कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके प्रथमः प्रपाठकः - नक्षत्रेष्टीनां-याँज्या-ऽनुवाक्या ब्राह्मणानि
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1 - देवनक्षत्राणां-याँज्यानुवाक्याः
अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्र-न्दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां-विँचक्ष॒णम् । ह॒विरा॒स-ञ्जु॑होतन ॥ यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ ।
स कृत्ति॑काभिर॒भि सं॒वँसा॑नः । अ॒ग्निर्नो॑ दे॒व-स्सु॑वि॒ते द॑धातु ॥ प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚ ।
वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ॥ 1 ॥
सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒-स्सवी॑राः ॥ रो॒हि॒णी दे॒व्युद॑गा-त्पु॒रस्ता᳚त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒-मुप॑यातु य॒ज्ञम् ॥ सोमो॒ राजा॑ मृगशी॒र॒.षेण॒ आगन्न्॑ । शि॒व-न्नक्ष॑त्र-म्प्रि॒यम॑स्य॒ धाम॑ ।
आ॒प्याय॑मानो बहु॒धा जने॑षु ।
रेतः॑ प्र॒जां-यँज॑माने दधातु ॥ 2 ॥
य-त्ते॒ नक्ष॑त्र-म्मृगशी॒र॒.षमस्ति॑ ।
प्रि॒यग्ं रा॑ज-न्प्रि॒यत॑म-म्प्रि॒याणा᳚म् ।
तस्मै॑ ते सोम ह॒विषा॑ विधेम ।
शन्न॑ एधि द्वि॒पदे॒ श-ञ्चतु॑ष्पदे ॥
आ॒र्द्रया॑ रु॒द्रः प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॒-म्पति॑रघ्नि॒याना᳚म् । नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाग्ं री॑रिष॒-न्मोत वी॒रान् ॥
हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु । आ॒र्द्रा नक्ष॑त्र-ञ्जुषताग्ं ह॒विर्नः॑ ॥ 3 ॥
प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ । अपा॒घशग्ं॑ स-न्नुदता॒मरा॑तिम् ॥ पुन॑र्नो दे॒व्यदि॑ति-स्स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेतां᳚-यँ॒ज्ञम् ।
पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ । पुनः॑ पुनर्वो ह॒विषा॑ यजामः ॥ ए॒वा न दे॒व्यदि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒य-न्दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ॥ 4 ॥
बृह॒स्पतिः॑ प्रथ॒म-ञ्जाय॑मानः । ति॒ष्य॑-न्नक्ष॑त्रम॒भि सम्ब॑भूव । श्रेष्ठो॑ दे॒वाना॒-म्पृत॑नासु जि॒ष्णुः । दिशो-ऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु ॥
ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑द्ध्य॒तो नः॑ । बृह॒स्पति॑ र्नः॒ परि॑पातु प॒श्चात् । बाधे॑ता॒-न्द्वेषो॒ अभ॑य-ङ्कृणुताम् । सु॒वीर्य॑स्य॒ पत॑य-स्स्याम ॥
इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् ।
आ॒श्रे॒षा येषा॑-मनु॒यन्ति॒ चेतः॑ ॥ 5 ॥
ये अ॒न्तरि॑क्ष-म्पृथि॒वी-ङ्क्षि॒यन्ति॑ । तेन॑-स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ॥ ये रो॑च॒ने सूर्य॒स्यापि॑
स॒र्पाः । ये दिव॑-न्दे॒वीमनु॑ स॒ञ्चर॑न्ति ।
येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म् ।
तेभ्य॑-स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ॥
उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवस-स्सु॒कृत॑-स्सुकृ॒त्याः । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑ र्य॒ज्ञ-म्प्रय॑त-ञ्जुषन्ताम् ॥ 6 ॥
ये अ॑ग्निद॒ग्धा ये-ऽन॑ग्नि-दग्धाः । ये॑-ऽमुं-लोँ॒क-म्पि॒तरः॑, क्षि॒यन्ति॑ । याग्श्च॑ वि॒द्मयाग्ं उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञग्ं सुकृ॑त-ञ्जुषन्ताम् ॥
गवा॒-म्पतिः॒ फल्गु॑नीनामसि॒ त्वम् । तद॑र्यमन् वरुण मित्र॒ चारु॑ । त-न्त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ संविँ॑शेम ॥
येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता ।
यस्य॑ दे॒वा अ॑नु सं॒यँन्ति॒ चेतः॑ ॥ 7 ॥
अ॒र्य॒मा राजा॒-ऽजर॒स्तुवि॑ष्मान् । फल्गु॑नीना-मृष॒भो रो॑रवीति ॥ श्रेष्ठो॑ दे॒वाना᳚-म्भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒स्तस्य॑ वित्तात् । अ॒स्मभ्य॑-ङ्क्ष॒त्रम॒जरग्ं॑ सु॒वीर्य᳚म् । गोम॒दश्व॑-व॒दुप॒-सन्नु॑दे॒ह ॥ भगो॑ ह दा॒ता भग॒ इ-त्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒रावि॑वेश । भग॒स्येत्त-म्प्र॑स॒व-ङ्ग॑मेम । यत्र॑ दे॒वै-स्स॑ध॒माद॑-म्मदेम ॥ 8 ॥
आया॑तु दे॒व-स्स॑वि॒तोप॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न्॒. हस्तग्ं॑ सु॒भगं॑-विँद्म॒नाप॑सम् । प्र॒यच्छ॑न्त॒-म्पपु॑रि॒-म्पुण्य॒मच्छ॑ ॥
