| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
1.3 - वाजपेयब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - देवासुराः सं यत्ता कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके तृतीयः प्रपाठकः - वाजपेयब्राह्मणं ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - पुनराधेयशेषः आज्यभागयोर्विशेषः दे॒वा॒सु॒रा-स्सं-यँ॑त्ता आसन्न् । ते दे॒वा वि॑ज॒य-मु॑प॒यन्तः॑ । अ॒ग्नीषोम॑यो-स्तेज॒स्विनी᳚स्त॒नू-स्स-न्न्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तेना॒ग्नीषोमा॒-वपा᳚क्रामताम् । ते दे॒वा वि॒जित्य॑ । अ॒ग्नीषोमा॒-वन्वै᳚च्छन्न् । ते᳚-ऽग्नि-मन्व॑विन्द-न्नृ॒तुषू-थ्स॑न्नम् । तस्य॒ विभ॑क्तीभि-स्तेज॒स्विनी᳚स्त॒नू-रवा॑रुन्धत ॥ 1 ॥ ते सोम॒-मन्व॑विन्दन्न् । तम॑घ्नन्न् । तस्य॑ यथा-ऽभि॒ज्ञाय॑-न्त॒नू-र्व्य॑गृह्णत । ते ग्रहा॑ अभवन्न् । त-द्ग्रहा॑णा-ङ्ग्रह॒त्वम् । यस्यै॒वं-विँ॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । तस्य॒ त्वे॑व गृ॑ही॒ताः ॥ नाना᳚ग्नेय-म्पुनरा॒धेये॑ कुर्यात् । यदना᳚ग्नेय-म्पुनरा॒धेये॑ कु॒र्यात् । व्यृ॑द्धमे॒व तत् ॥ 2 ॥ अना᳚ग्नेयं॒-वाँ ए॒त-त्क्रि॑यते । य-थ्स॒मिध॒-स्तनू॒नपा॑तमि॒डो ब॒र्॒हि-र्य॑जति ॥ उ॒भावा᳚ग्ने॒या-वाज्य॑भागौ स्याताम् ॥ अना᳚ज्यभागौ-भवत॒ इत्या॑हुः । यदु॒भावा᳚ग्ने॒याव॒न्वञ्चा॒विति॑ । अ॒ग्नये॒ पव॑माना॒योत्त॑र-स्स्यात् । य-त्पव॑मानाय । तेनाज्य॑ भागः । तेन॑ सौ॒म्यः ॥ बुध॑न्वत्याग्ने॒य-स्याज्य॑-भागस्य पुरो-ऽनुवा॒क्या॑ भवति ॥ 3 ॥ यथा॑ सु॒प्त-म्बो॒धय॑ति । ता॒दृगे॒व तत् ॥ अ॒ग्निन्य॑क्ताः पत्नी संयाँ॒जाना॒मृच॑-स्स्युः । तेना᳚ग्ने॒यग्ं सर्व॑-म्भवति ॥ ए॒क॒धा ते॑ज॒स्विनी᳚-न्दे॒वता॒-मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ ॥ नेति॑ ब्रूयात् । प्र॒जन॑नं॒-वाँ अ॒ग्निः । प्र॒जन॑न-मे॒वोपै॒तीति॑ ॥ कृ॒तय॑जु॒-स्सम्भृ॑त सम्भार॒ इत्या॑हुः ॥ 4 ॥ न स॒भृन्त्या᳚-स्सम्भा॒राः । न यजुः॑ का॒र्य॑मिति॑ ॥ अथो॒ खलु॑ । स॒भृन्त्या॑ ए॒व स॑भां॒राः । का॒र्यं॑-यँजुः॑ । पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै ॥ तेनो॑पा॒ग्ं॒शु प्रच॑रति । एष्य॑ इव॒ वा ए॒षः । य-त्पु॑न-रा॒धेयः॑ । यथो॑पा॒ग्ं॒शु न॒ष्टमि॒च्छति॑ ॥ 5 ॥ ता॒दृगे॒व तत् ॥ उ॒च्चै-स्स्वि॑ष्ट॒कृत॒मु-थ्सृ॑जति । यथा॑ न॒ष्टं-विँ॒त्वा प्राहा॒यमिति॑ । ता॒दृगे॒व तत् ॥ ए॒क॒धा ते॑ज॒स्विनी᳚-न्दे॒वता॒मुपै॒तीत्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॒ इति॑ । तत्तथा॒ नोपै॑ति । प्र॒या॒जा॒नू॒या॒जेष्वे॒व विभ॑क्तीः कुर्यात् । य॒था॒पू॒र्व-माज्य॑भागौ॒ स्याता᳚म् । ए॒व-म्प॑त्नी संयाँ॒जाः ॥ 6 ॥ त-द्वै᳚श्वान॒रव॑त्-प्र॒जन॑नवत्तर॒-मुपै॒तीति॑ ॥ तदा॑हुः । व्यृ॑द्धं॒-वाँ ए॒तत् । अना᳚ग्नेयं॒-वाँ ए॒त-त्क्रि॑यत॒ इति॑ ॥ नेति॑ ब्रूयात् । अ॒ग्नि-म्प्र॑थ॒मं-विँभ॑क्तीनां-यँजति । अ॒ग्निमु॑त्त॒म-म्प॑त्नी संयाँ॒जाना᳚म् । तेना᳚ग्ने॒यम् । तेन॒ समृ॑द्ध-ङ्क्रियत॒ इति॑ ॥ 7 ॥ अनुवाकं 2 - वाजपेयस्य विधिः तस्मि॑-न्ना॒जिम॑धावन्न् । त-म्बृह॒स्पति॒-रुद॑जयत् । तेना॑यजत । स स्वारा᳚ज्य-मगच्छत् । तमिन्द्रो᳚-ऽब्रवीत् । माम॒नेन॑ याज॒येति॑ । तेनेन्द्र॑-मयाजयत् । सो-ऽग्र॑-न्दे॒वता॑ना॒-म्पर्यै᳚त् । अग॑च्छ॒-थ्स्वारा᳚ज्यम् । अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य ॥ 9 ॥ य ए॒वं-विँ॒द्वान्. वा॑ज॒पेये॑न॒ यज॑ते । गच्छ॑ति॒ स्वारा᳚ज्यम् । अग्रग्ं॑ समा॒नाना॒-म्पर्ये॑ति । तिष्ठ॑न्ते-ऽस्मै॒ ज्यैष्ठ्या॑य ॥ स वा ए॒ष ब्रा᳚ह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः ॥ तं-वाँ ए॒तं-वाँ॑ज॒पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाज॒ग्ग्॒ ह्ये॑तेन॑ दे॒वा ऐफ्सन्न्॑ ॥ सोमो॒ वै वा॑ज॒पेयः॑ । यो वै सोमं॑-वाँज॒पेयं॒-वेँद॑ ॥ 10 ॥ वा॒ज्ये॑वैन॑-म्पी॒त्वा भ॑वति । आ-ऽस्य॑ वा॒जी जा॑यते ॥ अन्नं॒-वैँ वा॑ज॒पेयः॑ । य ए॒वं-वेँद॑ । अत्त्यन्न᳚म् । आ-ऽस्या᳚न्ना॒दो जा॑यते ॥ ब्रह्म॒ वै वा॑ज॒पेयः॑ । य ए॒वं-वेँद॑ । अत्ति॒ ब्रह्म॒णा-ऽन्न᳚म् । आ-ऽस्य॑ ब्र॒ह्मा जा॑यते ॥ 11 ॥ वाग्वै वाज॑स्य प्रस॒वः । य ए॒वं-वेँद॑ । क॒रोति॑ वा॒चा वी॒र्य᳚म् । ऐनं॑-वाँ॒चा ग॑च्छति । अपि॑वतीं॒-वाँचं॑-वँदति ॥ प्र॒जाप॑ति-र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् । स आ॒त्मन् वा॑ज॒पेय॑-मधत्त । त-न्दे॒वा अ॑ब्रुवन्न् । ए॒ष वाव य॒ज्ञः । य-द्वा॑ज॒पेयः॑ ॥ 12 ॥ अप्ये॒व नो-ऽत्रा॒स्त्विति॑ । तेभ्य॑ ए॒ता उज्जि॑तीः॒ प्राय॑च्छत् ॥ ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते । य॒ज्ञस्य॑ सर्व॒त्वाय॑ । दे॒वता॑ना॒-मनि॑र्भागाय ॥ दे॒वा वै ब्रह्म॑ण॒श्चान्न॑स्य च॒ शम॑ल॒मपा᳚घ्नन्न् । य-द्ब्रह्म॑ण॒-श्शम॑ल॒मासी᳚त् । सा गाथा॑ नाराश॒ग्ग्॒स्य॑ भवत् । यदन्न॑स्य । सा सुरा᳚ ॥ 13 ॥ तस्मा॒-द्गाय॑तश्च म॒त्तस्य॑ च॒ न प्र॑ति॒गृह्य᳚म् । य-त्प्र॑तिगृह्णी॒यात् । शम॑ल॒-म्प्रति॑गृह्णीयात् ॥ सर्वा॒ वा ए॒तस्य॒ वाचो ऽव॑रुद्धाः । यो वा॑जपेयया॒जी । या पृ॑थि॒व्यां-याँ-ऽग्नौ या र॑थन्त॒रे । या-ऽन्तरि॑क्षे॒ या वा॒यौ या वा॑मदे॒व्ये । या दि॒वि या-ऽऽदि॒त्ये या बृ॑ह॒ति । या-ऽफ्सु यौष॑धीषु॒ या वन॒स्पति॑षु ॥ तस्मा᳚-द्वाजपेयया॒ज्यार्त्वि॑जीनः । सर्वा॒ ह्य॑स्य॒ वाचो ऽव॑रुद्धाः ॥ 14 ॥ अनुवाकं 3 - तस्यग्रहविशेषाः सर्व॑ ऐ॒न्द्रा भ॑वन्ति । ए॒क॒धैव यज॑मान इन्द्रि॒य-न्द॑धति ॥ स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒-राप्त्यै᳚ ॥ एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑-न्दधाति ॥ सो॒म॒ग्र॒हाग्श्च॑ सुराग्र॒हाग्श्च॑ गृह्णाति । ए॒त-द्वै दे॒वाना᳚-म्पर॒ममन्न᳚म् । य-थ्सोमः॑ ॥ 16 ॥ ए॒त-न्म॑नु॒ष्या॑णाम् । य-थ्सुरा᳚ । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑र-म॒न्नाद्य॒-मव॑रुन्धे ॥ सो॒म॒ग्र॒हा-न्गृ॑ह्णाति । ब्रह्म॑णो॒ वा ए॒त-त्तेजः॑ । य-थ्सोमः॑ । ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति । सु॒रा॒ग्र॒हा-न्गृ॑ह्णाति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । य-थ्सुरा᳚ ॥ 17 ॥ अन्न॑स्यै॒व शम॑लेन॒ शम॑लं॒-यँज॑माना॒-दप॑हन्ति ॥ सो॒म॒ग्र॒हाग्श्च॑ सुराग्र॒हाग्श्च॑ गृह्णाति । पुमा॒न्॒. वै सोमः॑ । स्त्री सुरा᳚ । त-न्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ त-द्य॒ज्ञे क॑रोति प्र॒जन॑नाय । आ॒त्मान॑मे॒व सो॑मग्र॒है-स्स्पृ॑णोति । जा॒याग्ं सु॑रा ग्र॒हैः । तस्मा᳚-द्वाजपेयया॒ज्य॑मुष्मि॑ँल्लो॒के स्त्रिय॒ग्ं॒ सम्भ॑वति । वा॒ज॒पेया॑-भिजित॒ग्ग्॒ ह्य॑स्य ॥ 18 ॥ पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॒हाः । पु॒रो॒क्षग्ं सो॑मग्र॒हान्थ्- सा॑दयति । प॒श्चा॒द॒क्षग्ं सु॑राग्र॒हान् । पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै ॥ ए॒ष वै यज॑मानः । य-थ्सोमः॑ । अन्न॒ग्ं॒ सुरा᳚ । सो॒म॒ग्र॒हाग्श्च॑ सुराग्र॒हाग्श्च॒ व्यति॑षजति । अ॒न्नाद्ये॑नै॒वैनं॒-व्यँति॑षजति ॥ 19 ॥ स॒पृञ्च॑-स्स्थ॒ स-म्मा॑ भ॒द्रेण॑ पृ॒ङ्क्तेत्या॑ह । अन्नं॒-वैँ भ॒द्रम् । अ॒न्नाद्ये॑नै॒वैन॒ग्ं॒ सग्ंसृ॑जति ॥ अन्न॑स्य॒ वा ए॒तच्छम॑लम् । य-थ्सुरा᳚ । पा॒प्मॆव॒ खलु॒ वै शम॑लम् । पा॒प्मना॒ वा ए॑नमे॒तच्छम॑लेन॒ व्यति॑षजति । य-थ्सो॑मग्र॒हाग्श्च॑ सुराग्र॒हाग्श्च॑ व्यति॒षज॑ति ॥ वि॒पृच॑-स्स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्तेत्या॑ह । पा॒प्मनै॒वैन॒ग्ं॒ शम॑लेन॒ व्याव॑र्तयति ॥ 20 ॥ तस्मा᳚-द्वाजपेयया॒जी पू॒तो मेद्ध्यो॑ दक्षि॒ण्यः॑ ॥ प्रांउ-द्द्र॑वति सोमग्र॒हैः । अ॒मुमे॒व तै-र्लो॒क-म॒भिज॑यति । प्र॒त्यङ्ख्सु॑रा ग्र॒हैः । इ॒ममे॒व तै-र्लो॒क-म॒भिज॑यति ॥ प्रति॑ष्ठन्ति सोमग्र॒हैः । याव॑दे॒व स॒त्यम् । तेन॑ सूयते ॥ वा॒ज॒सृद्भ्य॑-स्सुराग्र॒हान्. ह॑रन्ति । अनृ॑तेनै॒व विश॒ग्ं॒ सग्ंसृ॑जति ॥ हि॒र॒ण्य॒पा॒त्र-म्मधोः᳚ पू॒र्ण-न्द॑दाति । म॒ध॒व्यो॑-ऽसा॒नीति॑ ॥ ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति । ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति ॥ 21 ॥ अनुवाकं 4 - पशव-स्सप्तदश मा॒रु॒त्या बृ॑ह॒त-स्स्तो॒त्रम् । ए॒ताव॑न्तो॒ वै य॑ज्ञक्र॒तवः॑ । ता-न्प॒शुभि॑रे॒वा-व॑रुन्धे ॥ आ॒त्मान॑मे॒व स्पृ॑णो-त्यग्निष्टो॒मेन॑ । प्रा॒णा॒पा॒ना-वु॒क्थ्ये॑न । वी॒र्यग्ं॑ षोड॒शिन॑-स्स्तो॒त्रेण॑ । वाच॑-मतिरा॒त्रेण॑ । प्र॒जा-म्बृ॑ह॒त-स्स्तो॒त्रेण॑ । इ॒ममे॒व लो॒कम॒भि ज॑यत्यग्निष्टो॒मेन॑ । अ॒न्तरि॑क्ष-मु॒क्थ्ये॑न ॥ 23 ॥ सु॒व॒र्गं-लोँ॒कग्ं षो॑ड॒शिन॑-स्स्तो॒त्रेण॑ । दे॒व॒याना॑ने॒व प॒थ आरो॑ह-त्यतिरा॒त्रेण॑ । नाकग्ं॑ रोहति बृह॒त-स्स्तो॒त्रेण॑ । तेज॑ ए॒वात्म-न्ध॑त्त आग्ने॒येन॑ प॒शुना᳚ । ओजो॒ बल॑मैन्द्रा॒ग्नेन॑ । इ॒न्द्रि॒य-मै॒न्द्रेण॑ । वाचग्ं॑ सारस्व॒त्या । उ॒भावे॒व दे॑वलो॒क-ञ्च॑ मनुष्यलो॒क-ञ्चा॒भिज॑यति मारु॒त्या व॒शया᳚ ॥ स॒प्तद॑श प्राजाप॒त्या-न्प॒शूनाल॑भते । स॒प्त॒द॒शः प्र॒जाप॑तिः ॥ 24 ॥ प्र॒जाप॑ते॒राप्त्यै᳚ ॥ श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑ति॒-स्समृ॑द्ध्यै ॥ ता-न्पर्य॑ग्निकृता॒-नुथ्सृ॑जति ॥ म॒रुतो॑ य॒ज्ञम॑जिघाग्ंस-न्प्र॒जाप॑तेः । तेभ्य॑ ए॒ता-म्मा॑रु॒तीं-वँ॒शामाल॑भत । तयै॒वैना॑-नशमयत् ॥ मा॒रु॒त्या प्र॒चर्य॑ । ए॒तान्-थ्सञ्ज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑मयि॒त्वा ॥ 25 ॥ ए॒तैः प्रच॑रति । य॒ज्ञस्याघा॑ताय ॥ ए॒क॒धा व॒पा जु॑होति । ए॒क॒दे॒व॒त्या॑ हि । ए॒ते । अथो॑ एक॒धैव यज॑माने वी॒र्य॑-न्दधाति ॥ नै॒वा॒रेण॑ स॒प्तद॑शशरावे-णै॒तर्हि॒ प्रच॑रति । ए॒त-त्पु॑रोडाशा॒ ह्ये॑ते । अथो॑ पशू॒नामे॒व छि॒द्रमपि॑दधाति ॥ सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति । वाग् वै सर॑स्वती । तस्मा᳚-त्प्रा॒णानां॒-वाँगु॑त्त॒मा । अथो᳚ प्र॒जाप॑तावे॒व य॒ज्ञ-म्प्रति॑ष्ठापयति । प्र॒जाप॑ति॒र्॒ हि वाक् ॥ अप॑न्नदती भवति । तस्मा᳚-न्मनु॒ष्या᳚-स्सर्वां॒-वाँचं॑-वँदन्ति ॥ 26 ॥ अनुवाकं 5 - रथयाजनम् इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै ॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑-म्म॒हीमित्या॑ह । यच्चै॒वेयम् । यच्चा॒स्यामधि॑ । तदे॒वा-व॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॒-ऽभिषि॑च्यते ॥ अ॒फ्स्व॑न्तर॒-मृत॑म॒फ्सु भे॑ष॒जमित्यश्वा᳚-न्पल्पूलयति । अ॒फ्सु वा अश्व॑स्य॒ तृती॑य॒-म्प्रवि॑ष्टम् । तद॑नु॒वेन॒न्वव॑प्लवते । यद॒फ्सु प॑ल्पू॒लय॑ति ॥ 28 ॥ यदे॒वास्या॒फ्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे ॥ ब॒हु वा अश्वो॑-ऽमे॒द्ध्य-मुप॑गच्छति । यद॒फ्सु प॑ल्पू॒लय॑ति । मेद्ध्या॑ने॒वैना᳚न् करोति ॥ वा॒युर्वा᳚ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता वा ए॒त-न्दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन्न् । ताभि॑रे॒वैनान्॑. युनक्ति । स॒वस्योज्जि॑त्यै ॥ यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै ॥ 29 ॥ अपा᳚-न्न पादाशुहेम॒न्निति॒ सम्मा᳚र्ष्टि । मेद्ध्या॑ने॒वैना᳚न् करोति । अथो॒ स्तौत्ये॒वैना॑ना॒जिग्ं स॑रिष्य॒तः ॥ वि॒ष्णु॒ क्र॒मान् क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाँल्लो॒का-न॒भिज॑यति ॥ वै॒श्व॒दे॒वो वै रथः॑ । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒-याँवित्या॑ह । या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः । ताभ्य॑ ए॒व नम॑स्करोति । आ॒त्मनो-ऽना᳚र्त्यै ॥ अश॑मरथ-म्भावुको-ऽस्य॒ रथो॑ भवति । य ए॒वं-वेँद॑ ॥ 30 ॥ अनुवाकं 6 - रथधावनम् वा॒जिना॒ग्ं॒ साम॑ गायते । अन्नं॒-वैँ वाजः॑ । अन्न॑मे॒-वाव॑रुन्धे ॥ वा॒चो वर्ष्म॑ दे॒वेभ्यो-ऽपा᳚क्रामत् । त-द्वन॒स्पती॒-न्प्रावि॑शत् । सैषा वाग्-वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्मा᳚-द्दुन्दु॒भि-स्सर्वा॒ वाचोति॑ वदति ॥ दु॒न्दु॒भीन्-थ्स॒माघ्न॑न्ति । प॒र॒मा वा ए॒षा वाक् ॥ 32 ॥ या दु॑न्दु॒भौ । प॒र॒मयै॒व वा॒चा-ऽव॑रां॒-वाँच॒म-व॑रुन्धे । अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नो ऽव॑रुन्धे ॥ इन्द्रा॑य॒ वाचं॑-वँद॒तेन्द्रं॒-वाँज॑-ञ्जापय॒तेन्द्रो॒ वाज॑मजयि॒-दित्या॑ह । ए॒ष वा ए॒तर्हीन्द्रः॑ । यो यज॑ते । यज॑मान ए॒व वाज॒मुज्ज॑यति ॥ स॒प्तद॑श प्रव्या॒धाना॒जि-न्धा॑वन्ति । स॒प्त॒द॒शग्ग् स्तो॒त्र-म्भ॑वति । स॒प्तद॑श सप्तदश दीयन्ते ॥ 33 ॥ स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒-राप्त्यै᳚ ॥ अर्वा॑-ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । अ॒ग्निर्वा अर्वा᳚ । वा॒यु-स्सप्तिः॑ । आ॒दि॒त्यो वा॒जी । ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भि-र्देवर॒थं-युँ॑नक्ति ॥ प्र॒ष्टि॒वा॒हिनं॑-युँनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ॥ 34 ॥ वाजि॑नो॒ वाज॑-न्धावत॒ काष्ठा᳚-ङ्गच्छ॒तेत्या॑ह । सु॒व॒र्गो वै लो॒कः काष्ठा᳚ । सु॒व॒र्गमे॒व लो॒कं-यँ॑न्ति ॥ सु॒व॒र्गं-वाँ ए॒ते लो॒कं-यँ॑न्ति । य आ॒जि-न्धाव॑न्ति ॥ प्राञ्चो॑ धावन्ति । प्रांइ॑व॒ हि सु॑व॒र्गो लो॒कः ॥ च॒त॒सृभि॒रनु॑ मन्त्रयते । च॒त्वारि॒ छन्दाग्ं॑सि । छन्दो॑भिरे॒वैना᳚न्-थ्सुव॒र्गं-लोँ॒क-ङ्ग॑मयति ॥ 35 ॥ प्र वा ए॒ते᳚-ऽस्माल्-लो॒काच्च्य॑वन्ते । य आ॒जि-न्धाव॑न्ति । उद॑ञ्च॒ आव॑र्तन्ते । अ॒स्मादे॒व तेन॑ लो॒कान्नय॑न्ति ॥ र॒थ॒वि॒मो॒च॒नीय॑-ञ्जुहोति॒ प्रति॑ष्ठित्यै ॥ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह । अन्नं॒-वैँ वाजः॑ । अन्न॑मे॒वाव॑रुन्धे ॥ य॒था॒लो॒कं-वाँ ए॒त उज्ज॑यन्ति । य आ॒जि-न्धाव॑न्ति ॥ 36 ॥ कृ॒ष्णल॑-ङ्कृष्णलं-वाँज॒सृद्भ्यः॒ प्रय॑च्छति । यमे॒व ते वाजं॑-लोँ॒कमु॒ज्जय॑न्ति । त-म्प॑रि॒क्रीया-व॑रुन्धे ॥ ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑माने वी॒र्य॑-न्दधाति ॥ दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता बृह॒स्पति॒-रुद॑जयत् । स नी॒वारा॒न्निर॑वृणीत । तन्नी॒वारा॑णा-न्नीवार॒त्वम् ॥ नै॒वा॒रश्च॒रु-र्भ॑वति ॥ 37 ॥ ए॒तद्वै दे॒वाना᳚-म्पर॒ममन्न᳚म् । यन्नी॒वाराः᳚ । प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒-नाव॑र-म॒न्नाद्य॒मव॑रुन्धे ॥ स॒प्तद॑शशरावो भवति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒-राप्त्यै᳚ ॥ क्षी॒रे भ॑वति । रुच॑मे॒वास्मि॑न्-दधाति ॥ स॒र्पिष्वा᳚-न्भवति मेद्ध्य॒त्वाय॑ ॥ बा॒र्॒ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या ॥ 38 ॥ यो वा॑ज॒पेये॑न॒ यज॑ते । बा॒र्॒ह॒स्प॒त्य ए॒ष च॒रुः ॥ अश्वा᳚न्-थ्सरिष्य॒त-स्स॒स्रुष॒श्चाव॑-घ्रापयति । यमे॒व ते वाजं॑-लोँ॒कमु॒ज्जय॑न्ति । तमे॒वाव॑रुन्धे ॥ अजी॑जिपत वनस्पतय॒ इन्द्रं॒-वाँजं॒-विँमु॑च्यद्ध्व॒मिति॑ दुन्दु॒भीन्. विमु॑ञ्चति । यमे॒व ते वाजं॑-लोँ॒कमि॑न्द्रि॒य-न्दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति । तमे॒वा-व॑रुन्धे ॥ 39 ॥ अनुवाकं 7 - यूपारोहणम् वाज॒स्याव॑-रुद्ध्यै ॥ जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह । पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्-वार॒म्भो-ऽन॑वच्छित्यै ॥ स॒प्तद॑शा-रत्नि॒र्यूपो॑ भवति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ तू॒प॒र-श्चतु॑रश्रि-र्भवति ॥ गौ॒धू॒म-ञ्च॒षाल᳚म् । न वा ए॒ते व्री॒हयो॒ न यवाः᳚ । य-द्गो॒धूमाः᳚ ॥ 41 ॥ ए॒वमि॑व॒ हि प्र॒जाप॑ति॒-स्समृ॑द्ध्यै । अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्त-ङ्करोति ॥ वासो॑भि-र्वेष्टयति । ए॒ष वै यज॑मानः । यद्यूपः॑ । स॒र्व॒दे॒व॒त्यं॑-वाँसः॑ । सर्वा॑भिरे॒वैन॑-न्दे॒वता॑भि॒-स्सम॑र्धयति । अथो॑ आ॒क्रम॑णमे॒व तथ्सेतुं॒-यँज॑मानः कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ द्वाद॑श वाजप्रस॒वीया॑नि जुहोति ॥ 