View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.8 - अश्वमेधब्राह्मणं वैश्वदेवं काण्डम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - साङ्ग्रहण्येष्ट्या यजते

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके अष्टमः प्रपाठकः - अश्वमेधब्राह्मणं-वैँश्वदेव-ङ्काण्डम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

(अश्वमेधब्राह्मणं-वैँश्वदेव-ङ्काण्डं)

अनुवाकं 1 - साङ्ग्रहण्येष्ट्यादयः याजमानसंस्काराः
सा॒ग्रं॒ह॒ण्येष्ट्या॑ यजते । इ॒मा-ञ्ज॒नता॒ग्ं॒ सङ्ग॑ह्णा॒नीति॑ ॥ द्वाद॑शारत्नी रश॒ना भ॑वति । द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रः ।
सं॒​वँ॒थ्स॒रमे॒वा व॑रुन्धे । मौ॒ञ्जी भ॑वति । ऊर्ग्वै मुञ्जाः᳚ । ऊर्ज॑मे॒ वा व॑रुन्धे ॥ चि॒त्रा नक्ष॑त्र-म्भवति । चि॒त्रं-वाँ ए॒तत्कर्म॑ ॥ 1 ॥

यद॑श्वमे॒ध-स्समृ॑द्ध्यै ॥ पुण्य॑नाम देव॒यज॑न-म॒द्ध्यव॑स्यति । पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति ॥ अप॑दाती-नृ॒त्विज॑-स्स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः᳚ ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ के॒श॒श्म॒श्रु व॑पते । न॒खानि॒ निकृ॑न्तते । द॒तो धा॑वते । स्नाति॑ । अह॑तं॒-वाँसः॒ परि॑धत्ते । पा॒प्मनो-ऽप॑हत्यै ।
वाचं॑-यँ॒त्वोप॑वसति । सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै᳚ । रात्रि॑-ञ्जाग॒रय॑न्त आसते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 2 ॥
(कर्म॑ - धत्ते॒ पञ्च॑ च) (अ. 1)

अनुवाकं 2 - ब्रह्मौदनाभिधानम्
चतु॑ष्टय्य॒ आपो॑ भवन्ति ।
चतु॑श्शफो॒ वा अश्वः॑ प्राजाप॒त्य-स्समृ॑द्ध्यै ॥
ता दि॒ग्भ्य-स्स॒माभृ॑ता भवन्ति । दि॒क्षु वा आपः॑ ।
अन्नं॒-वाँ आपः॑ । अ॒द्भ्यो वा अन्न॑-ञ्जायते । यदे॒वाद्भ्यो-ऽन्न॒-ञ्जाय॑ते । तदव॑रुन्धे ॥ तासु॑ ब्रह्मौद॒न-म्प॑चति । रेत॑ ए॒व तद्द॑धाति ॥ 3 ॥

चतु॑श्शरावो भवति । दि॒क्ष्वे॑व प्रति॑तिष्ठति ॥ उ॒भ॒यतो॑ रु॒क्मौ भ॑वतः । उ॒भ॒यत॑ ए॒वास्मि॒न्-रुच॑-न्दधाति । उद्ध॑रति शृत॒त्वाय॑ ।
स॒र्पिष्वा᳚-न्भवति मेद्ध्य॒त्वाय॑ । च॒त्वार॑ आर्​षे॒याः प्राश्न॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । च॒त्वारि॒ हिर॑ण्यानि ददाति । दि॒शाम॒व ज्योती॒ग्॒ष्य व॑रुन्धे ॥ 4 ॥

यदाज्य॑-मु॒च्छिष्य॑ते । तस्मि॑न्-रश॒ना-न्न्यु॑नत्ति । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । रेत॒ आज्य᳚म् । यदाज्ये॑ रश॒ना-न्न्यु॒नत्ति॑ । प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्धयति ॥ द॒र्भ॒मयी॑ रश॒ना भ॑वति ।
ब॒हु वा ए॒ष कु॑च॒रो॑-ऽमे॒द्ध्यमुप॑गच्छति ।
यदश्वः॑ । प॒वित्रं॒-वैँ द॒र्भाः ॥ 5 ॥

यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति । पु॒नात्ये॒वैन᳚म् । पू॒तमे॑न॒-म्मेद्ध्य॒-माल॑भते ॥
अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑-क्रामत् ।
स म॒हर्त्वि॑जः॒ प्रावि॑शत् । तन्म॒हर्त्वि॑जा-म्महर्त्वि॒क्त्वम् । यन्म॒हर्त्वि॑जः प्रा॒श्ञन्ति॑ ।
म॒हि॒मान॑-मे॒वास्मि॒न्-तद्द॑धति ॥
अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् ।
तथ्सु॒वर्ण॒ग्ं॒ हिर॑ण्य-मभवत् । यथ्सु॒वर्ण॒ग्ं॒ हिर॑ण्य॒-न्ददा॑ति ।
रेत॑ ए॒व तद्द॑धाति ॥ ओ॒द॒ने द॑दाति । रेतो॒ वा ओ॑द॒नः । रेतो॒ हिर॑ण्यम् । रेत॑सै॒वास्मि॒-न्रेतो॑ दधाति ॥ 6 ॥
(द॒धा॒ति॒ - रु॒न्धे॒ - द॒र्भा - अ॑भव॒-थ्षट्च॑) (अ. 2)

अनुवाकं 3 - रशनया-ऽश्वबन्धनम्
यो वै ब्रह्म॑णे दे॒वेभ्यः॑ प्र॒जाप॑त॒ये-ऽप्र॑ति-प्रो॒च्याश्व॒-म्मेद्ध्य॑-म्ब॒द्ध्नाति॑ ।
आ दे॒वता᳚भ्यो वृश्च्यते । पापी॑यान्भवति । यः प्र॑ति॒प्रोच्य॑ । न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ॥ यदाह॑ । ब्रह्म॒न्नश्व॒-म्मेद्ध्य॑-म्भन्​थ्स्यामि दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राद्ध्यास॒मिति॑ । ब्रह्म॒ वै ब्र॒ह्मा ।
ब्रह्म॑ण ए॒व दे॒वेभ्यः॑ प्र॒जाप॑तये प्रति॒प्रोच्याश्व॒-म्मेद्ध्य॑-म्बद्ध्नाति ॥ 7 ॥

न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑या-न्भवति ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒ना-माद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒-मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑-मद्ध्व॒र्यू आस्ता᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒-मित्या॑ह॒ यत्यै᳚ ॥
व्यृ॑द्धं॒-वाँ ए॒तद्य॒ज्ञस्य॑ । यद॑य॒जुष्के॑ण क्रि॒यते᳚ ।
इ॒माम॑गृभ्णन्-रश॒ना-मृ॒तस्ये-त्यधि॑ वदति॒ यजु॑ष्कृत्यै । य॒ज्ञस्य॒ समृ॑द्ध्यै ॥ 8 ॥

तदा॑हुः । द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या(3) त्रयो॑दशार॒त्नी(3)रिति॑ । ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् । यथ्सं॑​वँथ्स॒रः ।
तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप᳚म् । ऋ॒ष॒भ ए॒ष य॒ज्ञाना᳚म् । यद॑श्वमे॒धः । यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप᳚म् । ए॒वमे॒तस्य॑ वि॒ष्टप᳚म् । त्र॒यो॒द॒शम॑र॒त्निग्ं र॑श॒नाया॑-मु॒पाद॑धाति ॥ 9 ॥

यथ॑र्​ष॒भस्य॑ वि॒ष्टपग्ं॑ सग्ग्​स्क॒रोति॑ । ता॒दृगे॒व तत् ॥ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह । आयु॑रे॒वास्मि॑-न्दधाति ॥
तया॑ दे॒वा-स्सु॒तमाब॑भूवु॒-रित्या॑ह । भूति॑मे॒वोपाव॑र्तते ॥ ऋ॒तस्य॒ सामन᳚-थ्स॒रमा॒रप॒न्तीत्या॑ह । स॒त्यं-वाँ ऋ॒तम् ।
स॒त्येनै॒वैन॑ मृ॒तेनार॑भते ॥ अ॒भि॒धा अ॒सीत्या॑ह ॥ 10 ॥

तस्मा॑-दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भि भ॑वति । भुव॑न-म॒सीत्या॑ह ।
भू॒मान॑-मे॒वोप॑ति । य॒न्ता-ऽसीत्या॑ह । य॒न्तार॑मे॒वैन॑-ङ्करोति ।
ध॒र्ता-ऽसीत्या॑ह । ध॒र्तार॑मे॒वैन॑-ङ्करोति । सो᳚-ऽग्निं-वैँ᳚श्वान॒र-मित्या॑ह ।
अ॒ग्ना-वे॒वैनं॑-वैँश्वान॒रे जु॑होति । सप्र॑थस॒मित्या॑ह ॥ 11 ॥

प्र॒जयै॒वैन॑-म्प॒शुभिः॑ प्रथयति ।
स्वाहा॑कृत॒ इत्या॑ह । होम॑ ए॒वास्य॒षः ।
पृ॒थि॒व्या-मित्या॑ह । अ॒स्यामे॒वैन॒-म्प्रति॑ष्ठापयति । य॒न्ता राड्य॒न्ता-ऽसि॒ यम॑नो ध॒र्ता-ऽसि॑ ध॒रुण॒ इत्या॑ह ।
रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒-व्याँच॑ष्टे ।
कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥
स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह ।
दे॒वेभ्य॑ ए॒वैनग्ग्॑ स्व॒गा क॑रोति ।
स्वाहा᳚ त्वा प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
यस्या॑ ए॒व दे॒वता॑या आल॒भ्यत᳚ । तयै॒वैन॒ग्ं॒ सम॑र्धयति ॥ 12 ॥
(ब॒ध्ना॒ति॒ - समृ॑द्ध्या - उ॒पद॑धा - त्य॒सीत्या॑ह॒ - सप्र॑थस॒मीत्या॑ह - दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च) (अ. 3)