हस्तः॒ प्रय॑च्छ त्व॒मृतं॒-वँसी॑यः ।
दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।
दा॒तार॑म॒द्य स॑वि॒ता वि॑देय ।
यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ॥
त्वष्टा॒ नक्ष॑त्रम॒भ्ये॑ति चि॒त्राम् ।
सु॒भग्ं स॑सं-युँव॒तिग्ं रोच॑मानाम् ॥ 9 ॥
नि॒वे॒शय॑-न्न॒मृता॒-न्मर्त्याग्॑श्च ।
रू॒पाणि॑ पि॒ग्ं॒श-न्भुव॑नानि॒ विश्वा᳚ ॥
तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् ।
तन्नक्ष॑त्र-म्भूरि॒दा अ॑स्तु॒ मह्य᳚म् ।
तन्नः॑ प्र॒जां-वीँ॒रव॑तीग्ं सनोतु ।
गोभि॑र्नो॒ अश्वै॒-स्सम॑नक्तु य॒ज्ञम् ॥
वा॒युर्नक्ष॑त्र-म॒भ्ये॑ति॒ निष्ट्या᳚म् ।
ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः ।
स॒मी॒रय॒-न्भुव॑ना मात॒रिश्वा᳚ ।
अप॒ द्वेषाग्ं॑सि नुदता॒मरा॑तीः ॥ 10 ॥
तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ शृणोतु ।
तन्नक्ष॑त्र-म्भूरि॒दा अ॑स्तु॒ मह्य᳚म् ।
तन्नो॑ दे॒वासो॒ अनु॑ जानन्तु॒ काम᳚म् । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ॥ दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुता॒-न्त-द्विशा॑खे ।
तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चा-त्पु॒रस्ता॒-दभ॑यन्नो अस्तु ॥ नक्ष॑त्राणा॒-मधि॑पत्नी॒ विशा॑खे ।
श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ॥ 11 ॥
विषू॑च॒-श्शत्रू॑-नप॒बाध॑मानौ । अप॒ क्षुध॑-न्नुदता॒मरा॑तिम् ॥ पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् । उन्म॑द्ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय ।
तस्या᳚-न्दे॒वा अधि॑ सं॒वँस॑न्तः ।
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ॥
पृ॒थ्वी सु॒वर्चा॑ युव॒ति-स्स॒जोषाः᳚ । पौ॒र्ण॒मा॒स्युद॑गा॒-च्छोभ॑माना ।
आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚ ।
उ॒रु-न्दुहां॒-यँज॑मानाय य॒ज्ञम् ॥ 12 ॥
(चि॒त्रभा॑नु॒-र् यज॑माने दधातु - ह॒विर्नः॒ - पाथ॒ - श्चेतो॑ - जुषन्तां॒ - चेतो॑ - मदेम॒ - रोच॑माना॒ - मरा॑ती--र् गो॒पौ - य॒ज्ञं) (अ. 1)
अनुवाकं 2 - यमनक्षत्राणां-याँज्यानुवाक्याः
ऋ॒द्ध्यास्म॑ ह॒व्यै-र्नम॑सोप॒ सद्य॑ ।
मि॒त्र-न्दे॒व-म्मि॑त्र॒धेय॑न्नो अस्तु । अ॒नू॒रा॒धान्. ह॒विषा॑ व॒र्धय॑न्तः । श॒त-ञ्जी॑वेम श॒रद॒-स्सवी॑राः ॥ चि॒त्र-न्नक्ष॑त्र॒-मुद॑गा-त्पु॒रस्ता᳚त् । अ॒नू॒रा॒धास॒ इति॒ य-द्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑ र्देव॒यानैः᳚ । हि॒र॒ण्ययै॒ र्वित॑तै-र॒न्तरि॑क्षे ॥
इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं-वृँ॑त्र॒ तूर्ये॑ त॒तार॑ ॥ 13 ॥
तस्मि॑न् व॒यम॒मृत॒-न्दुहा॑नाः । क्षुध॑-न्तरेम॒ दुरि॑ति॒-न्दुरि॑ष्टिम् ॥ पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।
इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒-द्दुहा॑ना ।
उ॒रु-ङ्कृ॑णोतु॒ यज॑मानाय लो॒कम् ॥
मूल॑-म्प्र॒जां-वीँ॒रव॑तीं-विँदेय । परा᳚च्येतु॒ निर्-ऋ॑तिः परा॒चा । गोभि॒ र्नक्ष॑त्र-म्प॒शुभि॒-स्सम॑क्तम् । अह॑र्भूया॒-द्यज॑मानाय॒ मह्य᳚म् ॥ 14 ॥
अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूल॒-न्नक्ष॑त्र॒मिति॒ य-द्वद॑न्ति । परा॑चीं-वाँ॒चा निर्-ऋ॑ति-न्नुदामि ।
शि॒व-म्प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य᳚म् ॥
या दि॒व्या आपः॒ पय॑सा स-म्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒
काम᳚म् । ता न॒ आप॒-श्शग्ग् स्यो॒ना भ॑वन्तु ॥
याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚-स्समु॒द्रियाः᳚ ।
याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ॥ 15 ॥
यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आप॒-श्शग्ग् स्यो॒ना भ॑वन्तु ॥ तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भि संयँ॑न्तु य॒ज्ञम् ।
तन्नक्ष॑त्र-म्प्रथता-म्प॒शुभ्यः॑ ।
कृ॒षि-र्वृ॒ष्टि-र्यज॑मानाय कल्पताम् ॥
शु॒भ्राः क॒न्या॑ युव॒तय॑-स्सु॒पेश॑सः । क॒र्म॒कृत॑-स्सु॒कृतो॑ वी॒र्या॑वतीः ।
विश्वा᳚-न्दे॒वान्. ह॒विषा॑ व॒र्धय॑न्तीः ।
अ॒षा॒ढाः काम॒मुप॑यान्तु य॒ज्ञम् ॥ 16 ॥
यस्मि॒-न्ब्रह्मा॒-ऽभ्यज॑य॒-थ्सर्व॑मे॒तत् ।
अ॒मुञ्च॑ लो॒क मि॒दमू॑च॒ सर्व᳚म् ।
तन्नो॒ नक्ष॑त्रमभि॒जि-द्वि॒जित्य॑ । श्रिय॑-न्दधा॒-त्वहृ॑णीयमानम् ॥ उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्रमभि॒जि-द्विच॑ष्टाम् ।