42 ॥ द्वाद॑श॒ मासा᳚-स्संवँथ्स॒रः । सं॒वँ॒थ्स॒रमे॒व प्री॑णाति । अथो॑ संवँथ्स॒रमे॒वास्मा॒ उप॑ दधाति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ द॒शभिः॒ कल्पै॑ रोहति । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णाने॒व य॑थास्था॒न-ङ्क॑ल्पयि॒त्वा । सु॒व॒र्गं-लोँ॒कमे॑ति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् ॥ 43 ॥ याव॑त्-प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तेन॑ स॒ह सु॑व॒र्गं-लोँ॒कमे॑ति ॥ सुव॑र्दे॒वाग्ं अ॑ग॒न्मेत्या॑ह । सु॒व॒र्गमे॒व लो॒कमे॑ति । अ॒मृता॑ अभू॒मेत्या॑ह । अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः । प्र॒जाप॑तेः प्र॒जा अ॑भू॒मेत्या॑ह । प्रा॒जा॒प॒त्यो वा अ॒यं-लोँ॒कः । अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑ ॥ 44 ॥ सम॒ह-म्प्र॒जया॒ स-म्मया᳚ प्र॒जेत्या॑ह । आ॒शिष॑मे॒वैता-माशा᳚स्ते ॥ आ॒स॒पु॒टै-र्घ्न॑न्ति । अन्नं॒-वाँ इ॒यम् । अ॒न्नाद्ये॑नै॒वैन॒ग्ं॒ सम॑र्धयन्ति । ऊषै᳚-र्घ्नन्ति । ए॒ते हि सा॒क्षादन्न᳚म् । यदूषाः᳚ । सा॒क्षादे॒वैन॑-म॒न्नाद्ये॑न॒ सम॑र्धयन्ति ॥ पु॒रस्ता᳚त्-प्र॒त्यञ्च᳚-ङ्घ्नन्ति ॥ 45 ॥ पु॒रस्ता॒द्धि प्र॑ती॒चीन॒-मन्न॑म॒द्यते᳚ ॥ शी॒र्॒ष॒तो घ्न॑न्ति । शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते᳚ ॥ दि॒ग्भ्यो घ्न॑न्ति । दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒-मव॑रुन्धते ॥ ई॒श्व॒रो वा ए॒ष परां᳚-प्र॒दघः॑ । यो यूप॒ग्ं॒ रोह॑ति ॥ हिर॑ण्यम॒द्ध्य-व॑रोहति । अ॒मृतं॒-वैँ हिर॑ण्यम् । अ॒मृतग्ं॑ सुव॒र्गो लो॒कः ॥ 46 ॥ अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठति ॥ श॒तमा॑न-म्भवति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ॥ पुष्ट्यै॒ वा ए॒त-द्रू॒पम् । यद॒जा । त्रि-स्सं॑वँथ्स॒रस्या॒न्यान्-प॒शू-न्परि॒ प्रजा॑यते ॥ ब॒स्ता॒जि॒न-म॒द्ध्यव॑ रोहति । पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति ॥ 47 ॥ अनुवाकं 8 - अन्नहोमाः, अभिषेकश्च अव॑रुद्धेन॒ व्यृ॑द्ध्येत । सर्व॑स्य समव॒दाय॑ जुहोति । अन॑वरुद्ध॒-स्याव॑रुद्ध्यै ॥ औदु॑म्बरेण स्रु॒वेण॑ जुहोति । ऊर्ग्वा अन्न॑-मुदु॒म्बरः॑ । ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह । स॒वि॒तृ प्र॑सूत ए॒वैन॒-म्ब्रह्म॑णा दे॒वता॑भि-र॒भिषि॑ञ्चति ॥ अन्न॑स्यान्नस्या॒भिषि॑ञ्चति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै ॥ 49 ॥ पु॒रस्ता᳚त्-प्र॒त्यञ्च॑-म॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि-प्र॑ती॒चीन॒-मन्न॑म॒द्यते᳚ । शी॒र्॒ष॒तो॑-ऽभिषि॑ञ्चति । शी॒र्॒ष॒तो ह्यन्न॑म॒द्यते᳚ ॥ आमुखा॑द॒न्वव॑ स्रावयति । मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्य॑-न्दधाति ॥ अ॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह । ए॒ष वा अ॒ग्ने-स्स॒वः । तेनै॒वैन॑-म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह ॥ 50 ॥ इ॒न्द्रि॒य-मे॒वास्मि॑-न्ने॒तेन॑ दधाति । बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒-मीत्या॑ह । ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैन॑-म॒भिषि॑ञ्चति ॥ सो॒म॒ग्र॒हाग्श्चा॑-वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑ हरन्ति । अ॒मुमे॒व तै-र्लो॒क-मन्न॑वन्त-ङ्करोति । सु॒रा॒ग्र॒हाग्श्चा॑-नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑ । इ॒ममे॒व तै-र्लो॒क-मन्न॑वन्त-ङ्करोति । अथो॑ उ॒भयी᳚ष्वे॒वाभिषि॑च्यते ॥ वि॒मा॒थ-ङ्कु॑र्वते वाज॒सृतः॑ ॥ 51 ॥ इ॒न्द्रि॒यस्याव॑रुद्ध्यै ॥ अनि॑रुक्ताभिः प्रातस्सव॒ने स्तु॑वते । अनि॑रुक्तः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । वाज॑वतीभि॒-र्माद्ध्य॑न्दिने । अन्नं॒-वैँ वाजः॑ । अन्न॑मे॒वा-व॑रुन्धे । शि॒पि॒वि॒ष्टव॑तीभि-स्तृतीयसव॒ने । य॒ज्ञो वै विष्णुः॑ । प॒शव॒-श्शिपिः॑ । य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति ॥ बृ॒हदन्त्य॑-म्भवति । अन्त॑मे॒वैनग्ग्॑ श्रि॒यै ग॑मयति ॥ 52 ॥ अनुवाकं 9 - अतिग्राह्याः, पञ्चैन्द्राः अ॒फ्सु॒षद॑-न्त्वा घृत॒सद॒-मित्या॑ह । अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते । व्यो॒म॒सद॒-मित्या॑ह । य॒दा वै वसी॑या॒-न्भव॑ति । व्यो॑माग॒न्निति॒ वै तमा॑हुः । व्यो॑मै॒वैतेन॑ गच्छति ॥ पृ॒थि॒वि॒षद॑-न्त्वा-ऽन्तरिक्ष॒सद॒-मित्या॑ह । ए॒षामे॒वैतेन॑ लो॒कानाग्ं॑ सूयते । तस्मा᳚-द्वाजपे-यया॒जी न क-ञ्च॒न प्र॒त्यव॑रोहति । अपी॑व॒ हि दे॒वता॑नाग्ं सू॒यते᳚ ॥ 54 ॥ ना॒क॒सद॒-मित्या॑ह । य॒दावै वसी॑या॒-न्भव॑ति । नाक॑मग॒न्निति॒ वै तमा॑हुः । नाक॑मे॒वैतेन॑ गच्छति ॥ ये ग्रहाः᳚ पञ्चज॒नीना॒ इत्या॑ह । प॒ञ्च॒ज॒नाना॑-मे॒वैतेन॑ सूयते ॥ अ॒पाग्ं रस॒मुद्व॑यस॒-मित्या॑ह । अ॒पामे॒वैतेन॒ रस॑स्य सूयते । सूर्य॑रश्मिग्ं स॒माभृ॑त॒-मित्या॑ह सशुक्र॒त्वाय॑ ॥ 55 ॥ अनुवाकं 10 - पिण्डपितृयज्ञः दर्शपूर्णमासब्राह्मणशेषः तमे᳚भ्यः॒ पुन॑रददुः । तस्मा᳚त्-पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते । य-त्पि॒तृभ्यः॑ पूर्वे॒द्युः क॒रोति॑ । पि॒तृभ्य॑ ए॒व त-द्य॒ज्ञ-न्नि॒ष्क्रीय॒ यज॑मानः॒ प्रत॑नुते ॥ सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह । पि॒तुरे॒वाधि॑ सोमपी॒थमव॑ रुन्धे । न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑ । इ॒न्द्रि॒यं-वैँ सो॑मपी॒थः । इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑-रुन्धे । तेन᳚न्द्रि॒येण॑ द्वि॒तीया᳚-ञ्जा॒याम॒भ्य॑श्ञुते ॥ 57 ॥ ए॒त-द्वै ब्राह्म॑ण-म्पु॒रा वा॑जश्रव॒सा वि॒दाम॑क्रन्न् । तस्मा॒-त्ते द्वेद्वे॑ जा॒ये अ॒भ्या᳚क्षत । य ए॒वं-वेँद॑ । अ॒भि द्वि॒तीया᳚-ञ्जा॒याम॑श्ञुते ॥ अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह । य ए॒व पि॑तृ॒णाम॒ग्निः । त-म्प्री॑णाति ॥ ति॒स्र आहु॑ती-र्जुहोति ॥ त्रिर्निद॑धाति ॥ षट्-थ्सम्प॑द्यन्ते ॥ 58 ॥ षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति ॥ तू॒ष्णी-म्मेक्ष॑ण॒-माद॑धाति । अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा᳚ ॥ दे॒वान्. वै पि॒तॄ-न्प्री॒तान् । म॒नु॒ष्याः᳚ पि॒तरो-ऽनु॒ प्रपि॑पते । ति॒स्र आहु॑ती-र्जुहोति । त्रिर्निद॑धाति । षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ ॥ 59 ॥ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तरः॑ । ऋ॒तूने॒व दे॒वा-न्पि॒तॄ-न्प्री॑णाति । तान्प्री॒तान् । म॒नु॒ष्याः᳚ पि॒तरो-ऽनु॒ प्रपि॑पते ॥ स॒कृ॒दा॒च्छि॒न्न-म्ब॒र्॒हि-र्भ॑वति । स॒कृदि॑व॒ हि पि॒तरः॑ ॥ त्रिर्निद॑धाति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति ॥ परां॒आव॑र्तते ॥ 60 ॥ ह्लीका॒ हि पि॒तरः॑ ॥ ऒष्मणो᳚ व्या॒वृत॒ उपा᳚स्ते । ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑ ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्राश्यां(3)न प्राश्या(3)मिति॑ । य-त्प्रा᳚श्ञी॒यात् । जन्य॒मन्न॑मद्यात् । प्र॒मायु॑क-स्स्यात् । यन्न प्रा᳚श्ञी॒यात् । अह॑वि-स्स्यात् ॥ 61 ॥ पि॒तृभ्य॒ आवृ॑श्च्येत । अ॒व॒घ्रेय॑मे॒व । तन्नेव॒ प्राशि॑त॒-न्नेवाप्रा॑शितम् ॥ वी॒रं-वाँ॒ वै पि॒तरः॑ प्र॒यन्तो॒ हर॑न्ति । वी॒रं-वाँ॑ ददति । द॒शा-ञ्छि॑नत्ति । हर॑णभागा॒ हि पि॒तरः॑ । पि॒तॄने॒व नि॒रव॑दयते ॥ उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत । पि॒तृ॒णाग् ह्ये॑तर्हि॒ नेदी॑यः ॥ 62 ॥ नम॑स्करोति । न॒म॒स्का॒रो हि पि॑तृ॒णाम् ॥ नमो॑ वः पितरो॒ रसा॑य । नमो॑ वः पितर॒-श्शुष्मा॑य । नमो॑ वः पितरो जी॒वाय॑ । नमो॑ वः पितर-स्स्व॒धायै᳚ । नमो॑ वः पितरो म॒न्यवे᳚ । नमो॑ वः पितरो घो॒राय॑ । पित॑रो॒ नमो॑ वः । य ए॒तस्मि॑न् ँलो॒के स्थ ॥ 63 ॥ यु॒ष्माग्स्ते-ऽनु॑ । ये᳚-ऽस्मिँल्लो॒के । मा-न्ते नु॑ । य ए॒तस्मि॑ँल्लो॒के स्थ । यू॒य-न्तेषां॒-वँसि॑ष्ठा भूयास्त । ये᳚-ऽस्मिँल्लो॒के । अ॒ह-न्तेषां॒-वँसि॑ष्ठो भूयास॒मित्या॑ह । वसि॑ष्ठ-स्समा॒नाना᳚-म्भवति । य ए॒वं-विँ॒द्वान्-पि॒तृभ्यः॑ क॒रोति॑ ॥ ए॒ष वै म॑नु॒ष्या॑णां-यँ॒ज्ञः ॥ 64 ॥ दे॒वानां॒-वाँ इत॑रे य॒ज्ञाः । तेन॒ वा ए॒त-त्पि॑तृलो॒के च॑रति ॥ य-त्पि॒तृभ्यः॑ क॒रोति॑ । स ई᳚श्व॒रः प्रमे॑तोः । प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑ । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञेनै॒व स॒ह पुन॒रैति॑ । न प्र॒मायु॑को भवति ॥ पि॒तृ॒लो॒के वा ए॒त-द्यज॑मानश्चरति । य-त्पि॒तृभ्यः॑ क॒रोति॑ । स ई᳚श्व॒र आर्ति॒मार्तोः᳚ । प्र॒जाप॑ति॒-स्त्वावैन॒-न्तत॒ उन्ने॑तुमर्ह॒तीत्या॑हुः । य-त्प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑ । प्र॒जाप॑तिरे॒वैन॒-न्तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥ 65 ॥ (दे॒वा॒सु॒रा अ॒ग्नीषोम॑यो--र् दे॒वा वै यथा॒ दर्शं॑ - दे॒वा वै यद॒न्यै-र्ग्रहै᳚--र् ब्रह्मवा॒दिनो॒ नाग्नि॑ष्टो॒मो न - सा॑वि॒त्रं - दे॒वस्या॒हं - ता॒र्प्यग्ं - स॒प्तान्न॑हो॒मान् - नृ॒षदं॒ - त्वेन्द्रो॑ वृ॒त्रग्ं ह॒त्वा दश॑) (दे॒वा॒सु॒रा - वा॒ज्ये॑वैनं॒ - तस्मा᳚-द्वाजपेयया॒जी - दे॒वस्या॒हं - ँवाज॒स्याव॑रुद्ध्या- इन्द्रि॒यमे॒वास्मि॒न्॒. - ह्लीका॒ हि पि॒तरः॒ पञ्च॑षष्टिः) (दे॒वा॒सु॒रा - यज॑मानः) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके तृतीयः प्रपाठक-स्समाप्तः ॥
|