अनुवाकं 4 - अश्वस्य जले-ऽवगाहनम्
यः पि॒तुर॑नु॒जायाः᳚ पु॒त्रः । स पु॒रस्ता᳚न्नयति ।
यो मा॒तुर॑नु॒जायाः᳚ पु॒त्रः । स प॒श्चान्न॑यति ।
विष्व॑ञ्चमे॒वास्मा᳚त्-पा॒प्मानं॒-विँवृ॑हतः ॥ यो अर्व॑न्त॒-ञ्जिघाग्ं॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वान॑-ञ्चतुर॒क्ष-म्प्रसौ॑ति ।
प॒रो मर्तः॑ प॒र-श्श्वेति॒ शुन॑श्चतु-र॒क्षस्य॒ प्रह॑न्ति । श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः । पा॒प्मान॑-मे॒वास्य॒ भ्रातृ॑व्यग्ं हन्ति ॥
सै॒द्ध्र॒क-म्मुस॑ल-म्भवति ॥ 13 ॥

कर्म॑ कर्मै॒वास्मै॑ साधयति ॥ पौ॒ग्ग्॒श्च॒ले॒यो ह॑न्ति ।
पु॒ग्ग्॒श्च॒ल्वां-वैँ दे॒वा-श्शुच॒-न्न्य॑दधुः । शु॒चैवास्य॒ शुचग्ं॑ हन्ति ॥
पा॒प्मा वा ए॒तमी᳚फ्स॒-तीत्या॑हुः । यो᳚-ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
अश्व॑स्याधस्प॒दमुपा᳚स्यति ।
व॒ज्री वा अश्वः॑ प्राजाप॒त्यः ।
वज्रे॑णै॒व पा॒प्मान॒-म्भ्रातृ॑व्य॒-मव॑क्रामति ॥ द॒क्षि॒णा-ऽप॑प्लावयति ॥ 14 ॥

पा॒प्मान॑-मे॒वास्मा॒-च्छम॑ल॒-मप॑प्लावयति ॥ ऐ॒षी॒क उ॑दू॒हो भ॑वति । आयु॒र्वा इ॒षीकाः᳚ । आयु॑रे॒-वास्मि॑-न्दधति । अ॒मृतं॒-वाँ इ॒षीकाः᳚ । अ॒मृत॑मे॒-वास्मि॑-न्दधति ॥ वे॒त॒स॒शा॒खोप॒सम्ब॑द्धा भवति ।
अ॒फ्सु-यो॑नि॒र्वा अश्वः॑ । अ॒फ्सु॒जो वे॑त॒सः ।
स्वादे॒वैनं॒-योँने॒र्निर्मि॑मीते ॥
पु॒रस्ता᳚त्-प्र॒त्यञ्च॑-म॒भ्युदू॑हति ।
पु॒रस्ता॑-दे॒वास्मि॑-न्प्र॒तीच्य॒ मृत॑-न्दधाति ॥
अ॒ह-ञ्च॒ त्व-ञ्च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्त॑-ङ्गृह्णाति ।
ब्र॒ह्म॒क्ष॒त्रे ए॒व सन्द॑धाति ।
अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्नित्य॑-ध्व॒र्यु-र्यज॑मानं-वाँचयत्य॒-भिजि॑त्यै ॥ 15 ॥
(भ॒व॒ति॒ - प्ला॒व॒य॒ति॒ - मि॒मी॒ते॒ पञ्च॑ च) (अ. 4)

अनुवाकं 5 - अश्वस्य प्रोक्षण-म्महर्त्विजाम्
च॒त्वार॑ ऋ॒त्विज॒-स्समु॑क्षन्ति ।
आ॒भ्य ए॒वैन॑-ञ्चत॒सृभ्यो॑ दि॒ग्भ्यो॑-ऽभिसमी॑रयन्ति ॥ श॒तेन॑ राजपु॒त्रै-स्स॒हाद्ध्व॒र्युः । पु॒रस्ता᳚त्-प्र॒त्यन्तिष्ठ॒-न्प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा ।
अ॒यग्ं राजा॑ वृ॒त्रं-वँ॑द्ध्या॒दिति॑ । रा॒ज्यं-वाँ अ॑द्ध्व॒र्युः । क्ष॒त्रग्ं रा॑जपु॒त्रः । रा॒ज्येनै॒-वास्मि॑न् क्ष॒त्र-न्द॑धाति ॥
श॒तेना॑-रा॒जभि॑रु॒ग्रै-स्स॒ह ब्र॒ह्मा ॥ 16 ॥

द॒क्षि॒ण॒त उद॒न्तिष्ठ॒-न्प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा ।
अ॒यग्ं राजा᳚-ऽप्रतिधृ॒ष्यो᳚-ऽस्त्विति॑ । बलं॒-वैँ ब्र॒ह्मा । बल॑मरा॒जोग्रः । बल॑नै॒-वास्मि॒-न्बल॑-न्दधाति ॥ श॒तेन॑ सूतग्राम॒णिभि॑-स्स॒ह होता᳚ । प॒श्चात्-प्रान्तिष्ठ॒-न्प्रोक्ष॑ति ।
अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा । अ॒यग्ं राजा॒-ऽस्यै वि॒शः ॥ 17 ॥

ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै᳚ । ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै᳚ ।
ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै । ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै । ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒-ऽस्त्विति॑ । भू॒मा वै होता᳚ । भू॒मा सू॑तग्राम॒ण्यः॑ । भू॒म्नैवास्मि॑-न्भू॒मान॑-न्दधाति ॥ श॒तेन॑ क्षत्त-सङ्ग्रही॒तृभि॑-स्स॒होद्गा॒ता । उ॒त्त॒र॒तो द॑क्षि॒णा तिष्ठ॒-न्प्रोक्ष॑ति ॥ 18 ॥

अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ ने॒ष्ट्वा ।
अ॒यग्ं राजा॒ सर्व॒मायु॑रे॒त्विति॑ ।
आयु॒र्वा उ॑द्गा॒ता । आयुः॑, क्षत्त-सङ्ग्रही॒तारः॑ ।
आयु॑षै॒-वास्मि॒न्नायु॑-र्दधाति ॥ श॒तग्ं श॑त-म्भवन्ति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥ च॒तु॒-श्श॒ता भ॑वन्ति । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति ॥ 19 ॥
(ब्र॒ह्मा - वि॒श - उ॑क्षति॒ - दिश॒ एक॑-ञ्च) (अ. 5)

अनुवाकं 6 - भूमौ पतता-म्बिन्दूनामभिमन्त्रणम्
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं-वाँ ए॒तदश्व॑स्य स्कन्दति ।
यन्नि॒क्तमना॑-लब्ध-मुथ्सृ॒जन्ति॑ । यथ्स्तोक्या॑ अ॒न्वाह॑ । स॒र्व॒हुत॑-मे॒वैन॑-ङ्करो॒त्य-स्क॑न्दाय । अस्क॑न्न॒ग्ं॒ हि तत् ।
यद्धु॒तस्य॒ स्कन्द॑ति ॥ स॒हस्र॒-मन्वा॑ह । स॒हस्र॑ सम्मित-स्सुव॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ॥ 20 ॥

यत्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमिता॒ अन्वा॑ह । अप॑रिमित-स्सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥
स्तोक्या॑ जुहोति । या ए॒व वर्​ष्या॒ आपः॑ । ता अव॑रुन्धे ॥ अ॒स्या-ञ्जु॑होति । इ॒यं-वाँ अ॒ग्निर्वै᳚श्वान॒रः ॥ 21 ॥

अ॒स्यामे॒वैनाः॒ प्रति॑ष्ठापयति ॥ उ॒वाच॑ ह प्र॒जाप॑तिः । स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धग्ं सग्ग्​स्था॑पयामि । तेन॒ तत॒-स्सग्ग्​स्थि॑तेन चरा॒मीति॑ ॥ अ॒ग्नये॒ स्वाहेत्या॑ह ।
अ॒ग्नय॑ ए॒वैन॑-ञ्जुहोति ॥ सोमा॑य॒ स्वाहेत्या॑ह । सोमा॑यै॒वैन॑-ञ्जुहोति । स॒वि॒त्रे स्वाहेत्या॑ह । स॒वि॒त्र ए॒वैन॑-ञ्जुहोति ॥ 22 ॥

सर॑स्वत्यै॒ स्वाहेत्या॑ह । सर॑स्वत्या ए॒वैन॑-ञ्जुहोति । पू॒ष्णे स्वाहेत्या॑ह । पू॒ष्ण ए॒वैन॑-ञ्जुहोति । बृह॒स्पत॑ये॒ स्वाहेत्या॑ह ।
बृह॒स्पत॑य ए॒वैन॑-ञ्जुहोति । अ॒पा-म्मोदा॑य॒ स्वाहेत्या॑ह । अ॒द्भ्य ए॒वैन॑-ञ्जुहोति । वा॒यवे॒ स्वाहेत्या॑ह । वा॒यव॑ ए॒वैन॑-ञ्जुहोति ॥ 23 ॥
मि॒त्राय॒ स्वाहेत्या॑ह । मि॒त्रायै॒वैन॑-ञ्जुहोति । वरु॑णाय॒ स्वाहेत्या॑ह । वरु॑णायै॒वैन॑-ञ्जुहोति ॥ ए॒ताभ्य॑ ए॒वैन॑-न्दे॒वता᳚भ्यो जुहोति ॥
दश॑ दश स॒पान्द॑-ञ्जुहोति । दशा᳚क्षरा वि॒राट् । अन्नं॑-विँ॒राट् । वि॒राजै॒-वान्नाद्य॒मव॑रुन्धे ॥ प्र वा ए॒षो᳚-ऽस्माल्लो॒का-च्च्य॑वते ।
यः परा॑ची॒राहु॑ती-र्जु॒होति॑ ।
पुनः॑ पुनरभ्या॒वर्त॑-ञ्जुहोति ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ॥
ए॒ताग्ं ह॒ वाव सो᳚-ऽश्वमे॒धस्य॒ सग्ग्​स्थि॑ति मुवा॒चा-स्क॑न्दाय । अस्क॑न्न॒ग्ं॒ हि तत् ।
यद्य॒ज्ञस्य॒ सग्ग्​स्थि॑तस्य॒ स्कन्द॑ति ॥ 24 ॥
(अ॒भिजि॑त्यै - वैश्वान॒रः - स॑वि॒त्र ए॒वैन॑-ञ्जुहोति - वा॒यव॑ ए॒वैन॑-ञ्जुहोति - च्यवते॒ षट्च॑) (अ. 6)