तस्मि॑न् व॒य-म्पृत॑ना॒-स्स-ञ्ज॑येम ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म् ॥
शृ॒ण्वन्ति॑ श्रो॒णा-म॒मृत॑स्य गो॒पाम् ।
पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ॥ 17 ॥
म॒ही-न्दे॒वीं-विँष्णु॑पत्नी-मजू॒र्याम् । प्र॒तीची॑मेनाग्ं ह॒विषा॑ यजामः ॥
त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे ।
म॒ही-न्दिव॑-म्पृथि॒वी-म॒न्तरि॑क्षम् ।
तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना ।
पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥
अ॒ष्टौ दे॒वा वस॑व-स्सो॒म्यासः॑ ।
चत॑स्रो दे॒वी र॒जरा॒-श्श्रवि॑ष्ठाः ।
ते य॒ज्ञ-म्पा᳚न्तु॒ रज॑सः प॒रस्ता᳚त् ।
सं॒वँ॒थ्स॒रीण॑-म॒मृतग्ग्॑ स्व॒स्ति ॥ 18 ॥
य॒ज्ञ-न्नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त् । द॒क्षि॒ण॒तो॑-ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒-न्नक्ष॑त्रम॒भि संविँ॑शाम । मा नो॒ अरा॑ति-र॒घश॒ग्ं॒सा गन्न्॑ ॥
क्ष॒त्रस्य॒ राजा॒ वरु॑णो-ऽधिरा॒जः । नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग् वसि॑ष्ठः । तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑ । श॒तग्ं स॒हस्रा॑ भेष॒जानि॑ धत्तः ॥
य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भि संयँ॑न्तु दे॒वाः ॥ 19 ॥
तन्नो॒ नक्ष॑त्रग्ं श॒तभि॑षग् जुषा॒णम् । दी॒र्घमायुः॒ प्रति॑र-द्भेष॒जानि॑ ॥ अ॒ज एक॑पा॒दुद॑गा-त्पु॒रस्ता᳚त् । विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः । तस्य॑ दे॒वाः प्र॑स॒वं-यँ॑न्ति॒ सर्वे᳚ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ॥
वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः । आ-ऽन्तरि॑क्ष-मरुह॒द-ग॒न्द्याम् । तग्ं सूर्य॑-न्दे॒व-म॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥ 20 ॥
अहि॑-र्बु॒द्ध्नियः॒ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । त-म्ब्रा᳚ह्म॒णा-स्सो॑म॒पा-स्सो॒म्यासः॑ ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒भि र॑क्षन्ति॒ सर्वे᳚ ॥
च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः ।
प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्. वद॑न्ति ।
ते बु॒द्धनिय॑-म्परि॒षद्यग्ग्॑ स्तु॒वन्तः॑ ।
अहिग्ं॑ रक्षन्ति॒ नम॑सोप॒सद्य॑ ॥
पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ॥ 21 ॥
इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा ।
सु॒गैर्नो॒ यानै॒रुप॑यातां-यँ॒ज्ञम् ॥
क्षु॒द्रा-न्प॒शू-न्र॑क्षतु रे॒वती॑ नः ।
गावो॑ नो॒ अश्वा॒ग्ं॒ अन्वे॑तु पू॒षा ।
अन्न॒ग्ं॒ रक्ष॑न्तौ बहु॒धा विरू॑पम् ।
वाजग्ं॑ सनुतां॒-यँज॑मानाय य॒ज्ञम् ॥
तद॒श्विना॑-वश्व॒युजोप॑याताम् ।
शुभ॒-ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।
स्व-न्नक्ष॑त्रग्ं ह॒विषा॒ यज॑न्तौ ।
मद्ध्वा॒ सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ॥ 22 ॥
यौ दे॒वाना᳚-म्भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ता-व॒मृत॑स्य गो॒पौ । तौ नक्ष॑त्र-ञ्जुजुषा॒णो-प॑याताम् । नमो॒-ऽश्विभ्या᳚-ङ्कृणुमो-ऽश्व॒युग्भ्या᳚म् ॥
अप॑ पा॒प्मान॒-म्भर॑णीर्भरन्तु । त-द्य॒मो राजा॒ भग॑वा॒न्॒. विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान्. हि । सु॒ग-न्नः॒ पन्था॒मभ॑य-ङ्कृणोतु ॥
यस्मि॒-न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑-न्नेनम॒भ्यषि॑चन्न्त दे॒वाः ।
तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ।
अप॑ पा॒प्मान॒-म्भर॑णी-र्भरन्तु ॥
नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒-विँश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती । स॒ह॒स्र॒पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा संविँदा॒ना ॥ यत्ते॑ दे॒वा अद॑धु-र्भाग॒धेय॒ममा॑वास्ये सं॒वँस॑न्तो महि॒त्वा । सानो॑ य॒ज्ञ-म्पि॑पृहि विश्ववारे र॒यि-न्नो॑ धेहि सुभगे सु॒वीर᳚म् ॥ ॥ 23 ॥
(त॒तार॒ - मह्यं॑ - प्रास॒चीर्या - या᳚न्तु य॒ज्ञं - ँवाचग्ग्॑ - स्व॒स्ति - दे॒वा-अनु॑ यन्ति॒ सर्वे॒-वाज॑बस्त्यौ॒-सम॑क्तौ-दे॒वा स्त्रीणि॑ च) (अ. 2)
अनुवाकं 3 - चान्द्रमसादीनां सप्तनामिष्टीनां-याँज्यानुवाक्याः
नवो॑नवो भवति॒ जाय॑मा॒नो-ऽह्ना᳚-ङ्के॒तुरु॒षसा॑ मे॒त्यग्रे᳚ । भा॒ग-न्दे॒वेभ्यो॒ विद॑धात्या॒य-न्प्रच॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑ ॥ यमा॑दि॒त्या
