ऽवि॑द्वा-न्प्रति गृ॒ह्णाति॑ । स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑-क्रामति ॥ तस्य॒ वा उ॑त्ता॒नस्या᳚ङ्गीर॒सस्या प्रा॑ण-त्प्रतिजग्र॒हुषः॑ । अ॒ष्ट॒ममि॑न्द्रि॒यस्या-पा᳚क्रामत् ॥ 15 ॥ तदे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै सो᳚-ऽष्ट॒ममि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्ते । अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्म-न्नु॒पाध॑त्ते । य ए॒वं-विँ॒द्वान प्रा॑ण-त्प्रति गृ॒ह्णाति॑ । अथ॒ यो-ऽवि॑द्वा-न्प्रतिगृ॒ह्णाति॑ । अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति ॥ यद्वा इ॒द-ङ्कि-ञ्च॑ । त-थ्सर्व॑-मुत्ता॒न ए॒वाङ्गी॑र॒सः प्रत्य॑ गृह्णात् । तदे॑न॒-म्प्रति॑गृहीत॒-न्नाहि॑नत् । य-त्कि-ञ्च॑ प्रति गृह्णी॒यात् । त-थ्सर्व॑-मुत्ता॒न-स्त्वा᳚ङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑ गृह्णीयात् । इ॒यं-वाँ उ॑त्ता॒न आ᳚ङ्गीर॒सः । अ॒नयै॒वैन॒त्-प्रति॑गृह्णाति । नैनग्ं॑ हिनस्ति ॥ 16 ॥ (तस्य॒ वा अ॒ग्नेर्-हिर॑ण्य॒ग्ं॒ सोम॑स्य॒ वास॒स्तदे॒तेन॑ रु॒द्रस्य॒ गा-न्तामे॒तेन॒ वरु॑ण॒स्याश्व॑-म्प्र॒जाप॑तेः॒ पुरु॑ष॒-म्मनो॒स्तल्प॒-न्तमे॒तेनो᳚त्ता॒नस्य॒ तदे॒तेनाप्रा॑ण॒द्य-द्वै ) अनुवाकं 5 - प्रश्नोत्तररूपो ब्रह्मविषयस्संवाँदः तेनौष॑धी-रसृजन्त ॥ य-त्पञ्च॑होतार-स्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिना ऽऽर्ध्नुवन्न् । केनै॒भ्यो लो॒केभ्यो-ऽसु॑रा॒-न्प्राणु॑दन्त । केनै॑षा-म्प॒शून॑वृञ्ज॒तेति॑ । अ॒ग्निना॒ वै ते गृ॒हप॑तिना ऽऽर्ध्नुवन्न् । तेनै॒भ्यो लो॒केभ्यो-ऽसु॑रा॒न्-प्राणु॑दन्त । तेनै॑षा-म्प॒शून॑वृञ्जत ॥ य-थ्षड्ढो॑तार-स्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिना ऽऽर्ध्नुवन्न् ॥ 18 ॥ केन॒र्तून॑-कल्पय॒न्तेति॑ । धा॒त्रा वै ते गृ॒हप॑तिना ऽऽर्ध्नुवन्न् । तेन॒र्तून॑कल्पयन्त ॥ य-थ्स॒प्तहो॑तार-स्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिना ऽऽर्ध्नुवन्न् । केन॒ सुव॑रायन्न् । केने॒माल् ँलो॒कान्-थ्सम॑तन्व॒न्निति॑ । अ॒र्य॒म्णा वै ते गृ॒हप॑तिना ऽऽर्ध्नुवन्न् । तेन॒ सुव॑रायन्न् । तेने॒माल् ँलो॒कान्-थ्सम॑तन्व॒न्निति॑ ॥ 19 ॥ ए॒ते वै दे॒वा गृ॒हप॑तयः । तान्. य ए॒वं-विँ॒द्वान् । अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते । अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑-मृद्ध्नोति ॥ यो वा अ॑र्य॒मणं॒-वेँद॑ । दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य॒ज्ञो वा अ॑र्य॒मा । आर्या॑वस॒तिरिति॒ वै तमा॑हु॒र्य-म्प्र॒शग्ंस॑न्ति ॥ आर्या॑ वस॒तिर्भ॑वति । य ए॒वं-वेँद॑ ॥ 20 ॥ यद्वा इ॒द-ङ्कि-ञ्च॑ । त-थ्सर्व॒-ञ्चतु॑र्होतारः । चतु॑र्होतृ॒भ्यो-ऽधि॑ य॒ज्ञो निमि॑र्तः । स य ए॒वं-विँ॒द्वान्. वि॒वदे॑त । अ॒हमे॒व भूयो॑ वेद । यश्चतु॑र्होतॄ॒न्॒. वेदेति॑ । स ह्ये॑व भूयो॒ वेद॑ । यश्चतु॑र्होतॄ॒न्.॒ वेद॑ ॥ यो वै चतु॑र्होतृणा॒ग्ं॒ होतॄ॒न्॒. वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥ 21 ॥ सर्वा॒ दिशो॒-ऽभिज॑यति । प्र॒जाप॑ति॒र्वै दश॑होतृणा॒ग्ं॒ होता᳚ । सोम॒श्चतु॑र्होतृणा॒ग्ं॒ होता᳚ । अ॒ग्निः पञ्च॑होतृणा॒ग्ं॒ होता᳚ । धा॒ता षड्ढो॑तृणा॒ग्ं॒ होता᳚ । अ॒र्य॒मा स॒प्तहो॑तृणा॒ग्ं॒ होता᳚ । ए॒ते वै चतु॑र्होतृणा॒ग्ं॒ होता॑रः । तान्. य ए॒वं-वेँद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒-ऽभि ज॑यति ॥ 22 ॥ 2.3.6 अनुवाकं - होतृप्रशंसाप्रसङ्गेन क्रतूनामृत्विग् विशेषव्यवस्थापनम्, अग्निहोत्रस्य प्राशस्त्य-ञ्च ते प्रत्य॑शृण्वन्न् । ते द॑र्शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑हग्ग्-श्च॒त्वार्यङ्गा॑नि । तस्मा᳚-द्दर्शपूर्णमा॒सयो᳚-र्यज्ञक्र॒तोः । च॒त्वार॑ ऋ॒त्विजः॑ ॥ प॒ञ्च॒ कृत्वो-ऽह्व॑यत् । प॒शवः॒ प्रत्य॑शृण्वन्न् । ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑ह॒ल् ँलोम॑ छ॒वी-म्मा॒ग्ं॒समस्थि॑ म॒ज्जान᳚म् । तस्मा᳚च्चातुर्मा॒स्यानां᳚-यँज्ञक्र॒तोः ॥ 24 ॥ पञ्च॒र्त्विजः॑ ॥ ष॒ट्कृत्वो-ऽह्व॑यत् । ऋ॒तवः॒ प्रत्य॑शृण्वन्न् । ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त । त उपौ॑ह॒न्-थ्स्तना॑वा॒ण्डौ शि॒श्नमवा᳚ञ्च-म्प्रा॒णम् । तस्मा᳚त्-पशुब॒न्धस्य॑ यज्ञक्र॒तोः । षडृ॒त्विजः॑ ॥ स॒प्त॒कृत्वो-ऽह्व॑यत् । होत्राः॒ प्रत्य॑शृण्वन्न् । ता-स्सौ॒म्येनै॒वाद्ध्व॒रेण॑ यज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ॥ 25 ॥ ता उपौ॑हन्-थ्स॒प्तशी॑र्ष॒ण्या᳚न्-प्रा॒णान् । तस्मा᳚-थ्सौ॒म्यस्या᳚द्ध्व॒रस्य॑ यज्ञक्र॒तोः । स॒प्त होत्राः॒ प्राची॒र्वष॑ट्कुर्वन्ति ॥ द॒श॒कृत्वो-ऽह्व॑यत् । तपः॒ प्रत्य॑शृणोत् । तत्-कर्म॑णै॒व सं॑वँथ्स॒रेण॒ सर्वै᳚र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत । त-थ्सर्व॑मा॒त्मान॒-मप॑रिवर्ग॒-मुपौ॑हत् । तस्मा᳚थ्- संवँथ्स॒रे सर्वे॑ यज्ञक्र॒तवो-ऽव॑रुद्ध्यन्ते ॥ तस्मा॒-द्दश॑होता॒ चतु॑र्होता । पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता । एक॑होत्रे ब॒लिग्ं ह॑रन्ति । हर॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यात-ङ्गच्छति । य ए॒वं-वेँद॑ ॥ 26 ॥ अनुवाकं 7 - अग्निहोत्रस्य सर्वक्रतुरुद्भावसाधनेन प्रशंसा कुसि॑न्ध-ञ्चा॒त्मन॑-स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्य-ङ्गच्छति ॥ च॒तुरुन्न॑यति । चतु॑र्होतारमे॒व त-द्य॑ज्ञक्र॒तु-मा᳚प्नोति दर्शपूर्णमा॒सौ । च॒त्वारि॑ चा॒त्मनो-ऽङ्गा॑नि स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्य-ङ्गच्छति ॥ च॒तुरुन्न॑यति । स॒मित्प॑ञ्च॒मी । पञ्च॑होतारमे॒व त-द्य॑ज्ञक्र॒तु-मा᳚प्नोति चातुर्मा॒स्यानि॑ । लोम॑ छ॒वी-म्मा॒ग्ं॒समस्थि॑ म॒ज्जान᳚म् ॥ 28 ॥ तानि॑ चा॒त्मन॑-स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्य-ङ्गच्छति ॥ च॒तुरुन्न॑यति । द्विर्जु॑होति । षड्ढो॑तारमे॒व त-द्य॑ज्ञक्र॒तु-मा᳚प्नोति पशुब॒न्धम् । स्तना॑वा॒ण्डौ शि॒श्नमवा᳚ञ्च-म्प्रा॒णम् । तानि॑ चा॒त्मन॑-स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्य-ङ्गच्छति । च॒तुरुन्न॑यति । द्विर्जु॑होति ॥ 29 ॥ स॒मि-थ्स॑प्त॒मी । स॒प्तहो॑तारमे॒व त-द्य॑ज्ञक्र॒तु-मा᳚प्नोति सौ॒म्य-म॑द्ध्व॒रम् । स॒प्त चा॒त्मन॑-श्शीर्ष॒ण्या᳚न्-प्रा॒णान्-थ्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्य-ङ्गच्छति ॥ च॒तुरुन्न॑यति । द्विर्जु॒होति॑ । द्विर्निमा᳚र्ष्टि । द्विः प्राश्ञा॑ति । दश॑होतारमे॒व त-द्य॑ज्ञक्र॒तु-मा᳚प्नोति संवँथ्स॒रम् । सर्व॑-ञ्चा॒त्मान॒-मप॑रिवर्गग्ग् स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्य-ङ्गच्छति ॥ 30 ॥ अनुवाकं 8 - सृष्टिसाधनत्वेन होतृमन्त्रासामर्थ्य प्रशंसा तेनासु॒ना-ऽसु॑रानसृजत । तदसु॑राणा-मसुर॒त्वम् । य ए॒वमसु॑राणा-मसुर॒त्वं-वेँद॑ । असु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति ॥ सो-ऽसु॑रान्-थ्सृ॒ष्ट्वा पि॒तेवा॑मन्यत । तदनु॑ पि॒तॄन॑सृजत । तत्-पि॑तृ॒णा-म्पि॑तृ॒त्वम् । य ए॒व-म्पि॑तृ॒णा-म्पि॑तृ॒त्वं-वेँद॑ । पि॒तेवै॒व स्वाना᳚-म्भवति ॥ 32 ॥ यन्त्य॑स्य पि॒तरो॒ हव᳚म् ॥ स पि॒तॄन्-थ्सृ॒ष्ट्वा ऽम॑नस्यत् । तदनु॑ मनु॒ष्या॑-नसृजत । तन्म॑नु॒ष्या॑णा-म्मनुष्य॒त्वम् । य ए॒व-म्म॑नु॒ष्या॑णा-म्मनुष्य॒त्वं-वेँद॑ । म॒न॒स्व्ये॑व भ॑वति । नैन॒-म्मनु॑र्जहाति ॥ तस्मै॑ मनु॒ष्या᳚न्-थ्ससृजा॒नाय॑ । दिवा॑ देव॒त्रा ऽभ॑वत् । तदनु॑ दे॒वान॑सृजत । त-द्दे॒वाना᳚-न्देव॒त्वम् । य ए॒व-न्दे॒वाना᳚-न्देव॒त्वं-वेँद॑ । दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति ॥ तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भाग्ं॑सि । दे॒वा म॑नु॒ष्याः᳚ पि॒तरो-ऽसु॑राः ॥ तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति । य ए॒वं-वेँद॑ ॥ 33 ॥ अनुवाकं 9 - वायुरूपत्वज्ञानेन होतृमन्त्राणा-म्प्रशंसा यतो॒-ऽय-म्पव॑ते । यद॑भि॒ पव॑ते । यद॑भि स॒पंवँ॑ते । सर्व॒मायु॑रेति । न पु॒रा-ऽऽयु॑षः॒ प्रमी॑यते । प॒शु॒मा-न्भ॑वति । वि॒न्दते᳚ प्र॒जाम् ॥ अ॒द्भ्यः प॑वते । अ॒पो॑-ऽभि प॑वते । अ॒पो॑-ऽभि सम्प॑वते ॥ 35 ॥ अ॒स्याः प॑वते । इ॒माम॒भि प॑वते । इ॒माम॒भि सम्प॑वते । अ॒ग्नेः प॑वते । अ॒ग्निम॒भि प॑वते । अ॒ग्निम॒भि स-म्प॑वते । अ॒न्तरि॑क्षा-त्पवते । अ॒न्तरि॑क्षम॒भि प॑वते । अ॒न्तरि॑क्षम॒भि स-म्प॑वते । आ॒दि॒त्या-त्प॑वते ॥ 36 ॥ आ॒दि॒त्यम॒भि प॑वते । आ॒दि॒त्यम॒भि स-म्प॑वते । द्योः प॑वते । दिव॑म॒भि प॑वते ॥ दिव॑म॒भि स-म्प॑वते । दि॒ग्भ्यः प॑वते । दिशो॒-ऽभि प॑वते । दिशो॒-ऽभि स-म्प॑वते । स यत्-पु॒रस्ता॒द्वाति॑ । प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता᳚द्वाति ॥ 37 ॥ तस्मा᳚त्-पु॒रस्ता॒-द्वान्त᳚म् । सर्वाः᳚ प्र॒जाः प्रति॑ नन्दन्ति । प्रा॒णो हि प्रि॒यः प्र॒जाना᳚म् । प्रा॒ण इ॑व प्रि॒यः प्र॒जाना᳚-म्भवति । य ए॒वं-वेँद॑ । स वा ए॒ष प्रा॒ण ए॒व ॥ अथ॒ य-द्द॑क्षिण॒तो वाति॑ । मा॒त॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति । तस्मा᳚-द्दक्षिण॒तो वान्तं॑-विँ॒द्यात् । सर्वा॒ दिश॒ आवा॑ति ॥ 38 ॥ सर्वा॒ दिशो-ऽनु॒ विवा॑ति । सर्वा॒ दिशो-ऽनु॒ संवाँ॒तीति॑ । स वा ए॒ष मा॑त॒रिश्वै॒व ॥ अथ॒ यत्-प॒श्चाद्वाति॑ । पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति । पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति । पू॒तम॑श्नाति । य ए॒वं-वेँद॑ । स वा ए॒ष पव॑मान ए॒व ॥ 39 ॥ अथ॒ यदु॑त्तर॒तो वाति॑ । स॒वि॒तैव भू॒त्वोत्त॑र॒तो वा॑ति । स॒वि॒तेव॒ स्वाना᳚-म्भवति । य ए॒वं-वेँद॑ । स वा ए॒ष स॑वि॒तैव ॥ ते य ए॑न-म्पु॒रस्ता॑दा॒यन्त॑-मुप॒वद॑न्ति । य ए॒वास्य॑ पु॒रस्ता᳚त्-पा॒प्मानः॑ । ताग्स्ते ऽप॑घ्नन्ति । पु॒रस्ता॒दित॑रान्-पा॒प्मन॑-स्सचन्ते ॥ अथ॒ य ए॑न-न्दक्षिण॒त आ॒यन्त॑-मुप॒वद॑न्ति ॥ 40 ॥ य ए॒वास्य॑ दक्षिण॒तः पा॒प्मानः॑ । ताग्स्ते ऽप॑घ्नन्ति । द॒क्षि॒ण॒त इत॑रा-न्पा॒प्मन॑-स्सचन्ते ॥ अथ॒ य ए॑न-म्प॒श्चादा॒यन्त॑-मुप॒वद॑न्ति । य ए॒वास्य॑ प॒श्चात्-पा॒प्मानः॑ । ताग्स्ते ऽप॑घ्नन्ति । प॒श्चादित॑रान्-पा॒प्मन॑-स्सचन्ते ॥ अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒ वद॑न्ति । य ए॒वास्यो᳚त्तर॒तः पा॒प्मानः॑ । ताग्स्ते ऽप॑घ्नन्ति ॥ 41 ॥ उ॒त्त॒र॒त इत॑रा-न्पा॒प्मन॑-स्सचन्ते ॥ तस्मा॑ दे॒वं-विँ॒द्वान् । वीव॑ नृत्येत् । प्रेव॑ चलेत् । व्यस्ये॑वा॒क्ष्यौ भा॑षेत । म॒ण्टये॑दिव । क्रा॒थये॑दिव । शृ॒ङ्गा॒येते॑व ॥ उ॒त मोप॑वदेयुः । उ॒त मे॑ पा॒प्मान॒-मप॑हन्यु॒रिति॑ ॥ स या-न्दिशग्ं॑ स॒निमे॒ष्यन्-थ्स्यात् । य॒दा ता-न्दिशं॒-वाँतो॑ वा॒यात् । अथ॒ प्रवे॒यात् । प्र वा॑ धापयेत् (धावयेत्) । सा॒तमे॒व र॑दि॒तं-व्यूँ॑ढ-ङ्ग॒न्धम॒भि प्रच्य॑वते । आ-ऽस्य॒ त-ञ्ज॑नप॒द-म्पूर्वा॑ की॒र्तिर्ग॑च्छति ॥ दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य ए॒वं-वेँद॑ ॥ 42 ॥ अनुवाकं 10 - दशहोतृमन्त्राणा-ङ्काम्यप्रयोगः प्र त्वा॑ पद्ये ॥ सोमं॒-वैँ राजा॑न-ङ्कामये । श्र॒द्धामु॒ स का॑मयत॒ इति॑ । तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒र-ङ्क॑ल्पयि॒त्वा । दश॑होतार-म्पु॒रस्ता᳚-द्व्या॒ख्याय॑ । चतु॑र्होतार-न्दक्षिण॒तः । पञ्च॑ होतार-म्प॒श्चात् । षड्ढो॑तार-मुत्तर॒तः । स॒प्तहो॑तार-मु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑-ऽल॒ङ्कृत्य॑ ॥ 44 ॥ आ-ऽस्यार्धं-वँ॑व्राज । ताग्ं हो॒दीक्ष्यो॑वाच । उप॒ मा-ऽऽव॑र्त॒स्वेति॑ । तग्ं हो॑वाच । भोग॒-न्तु म॒ आच॑क्ष्व । ए॒त-न्म॒ आच॑क्ष्व । यत्ते॑ पा॒णाविति॑ । तस्या॑ उ॒ ह त्रीन्. वेदा॒-न्प्रद॑दौ । तस्मा॒दु ह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते ॥ स यः का॒मये॑त प्रि॒य-स्स्या॒मिति॑ ॥ 45 ॥ यं-वाँ॑ का॒मये॑त प्रि॒य-स्स्या॒दिति॑ । तस्मा॑ ए॒तग्ग् स्था॑ग॒र-म॑लङ्का॒र-ङ्क॑ल्पयि॒त्वा । दश॑होतार-म्पु॒रस्ता᳚-द्व्या॒ख्याय॑ । चतु॑र्होतार-न्दक्षिण॒तः । पञ्च॑होतार-म्प॒श्चात् । षड्ढो॑तार-मुत्तर॒तः । स॒प्तहो॑ता-रमु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑-ऽल॒ङ्कृत्य॑ । आ-ऽस्यार्धं-व्रँ॑जेत् । प्रि॒यो है॒व भ॑वति ॥ 46 ॥ अनुवाकं 11 - दशहोत्रादिमन्त्रनाम्ना-म्प्रवृत्तिनिमित्तम् आत्म॒-न्नात्म॒-न्नित्याम॑न्त्रयत । तस्मै॑ सप्त॒मग्ं हू॒तः प्रत्य॑शृणोत् । स स॒प्तहू॑तो-ऽभवत् । स॒प्तहू॑तो ह॒ वै नामै॒षः । तं-वाँ ए॒तग्ं स॒प्तहू॑त॒ग्ं॒ सन्त᳚म् । स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ आत्म॒-न्नात्म॒-न्नित्याम॑न्त्रयत । तस्मै॑ ष॒ष्ठग्ं हू॒तः प्रत्य॑शृणोत् । स षड्ढू॑तो-ऽभवत् ॥ 48 ॥ षड्ढू॑तो ह॒ वै नामै॒षः । तं-वाँ ए॒तग्ं षड्ढू॑त॒ग्ं॒ सन्त᳚म् । षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ आत्म॒-न्नात्म॒-न्नित्याम॑न्त्रयत । तस्मै॑ पञ्च॒मग्ं हू॒तः प्रत्य॑ शृणोत् । स पञ्च॑ हूतो-ऽभवत् । पञ्च॑हूतो ह॒ वै नामै॒षः । तं-वाँ ए॒त-म्पञ्च॑हूत॒ग्ं॒ सन्त᳚म् । पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ॥ 49 ॥ प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ आत्म॒-न्नात्म॒-न्नित्याम॑न्त्रयत । तस्मै॑ चतु॒र्थग्ं हू॒तः प्रत्य॑शृणोत् । स चतु॑र्हूतो-ऽभवत् । चतु॑र्हूतो ह॒ वै नामै॒षः । तं-वाँ ए॒त-ञ्चतु॑र्हूत॒ग्ं॒ सन्त᳚म् । चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ तम॑ब्रवीत् । त्वं-वैँ मे॒ नेदि॑ष्ठग्ं हू॒तः प्रत्य॑श्रौषीः । त्वयै॑-नानाख्या॒तार॒ इति॑ । तस्मा॒न्नु है॑ना॒ग्॒-श्चतु॑र्होतार॒ इत्याच॑क्षते । तस्मा᳚-च्छुश्रू॒षुः पु॒त्राणा॒ग्ं॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः । नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वं-वेँद॑ ॥ 50 ॥ (ब्र॒ह्म॒वा॒दिनः॒ किं - दक्षि॑णां॒ - ँयो वा अवि॑द्वा॒न् - तस्य॒ वै - ब्र॑ह्मवा॒दिनो॒ य-द्दश॑होतारः - प्र॒जाप॑ति॒ व्यस्रं - प्र॒जाप॑तिः॒ पुरु॑षं - प्र॒जाप॑तिरकामयत॒ स तप॒-स्सो᳚-ऽन्तर्वा᳚न् - ब्रह्मवा॒दिनो॒ यो वा इ॒मं-विँ॒द्यात् - प्र॒जाप॑ति॒-स्सोम॒ग्ं॒ राजा॑नं॒ - ब्रह्मा᳚त् म॒न्वदेका॑दश) (ब्र॒ह्म॒वा॒दिन॒ - स्तस्य॒ वा अ॒ग्ने--र् यद्वा इ॒द-ङ्किञ्च॑ - प्र॒जाप॑तिरकामयत॒ -य ए॒वास्य॑ दक्षिण॒तः प॑ञ्चा॒शत्) (ब्र॒ह्म॒वा॒दिनो॒ - य ए॒वं-वेँद॑ ) ॥ हरिः॑ ओम् ॥
|