अनुवाकं 7 - अथाध्वर्युप्रोक्षणम्
प्र॒जाप॑तये त्वा॒ जुष्ट॒-म्प्रोक्षा॒मीति॑ पुर॒स्ता᳚त्-प॒त्यन्तिष्ठ॒-न्प्रोक्ष॑ति ।
प्र॒जाप॑ति॒र्वै दे॒वाना॑-मन्ना॒दो वी॒र्या॑वान् ।
अ॒न्नाद्य॑-मे॒वास्मि॑न् वी॒र्य॑-न्दधाति ।
तस्मा॒दश्वः॑ पशू॒ना-म॑न्ना॒दो वी॒र्या॑वत्तमः ॥ इ॒न्द्रा॒ग्निभ्या॒-न्त्वेति॑ दक्षिण॒तः ।
इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ । ओज॑ ए॒वास्मि॒-न्बल॑-न्दधाति । तस्मा॒दश्वः॑ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः ॥ वा॒यवे॒ त्वेति॑ प॒श्चात् । वा॒युर्वै दे॒वाना॑मा॒शु-स्सा॑रसा॒रित॑मः ॥ 25 ॥

ज॒वमे॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नामा॒शु-स्सा॑रसा॒रित॑मः ॥
विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः ।
विश्वे॒ वै दे॒वा दे॒वानां᳚-यँश॒स्वित॑माः ।
यश॑ ए॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नां-यँ॑श॒स्वित॑मः ॥ दे॒वेभ्य॒-स्त्वेत्य॒धस्ता᳚त् । दे॒वा वै दे॒वाना॒-मप॑चिततमाः ।
अप॑चिति-मे॒वास्मि॑-न्दधाति ।
तस्मा॒दश्वः॑ पशू॒ना-मप॑चिततमः ॥ 26 ॥

सर्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात् ।
सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ ।
त्विषि॑मे॒-वास्मि॒न्॒. हरो॑ दधाति ।
तस्मा॒दश्वः॑ पशू॒ना-न्त्विषि॑मान् हर॒स्वित॑मः ॥ दि॒वे त्वा॒-ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑ह ।
ए॒भ्य ए॒वैनं॑-लोँ॒केभ्यः॒ प्रोक्ष॑ति ॥
स॒ते त्वा-ऽस॑ते त्वा॒-ऽद्भ्यस्त्वौ-ष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इत्या॑ह ।
तस्मा॑दश्वमेधया॒जिन॒ग्ं॒ सर्वा॑णि भू॒तान्युप॑ जीवन्ति ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यत्प्रा॑जाप॒त्यो-ऽश्वः॑ । अथ॒ कस्मा॑देन-म॒न्याभ्यो॑ दे॒वता॒भ्यो-ऽपि॒ प्रोक्ष॒तीति॑ ।
अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ।
तं-यँद्विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रा॒क्षति॑ ।
दे॒वता॑ ए॒वास्मि॑-न्न॒न्वाया॑तयति ।
तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ॥ 27 ॥
(सा॒र॒सा॒रित॒मो - ऽप॑चिततमः - प्राजाप॒त्यो-ऽश्व॒ पञ्च॑ च) (अ. 7)

अनुवाकं 8 - अश्वचरितानामश्वरूपाणा-ञ्च होमाः
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति ।
ए॒वं-वाँ ए॒तदश्व॑स्य स्कन्दति ।
यत्प्रोक्षि॑त॒-मना॑लब्ध-मुथ्सृ॒जन्ति॑ । यद॑श्व-चरि॒तानि॑ जु॒होति॑ । स॒र्व॒हुत॑-मे॒वैन॑-ङ्करो॒त्य-स्क॑न्दाय । अस्क॑न्न॒ग्ं॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति ॥ ई॒ङ्का॒राय॒ स्वाहे-ङ्कृ॑ताय॒ स्वाहेत्या॑ह । ए॒तानि॒ वा अ॑श्वचरि॒तानि॑ । च॒रि॒तैरे॒वैन॒ग्ं॒ सम॑र्धयति ॥ 28 ॥

तदा॑हुः । अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑ ।
नैता हो॑त॒व्या॑ इति॑ । अथो॒ खल्वा॑हुः । हो॒त॒व्या॑ ए॒व । अत्र॒ वावैवं-विँ॒द्वान॑श्वमे॒धग्ं
सग्ग्​स्था॑पयति । यद॑श्व-चरि॒तानि॑ जु॒होति॑ । तस्मा᳚-द्धोत॒व्या॑ इति॑ ॥ ब॒हि॒र्धा वा ए॑नमे॒तदा॒यत॑ना-द्दधाति ।
भ्रातृ॑व्यमस्मै जनयति ॥ 29 ॥

यस्या॑ नायत॒ने᳚-ऽन्यत्रा॒ग्ने-राहु॑ती-र्जु॒होति॑ ।
सा॒वि॒त्रि॒या इष्ट्याः᳚ पु॒रस्ता᳚थ्स्विष्ट॒ कृतः॑ ।
आ॒ह॒व॒नीये᳚-ऽश्वचरि॒तानि॑ जुहोति । आ॒यत॑न ए॒वास्याहु॑ती-र्जुहोति । नास्मै॒ भ्रातृ॑व्य-ञ्जनयति ॥ तदा॑हुः । य॒ज्ञ॒मु॒खे य॑ज्ञमुखे होत॒व्याः᳚ । य॒ज्ञस्य॒ क्लृप्त्यै᳚ । सु॒व॒र्गस्य॑ लो॒कस्या-नु॑ख्यात्या॒ इति॑ ॥ अथो॒ खल्वा॑हुः ॥ 30 ॥

यद्य॑ज्ञमु॒खे य॑ज्ञमुखे जुहु॒यात् ।
प॒शुभि॒-र्यज॑मानं॒-व्यँ॑द्र्धयेत् ।
अव॑ सुव॒र्गाल्लो॒का-त्प॑द्येत । पापी॑या-न्थ्स्या॒दिति॑ ।
स॒कृदे॒व हो॑त॒व्याः᳚ । न यज॑मान-म्प॒शुभि॒-र्व्य॑द्र्धयति । अ॒भि सु॑व॒र्गं-लोँ॒क-ञ्ज॑यति । न पापी॑या-न्भवति ॥ अ॒ष्टाच॑त्वारिग्ंशतमश्व रू॒पाणि॑ जुहोति । अ॒ष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती । जाग॒तो-ऽश्वः॑ प्राजाप॒त्य-स्समृ॑द्ध्यै ॥ एक॒मति॑रिक्त-ञ्जुहोति । तस्मा॒देकः॑ प्र॒जास्वद्र्धु॑कः ॥ 31 ॥
(अ॒द्र्ध॒य॒ति॒ - ज॒न॒य॒ति॒ - खल्वा॑हु॒--र् जग॑ती॒ त्रीणि॑ च) (अ. 8)

अनुवाकं 9 - अश्वस्य नाम्नामभिवाचनम्, उथ्सर्गश्च
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्या॑ह । इ॒यं-वैँ मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैन॒-म्परि॑ददाति ॥ अश्वो॑-ऽसि॒ हयो॒-ऽसीत्या॑ह । शास्त्ये॒वैन॑मे॒तत् । तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते ॥ अत्यो॒-ऽसीत्या॑ह ।
तस्मा॒दश्व॒-स्सर्वा᳚-न्प॒शूनत्ये॑-ऽति ।
तस्मा॒दश्व॒-स्सर्वे॑षा-म्पशू॒नाग्​ श्रैष्ठ्य॑-ङ्गच्छति ॥ 32 ॥

प्र यश॒-श्श्रैष्ठ्य॑माप्नोति । य ए॒वं-वेँद॑ ॥ नरो॒-ऽस्यर्वा॑-ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह ।
रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒-व्याँच॑ष्टे ॥
ययु॒र्नामा॒-ऽसीत्या॑ह । ए॒तद्वा अश्व॑स्य प्रि॒य-न्ना॑म॒धेय᳚म् । प्रि॒येणै॒वैन॑-न्नाम॒धेये॑ना॒भिव॑दति । तस्मा॒दप्या॑मि॒त्रौ स॒गन्त्य॑ । नाम्ना॒ चेद्ध्वये॑ते । मि॒त्रमे॒व भ॑वतः ॥ 33 ॥

आ॒दि॒त्याना॒-म्पत्वा-ऽन्वि॒हीत्या॑ह । आ॒दि॒त्याने॒वैन॑-ङ्गमयति ॥
अ॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒मा-ञ्जु॑होति । पूव॑ ए॒व द्वि॒षन्त॒-म्भ्रातृ॑व्य॒-मति॑क्रामति ॥ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युथ्सृ॑जति सर्व॒त्वाय॑ ॥ देवा॑ आशापाला ए॒त-न्दे॒वेभ्यो-ऽश्व॒-म्मेधा॑य॒ प्रोक्षि॑त-ङ्गोपाय॒तेत्या॑ह । श॒तं-वैँ तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः । तेभ्य॑ ए॒वैन॒-म्परि॑ददाति ॥
ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परा᳚-म्परा॒वत॒-ङ्गन्तोः᳚ । इ॒ह धृति॒-स्स्वाहे॒ह विधृ॑ति॒-स्स्वाहे॒ह रन्ति॒-स्स्वाहे॒ह रम॑तिः॒
स्वाहेति॑ चतृ॒षु प॒थ्सु जु॑होति ॥ 34 ॥

ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् ।
ताभि॑रे॒वैन॑-म्बद्ध्नाति ।
तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑न॒-माग॑च्छति ।
तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑न॒-न्न ज॑हाति ॥
रा॒ष्ट्रं-वाँ अ॑श्वमे॒धः । रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते । ये-ऽश्व॒-म्मेद्ध्य॒ग्ं॒ रक्ष॑न्ति । तेषां॒-यँ उ॒दृच॒-ङ्गच्छ॑न्ति ।
रा॒ष्ट्रादे॒व ते रा॒ष्ट्र-ङ्ग॑च्छन्ति । अ॒थ य उ॒दृच॒-न्न गच्छ॑न्ति ॥ 35 ॥

रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते । परा॒ वा ए॒ष सि॑च्यते । यो॑-ऽब॒लो᳚-ऽश्वमे॒धेन॒ यज॑ते । यद॒मित्रा॒ अश्वं॑-विँ॒न्देरन्न्॑ ।
ह॒न्येता᳚स्य य॒ज्ञः । च॒तु॒श्श॒ता र॑क्षन्ति । य॒ज्ञस्याघाताय ॥ अथा॒न्य-मा॒नीय॒ प्रोक्षे॑युः । सैव ततः॒ प्राय॑श्चित्तिः ॥ 36 ॥
(ग॒च्छ॒ति॒ - भ॒व॒तः॒ - प॒थ्सु जु॑होति॒ - न गच्छ॑न्ति॒ - +नव॑ च) (अ. 9)

अनुवाकं 10 - दीक्षाभिधान-न्तत्र वैश्वदेवहोमः
प्र॒जाप॑ति-रकामयताश्वमे॒धेन॑ यजे॒येति॑ । स तपो॑-ऽतप्यत । तस्य॑ तेपा॒नस्य॑ । स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन्न् । सा दी॒क्षा-ऽभ॑वत् । स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् । तान्य॑ जुहोत् ।
तैर्वै स दी॒क्षामवा॑रुन्ध । यद्वै᳚श्व दे॒वानि॑ जु॒होति॑ । दी॒क्षामे॒व-तैर्यज॑मा॒नो-ऽव॑रुन्धे ॥ 37 ॥

स॒प्त जु॑होति । स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन्न् ॥ अ॒न्व॒ह-ञ्जु॑होति । अ॒न्व॒हमे॒व दी॒क्षामव॑रुन्धे ॥ त्रीणि॑ वैश्वदे॒वानि॑ जुहोति ।
च॒त्वार्यौ᳚द्ग्रह॒णानि॑ । स॒प्त सम्प॑द्यन्ते । स॒प्त वै शी॑र.ष॒ण्याः᳚ प्रा॒णाः ।
प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥ 38 ॥

एक॑विग्ंशतिं-वैँश्वदे॒वानि॑ जुहोति । एक॑विग्ंशति॒र्वै दे॑वलो॒काः ।
द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ग्ं॒शः ॥ ए॒ष सु॑व॒र्गो लो॒कः । तद्दैव्य॑-ङ्क्ष॒त्त्रम् ।
सा श्रीः । तद्ब्र॒द्ध्नस्य॑ वि॒ष्टप᳚म् । तथ्स्वारा᳚ज्य-मुच्यते ॥ 39 ॥

त्रि॒ग्ं॒शत॑मौद्ग्रह॒णानि॑ जुहोति । त्रि॒ग्ं॒शद॑क्षरा वि॒राट् । अन्नं॑-विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ॥
त्रे॒धा वि॒भज्य॑ दे॒वता᳚-ञ्जुहोति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षां-लोँ॒काना॒माप्त्यै᳚ । ए॒षां-लोँ॒काना॒-ङ्क्लृप्त्यै᳚ ॥ अप॒ वा ए॒तस्मा᳚त्प्रा॒णाः क्रा॑मन्ति ॥ 40 ॥

यो दी॒क्षाम॑ति-रे॒चय॑ति । स॒प्ता॒ह-म्प्रच॑रन्ति ।
स॒प्त वै शी॑र्​ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णा दी॒क्षा ।
प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥ पू॒र्णा॒हु॒ति-मु॑त्त॒मा-ञ्जु॑होति ।
सर्वं॒-वैँ पू᳚र्णाहु॒तिः । सर्व॑मे॒वाप्नो॑ति । अथो॑ इ॒यं-वैँ पू᳚र्णाहु॒तिः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ॥ 41 ॥
(रु॒न्धे॒ - प्रा॒णा-न्दी॒क्षामव॑रुन्ध - उच्यते - क्रामन्ति - तिष्ठति) (अ. 10)

अनुवाकं 11 - वैश्वदेवहोममन्त्रव्याख्यानम्
प्रजाप॑ति-रश्वमे॒ध-म॑सृजत । तग्ं सृ॒ष्ट-न्न किञ्च॒नोद॑यच्छत् ।
तं-वैँ᳚श्वदे॒वान्ये॒-वोद॑यच्छन्न् । यद्वै᳚श्वदे॒वानि॑ जु॒होति॑ ।
य॒ज्ञस्योद्य॑त्यै ॥ स्वाहा॒-ऽऽधिमाधी॑ताय॒ स्वाहा᳚ । स्वाहा-ऽऽधी॑त॒-म्मन॑से॒ स्वाहा᳚ ।
स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा᳚ ।
काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः ।
प्र॒जाप॑ति-मुखाभिरे॒वैन॑-न्दे॒वता॑भि॒रुद्य॑च्छते ॥ 42 ॥

अदि॑त्यै॒ स्वाहा-ऽदि॑त्यै म॒ह्यै᳚ स्वाहा-ऽदि॑त्यै सुमृडी॒कायै॒ स्वाहेत्या॑ह । इ॒यं-वाँ अदि॑तिः । अ॒स्या ए॒वैन॑-म्प्रति॒ष्ठायोद्य॑च्छते ॥
सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहेत्या॑ह ।
वाग्वै सर॑स्वती । वा॒चैवैन॒मुद्य॑च्छते ॥
पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहेत्या॑ह ।
प॒शवो॒ वै पू॒षा । प॒शुभि॑रे॒वैन॒-मुद्य॑च्छते ॥ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्र॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहेत्या॑ह । त्वष्टा॒ वै प॑शू॒ना-म्मि॑थु॒नानाग्ं॑ रूप॒कृत् । रू॒पमे॒व प॒शुषु॑ दधाति । अथो॑ रू॒पैरे॒वैन॒-मुद्य॑च्छते ॥
विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहेत्या॑ह ।
य॒ज्ञो वै विष्णुः॑ । य॒ज्ञायै॒वैन॒-मुद्य॑च्छते ॥ पू॒र्णा॒हु॒ति-मु॑त्त॒मा-ञ्जु॑होति । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥ 43 ॥
(य॒च्छ॒ते॒ - पु॒रु॒रूपा॑य॒ स्वाहेत्या॑हा॒ष्टौ च॑) (अ. 11)

अनुवाकं 12 - अश्वसञ्चरणवथ्सरे प्रतिदिन-न्देवयजनदेशे कर्तव्यमिष्टित्रयमभिधीयते
सा॒वि॒त्र-म॒ष्टक॑पाल-म्प्रा॒तर्निर्व॑पति । अ॒ष्टाक्ष॑रा गाय॒त्री ।
गा॒य॒त्र-म्प्रा॑तस्सव॒नम् ।
प्रा॒त॒स्स॒व॒ना दे॒वैन॑-ङ्गायत्रि॒या ॑007आ;छन्द॒सो-ऽधि॒ निर्मि॑मीते ।
अथो᳚ प्रातस्सव॒नमे॒व तेना᳚प्नोति । गा॒य॒त्री-ञ्छन्दः॑ ॥ स॒वि॒त्रे प्र॑सवि॒त्र एका॑दश-कपाल-म्म॒द्ध्यन्दि॑ने । एका॑दशाक्षरा त्रि॒ष्टुप् ।
त्रैष्टु॑भ॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑नम् ।
माद्ध्य॑न्दिना-दे॒वैन॒ग्ं॒ सव॑नात्त्रि॒ष्टुभः॒-छन्द॒सो-ऽधि॒ निर्मि॑मीते ॥ 44 ॥

अथो॒ माद्ध्य॑न्दिनमे॒व सव॑न॒-न्तेना᳚प्नोति । त्रि॒ष्टुभ॒-ञ्छन्दः॑ ॥ स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑श-कपाल-मपरा॒ह्णे । द्वाद॑शाक्षरा॒ जग॑ती । जाग॑त-न्तृतीय सव॒नम् ।
तृ॒ती॒य॒ स॒व॒नादे॒वैन॒-ञ्जग॑त्या॒ ॑007आ;छन्द॒सो-ऽधि॒ निर्मि॑मीते ।
अथो॑ तृतीय सव॒नमे॒व तेना᳚प्नोति ।
जग॑ती॒-ञ्छन्दः॑ ॥ ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परा᳚-म्परा॒वत॒-ङ्गन्तोः᳚ ।
इ॒ह धृति॒-स्स्वाहे॒ह विधृ॑ति॒-स्स्वाहे॒ह रन्ति॒-स्स्वाहे॒ह रम॑ति॒-स्स्वाहेति॒ चत॑स्र॒ आहु॑ती-र्जुहोति
( ) ॥ 45 ॥

चत॑स्रो॒ दिशः॑ । दि॒ग्भिरे॒वैन॒-म्परि॑गृह्णाति ॥ आश्व॑त्थो व्र॒जो भ॑वति । प्र॒जाप॑ति-र्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒प-ङ्कृ॒त्वा ।
सो᳚-ऽश्व॒त्थे सं॑​वँथ्स॒र-म॑तिष्ठत् । तद॑श्व॒त्थस्या᳚-श्वत्थ॒त्वम् ।
यदाश्व॑त्थो व्र॒जो भव॑ति । स्व ए॒वैनं॒-योँनौ॒ प्रति॑ष्ठापयति ॥ 46 ॥
(त्रि॒ष्टुभ॒ ॑श्छन्द॒सो-ऽधि॒ निर्मि॑मीते - जुहोति॒ - नव॑ च) (अ. 12)