अ॒ग्ं॒शुमा᳚प्या॒यय॑न्ति यमा॑दि॒त्या अ॒ग्ं॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥॥ ये विरू॑पे॒ सम॑नसा सं॒व्यँय॑न्ती । स॒मा॒न-न्तन्तु॑-म्परि तात॒नाते᳚ । वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे ।
ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मेतम् ॥
व॒य-न्दे॒वी ब्रह्म॑णा संविँदा॒नाः ।
सु॒रत्ना॑सो दे॒ववी॑ति॒-न्दधा॑नाः ।
अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः ।
अति॑ पा॒प्मान॒-मति॑मुक्त्या गमेम ॥ प्रत्यु॑वदृश्याय॒ती ॥ 24 ॥
व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः । अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा ॥ तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ । उदु॒स्त्रिया᳚-स्सचते॒ सूर्यः॑ । स चा॑ उ॒द्यन्नक्ष॑त्र-मर्चि॒मत् । तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च ॥
स-म्भ॒क्तेन॑ गमेमहि । तन्नो॒ नक्ष॑त्र-मर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्चर॑त् । उप॑ य॒ज्ञ-मि॒हाग॑मत् ॥ 25 ॥
प्र नक्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दुग्ं॑ हवामहे ।
स न॑-स्सवि॒ता सु॑व-थ्स॒निम् । पु॒ष्टि॒दां-वीँ॒रव॑त्तमम् ॥ उदु॒ त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥ चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑क॒-ञ्चक्षु॑-र्मि॒त्रस्य॒ वरु॑णस्या॒-ऽग्नेः । आ-ऽ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ग्ं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥॥
अदि॑तिर्न उरुष्य॒त्वदि॑ति॒-श्शर्म॑ यच्छतु । अदि॑तिः पा॒त्वग्ं ह॑सः ॥ म॒हीमू॒षु मा॒तरग्ं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीग्ं सु॒शर्मा॑ण॒मदि॑तिग्ं सु॒प्रणी॑तिम् ॥ ॥
इ॒दं-विँष्णु॒-र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम् । स मू॑ढमस्य पाग्ं सु॒रे ॥ प्रत-द्विष्णु॑-स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ ॥
अ॒ग्निर्मू॒र्धा दि॒वः क॒कु-त्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाग्ं रेताग्ं॑सि जिन्वति ॥ भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒-स्सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धान॑-न्दधिषे सुव॒र्॒षा-ञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ॥ ॥
अनु॑ नो॒-ऽद्या-ऽनु॑मति-र्य॒ज्ञ-न्दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑ता-न्दा॒शुषे॒ मयः॑ ॥ अन्विद॑नुमते॒ त्व-म्मन्या॑सै॒ शञ्च॑नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूग्ं॑षि तारिषः ॥ ॥
ह॒व्य॒वाह॑-मभिमाति॒षा-ऽह᳚म् । र॒क्षो॒हण॒-म्पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्त॒-न्दीद्य॑त॒-म्पुर॑न्धिम् । अ॒ग्निग्ग् स्वि॑ष्ट॒कृत॒मा हु॑वेम ॥ स्वि॑ष्टमग्ने अ॒भि त-त्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रु-न्नः॒ पन्था᳚-म्प्रदि॒शन्वि भा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑-न्न॒ आयुः॑ ॥ ॥ 26 ॥
(आ॒य॒त्य॑ - गम॒थ् - स्वि॑ष्टम्) (अ. 3)
अनुवाकं 4 - देव नक्षत्रेष्टिब्राह्मणम्
अ॒ग्निर्वा अ॑कामयत । अ॒न्ना॒दो दे॒वानाग्॑ स्या॒मिति॑ ।
स ए॒तम॒ग्नये॒ कृत्ति॑काभ्यः पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् । ततो॒ वै सो᳚-ऽन्ना॒दो दे॒वाना॑मभवत् । अ॒ग्निर्वै दे॒वाना॑मन्ना॒दः ॥
यथा॑ ह॒ वा अ॒ग्नि-र्दे॒वना॑-मन्ना॒दः ।
ए॒वग्ं ह॒ वा ए॒ष म॑नु॒ष्या॑णा-म्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ ॥ सो-ऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒-स्स्वाहा᳚ । अ॒म्बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा᳚ । नि॒त॒त्न्यै स्वाहा॒ ऽभ्रय॑न्त्यै॒ स्वाहा᳚ । मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र॒.षय॑न्त्यै॒ स्वाहा᳚ । चु॒पु॒णीका॑यै॒ स्वाहेति॑ ॥ 27 ॥
प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता अ॑स्मा-थ्सृ॒ष्टाः परा॑चीरायन्न् । तासाग्ं॑ रोहि॒णी-म॒भ्य॑द्ध्यायत् । सो॑-ऽकामयत । उप॒ मा-ऽऽव॑र्तेत । समे॑नया गच्छे॒येति॑ । स ए॒त-म्प्र॒जाप॑तये रोहि॒ण्यै च॒रु-न्निर॑वपत् । ततो॒ वै सा तमु॒पाव॑र्तत । समे॑नया ऽगच्छत ॥ उप॑ ह॒ वा ए॑न-म्प्रि॒यमाव॑र्तते ।
स-म्प्रि॒येण॑ गच्छते । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ ॥ सो-ऽत्र॑ जुहोति ।