अनुवाकं 13 - सं​वँथ्सराद्र्ध्वमुख्यस्याग्रेरूपस्थानम्
आ ब्र॑ह्म-न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒-मित्या॑ह । ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒स-न्दधाति । तस्मा᳚त्पु॒रा ब्रा᳚ह्म॒णो ब्र॑ह्मवर्च॒स्य॑ जायत ॥ आ-ऽस्मि-न्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑-श्शूरो॑ महार॒थो जा॑यता॒-मित्या॑ह । रा॒ज॒न्य॑ ए॒व शौ॒र्य-म्म॑हि॒मान॑-न्दधाति । तस्मा᳚त्पु॒रा रा॑ज॒न्य॑ इष॒व्य॑-श्शूरो॑ महार॒थो॑-ऽजायत ॥
दोग्ध्री॑ धे॒नुरित्या॑ह । धे॒न्वामे॒व पयो॑ दधाति । तस्मा᳚त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत । वोढा॑-ऽन॒ड्वा-नित्या॑ह ॥ 47 ॥

अ॒न॒डुह्ये॒व वी॒र्य॑-न्दधाति । तस्मा᳚त्पु॒रा वोढा॑-ऽन॒ड्वान॑जायत । आ॒शु-स्सप्ति॒रित्या॑ह । अश्व॑ ए॒व ज॒व-न्द॑धाति । तस्मा᳚त्पु॒रा-ऽऽशुरश्वो॑-ऽजायत । पुर॑धिं॒र्योषेत्या॑ह ।
यो॒षित्ये॒व रू॒प-न्द॑धाति । तस्मा॒थ्स्त्री यु॑व॒तिः प्रि॒या भावु॑का ॥ जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह । आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते ॥ 48 ॥

यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ स॒भेयो॒ युवेत्या॑ह । यो वै पू᳚र्ववय॒सी ।
स स॒भेयो॒ युवा᳚ । तस्मा॒द्युवा॒ पुमा᳚-न्प्रि॒यो भावु॑कः ॥ आ-ऽस्य यज॑मानस्य वी॒रो जा॑यता॒-मित्या॑ह । आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ नि॒का॒मेनि॑कामे नः प॒र्जन्यो॑ वर्​ष॒त्वित्या॑ह ।
नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्​षति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ता॒-मित्या॑ह ।
फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयः पच्यन्ते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
यो॒ग॒क्षे॒मो नः॑ कल्पता॒-मित्या॑ह ।
कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः ।
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ 49 ॥
(अ॒न॒ड्वानित्या॑ह - जायते - वर्​षति स॒प्त च॑) (अ. 13)

अनुवाकं 14 - अन्नहोमाः. त्रिरात्ररूपस्याश्वमेधस्य प्रथमदिनरात्रौ
प्र॒जाप॑ति-र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् ।
स आ॒त्म-न्न॑श्वमे॒धम॑धत्त ।
त-न्दे॒वा अ॑ब्रुवन्न् । ए॒ष वाव य॒ज्ञः । यद॑श्वमे॒धः । अप्ये॒व नो-ऽत्रा॒स्त्विति॑ ।
तेभ्य॑ ए॒तान॑न्नहो॒मा-न्प्राय॑च्छत् ।
तान॑जुहोत् । तैर्वै स दे॒वान॑ प्रीणात् ।
यद॑न्न-हो॒माञ्जु॒होति॑ ॥ 50 ॥

दे॒वाने॒व तैर्यज॑मानः प्रीणाति ॥ आज्ये॑न जुहोति ।
अ॒ग्नेर्वा ए॒तद्रू॒पम् । यदाज्य᳚म् । यदाज्ये॑न जु॒होति॑ । अ॒ग्निमे॒व तत्प्री॑णाति ॥ मधु॑ना जुहोति ।
म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम् । यन्मधु॑ । यन्मधु॑ना जु॒होति॑ ॥ 51 ॥

म॒ह॒तीमे॒व तद्दे॒वता᳚-म्प्रीणाति । त॒ण्डु॒लै-र्जु॑होति । वसू॑नां॒-वाँ ए॒तद्रू॒पम् । यत्त॑ण्डु॒लाः । यत्त॑ण्डु॒लै-र्जु॒होति॑ ।
वसू॑ने॒व तत्प्री॑णाति । पृथु॑कै-र्जु॒होति॑ (र्जुहोति) ।
रु॒द्राणां॒-वाँ ए॒तद्रू॒पम् । यत्पृथु॑काः । यत्पृथु॑कै-र्जु॒होति॑ ॥ 52 ॥

रु॒द्राने॒व तत्प्री॑णाति । ला॒जैर्जु॑होति । आ॒दि॒त्यानां॒-वाँ ए॒तद्रू॒पम् । यल्ला॒जाः । यल्ला॒जै-र्जु॒होति॑ । आ॒दि॒त्याने॒व तत्प्री॑णाति । क॒रम्बै᳚-र्जुहोति । विश्वे॑षां॒-वाँ ए॒तद्दे॒वानाग्ं॑ रू॒पम् । यत्क॒रम्बाः᳚ । यत्क॒रम्बै᳚-र्जु॒होति॑ ॥ 53 ॥

विश्वा॑ने॒व तद्दे॒वा-न्प्री॑णाति । धा॒नाभि॑-र्जुहोति ।
नक्ष॑त्राणां॒-वाँ ए॒तद्रू॒पम् । यद्धा॒नाः । यद्धा॒नाभि॑-र्जु॒होति॑ । नक्ष॑त्राण्ये॒व तत्प्री॑णाति । सक्तु॑भि-र्जुहोति । प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम् ।
यथ्सक्त॑वः । यथ्सक्तु॑भि-र्जु॒होति॑ ॥ 54 ॥

प्र॒जाप॑तिमे॒व तत्प्री॑णाति । म॒सूस्यै᳚र्जुहोति ।
सर्वा॑सां॒-वाँ ए॒तद्दे॒वता॑नाग्ं रू॒पम् । यन्म॒सूस्या॑नि । यन्म॒सूस्यै᳚-र्जु॒होति॑ । सर्वा॑ ए॒व तद्दे॒वताः᳚ प्रीणाति । प्रि॒य॒ङ्गु॒त॒ण्डु॒लै-र्जु॑होति । प्रि॒याङ्गा॑ ह॒ वै नामै॒ते ।
ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः । यत्प्रि॑यङ्गुतण्डु॒लै-र्जु॒होति॑ । अश्व॑स्यै॒वाङ्गा॑नि॒ सन्द॑धाति ॥ दशान्ना॑नि जुहोति । दशा᳚क्षरा वि॒राट् ।
वि॒राट्-कृ॒थ्स्नस्या॒-न्नाद्य॒स्या-व॑रुद्ध्यै ॥ 55 ॥
(जु॒होति॒ - मधु॑ना जु॒होति॒ - पृथु॑कैर्जु॒होति॑ - क॒रम्बै᳚र्जु॒होति॒ - सक्तु॑भिर्जु॒होति॑ - प्रियङ्गुतण्डु॒लैर्जु॒होति॑ च॒त्वारि॑ च) (अ. 14)

(अ॒न्न॒हो॒मानाज्ये॑ना॒ग्नेर्मधु॑ना तण्डु॒लैः पृथु॑कैर्ला॒जैः क॒रम्बै᳚द्र्धा॒नाभि॒-स्सक्तु॑भिर्म॒सूस्यैः᳚ प्रियङ्गुतण्डु॒लै-र्दशान्ना॑नि॒ द्वाद॑श)
अनुवाकं 15 - तत्प्रकारविशेष
प्र॒जाप॑ति-रश्वमे॒धम॑सृजत । तग्ं सृ॒ष्टग्ं रक्षाग्॑स्य जिघाग्ंसन्न् ।
स ए॒ता-न्प्र॒जाप॑तिर्नक्तग्ं हो॒मान॑-पश्यत् । तान॑ जुहोत् । तैर्वै स य॒ज्ञा-द्रक्षा॒ग्॒स्यपा॑हन्न् । यन्न॑क्तग्ं हो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षा॒ग्॒स्यप॑हन्ति ॥ आज्ये॑न जुहोति ।
वज्रो॒ वा आज्य᳚म् । वज्रे॑णै॒व य॒ज्ञा-द्रक्षा॒ग्॒स्यप॑हन्ति ॥ 56 ॥

आज्य॑स्य प्रति॒पद॑-ङ्करोति । प्रा॒णो वा आज्य᳚म् ।
मु॒ख॒त ए॒वास्य॑ प्रा॒ण-न्द॑धाति ॥ अ॒न्न॒हो॒मा-ञ्जु॑होति । शरी॑रवदे॒वाव॑रुन्धे ॥ व्य॒त्यास॑-ञ्जुहोति । उ॒भय॒स्या व॑रुद्ध्यै ॥
नक्त॑-ञ्जुहोति । रक्ष॑सा॒मप॑हत्यै ॥ आज्ये॑ना-न्त॒तो जु॑होति ॥ 57 ॥

प्रा॒णो वा आज्य᳚म् । उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒ण-न्द॑धाति । पु॒रस्ता᳚-च्चो॒परि॑ष्टाच्च ॥ एक॑स्मै॒ स्वाहेत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति । द्वाभ्या॒ग्॒ स्वाहेत्या॑ह । अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति । उ॒भयो॑रे॒व लो॒कयाः॒ प्रति॑तिष्ठति । अ॒स्मिग्ग्​श्चा॒-मुष्मिग्ग्॑श्च ॥ श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑ष-श्श॒तवी᳚र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे ।
स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र᳚म् । आयु॑रे॒वा-व॑रुन्धे ॥
सर्व॑स्मै॒ स्वाहेत्या॑ह । अप॑रिमितमे॒वा व॑रुन्धे ॥ 58 ॥
(ए॒व य॒ज्ञ-द्रक्षा॒ग्॒स्यप॑हन् - त्यन्त॒तो जु॑होति - श॒ताय॒ स्वाहेत्या॑ह सप्त च॑) (अ. 15)