प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ ।
रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्य॒-स्स्वाहेति॑ ॥ 28 ॥
सोमो॒ वा अ॑कामयत । ओष॑धीनाग्ं रा॒ज्य-म॒भिज॑येय॒मिति॑ । स ए॒तग्ं सोमा॑य मृगशी॒र॒.षाय॑ श्यामा॒क-ञ्च॒रु-म्पय॑सि॒ निर॑वपत् । ततो॒ वै स ओष॑धीनाग्ं
रा॒ज्यम॒भ्य॑जयत् । स॒मा॒नानाग्ं॑ ह॒ वै रा॒ज्यम॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
सोमा॑य॒ स्वाहा॑ मृगशी॒र॒.षाय॒ स्वाहा᳚ ।
इ॒न्व॒काभ्य॒-स्स्वाहौष॑धीभ्य॒-स्स्वाहा᳚ ।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ 29 ॥
रु॒द्रो वा अ॑कामयत । प॒शु॒मान्-थ्स्या॒मिति॑ ।
स ए॒तग्ं रु॒द्राया॒र्द्रायै॒ प्रैय॑ङ्गव-ञ्च॒रु-म्पय॑सि॒ निर॑वपत् । ततो॒ वै स प॑शु॒मान॑भवत् । प॒शु॒मान्. ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । रु॒द्राय॒ स्वाहा॒ ऽऽर्द्रायै॒ स्वाहा᳚ । पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒-स्स्वाहेति॑ ॥ 30 ॥
ऋ॒क्षा वा इ॒यम॑लो॒मका॑-ऽऽसीत् । सा-ऽका॑मयत ।
ओष॑धीभि॒-र्वन॒स्पति॑भिः॒ प्रजा॑ये॒येति॑ ।
सैतमदि॑त्यै॒ पुन॑र्वसुभ्या-ञ्च॒रु-न्निर॑वपत् ।
ततो॒ वा इ॒यमोष॑धीभि॒-र्वन॒स्पति॑भिः॒ प्राजा॑यत ।
प्रजा॑यते ह॒ वै प्र॒जया॑ प॒शुभिः॑ । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ ।
सो-ऽत्र॑ जुहोति । अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम् ।
स्वाहा-ऽऽभू᳚त्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहेति॑ ॥ 31 ॥
बृह॒स्पति॒र्वा अ॑कामयत । ब्र॒ह्म॒व॒र्च॒सी स्या॒मिति॑ ।
स ए॒त-म्बृह॒स्पत॑ये ति॒ष्या॑य नैवा॒र-ञ्च॒रु-म्पय॑सि॒ निर॑वपत् । ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भवत् । ब्र॒ह्म॒व॒र्च॒सी ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहेति॑ ॥ 32 ॥
दे॒वा॒सु॒रा-स्संयँ॑त्ता आसन्न् । ते दे॒वा-स्स॒र्पेभ्य॑ आश्रे॒षाभ्य॒ आज्ये॑ कर॒म्भ-न्निर॑वपन्न् ।
ताने॒ताभि॑रे॒व दे॒वता॑-भि॒रुपा॑नयन्न् ।
ए॒ताभि॑र्ह॒ वै दे॒वता॑भि-र्द्वि॒षन्त॒-म्भ्रातृ॑व्य॒-मुप॑नयति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
स॒र्पेभ्य॒-स्स्वाहा᳚-ऽऽश्रे॒षाभ्य॒-स्स्वाहा᳚ । द॒न्द॒शूके᳚भ्य॒-स्स्वाहेति॑ ॥ 33 ॥
पि॒तरो॒ वा अ॑कामयन्त । पि॒तृ॒लो॒क ऋ॑द्ध्नुया॒मेति॑ ।
त ए॒त-म्पि॒तृभ्यो॑ म॒घाभ्यः॑ पुरो॒डाश॒ग्ं॒ षट्क॑पाल॒-न्निर॑वपन्न् । ततो॒ वै ते पि॑तृलो॒क आ᳚र्ध्नुवन्न् । पि॒तृ॒लो॒के ह॒ वा ऋ॑ध्नोति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । पि॒तृभ्य॒-स्स्वाहा॑ म॒घाभ्यः॑ ।
स्वाहा॑ ऽन॒घाभ्य॒-स्स्वाहा॑ ऽग॒दाभ्यः॑ ।
स्वाहा॑ ऽरुन्ध॒तीभ्य॒-स्स्वाहेति॑ ॥ 34 ॥
अ॒र्य॒मा वा अ॑कामयत । प॒शु॒मान्-थ्स्या॒मिति॑ ।
स ए॒तम॑र्य॒म्णे फल्गु॑नीभ्या-ञ्च॒रु-न्निर॑वपत् ।
ततो॒ वै स प॑शु॒मान॑भवत् ।
प॒शु॒मान्. ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ग्॒ स्वाहा᳚ ।
प॒शुभ्य॒-स्स्वाहेति॑ ॥ 35 ॥
भगो॒ वा अ॑कामयत । भ॒गी श्रे॒ष्ठी दे॒वानाग्॑ स्या॒मिति॑ । स ए॒त-म्भगा॑य॒ फल्गु॑नीभ्या-ञ्च॒रु-न्निर॑वपत् । ततो॒ वै स भ॒गी श्रे॒ष्ठी दे॒वाना॑मभवत् ।
भ॒गी ह॒ वै श्रे॒ष्ठी स॑मा॒नाना᳚-म्भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ग्॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहेति॑ ॥ 36 ॥
स॒वि॒ता वा अ॑कामयत । श्रन्मे॑ दे॒वा दधी॑रन्न् । स॒वि॒ता स्या॒मिति॑ । स ए॒तग्ं स॑वि॒त्रे हस्ता॑य पुरो॒डाश॒-न्द्वाद॑शकपाल॒-न्निर॑वपदाशू॒नां
ँव्री॑ही॒णाम् । ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑धत । स॒वि॒ता-ऽभ॑वत् । श्रद्ध॒ वा अ॑स्मै मनु॒ष्या॑ दधते । स॒वि॒ता स॑मा॒नाना᳚-म्भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
स॒वि॒त्रे स्वाहा॒ हस्ता॑य । स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते । स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहेति॑ ॥ 37 ॥
त्वष्टा॒ वा अ॑कामयत । चि॒त्र-म्प्र॒जां-विँ॑न्दे॒येति॑ ।
स ए॒त-न्त्वष्ट्रे॑ चि॒त्रायै॑ पुरो॒डाश॑म॒ष्टा-क॑पाल॒-न्निर॑वपत् । ततो॒ वै स चि॒त्र-म्प्र॒जाम॑विन्दत । चि॒त्रग्ं ह॒ वै प्र॒जां-विँ॑न्दते ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ ।
चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहेति॑ ॥ 38 ॥
वा॒युर्वा अ॑कामयत । का॒म॒चार॑मे॒षु लो॒केष्व॒भिज॑येय॒मिति॑ । स ए॒त-द्वा॒यवे॒ निष्ट्या॑यै गृ॒ष्ट्यै दु॒ग्ध-म्पयो॒ निर॑वपत् ।
ततो॒ वै स का॑म॒चार॑मे॒षु लो॒केष्व॒भ्य॑जयत् ।
का॒म॒चारग्ं॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ ।
का॒म॒चारा॑य॒ स्वाहा॒-ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ 39 ॥
इ॒न्द्रा॒ग्नी वा अ॑कामयेताम् । श्रैष्ठ्य॑-न्दे॒वाना॑-म॒भिज॑ये॒वेति॑ । तावे॒तमि॑न्द्रा॒ग्निभ्यां॒-विँशा॑खाभ्या-म्पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर॑वपताम् । ततो॒ वै तौ श्रैष्ठ्य॑-न्दे॒वाना॑-म॒भ्य॑जयताम् । श्रैष्ठ्यग्ं॑ ह॒ वै स॑मा॒नाना॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
इ॒न्द्रा॒ग्निभ्या॒ग्॒ स्वाहा॒ विशा॑खाभ्या॒ग्॒ स्वाहा᳚ ।
श्रैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ 40 ॥
अथै॒तत्-पौ᳚र्णमा॒स्या आज्य॒-न्निर्व॑पति । कामो॒ वै पौ᳚र्णमा॒सी । काम॒ आज्य᳚म् । कामे॑नै॒व काम॒ग्ं॒ सम॑र्धयति । क्षि॒प्रमे॑न॒ग्ं॒ स काम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सो-ऽत्र॑ जुहोति ।
पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा-ऽऽग॑त्यै॒ स्वाहेति॑ ॥ 41 ॥
अनुवाकं 5 - यमनक्षत्रेष्टिब्राह्मणम्
मि॒त्रो वा अ॑कामयत । मि॒त्र॒धेय॑मे॒षु लो॒केष्व॒भि ज॑येय॒मिति॑ । स ए॒त-म्मि॒त्राया॑नूरा॒धेभ्य॑श्च॒रु-न्निर॑वपत् । ततो॒ वै स मि॑त्र॒धेय॑मे॒षु लो॒केष्व॒भ्य॑जयत् । मि॒त्र॒धेयग्ं॑ ह॒ वा ए॒षु लो॒केष्व॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
मि॒त्राय॒ स्वाहा॑ ऽनूरा॒धेभ्य॒-स्स्वाहा᳚ ।
मि॒त्र॒धेया॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ 42 ॥
इन्द्रो॒ वा अ॑कामयत । ज्यैष्ठ्य॑-न्दे॒वाना॑-म॒भिज॑येय॒मिति॑ । स ए॒तमिन्द्रा॑य ज्ये॒ष्ठायै॑ पुरो॒डाश॒-मेका॑दशकपाल॒-न्निर॑वप-न्म॒हाव्री॑हीणाम् । ततो॒ वै स ज्यैष्ठ्य॑-न्दे॒वाना॑म॒भ्य॑जयत् । ज्यैष्ठ्यग्ं॑ ह॒ वै स॑मा॒नाना॑-म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । इन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ ।
ज्यैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ 43 ॥
प्र॒जाप॑ति॒र्वा अ॑कामयत । मूल॑-म्प्र॒जां-विँ॑न्दे॒येति॑ । स ए॒त-म्प्र॒जाप॑तये॒ मूला॑य च॒रु-न्निर॑वपत् । ततो॒ वै स मूल॑-म्प्र॒जाम॑विन्दत । मूलग्ं॑ ह॒ वै प्र॒जां-विँ॑न्दते । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ । प्र॒जायै॒ स्वाहेति॑ ॥ 44 ॥
आपो॒ वा अ॑कामयन्त । स॒मु॒द्र-ङ्काम॑म॒ भिज॑ये॒मेति॑ । ता ए॒तम॒द्भ्यो॑-ऽषा॒ढाभ्य॑श्च॒रु-न्निर॑वपन्न् । ततो॒ वै ता-स्स॑मु॒द्र-ङ्काम॑म॒भ्य॑जयन्न् । स॒मु॒द्रग्ं ह॒ वै काम॑म॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒द्भ्य-स्स्वाहा॑ ऽषा॒ढाभ्य॒-स्स्वाहा᳚ । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ । अ॒भिजि॑त्यै॒ स्वाहेति॑ ॥ 45 ॥
विश्वे॒ वै दे॒वा अ॑कामयन्त । अ॒न॒प॒ज॒य्य-ञ्ज॑ये॒मेति॑ । त ए॒तं-विँश्वे᳚भ्यो दे॒वेभ्यो॑-ऽषा॒ढाभ्य॑श्च॒रु-न्निर॑वपन्न् ।
ततो॒ वै ते॑-ऽनपज॒य्य-म॑जयन्न् । अ॒न॒प॒ज॒य्यग्ं ह॒ वै ज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
विश्वे᳚भ्यो दे॒वेभ्य॒-स्स्वाहा॑ ऽषा॒ढाभ्य॒-स्स्वाहा᳚ ।
अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहेति॑ ॥ 46 ॥
ब्रह्म॒ वा अ॑कामयत । ब्र॒ह्म॒लो॒कम॒भिज॑येय॒मिति॑ ।
तदे॒त-म्ब्रह्म॑णे-ऽभि॒जिते॑ च॒रु-न्निर॑वपत् ।
ततो॒ वै तद्ब्र॑ह्मलो॒कम॒भ्य॑जयत् । ब्र॒ह्म॒लो॒कग्ं ह॒ वा अ॒भिज॑यति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । ब्रह्म॑णे॒ स्वाहा॑ ऽभि॒जिते॒ स्वाहा᳚ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहेति॑ ॥ 47 ॥
विष्णु॒र्वा अ॑कामयत । पुण्य॒ग्ग्॒ श्लोकग्ं॑ शृण्वीय ।
न मा॑ पा॒पी की॒र्तिराग॑च्छे॒दिति॑ । स ए॒तं-विँष्ण॑वे श्रो॒णायै॑ पुरो॒डाश॑-न्त्रिकपा॒ल-न्निर॑वपत् ।
ततो॒ वै स पुण्य॒ग्ग्॒ श्लोक॑म शृणुत । नैन॑-म्पा॒पी की॒र्तिरा- ग॑च्छत् । पुण्यग्ं॑ ह॒ वै श्लोकग्ं॑ शृणुते । नैन॑-म्पा॒पी की॒र्तिराग॑च्छति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ ।
श्लोका॑य॒ स्वाहा᳚ श्रु॒ताय॒ स्वाहेति॑ ॥ 48 ॥
वस॑वो॒ वा अ॑कामयन्त । अग्र॑-न्दे॒वता॑ना॒-म्परी॑या॒मेति॑ । त ए॒तं-वँसु॑भ्य॒-श्श्रवि॑ष्ठाभ्यः पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर॑वपन्न् ।