अनुवाकं 16 - विवरणमेतयोः
प्र॒जाप॑तिं॒-वाँ ए॒ष ई᳚फ्स॒तीत्या॑हुः । यो᳚-ऽश्वमे॒धेन॒ यज॑त॒ इति॑ ।
अथो॑ आहुः । सर्वा॑णि भू॒तानीति॑ ॥
एक॑स्मै॒ स्वाहेत्या॑ह । प्र॒जाप॑ति॒र्वा एकः॑ । तमे॒वाप्नो॑ति ॥ एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ग्॒ स्वाहेत्य॑भि-पू॒र्वमाहु॑ती-र्जुहोति ।
अ॒भि॒पू॒र्वमे॒व स॑व॒र्गं-लोँ॒कमे॑ति ॥ ए॒को॒त्त॒र-ञ्जु॑होति ॥ 59 ॥

ए॒क॒वदे॒व सु॑व॒र्गं-लोँ॒कमे॑ति ॥ सन्त॑त-ञ्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥ श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑ष-श्श॒तवी᳚र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र᳚म् । आयु॑रे॒वा व॑रुन्धे ॥ अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚ प्र॒युता॑य॒ स्वाहेत्या॑ह ॥ 60 ॥

त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कानव॑रुन्धे ॥ अर्बु॑दाय॒ स्वाहेत्या॑ह । वाग्वा अर्बु॑दम् । वाच॑मे॒वा व॑रुन्धे ॥ न्य॑र्बुदाय॒ स्वाहेत्या॑ह ।
यो वै वा॒चो भू॒मा । तन्न्य॑र्बुदम् ।
वा॒च ए॒व भू॒मान॒मव॑रुन्धे ॥
स॒मु॒द्राय॒ स्वाहेत्या॑ह ॥ 61 ॥

स॒मु॒द्रमे॒वाप्नो॑ति । मद्ध्या॑य॒ स्वाहेत्या॑ह । मद्ध्य॑मे॒वाप्नो॑ति । अन्ता॑य॒ स्वाहेत्या॑ह । अन्त॑मे॒-वाप्नो॑ति । प॒रा॒द्र्धाय॒ स्वाहेत्या॑ह ।
प॒रा॒द्र्धमे॒वाप्नो॑ति ॥ उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह । रात्रि॒र्वा उ॒षाः ।
अह॒र्व्यु॑ष्टिः । अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे ।
अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति ॥
ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तं॑-वाँ जुहु॒यात् । अ॒हो॒रा॒त्रे मो॑हयेत् । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो᳚द्य॒ते
स्वाहेत्यनु॑दिते जुहोति । उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति ।
अ॒हो॒रा॒त्रयो॒-रव्य॑तिमोहाय ॥ 62 ॥
(ए॒को॒त्त॒र-ञ्जु॑होति - प्र॒युता॑य॒ स्वाहेत्या॑ह - समु॒द्राय॒ स्वाहेत्या॒हाह॒--र् व्यु॑ष्टि-स्स॒प्त च॑) (अ. 16)

अनुवाकं 17 - सप्तमकाण्डगतान्नहोमानुवाका व्याख्यायन्ते
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्य॑श्व-ना॒मानि॑ जुहोति ।
उ॒भयो॑रे॒वैनं॑-लोँ॒कयो᳚-र्नाम॒धेय॑-ङ्गमयति ॥ आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑-द्द्रा॒वाञ्जु॑होति । सर्व॑मे॒वैन॒-मस्क॑न्नग्ं सुव॒र्गं-लोँ॒क-ङ्ग॑मयति ॥
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहा॒मा-ञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्त॒-म्भ्रातृ॑व्य॒-मति॑क्रामति ॥
पृ॒थि॒व्यै स्वाहा॒-ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒क्षा जु॑होति ।
पूर्व॑ ए॒व द्वि॒षन्त॒-म्भ्रातृ॑व्य॒-मति॑क्रामति ॥ 63 ॥

पृ॒थि॒व्यै स्वाहा॒-ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑-कवि॒ग्ं॒शिनी᳚-न्दी॒क्षा-ञ्जु॑होति ।
एक॑विग्ंशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ग्ं॒शः । ए॒ष सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥
भुवो॑ दे॒वाना॒-ङ्कर्म॒णेत्यृ॑तु-दी॒क्षा जु॑होति ।
ऋ॒तूने॒-वास्मै॑ कल्पयति ॥ अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्य-न॑न्तरित्यै ॥ 64 ॥

अ॒र्वां​यँ॒ज्ञ-स्सङ्क्रा॑म॒त्वि-त्याप्ती᳚-र्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै᳚ ॥ भू॒त-म्भव्य॑-म्भवि॒ष्यदिति॒ पर्या᳚प्ती-र्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्या᳚प्त्यै ॥
आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भू-र्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्या भू᳚त्यै ॥
अ॒ग्निना॒ तपो-ऽन्व॑भव॒दित्य॑नु॒भू-र्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै ॥
स्वाहा॒-ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति । सम॑स्तमे॒व द्वि॒षन्त॒-म्भ्रातृ॑व्य॒-मति॑क्रामति ॥ 65 ॥

द॒द्भ्य-स्स्वाहा॒ हनू᳚भ्या॒ग्॒ स्वाहेत्य॑ङ्गहो॒मा-ञ्जु॑होति ।
अङ्गे॑ अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः ।
अङ्गा॑दङ्गा दे॒वैन॑-म्पा॒प्मन॒स्तेन॑ मुञ्चति ॥ अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहेत्य॑-श्वरू॒पाणि॑ जुहोति ।
रू॒पैरे॒वैन॒ग्ं॒ सम॑द्र्धयति ॥
ओष॑धीभ्य॒-स्स्वाहा॒ मूले᳚भ्य॒-स्स्वाहेत्यो॑षधि हो॒माञ्जु॑होति । द्व॒य्यो वा ओष॑धयः । पुष्पे᳚भ्यो॒-ऽन्याः फल॑-ङ्गृ॒ह्णन्ति॑ ।
मूले᳚भ्यो॒-ऽन्याः । ता ए॒वोभयी॒रव॑रुन्धे ॥ 66 ॥

वन॒स्पति॑भ्य॒-स्स्वाहेति॑ वनस्पति-हो॒माञ्जु॑होति ।
आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुद्ध्यै ॥
मे॒षस्त्वा॑ पच॒तै-र॑व॒त्वित्य-पा᳚व्यानि जुहोति ।
प्रा॒णा वै दे॒वा अपा᳚व्याः । प्रा॒णाने॒वाव॑रुन्धे ॥ कूप्या᳚भ्य॒-स्स्वाहा॒-ऽद्भ्य-स्स्वाहेत्य॒पाग्ं होमा᳚ञ्जुहोति । अ॒फ्सु वा आपः॑ । अन्नं॒-वाँ आपः॑ । अ॒द्भ्यो वा अन्न॑-ञ्जायते । यदे॒वाद्भ्यो-ऽन्न॒-ञ्जाय॑ते । तदव॑रुन्धे ॥ 67 ॥
(पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्त॒-म्भ्रातृ॑व्य॒मति॑क्राम॒ - त्यन॑न्तरित्यै - क्रामति - रुन्धे॒ - जाय॑त॒ एक॑-ञ्च) (अ. 17)

अनुवाकं 18 - सप्तमकाण्डगतान्नहोमानुवाका व्याख्यायन्ते
अम्भाग्ं॑सि जुहोति । अ॒यं-वैँ लो॒को-ऽम्भाग्ं॑सि ।
तस्य॒ वस॒वो-ऽधि॑पतयः । अ॒ग्निर्ज्योतिः॑ । यदम्भाग्ं॑सि जु॒होति॑ ।
इ॒ममे॒व लो॒कमव॑रुन्धे । वसू॑ना॒ग्ं॒ सायु॑ज्य-ङ्गच्छति । अ॒ग्नि-ञ्ज्योति॒रव॑रुन्धे ॥ नभाग्ं॑सि जुहोति । अ॒न्तरि॑क्षं-वैँ नभाग्ं॑सि ॥ 68 ॥

तस्य॑ रु॒द्रा अधि॑पतयः । वा॒युर्ज्योतिः॑ । यन्नभाग्ं॑सि जु॒होति॑ । अ॒न्तरि॑क्षमे॒वा-व॑रुन्धे । रु॒द्राणा॒ग्ं॒ सायु॑ज्य-ङ्गच्छति ।
वा॒यु-ञ्ज्योति॒रव॑रुन्धे । महाग्ं॑सि जुहोति । अ॒सौ वै लो॒को महाग्ं॑सि । तस्या॑दि॒त्या अधि॑पतयः। सूर्यो॒ ज्योतिः॑ ॥ 69 ॥

यन्महाग्ं॑सि जु॒होति॑ । अ॒मुमे॒व लो॒कमव॑रुन्धे । आ॒दि॒त्याना॒ग्ं॒ सायु॑ज्य-ङ्गच्छति । सूर्य॒-ञ्ज्योति॒रव॑रुन्धे ॥
नमो॒ राज्ञ॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति ।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ॥ म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति ।
प॒शू॒नामव॑रुद्ध्यै ॥
प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ सन्तति-हो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥ 70 ॥

सि॒ताय॒ स्वाहा-ऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्ती-र्जुहोति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै ॥ पृ॒थि॒व्यै स्वाहा॒-ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह ।
य॒था॒ य॒जुरे॒वैतत् ॥
द॒त्त्वते॒ स्वाहा॑-ऽद॒न्तका॑य॒ स्वाहेति॑ शरीर-हो॒माञ्जु॑होति । पि॒तृ॒लो॒कमे॒व तैर्यज॑मा॒नो-ऽव॑रुन्धे ॥ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन्. यु॑नक्ति । इ॒मे वै लो॒काः प॑रि॒धयः॑ । इ॒माने॒वास्मै॑ लो॒कान्. यु॑नक्ति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 71 ॥