ततो॒ वै ते-ऽग्र॑-न्दे॒वता॑ना॒-म्पर्या॑यन्न् ।
अग्रग्ं॑ ह॒ वै स॑मा॒नाना॒-म्पर्ये॑ति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । वसु॑भ्य॒-स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒-स्स्वाहा᳚ । अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहेति॑ ॥ 49 ॥
इन्द्रो॒ वा अ॑कामयत । दृ॒ढो ऽशि॑थिल-स्स्या॒मिति॑ ।
स ए॒तं-वँरु॑णाय श॒तभि॑षजे भेष॒जेभ्यः॑ पुरो॒डाश॒-न्दश॑कपाल॒-न्निर॑वपत्-कृ॒ष्णानां᳚-व्रीँही॒णाम् । ततो॒ वै स दृ॒ढो-ऽशि॑थिलो-ऽभवत् ।
दृ॒ढो ह॒ वा अशि॑थिलो भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚ ।
भे॒ष॒जेभ्य॒-स्स्वाहेति॑ ॥ 50 ॥
अ॒जो वा एक॑पादकामयत । ते॒ज॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ । स ए॒तम॒जायैक॑पदे प्रोष्ठप॒देभ्य॑-श्च॒रु-न्निर॑वपत् । ततो॒ वै स ते॑ज॒स्वी ब्र॑ह्मवर्च॒स्य॑भवत् । ते॒ज॒स्वी ह॒ वै ब्र॑ह्मवर्च॒सी भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒-स्स्वाहा᳚ ।
तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहेति॑ ॥ 51 ॥
अहि॒र्वै बु॒द्ध्नियो॑-ऽकामयत । इ॒मा-म्प्र॑ति॒ष्ठां-विँ॑न्दे॒येति॑ । स ए॒तमह॑ये बु॒द्ध्निया॑य प्रोष्ठप॒देभ्यः॑ पुरो॒डाश॒-म्भूमि॑कपाल॒-न्निर॑वपत् । ततो॒ वै स इ॒मा-म्प्र॑ति॒ष्ठा-म॑विन्दत । इ॒माग्ं ह॒ वै प्र॑ति॒ष्ठां-विँ॑न्दते ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । अह॑ये बु॒द्ध्निया॑य॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒-स्स्वाहा᳚ ।
प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥ 52 ॥
पू॒षा वा अ॑कामयत । प॒शु॒मान्-थ्स्या॒मिति॑ ।
स ए॒त-म्पू॒ष्णे रे॒वत्यै॑ च॒रु-न्निर॑वपत् ।
ततो॒ वै स प॑शु॒मान॑भवत् ।
प॒शु॒मान्. ह॒ वै भ॑वति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ ।
सो-ऽत्र॑ जुहोति । पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ ।
प॒शुभ्य॒-स्स्वाहेति॑ ॥ 53 ॥
अ॒श्विनौ॒ वा अ॑कामयेताम् । श्रो॒त्र॒स्विना॒वब॑धिरौ स्या॒वेति॑ । तावे॒तम॒श्विभ्या॑-मश्व॒युग्भ्या᳚-म्पुरो॒डाश॑-न्द्विकपा॒ल-न्निर॑वपताम् ।
ततो॒ वै तौ श्रो᳚त्र॒स्विना॒वब॑धिरा-वभवताम् ।
श्रो॒त्र॒स्वी ह॒ वा अब॑धिरो भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒श्विभ्या॒ग्॒ स्वाहा᳚-ऽश्व॒युग्भ्या॒ग्॒ स्वाहा᳚ ।
श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहेति॑ ॥ 54 ॥
य॒मो वा अ॑कामयत ।
पि॒तृ॒णाग्ं रा॒ज्य-म॒भिज॑येय॒मिति॑ ।
स ए॒तं-यँ॒माया॑प॒भर॑णीभ्यश्च॒रु-न्निर॑वपत् ।
ततो॒ वै स पि॑तृ॒णाग्ं रा॒ज्यम॒भ्य॑जयत् ।
स॒मा॒नानाग्ं॑ ह॒ वै रा॒ज्यम॒भिज॑यति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
य॒माय॒ स्वाहा॑ ऽप॒भर॑णीभ्य॒-स्स्वाहा᳚ ।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै स्वाहेति॑ ॥ 55 ॥
अथै॒तद॑-मा॒वास्या॑या॒ आज्य॒-न्निर्व॑पति ।
कामो॒ वा अ॑मावा॒स्या᳚ । काम॒ आज्य᳚म् । कामे॑नै॒व काम॒ग्ं॒ सम॑र्धयति । क्षि॒प्रमे॑न॒ग्ं॒ स काम॒ उप॑नमति । येन॒ कामे॑न॒ यज॑ते । सो-ऽत्र॑ जुहोति । अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहेति॑ ॥ 56 ॥
बु॒द्ध्नियः॑ - पु॒षा - ऽश्विनौ॑ - य॒मो दश॑द॒शा - थै॒तद॑ - मावा॒स्या॑या अ॒ष्टौ पञ्च॑दश ) (अ. 5)
अनुवाकं 6 - चान्द्रमसादीष्टिब्राह्मणम्
च॒न्द्रमा॒ वा अ॑कामयत । अ॒हो॒रा॒त्रा-न॑र्धमा॒सा-न्मासा॑-नृ॒तून्थ्- सं॑वँथ्स॒र-मा॒प्त्वा । च॒न्द्रम॑स॒-स्सायु॑ज्यग्ं सलो॒कता॑-माप्नुया॒मिति॑ । स ए॒त-ञ्च॒न्द्रम॑से प्रती॒दृश्या॑यै पुरो॒डाश॒-म्पञ्च॑दशकपाल॒-न्निर॑वपत् ।
ततो॒ वै सो॑-ऽहोरा॒त्रा-न॑र्धमा॒सा-न्मासा॑-नृ॒तून्-थ्सं॑वँथ्स॒र-मा॒प्त्वा ।
च॒न्द्रम॑स॒-स्सायु॑ज्यग्ं सलो॒कता॑माप्नोत् ।
अ॒हो॒रा॒त्रान्. ह॒ वा अ॑र्धमा॒सा-न्मासा॑न्-ऋ॒तून्-थ्सं॑वँथ्स॒र-मा॒प्त्वा । च॒न्द्रम॑स॒-स्सायु॑ज्यग्ं सलो॒कता॑माप्नोति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ ।
अ॒हो॒रा॒त्रेभ्य॒-स्स्वाहा᳚ ऽर्धमा॒सेभ्य॒-स्स्वाहा᳚ ।
मासे᳚भ्य॒-स्स्वाह॒र्तुभ्य॒-स्स्वाहा᳚ । सं॒वँ॒थ्स॒राय॒ स्वाहेति॑ ॥ 57 ॥
अ॒हो॒रा॒त्रे वा अ॑कामयेताम् । अत्य॑होरा॒त्रे मु॑च्येवहि ।
न ना॑वहोरा॒त्रे आ᳚प्नुयाता॒मिति॑ । ते ए॒तम॑हो-रा॒त्राभ्या᳚-ञ्च॒रु-न्निर॑वपताम् । द्व॒यानां᳚-व्रीँही॒णाम् । शु॒क्लाना᳚-ञ्च कृ॒ष्णाना᳚-ञ्च । स॒वा॒त्योर्दु॒ग्धे । श्वे॒तायै॑ च कृ॒ष्णायै॑ च ।
ततो॒ वै ते अत्य॑होरा॒त्रे अ॑मुच्येते ।
नैने॑ अहोरा॒त्रे आ᳚प्नुताम् । अति॑ ह॒ वा अ॑होरा॒त्रे मु॑च्यते । नैन॑महोरा॒त्रे आ᳚प्नुतः । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वंवेँद॑ ।
सो-ऽत्र॑ जुहोति । अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ ।
अति॑मुक्त्यै॒ स्वाहेति॑ ॥ 58 ॥
उ॒षा वा अ॑कामयत । प्रि॒या ऽऽदि॒त्यस्य॑ सु॒भगा᳚ स्या॒मिति॑ । सैतमु॒षसे॑ च॒रु-न्निर॑वपत् ।
ततो॒ वै सा प्रि॒या ऽऽदि॒त्यस्य॑ सु॒भगा॑ ऽभवत् ।
प्रि॒यो ह॒ वै स॑मा॒नानाग्ं॑ सु॒भगो॑ भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ ।
व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚ । व्यु॑ष्टायै॒ स्वाहेति॑ ॥ 59 ॥
अथै॒तस्मै॒ नक्ष॑त्राय च॒रु-न्निर्व॑पति । यथा॒ त्व-न्दे॒वाना॒मसि॑ । ए॒वम॒ह-म्म॑नु॒ष्या॑णा-म्भूयास॒मिति॑ । यथा॑ ह॒ वा ए॒त-द्दे॒वाना᳚म् ।
ए॒वग्ं ह॒ वा ए॒ष म॑नु॒ष्या॑णा-म्भवति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । नक्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ ।
उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा᳚ । हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ ।
तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहेति॑ ॥ 60 ॥
सूर्यो॒ वा अ॑कामयत । नक्ष॑त्राणा-म्प्रति॒ष्ठा स्या॒मिति॑ । स ए॒तग्ं सूर्या॑य॒ नक्ष॑त्रेभ्यश्च॒रु-न्निर॑वपत् ।
ततो॒ वै स नक्ष॑त्राणा-म्प्रति॒ष्ठा ऽभ॑वत् ।
प्र॒ति॒ष्ठा ह॒ वै स॑मा॒नाना᳚-म्भवति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
सूर्या॑य॒ स्वाहा॒ नक्ष॑त्रेभ्य॒-स्स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥ 61 ॥
अथै॒तमदि॑त्यै च॒रु-न्निर्व॑पति । इ॒यं-वाँ अदि॑तिः ।
अ॒स्यामे॒व प्रति॑ तिष्ठति । सो-ऽत्र॑ जुहोति ।
अदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहेति॑ ॥ 62 ॥
अथै॒तं-विँष्ण॑वे च॒रु-न्निर्व॑पति । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति । सो-ऽत्र॑ जुहोति । विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहेति॑ ॥ 63 ॥
(च॒न्द्रमाः॒ पञ्च॑दशा - होरा॒त्रे स॒प्तद॑ - शो॒षा एका॑द॒शा - थै॒तस्मै॒ नक्ष॑त्ताय॒ त्रयो॑दश॒ - सूर्यो॒ दशा - थै॒तमदि॑त्यै॒ पञ्चा - थै॒तं-विँष्ण॑वे॒ षट्-थ्स॒प्त) (अ. 6)
[स॒वि॒ता-ऽऽशू॒नां-व्रीँ॑ही॒णामिन्द्रो॑ म॒हाव्री॑हीणा॒मिन्द्रः॑ कृ॒ष्णानों᳚
ँव्रीही॒णाम॑होरा॒त्रे द्व॒यानां᳚-व्रीँही॒णाम् । पि॒तर॒-ष्षट्क॑पालग्ं सवि॒ता द्वाद॑शकपालमिन्द्रा॒ग्नी एका॑दशकपाल॒मिन्द्र॒ एका॑दशकपाल॒मिन्द्रो॒ दश॑कपालं॒-विँष्णु॑स्त्रिकपा॒लमहि॒-र्भूमि॑कपालम॒श्विनौ᳚ द्विकपा॒ल-ञ्च॒न्द्रमाः॒ पञ्च॑दशकपाल-म॒ग्निरत्वष्टा॒ वस॑वो॒-ऽष्टाक॑पालम॒न्यत्र॑ च॒रुम् । रु॒द्रो᳚-ऽर्य॒मा पू॒षा प॑शु॒मान्-थ्स्या॒ग्ं॒ सोमो॑ रु॒द्रो बृह॒स्पतिः॒ पय॑सि वा॒युः पय॒-स्सोमो॑ वा॒युरि॑न्द्रा॒ग्नी मि॒त्र इन्द्र॒ आपो॒ ब्रह्म॑ य॒मो॑-ऽभिजि॑त्यै॒ त्वष्टा᳚ प्र॒जाप॑तिः प्र॒जायै॑ पौर्णमा॒स्या अ॑मावा॒स्या॑या॒ आग॑त्यै॒ विश्वे॒ जित्या॑
अ॒श्विनौ॒ श्रुत्यै᳚ । ब्रह्म॒ तदे॒तं-विँष्णु॒-स्स ए॒तं-वाँ॒यु-स्स ए॒तदाप॒स्ताः । पि॒तरो॒ विश्वे॒ वस॑वो-ऽकामयन्त॒मेति॒ त ए॒त-न्निर॑वपन्न् । आपो॑-ऽकामयन्त॒ मेति॒ ता ए॒त-न्निर॑वपन्न् । इ॒न्द्रा॒ग्नी अ॒श्विना॑वकामयेतां॒-वेँति॒ तावे॒त-न्निर॑वपदाम् । अ॒हो॒रा॒त्रे वा अ॑कामयेता॒मिति॒ ते ए॒त-न्निर॑वपताम् ।
अ॒न्यत्रा॑कामयत॒मिति॒ स ए॒त-न्निर॑वपत् । इ॒न्द्रा॒ग्नी श्रैष्ठ्य॒मिन्द्रो॒ ज्यैष्ठ्य॒मिन्द्रो॑ दृ॒ढः ।
आहि॒-स्सूर्यो-ऽदि॑त्यै॒ विष्ण॑वे प्रति॒ष्ठायै᳚ ।
सोमो॑ य॒म-स्स॑मा॒नाना᳚म् । अ॒ग्निर्नो॑ रीरिषद॒न्यत्र॑ रीरिषः]
[वि॒दुषो॑ ह॒विषा॒ य उ॑ चैनदे॒वं-वेँद॑ । इष्टि॑भि॒र्य उ॑ चैना ए॒वं-वेँद॑ ।
अ॒न्यत्र॑ ब्राह्म॒णे य उ॑ चैनमे॒वं-वेँद॑ ]
फ्रपातक खोर्वै वि-थ्स्तर्तिन्ग् फदम्स् ऒf 1 तॊ 6 आनुवाकम्स् ः-
(अ॒ग्निर्न॑-ऋ॒द्ध्यास्म॒-नवो॑नवो॒-ऽग्नि-र्मि॒त्र - श्च॒न्द्रमा॒-ष्षट्)
(अ॒ग्निर्न॒ - स्तन्नो॑ वा॒यु - रहि॑र्बू॒द्ध्निय॑ - ऋ॒क्षा वा इ॒य - मथै॒त-त्पौ᳚र्णमा॒स्या - अ॒जो वा एक॑पा॒थ् - सूर्य॒ स्त्रिष॑ष्टिः)
(अ॒ग्निर्नः॑ - पातु प्रति॒ष्ठायै॒ स्वाहेति॑ )
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके प्रथमः प्रपाठक-स्समाप्तः ॥