यः प्रा॑ण॒तो य आ᳚त्म॒दा इति॑ महि॒मानौ॑ जुहोति ।
सु॒व॒र्गो वै लो॒को महः॑ । सु॒व॒र्गमे॒व ताभ्यां᳚-लोँ॒कं-यँज॑मा॒नो-ऽव॑रुन्धे ॥
आ ब्रह्म॑-न्ब्राह्म॒णो ब्र॑ह्मवच॒र्​सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति ।
ब्र॒ह्म॒व॒र्च॒समे॒व तैर्यज॑मा॒नो
-ऽव॑रुन्धे ॥ जज्ञि॒ बीज॒मिति॑ जुहो॒त्य-न॑न्तरित्यै ॥
अ॒ग्नये॒ सम॑नम-त्पृथि॒व्यै समन॑म॒दिति॑ सन्नति हो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्न॑त्यै ॥ भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति ।
अ॒यं-वैँ लो॒को भू॒तम् ॥ 72 ॥

असौ भ॑वि॒ष्यत् । अ॒नयो॑रे॒व लो॒कयोः॒ प्रति॑तिष्ठति । सर्व॒स्याप्त्यै᳚ । सर्व॒स्याव॑रुद्ध्यै ॥ यदक्र॑न्दः प्रथ॒म-ञ्जाय॑मान॒ इत्य॑श्वस्तो॒मीय॑-ञ्जुहोति । सर्व॒स्याप्त्यै᳚ । सर्व॑स्य॒ जित्यै᳚ ॥ सर्व॑मे॒व तेना᳚प्नोति ।
सर्व॑-ञ्जयति । यो᳚-ऽश्वमे॒धेन॒ यज॑ते ॥ 73 ॥

य उ॑ चैनमे॒वं-वेँद॑ ॥ य॒ज्ञग्ं रक्षाग्॑स्य जिघाग्ंसन्न् । स ए॒ता-न्प्र॒जाप॑ति-र्नक्तग्ं हो॒मान॑पश्यत् । तान॑जुहोत् ।
तैर्वै स य॒ज्ञाद्रक्षा॒ग्॒स्यपा॑हन्न् । यन्न॑क्तग्ं हो॒माञ्जु॒होति॑ ।
य॒ज्ञादे॒व तैर्यज॑मानो॒
रक्षा॒ग्॒स्यप॑हन्ति ॥ उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 74 ॥
(वै नभाग्ं॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भु॒तम् - ँयज॑ते॒ - +नव॑ च) (अ. 18)

अनुवाकं 19 - औपसथ्यदिने यूपप्रयोगाः
ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा । अ॒न्येषां᳚-यँ॒ज्ञानां॒-यूँपा॑ भवन्ति ।
ए॒क॒वि॒शिन्य॑-श्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ॥ बै॒ल॒.वो वा॑ खादि॒रो वा॑ पाला॒शो वा᳚ । अ॒न्येषां᳚-यँज्ञक्रतू॒नां-यूँपा॑ भवन्ति । राज्जु॑दाल॒ एक॑विग्ंशत्य-रत्निरश्वमे॒धस्य॑ । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ नान्येषा᳚-म्पशू॒ना-न्ते॑ज॒न्या अ॑व॒द्यन्ति॑ । अव॑द्य॒न्त्यश्व॑स्य ॥ 75 ॥

पा॒प्मा वै ते॑ज॒नी । पा॒प्मनो-ऽप॑हत्यै ॥
प्ल॒क्ष॒शा॒खाया॑म॒न्येषा᳚-म्पशू॒नाम॑व॒द्यन्ति॑ । वे॒त॒स॒-शा॒खाया॒-मश्व॑स्य । अ॒फ्सुयो॑नि॒र्वा अश्वः॑ । अ॒फ्सु॒जो वे॑त॒सः । स्व ए॒वास्य॒ योना॒व-व॑द्यति ॥
यूपे॑षु ग्रा॒म्या-न्प॒शून्नि॑-यु॒ञ्जन्ति॑ । आ॒रो॒केष्वा॑-र॒ण्यान्धा॑रयन्ति ।
प॒शू॒नां-व्याँवृ॑त्त्यै ॥ आ ग्रा॒म्या-न्प॒शून्-ँलभ॑न्ते । प्रार॒ण्यान्​थ्सृ॑जन्ति । पा॒प्मनो-ऽप॑हत्यै ॥ 76 ॥
(अश्व॑स्य॒ - व्यावृ॑त्त्य॒ त्रीणि॑ च) (अ. 19)

अनुवाकं 20 - यूपानां स्थानादयः
राज्जु॑दाल-मग्नि॒ष्ठ-म्मि॑नोति । भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै ॥ पौतु॑द्रवाव॒भितो॑ भवतः । पुण्य॑स्य ग॒न्धस्याव॑रुद्ध्यै ।
भ्रू॒ण॒ह॒त्या-मे॒वास्मा॑-दप॒हत्य॑ । पुण्ये॑न ग॒न्धेनो॑भ॒यतः॒ परि॑गृह्णाति ॥
षड्बै॒ल्॒.वा भ॑वन्ति । ब्र॒ह्म॒व॒र्च॒सस्या-व॑रुद्ध्यै ॥ षट्खा॑दि॒राः ।
तेज॒सो-ऽव॑रुद्ध्यै ॥ 77 ॥

षट्पा॑ला॒शाः । सो॒म॒पी॒थस्या-व॑रुद्ध्यै ॥ एक॑विग्ंशति॒-स्सम्प॑द्यन्ते ।
एक॑विग्ंशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ग्ं॒शः । ए॒ष सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ श॒त-म्प॒शवो॑ भवन्ति ॥ 78 ॥

श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥
सर्वं॒-वाँ अ॑श्वमे॒द्ध्याप्नो॑ति । अप॑रिमिता भवन्ति । अप॑रिमित॒स्या-व॑रुद्ध्यै ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कस्मा᳚थ्स॒त्यात् ।
द॒क्षि॒ण॒तो᳚-ऽन्येषा᳚-म्पशू॒नाम॑व॒द्यन्ति॑ । उ॒त्त॒र॒तो-ऽश्व॒स्येति॑ । वा॒रु॒णो वा अश्वः॑ ॥ 79 ॥

ए॒षा वै वरु॑णस्य॒ दिक् । स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति । यदित॑रेषा-म्पशू॒नाम॑व॒द्यति॑ । श॒त॒दे॒व॒त्य॑-न्तेनाव॑रुन्धे ॥
चि॒ते᳚-ऽग्ना-वधि॑वैत॒से कटे-ऽश्व॑-ञ्चिनोति ।
अ॒फ्सु-यो॑नि॒र्वा अश्वः॑ ।
अ॒फ्सु॒जो वे॑त॒सः । स्व ए॒वैनं॒-योँनौ॒ प्रति॑ष्ठापयति ॥ पु॒रस्ता᳚-त्प्र॒त्यञ्च॑-न्तूप॒र-ञ्चि॑नोति । प॒श्चात्प्रा॒चीन॑-ङ्गोमृ॒गम् ॥ 80 ॥

प्रा॒णा॒पा॒ना-वे॒वास्मिन᳚ थ्स॒म्यञ्चौ॑ दधाति ॥
अश्व॑-न्तूप॒र-ङ्गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति । ए॒षां-लोँ॒काना॑-म॒भिजि॑त्यै ॥ आ॒त्मना॒-ऽभिजु॑होति । सात्मा॑नमे॒वैन॒ग्ं॒ सत॑नु-ङ्करोति ॥ सात्मा॒-ऽमुष्मि॑न् ँला॒के भ॑वति ।
य ए॒वं-वेँद॑ । अथो॒ वसो॑रे॒व धारा॒-न्तेनाव॑रुन्धे ॥ इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहेत्या॑ह । सं॒​वँ॒थ्स॒रो वा इ॑लु॒वर्दः॑ ।
प॒रि॒व॒थ्स॒रो ब॑लि॒वर्दः॑ । सं॒​वँ॒थ्स॒रादे॒व प॑रिवथ्स॒रादायु॒र व॑रुन्धे । आयु॑रे॒वास्मि॑न्-दधाति ।
तस्मा॑दश्व-मेधया॒जी ज॒रसा॑ वि॒स्रसा॒-ऽमुं-लोँ॒कमे॑ति ॥ 81 ॥
(तेज॒सो-ऽव॑रुद्धै - भव॒न् - त्यश्वो॑ - गोमृ॒ग - मि॑लु॒वर्द॑ श्च॒त्वारि॑ च) (अ. 20)

अनुवाकं 21 - चेतव्याग्नयादेर्विशेषः
ए॒क॒वि॒ग्ं॒शो᳚-ऽग्निर्भ॑वति । ए॒क॒वि॒ग्ं॒श-स्स्तोमः॑ । एक॑विग्ंशति॒र्यूपाः᳚ ॥
यथा॒ वा अश्वा॑ वर्र्​ष॒भा वा॒ वृषा॑ण-स्सग्ग्​स्फु॒रेरन्न्॑ । ए॒वमे॒तथ्स्तोमा॒-स्सग्ग्​स्फु॑रन्ते । यदे॑कवि॒ग्ं॒शाः । ते यथ्स॑मृ॒च्छेरन्न्॑ । ह॒न्येता᳚स्य य॒ज्ञः ॥ द्वा॒द॒श ए॒वाग्नि-स्स्या॒दित्या॑हुः ।
द्वा॒द॒श-स्स्तोमः॑ ॥ 82 ॥

एका॑दश॒ यूपाः᳚ ॥ यद्द्वा॑द॒शो᳚-ऽग्निर्भव॑ति । द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रः ।
सं॒​वँ॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे ॥ यद्दश॒ यूपा॒ भव॑न्ति । दशा᳚क्षरा वि॒राट् । अन्नं॑-विँ॒राट् । वि॒राजै॒वान्नाद्य॒-मव॑रुन्धे ।
य ए॑काद॒शः । स्तन॑ ए॒वास्यै॒ सः ॥ 83 ॥

दु॒ह ए॒वैना॒-न्तेन॑ ॥ तदा॑हुः ।
यद्द्वा॑द॒शो᳚-ऽग्नि-स्स्या᳚द्द्वाद॒श-स्स्तोम॒ एका॑दश॒ यूपाः᳚ । यथा॒ स्थूरि॑णा या॒यात् । ता॒दृक्तत् ॥ ए॒क॒वि॒ग्ं॒श ए॒वाग्निः
स्या॒दित्या॑हुः । ए॒क॒वि॒ग्ं॒श-स्स्तोमः॑ ।
एक॑विग्ंशति॒र्यूपाः᳚ । यथा॒ प्रष्टि॑भि॒र्याति॑ ।
ता॒दृगे॒व तत् ॥ 84 ॥

यो वा अ॑श्वमे॒धे ति॒स्रः क॒कुभो॒ वेद॑ । क॒कुद्ध॒ राज्ञा᳚-म्भवति ।
ए॒क॒वि॒ग्ं॒शो᳚-ऽग्निर्भ॑वति । ए॒क॒वि॒ग्ं॒श-स्स्तोमः॑ । एक॑विग्ंशति॒र्यूपाः᳚ ।
ए॒ता वा अ॑श्वम॒धे ति॒स्रः क॒कुभः॑ ।
य ए॒वं-वेँद॑ । क॒कुद्ध॒ राज्ञा᳚-म्भवति ॥
यो वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्॒षाणि॒ वेद॑ ।
शिरो॑ ह॒ राज्ञा᳚-म्भवति ।
ए॒क॒वि॒ग्ं॒शो᳚-ऽग्निर्भ॑वति । ए॒क॒वि॒ग्ं॒श-स्स्तोमः॑ । एक॑विग्ंशति॒र्यूपाः᳚ ।
ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र॒.षाणि॑ ।
य ए॒वं-वेँद॑ । शिरो॑ ह॒ राज्ञा᳚-म्भवति ॥ 85 ॥
(द्वा॒द॒श-स्स्तोमः॒-स- ए॒व तच् - छिरो॑ ह॒ राज्ञा᳚-म्भवति॒ षट्च॑) (अ. 21)

अनुवाकं 22 - उक्थ्याख्ये द्वितीये-ऽहनि बहिष्पवमाने अश्वस्योद्रातृत्वम्
दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गं-लोँ॒क-न्न प्राजा॑नन्न् । तमश्वः॒ प्राजा॑नात् ।
यद॑श्वम॒धे-ऽश्वे॑न॒ मेद्ध्ये॒नोद॑ञ्चो बहिष्पवमा॒नग्ं सर्प॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै । न वै म॑नु॒ष्य॑-स्सुव॒र्गं-लोँ॒कमञ्ज॑सा वेद ।
अश्वो॒ वै सु॑व॒र्गं-लोँ॒कमञ्ज॑सा वेद ॥ यदु॑द्गा॒-तोद्गाये᳚त् । यथा-ऽक्षे᳚त्रज्ञो॒-ऽन्येन॑ प॒था प्र॑तिपा॒दये᳚त् । ता॒दृक्तत् ॥ 86 ॥

उ॒द्गा॒तार॑-मप॒रुद्ध्य॑ । अश्व॑-मुद्गी॒थाय॑ वृणीते । यथा᳚ क्षेत्र॒ज्ञो-ऽञ्ज॑सा॒ नय॑ति ।
ए॒वमे॒वैन॒मश्व॑-स्सुव॒र्गं-लोँ॒कमञ्ज॑सा नयति ॥ पुच्छ॑म॒न्वार॑भन्ते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ हि-ङ्क॑रोति । सामै॒वाकः॑ ।
हि-ङ्क॑रोति । उ॒द्गी॒थ ए॒वास्य॒ सः ॥ 87 ॥

वड॑बा॒ उप॑ रुन्धन्ति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै ।
अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति । ता॒दृगे॒व तत् ॥ उद॑गासी॒दश्वो॒ मेद्ध्य॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑ति-रुद्गी॒थः । उ॒द्गी॒थमे॒वाव॑रुन्धे । अथो॑ ऋख्सा॒मयो॑रे॒व प्रति॑तिष्ठति ॥ हिर॑ण्येनो॒पाक॑रोति ।
ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒व मु॑ख॒तो द॑धाति ।
यज॑माने च प्र॒जासु॑ च । अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मान-स्सुव॒र्गं-लोँ॒कमे॑ति ॥ 88 ॥
(तथ् - स - उ॒पाक॑रोति च॒त्वारि॑ च) (अ. 22)

अनुवाकं 23 - अश्वे पर्यग्न्यप्रयन्ताना-म्पशूना-न्नियोजनं
पुरु॑षो॒ वै य॒ज्ञः । य॒ज्ञः प्र॒जाप॑तिः । यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ ।
य॒ज्ञादे॒व तद्य॒ज्ञ-म्प्रयु॑ङ्क्ते ॥ अश्व॑-न्तूप॒र-ङ्गो॑मृ॒गम् । तान॑ग्नि॒ष्ठ आल॑भते ।
से॒ना॒मु॒खमे॒व तथ्सग्ग्​श्य॑ति । तस्मा᳚-द्राजमु॒ख-म्भी॒ष्म-म्भावु॑कम् ॥
आ॒ग्ने॒य-ङ्कृ॒ष्णग्री॑व-म्पु॒रस्ता᳚-ल्ल॒लाटे᳚ । पू॒र्वा॒ग्निमे॒व त-ङ्कु॑रुते ॥ 89 ॥

तस्मा᳚-त्पूर्वा॒ग्नि-म्पु॒रस्ता᳚-थ्स्थापयन्ति ॥ पौ॒ष्णम॒न्वञ्च᳚म् । अन्नं॒-वैँ पू॒षा । तस्मा᳚-त्पूर्वा॒ग्ना-वा॑हा॒र्य॑-माह॑रन्ति ॥
ऐ॒न्द्रा॒पौ॒ष्ण मु॒परि॑ष्टात् । ऐ॒न्द्रो वै रा॑ज॒न्यो-ऽन्न॑-म्पू॒षा ।
अ॒न्नाद्ये॑नै॒वैन॑-मुभ॒यतः॒ परि॑गृह्णाति । तस्मा᳚-द्राज॒न्यो᳚न्ना॒दो भावु॑कः ॥
आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः । बा॒हु॒वोरे॒व वी॒र्य॑-न्धत्ते ॥ 90 ॥

तस्मा᳚-द्राज॒न्यो॑ बाहुब॒ली भावु॑कः ॥
त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः ।
स॒क्थ्योरे॒व वी॒र्य॑-न्धत्ते । तस्मा᳚-द्राज॒न्य॑ ऊरुब॒ली भावु॑कः ॥ शि॒ति॒पृ॒ष्ठौ बा॑र्​हस्प॒त्यौ पृ॒ष्ठे ।
ब्र॒ह्म॒व॒र्च॒स-मे॒वोपरि॑ष्टाद्धत्ते ।
अथो॑ क॒वचे॑ ए॒वैते अ॒भितः॒ पर्यू॑हते ।
तस्मा᳚-द्राज॒न्य॑-स्सन्न॑द्धो वी॒र्य॑-ङ्करोति ॥ धा॒त्रे पृ॑षोद॒र-म॒धस्ता᳚त् ।
प्र॒ति॒ष्ठामे॒वैता-ङ्कु॑रुते ।
अथो॑ इ॒यं-वैँ धा॒ता ।
अ॒स्यामे॒व प्रति॑तिष्ठति ॥ सौ॒र्य-म्ब॒लक्ष॒-म्पुच्छे᳚ । उ॒थ्से॒धमे॒व त-ङ्कु॑रुते ।
तस्मा॑दुथ्से॒ध-म्भ॒ये प्र॒जा
अ॒भिसग्ग्​श्र॑यन्ति ॥ 91 ॥
(कु॒रु॒ते॒ - ध॒त्ते॒ - कु॒रु॒ते॒ पञ्च॑ च) (अ. 23)

(सा॒ग्रं॒ह॒ण्या - चतु॑ष्टय्यो॒ - यो वै - यः पि॒तु - श्च॒त्वारा॒ - यथा॑ नि॒क्तम् - प्र॒जाप॑तये त्वा॒- यथा॒ प्रोक्षि॑तं - वि॒भूरा॑ह- प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ - प्र॒जाप॑ति॒र्न किञ्च॒ न - सा॑वि॒त्र - मा ब्रह्म॑न् - प्र॒जाप॑ति-र्दे॒वेभ्यः॑ - प्र॒जाप॑ति॒ रक्षाग्ं॑सि - प्र॒जाप॑तिमीफ्सति - वि॒भुर॑श्वना॒मान्य - म्भाग्॑ - स्येकयू॒पो - राज्जु॑दाल - मेकवि॒ग्ं॒शो - दे॒वाः - पुरु॑ष॒ स्त्रयो॑विग्ंशतिः)

(सा॒ग्रं॒ह॒ण्या - तस्मा॑दश्वमेधया॒जी - य-त्परि॑मिता॒ - य-द्य॑ज्ञमु॒खे - यो दी॒क्षाम् - दे॒वाने॒व - त्रय॑ इ॒मे - सि॒ताय॑ - प्राणापा॒नावे॒वास्मि॒न् - तस्मा᳚-द्राज॒न्य॑ एक॑नवतिः)

(सा॒ग्रं॒ह॒ण्या - सग्ग्​श्र॑यन्ति)

॥ हरिः ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके अष्टमः प्रपाठक-स्समाप्तः ॥
+++++++++++++++++++++++++++




Browse Related Categories: