View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.7 - अच्छिद्रं काण्डं प्रायश्चित्तम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - सर्वान् वा एषोऽग्नौ

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके सप्तमः प्रपाठकः - अच्छिद्र-ङ्काण्ड-म्प्रायश्चित्तम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अच्छिद्र-ङ्काण्ड-म्प्रायश्चित्तेन मन्त्रैश्च यज्ञच्छिद्रपूरणादच्छिद्रमुच्यते

अनुवाकं 1 - दर्​शपूर्णमासेष्टिविषयाणि कानि चित्प्रायश्चित्तानि

सर्वा॒न्॒. वा ए॒षो᳚-ऽग्नौ कामा॒-न्प्रवे॑शयति ।
यो᳚-ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।
स यदनि॑ष्ट्वा प्रया॒यात् । अका॑मप्रीता एन॒-ङ्कामा॒ नानु॒ प्रया॑युः । अ॒ते॒जा अ॑वी॒र्य॑-स्स्यात् ।
स जु॑हुयात् । तुभ्य॒-न्ता अ॑ङ्गिरस्तम ।
विश्वा᳚-स्सुक्षि॒तयः॒ पृथ॑क् ।
अग्ने॒ कामा॑य येमिर॒ इति॑ ।
कामा॑ने॒वास्मि॑-न्दधाति ॥ 1 ॥

काम॑प्रीता एन॒-ङ्कामा॒ अनु॒प्रया᳚न्ति ।
ते॒ज॒स्वी वी॒र्या॑वा-न्भवति ॥
सन्त॑ति॒र्वा ए॒षा य॒ज्ञस्य॑ ।
यो᳚-ऽग्नीन॑न्वा॒धाय॑ व्र॒तमु॒पैति॑ ।
स यदु॒द्वाय॑ति । विच्छि॑त्ति-रे॒वास्य॒ सा ॥
त-म्प्राञ्च॑मु॒द्धृत्य॑ ।
मन॒सोप॑तिष्ठेत । मनो॒ वै प्र॒जाप॑तिः ।
प्रा॒जा॒प॒त्यो य॒ज्ञः ॥ 2 ॥

मन॑सै॒व य॒ज्ञग्ं सन्त॑नोति । भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः । भूति॑मे॒वोपै॑ति ॥
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।
यस्या-हि॑ताग्ने-र॒ग्निर॑प॒क्षाय॑ति । याव॒च्छम्य॑या प्र॒विद्ध्ये᳚त् ।
यदि॒ ताव॑दप॒क्षाये᳚त् । तग्ं सम्भ॑रेत् ।
इ॒द-न्त॒ एक॑-म्प॒र उ॑त॒ एक᳚म् ॥ 3 ॥

तृ॒तीये॑न॒ ज्योति॑षा॒ सं​विँ॑शस्व । सं॒​वेँश॑नस्त॒नुवै॒ चारु॑रेधि ।
प्रि॒ये दे॒वाना᳚-म्पर॒मे ज॒नित्र॒ इति॑ । ब्रह्म॑णै॒वैन॒ग्ं॒ सम्भ॑रति ।
सैव ततः॒ प्राय॑श्चित्तिः । यदि॑ परस्त॒-राम॑प॒क्षाये᳚त् । अ॒नु॒ प्र॒यायाव॑स्येत् ।
सो ए॒व ततः॒ प्राय॑श्चित्तिः ॥
ओष॑धी॒र्वा ए॒तस्य॑ प॒शू-न्पयः॒ प्रवि॑शति ।
यस्य॑ ह॒विषे॑ व॒थ्सा अ॒पाकृ॑ता॒ धय॑न्ति ॥ 4 ॥

तान्. यद्दु॒ह्यात् । या॒तया᳚म्ना ह॒विषा॑ यजेत । यन्न दु॒ह्यात् । य॒ज्ञ॒प॒रु-र॒न्तरि॑यात् । वा॒य॒व्यां᳚-यँवा॒गू-न्निर्व॑पेत् ।
वा॒युर्वै पय॑सः प्रदापयि॒ता । स ए॒वास्मै॒ पयः॒ प्रदा॑पयति । पयो॒ वा ओष॑धयः ।
पयः॒ पयः॑ ।
पय॑सै॒वास्मै॒ पयो-ऽव॑रुन्धे ॥ 5 ॥

अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पा कु॑र्यात् ।
सैव ततः॒ प्राय॑श्चित्तिः ॥ अ॒न्य॒त॒रान्. वा ए॒ष दे॒वा-न्भा॑ग॒धेये॑न॒ व्य॑र्धयति ।
ये यज॑मानस्य सा॒य-ङ्गृ॒हमा॒-गच्छ॑न्ति ।
यस्य॑ साय-न्दु॒ग्धग्ं ह॒विरार्ति॑-मा॒र्च्छति॑ ।
इन्द्रा॑य व्री॒हीन्नि॒-रुप्यो-प॑वसेत् । पयो॒ वा ओष॑धयः । पय॑ ए॒वारभ्य॑ गृही॒त्वो-प॑वसति । यत्प्रा॒त-स्स्यात् । तच्छृ॒त-ङ्कु॑र्यात् ॥ 6 ॥

अथेत॑र ऐ॒न्द्रः पु॑रो॒डाश॑-स्स्यात् ।
इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।
पयो॒ वा ओष॑धयः । पयः॒ पयः॑ । पय॑सै॒वास्मै॒ पयो-ऽव॑रुन्धे ।
अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पा कु॑र्यात् ।
सैव ततः॒ प्राय॑श्चित्तिः ॥ उ॒भया॒न्॒. वा ए॒ष दे॒वा-न्भा॑ग॒धेये॑न॒ व्य॑र्धयति ।
ये यज॑मानस्य सा॒य-ञ्च॑ प्रा॒तश्च॑ गृ॒हमा॒-गच्छ॑न्ति । यस्यो॒भयग्ं॑ ह॒विरार्ति॑-मा॒र्च्छति॑ ॥ 7 ॥

ऐ॒न्द्र-म्पञ्च॑शराव-मोद॒न-न्निर्व॑पेत् ।
अ॒ग्नि-न्दे॒वता॑ना-म्प्रथ॒मं-यँ॑जेत् ।
अ॒ग्निमु॑खा ए॒व दे॒वताः᳚ प्रीणाति ।
अ॒ग्निं-वाँ अन्व॒न्या दे॒वताः᳚ ।
इन्द्र॒मन्व॒न्याः । ता ए॒वोभयीः᳚ प्रीणाति ।
पयो॒ वा ओष॑धयः ।
पयः॒ पयः॑ । पय॑सै॒वास्मै॒ पयो-ऽव॑रुन्धे ।
अथोत्त॑रस्मै ह॒विषे॑ व॒थ्सान॒पा कु॑र्यात् ॥ 8 ॥

सैव ततः॒ प्राय॑श्चित्तिः ॥ अ॒र्धो वा ए॒तस्य॑ य॒ज्ञस्य॑ मीयते ।
यस्य॒ व्रत्ये-ऽह॒-न्पत्न्य॑ना-लम्भु॒का भव॑ति । ताम॑प॒रुद्ध्य॑ यजेत ।
सर्वे॑णै॒व य॒ज्ञेन॑ यजते ।
तामि॒ष्ट्वो-प॑ह्वयेत । अमू॒हम॑स्मि ।
सा त्वम् । द्यौर॒हम् । पृ॒थि॒वी त्वम् । सामा॒हम् । ऋक्त्वम् । तावेहि॒ सम्भ॑वाव । स॒ह रेतो॑ दधावहै । पु॒ग्ं॒से पु॒त्राय॒ वेत्त॑वै ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॒येति॑ ।
अ॒र्ध ए॒वैना॒मु-प॑ह्वयते ।
सैव ततः॒ प्राय॑श्चित्तिः ॥ 9 ॥
(द॒धा॒ति॒ - य॒ज्ञ - उ॑त॒ एकं॒ - धय॑न्ति - रुन्धे - कुर्या - दा॒र्छ - त्य॒पाकु॑र्यात् - पृथि॒वी त्वम॒ष्टौ च॑) (अ. 1)

(सर्वा॒न्॒. वि वै यदि॑ परस्त॒रामोष॑धीरन् यत॒रानु॒भया॑न॒र्धो वै )

अनुवाकं 2 - अग्निहोत्रसाम्नाय्यसाधारणानि प्रायश्चित्तानि
3.7.2.1
यद्वि-ष्ष॑ण्णेन जुहु॒यात् ।
अप्र॑जा अप॒शुर्यज॑मान-स्स्यात् ।
यदना॑यतने नि॒नये᳚त् । अ॒ना॒य॒त॒न-स्स्या᳚त् ।
प्रा॒जा॒प॒त्यय॒र्चा व॑ल्मीक-व॒पाया॒म-व॑नयेत् । प्रा॒जा॒प॒त्यो वै व॒ल्मीकः॑ । य॒ज्ञः प्र॒जाप॑तिः । प्र॒जाप॑तावे॒व य॒ज्ञ-म्प्रति॑ष्ठापयति ।
भूरित्या॑ह । भू॒तो वै प्र॒जाप॑तिः ॥ 10 ॥

भूति॑मे॒वोपै॑ति । त-त्कृ॒त्वा । अ॒न्या-न्दु॒ग्ध्वा पुन॑र्-होत॒व्य᳚म् । सैव ततः॒ प्राय॑श्चित्तिः ॥ यत्की॒टा-व॑पन्नेन जुहु॒यात् ।
अप्र॑जा अप॒शु-र्यज॑मान-स्स्यात् ।
यदना॑यतने नि॒नये᳚त् । अ॒ना॒य॒त॒न-स्स्या᳚त् ।
म॒द्ध्य॒मेन॑ प॒र्णेन॑ द्यावा-पृथि॒व्य॑-य॒र्चा-ऽन्तः॑ परि॒धि निन॑येत् ।
द्यावा॑पृथि॒व्यो-रे॒वैन॒त्-प्रति॑ष्ठापयति ॥ 11 ॥

तत्कृ॒त्वा । अ॒न्या-न्दु॒ग्ध्वा पुन॑र्-होत॒व्य᳚म् । सैव ततः॒ प्राय॑श्चित्तिः ॥ यदव॑वृष्टेन जुहु॒यात् । अप॑रूप-मस्या॒त्म-ञ्जा॑येत ।
कि॒लासो॑ वा॒ स्याद॑र्​श॒सो वा᳚ । य-त्प्रत्ये॒यात् । य॒ज्ञं-विँच्छि॑न्द्यात् । स जु॑हुयात् ।
मि॒त्रो जना᳚न् कल्पयति प्रजा॒नन्न् ॥ 12 ॥

मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीर-नि॑मिषा॒ ऽभिच॑ष्टे ।
स॒त्याय॑ ह॒व्य-ङ्घृ॒तव॑-ज्जुहो॒तेति॑ । मि॒त्रेणै॒वैन॑-त्कल्पयति । तत्कृ॒त्वा । अ॒न्या-न्दु॒ग्ध्वा पुन॑र्​होत॒व्य᳚म् ।
सैव ततः॒ प्राय॑श्चित्तिः ॥
य-त्पूर्व॑स्या॒-माहु॑त्याग्ं हु॒ताया॒-मुत्त॒रा-ऽऽहु॑ति॒-स्स्कन्दे᳚त् ।
द्वि॒पाद्भिः॑ प॒शुभि॒-र्यज॑मानो॒ व्यृ॑॑द्ध्येत ।
यदुत्त॑रया॒ ऽभिजु॑हु॒यात् ॥ 13 ॥

चतु॑ष्पाद्भिः प॒शुभि॒-र्यज॑मानो॒ व्यृ॑द्ध्येत ।
यत्र॒ वेत्थ॑ वनस्पते दे॒वाना॒-ङ्गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गाम॒येति॑ वानस्प॒त्य-य॒र्चा स॒मिध॑-मा॒धाय॑ । तू॒ष्णीमे॒व पुन॑-र्जुहुयात् ।
वन॒स्पति॑नै॒व य॒ज्ञस्यार्ता॒-ञ्चाना᳚र्ता॒-ञ्चाहु॑ती॒ विदा॑धार । तत्कृ॒त्वा । अ॒न्या-न्दु॒ग्ध्वा पुन॑र्-होत॒व्य᳚म् । सैव ततः॒ प्राय॑श्चित्तिः ॥
यत्पु॒रा प्र॑या॒जेभ्यः॒ प्रांअङ्गा॑र॒-स्स्कन्दे᳚त् ।
अ॒द्ध्व॒र्यवे॑ च॒ यज॑मानाय॒ चाकग्ग्॑ स्यात् ॥ 14 ॥

य-द्द॑क्षि॒णा । ब्र॒ह्मणे॑ च॒ यज॑मानाय॒ चाकग्ग्॑ स्यात् । य-त्प्र॒त्यक् ।
होत्रे॑ च॒ पत्नि॑यै च॒ यज॑मानाय॒ चाकग्ग्॑ स्यात् ।
यदुदं॑ । अ॒ग्नीधे॑ च प॒शुभ्य॑श्च॒ यज॑मानाय॒ चाकग्ग्॑ स्यात् । यद॑भिजुहु॒यात् । रु॒द्रो᳚-ऽस्य प॒शू-न्घातु॑क-स्स्यात् ।
यन्नाभि॑ जुहु॒यात् । अशा᳚न्तः॒ प्रह्रि॑येत ॥ 15 ॥

स्रु॒वस्य॒ बुद्ध्ने॑नाभि॒ निद॑द्ध्यात् ।
मा त॑मो॒ मा य॒ज्ञस्त॑म॒न्मा यज॑मान-स्तमत् ।
नम॑स्ते अस्त्वाय॒ते । नमो॑ रुद्र पराय॒ते ।
नमो॒ यत्र॑ नि॒षीद॑सि ।
अ॒मु-म्मा हिग्ं॑सीर॒मु-म्मा हिग्ं॑सी॒रिति॒ येन॒ स्कन्दे᳚त् ॥ त-म्प्रह॑रेत् ।
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दाः । स्तोम॑पृष्ठो घृ॒तवा᳚न्-थ्सु॒प्रती॑कः ।
मा नो॑ हासीन्मेत्थि॒तो (हासीर्मेत्थि॒तो) नेत्त्वा॒ जहा॑म ।
गो॒पो॒ष-न्नो॑ वीरपो॒ष-ञ्च॑ य॒च्छेति॑ ।
ब्रह्म॑णै॒वैन॒-म्प्रह॑रति । सैव ततः॒ प्राय॑श्चित्तिः ॥ 16 ॥
(वै प्र॒जाप॑तिः - स्थापयति - प्रजा॒नन् - न॒भिजु॑हु॒याथ् - स्या᳚-द्- ध्रियेत॒ - जहा॑म॒ त्रिणि॑ च) (अ. 2)

(यद्विस्ष॑ण्णेन प्राजाप॒त्यया॒ य-त्की॒टा म॑द्ध्य॒मेन॒ यदव॑वृष्टेन॒ य-त्पूर्व॑स्यां॒-यँ-त्पु॒रा प्र॑या॒जेभ्य॒ प्रंङ्गा॑रो॒ य-द्द॑क्षि॒णा य-त्प्र॒त्यग्यदुदङ्ङ्॑)

अनुवाकं 3 - मुख्याग्न्यसम्भवे-ऽनुकल्पाः होमाधाराः
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।
यस्या-हि॑ताग्ने-र॒ग्नि-र्म॒थ्यमा॑नो॒ न जाय॑ते । यत्रा॒न्य-म्पश्ये᳚त् । तत॑ आ॒हृत्य॑ होत॒व्य᳚म् ।
अ॒ग्ना-वे॒वास्या᳚-ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥
यद्य॒न्य-न्न वि॒न्देत् । अ॒जायाग्ं॑ होत॒व्य᳚म् । आ॒ग्ने॒यी वा ए॒षा । यद॒जा । अ॒ग्ना-वे॒वास्या᳚-ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ 17 ॥

अ॒जस्य॒ तु नाश्ञी॑यात् । यद॒जस्या᳚-श्ञी॒यात् ।
यामे॒वाग्ना-वाहु॑ति-ञ्जुहु॒यात् । ताम॑द्यात् । तस्मा॑द॒जस्य॒ नाश्य᳚म् ॥ यद्य॒जा-न्न वि॒न्देत् । ब्रा॒ह्म॒णस्य॒ दक्षि॑णे॒ हस्ते॑ होत॒व्य᳚म् ।
ए॒ष वा अ॒ग्नि र्वै᳚श्वान॒रः । यद्ब्रा᳚ह्म॒णः ।
अ॒ग्ना-वे॒वास्या᳚-ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ 18 ॥

ब्रा॒ह्म॒ण-न्तु व॑स॒त्यै॑ नाप॑रुन्ध्यात् । यद्ब्रा᳚ह्म॒णं-वँ॑स॒त्या अ॑परु॒न्ध्यात् ।
यस्मि॑न्ने॒-वाग्नावाहु॑ति-ञ्जुहु॒यात् । त-म्भा॑ग॒धेये॑न॒ व्य॑र्धयेत् ।
तस्मा᳚-द्ब्राह्म॒णो व॑स॒त्यै॑ नाप॒रुद्ध्यः॑ ॥ यदि॑ ब्राह्म॒ण-न्न वि॒न्देत् ।
द॒र्भ॒स्त॒बें हो॑त॒व्य᳚म् ।
अ॒ग्नि॒वान्. वै द॑र्भस्त॒बंः ।
अ॒ग्नावे॒-वास्या᳚-ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ।
द॒र्भाग्​स्तु नाद्ध्या॑सीत ॥ 19 ॥

यद्द॒र्भान॒द्ध्यासी॑त । यामे॒वाग्ना-वाहु॑ति-ञ्जुहु॒यात् । तामद्ध्या॑सीत ।
तस्मा᳚-द्द॒र्भा नाद्ध्या॑सित॒व्याः᳚ ॥
यदि॑ द॒र्भान्न वि॒न्देत् । अ॒फ्सु हो॑त॒व्य᳚म् ।
आपो॒ वै सर्वा॑ दे॒वताः᳚ ।
दे॒वता᳚स्वे॒ वास्या᳚-ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ।
आप॒स्तु न परि॑चक्षीत । यदापः॑ परि॒चक्षी॑त ॥ 20 ॥

या मे॒वाफ्स्वाहु॑ति-ञ्जुहु॒यात् । ता-म्परि॑चक्षीत ।
तस्मा॒दापो॒ न प॑रि॒चक्ष्याः᳚ ॥
मेद्ध्या॑ च॒ वा ए॒तस्या॑मे॒द्ध्या च॑ त॒नुवौ॒ सग्ंसृ॑ज्येते । यस्या-हि॑ताग्ने-र॒न्यैर॒ग्निभि॑-र॒ग्नय॑-स्सग्ंसृ॒ज्यन्ते᳚ । अ॒ग्नये॒ विवि॑चये पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पेत् ।
मेद्ध्या᳚-ञ्चै॒वास्या॑-मे॒द्ध्या-ञ्च॑ त॒नुवौ॒ व्याव॑र्तयति ॥ अ॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पेत् । अ॒ग्निमे॒व व्र॒तप॑ति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒-नोप॑धावति ।
स ए॒वैनं॑-व्रँ॒तमा-ल॑भं​यँति ॥ 21 ॥

गर्भ॒ग्ग्॒ स्रव॑न्तमग॒दम॑कः । अ॒ग्नि-रिन्द्र॒-स्त्वष्टा॒ बृह॒स्पतिः॑ । पृ॒थि॒व्या-मव॑चुश्चो-तै॒तत् । नाभि-प्राप्नो॑ति॒ निर्-ऋ॑ति-म्परा॒चैः ॥
रेतो॒ वा ए॒तद्वाजि॑न॒-माहि॑ताग्नेः । यद॑ग्निहो॒त्रम् । तद्यथ्स्रवे᳚त् ।
रेतो᳚-ऽस्य॒ वाजि॑नग्ग्​ स्रवेत् । गर्भ॒ग्ग्॒ स्रव॑न्तम-ग॒दम॑क॒-रित्या॑ह ।
रेत॑ ए॒वास्मि॒न् वाजि॑न-न्दधाति ॥ 22 ॥

अ॒ग्निरित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । इन्द्र॒ इत्या॑ह । इ॒न्द्रि॒य-मे॒वास्मि॑न्-दधाति । त्वष्टेत्या॑ह । त्वष्टा॒ वै प॑शू॒ना-म्मि॑थु॒नानाग्ं॑ रूप॒कृत् । रू॒पम॒व प॒शुषु॑ दधाति । बृह॒स्पति॒रित्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पतिः॑ । ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्रज॑नयति ॥
पृ॒थि॒व्या-मव॑चुश्चोतै॒त-दित्या॑ह ।
अ॒स्या-मे॒वैन॒-त्प्रति॑ष्ठापयति ॥
नाभि प्राप्नो॑ति॒ निर्-ऋ॑ति-म्परा॒चैरित्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ॥ 23 ॥
(अ॒जा-ऽग्नावे॒वास्या᳚ग्निहो॒त्रग्ं हु॒त-म्भ॑वति - भव - त्यासीत - परि॒चक्षी॑त - लम्भयति - दधाति - दे॒वाना॒-म्बृह॒स्पतिः॒ पञ्च॑ च) (अ. 3)

(वि वै य-द्य॒न्यम॒जाया᳚-म्ब्राह्म॒णस्य॑ दर्भस्त॒म्बे᳚-ऽफ्सु हो॑त॒व्य᳚म्)

अनुवाकं 4 - ऐष्टिकयाजमानमन्त्राः
याः पु॒रस्ता᳚-त्प्र॒स्रव॑न्ति । उ॒परि॑ष्टा-थ्स॒र्वत॑श्च॒ याः । ताभी॑ र॒श्मिप॑वित्राभिः । श्र॒द्धां-यँ॒ज्ञमार॑भे ॥ देवा॑ गातुविदः ।
गा॒तुं-यँ॒ज्ञाय॑ विन्दत । मन॑स॒स्पति॑ना दे॒वेन॑ । वाता᳚-द्य॒ज्ञः प्रयु॑ज्यताम् ॥ तृ॒तीय॑स्यै दि॒वः । गा॒य॒त्रि॒या सोम॒ आभृ॑तः ॥ 24 ॥

सो॒म॒पी॒थाय॒ सन्न॑यितुम् । वक॑ल॒-मन्त॑र॒माद॑दे ॥ आपो॑ देवी-श्शु॒द्धा-स्स्थ॑ । इ॒मा पात्रा॑णि शुन्धत । उ॒पा॒त॒ङ्क्या॑य दे॒वाना᳚म् । प॒र्ण॒व॒ल्कमु॒त शु॑न्धत ॥
पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ ।
पयो॑ व॒थ्सेषु॒ पय॒ इन्द्रा॑य ह॒विषे᳚ ध्रियस्व । गा॒य॒त्री प॑र्णव॒ल्केन॑ । पय-स्सोम॑-ङ्करोत्वि॒मम् ॥ 25 ॥
अ॒ग्नि-ङ्गृ॑ह्णामि सु॒रथं॒-योँ म॑यो॒ भूः ।
य उ॒द्यन्त॑मा॒ रोह॑ति॒ सूर्य॒मह्ने᳚ ।
आ॒दि॒त्य-ञ्ज्योति॑षा॒-ञ्ज्योति॑रुत्त॒मम् ।
श्वो य॒ज्ञाय॑ रमता-न्दे॒वता᳚भ्यः ॥
वसू᳚-न्रु॒द्राना॑दि॒त्यान् । इन्द्रे॑ण स॒ह दे॒वताः᳚ । ताः पूर्वः॒ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया᳚ ॥ इ॒मामूर्ज॑-म्पञ्चद॒शीं-येँ प्रवि॑ष्टाः । तान्दे॒वा-न्परि॑गृह्णामि॒ पूर्वः॑ ॥ 26 ॥

अ॒ग्निर्-ह॑व्य॒वाडि॒ह तानाव॑हतु । पौ॒र्ण॒मा॒सग्ं ह॒विरि॒दमे॑षा॒-म्मयि॑ ।
आ॒मा॒वा॒स्यग्ं॑ ह॒विरि॒दमे॑षा॒-म्मयि॑ ॥ अ॒न्त॒रा-ऽग्नी प॒शवः॑ । दे॒व॒स॒ग्ं॒ सद॒माग॑मन्न् । ता-न्पूर्वः॒ परि॑गृह्णामि ।
स्व आ॒यत॑ने मनी॒षया᳚ ॥ इ॒ह प्र॒जा वि॒श्वरू॑पा रमन्ताम् । अ॒ग्नि-ङ्गृ॒हप॑तिम॒भि सं॒​वँसा॑नाः । ताः पूर्वः॒ परि॑गृह्णामि ॥ 27 ॥

स्व आ॒यत॑ने मनी॒षया᳚ ॥
इ॒ह प॒शवो॑ वि॒श्वरू॑पा रमन्ताम् ।
अ॒ग्नि-ङ्गृ॒हप॑तिम॒भि सं॒​वँसा॑नाः ।
ता-न्पूर्वः॒ परि॑गृह्णामि । स्व आ॒यत॑ने मनी॒षया᳚ ॥ अ॒य-म्पि॑तृ॒णाम॒ग्निः ।
अवा᳚ड्ढ॒व्या पि॒तृभ्य॒ आ । त-म्पूर्वः॒ परि॑गृह्णामि । अवि॑ष-न्नः पि॒तु-ङ्क॑रत् ॥ अज॑स्र॒-न्त्वाग्ं स॑भापा॒लाः ॥ 28 ॥
वि॒ज॒यभा॑ग॒ग्ं॒ समि॑न्धताम् । अग्ने॑ दी॒दाय॑ मे सभ्य । विजि॑त्यै श॒रद॑-श्श॒तम् ॥ अन्न॑मावस॒थीय᳚म् । अ॒भिह॑राणि श॒रद॑-श्श॒तम् । आ॒व॒स॒थे श्रिय॒-म्मन्त्र᳚म् । अहि॑र्बु॒द्ध्नियो॒ निय॑च्छतु ॥ इ॒दम॒ह-म॒ग्नि ज्ये᳚ष्ठेभ्यः । वसु॑भ्यो य॒ज्ञ-म्प्रब्र॑वीमि ।
इ॒दम॒ह-मिन्द्र॑ ज्येष्ठेभ्यः ॥ 29 ॥

रु॒द्रेभ्यो॑ य॒ज्ञ-म्प्रब्र॑वीमि । इ॒दम॒हं-वँरु॑ण-ज्येष्ठेभ्यः । आ॒दि॒त्येभ्यो॑ य॒ज्ञ-म्प्रब्र॑वीमि ॥ पय॑स्वती॒-रोष॑धयः ।
पय॑स्वद्वी॒रुधा॒-म्पयः॑ । अ॒पा-म्पय॑सो॒ यत्पयः॑ । तेन॒ मामि॑न्द्र॒ सग्ंसृ॑ज ॥
अग्ने᳚ व्रतपते व्र॒त-ञ्च॑रिष्यामि ।
तच्छ॑केय॒-न्तन्मे॑ राद्ध्यताम् ।
वायो᳚ व्रतपत॒ आदि॑त्य व्रतपते ॥ 30 ॥

व्र॒तानां᳚-व्रँतपते व्र॒त-ञ्च॑रिष्यामि । तच्छ॑केय॒-न्तन्मे॑ राद्ध्यताम् ॥
इ॒मा-म्प्राची॒मुदी॑चीम् । इष॒मूर्ज॑म॒भि सग्ग्​स्कृ॑ताम् । ब॒हु॒प॒र्णामशु॑ष्काग्राम् ।
हरा॑मि पशु॒पाम॒हम् ॥ यत्कृष्णो॑ रू॒प-ङ्कृ॒त्वा । प्रावि॑श॒स्त्वं-वँन॒स्पतीन्॑ ।
तत॒स्त्वामे॑कविग्ंशति॒धा । सम्भ॑रामि सुस॒म्भृता᳚ ॥ 31 ॥

त्री-न्प॑रि॒धीग्​स्ति॒स्र-स्स॒मिधः॑ । य॒ज्ञायु॑रनुसञ्च॒रान् ।
उ॒प॒वे॒ष-म्मेक्ष॑ण॒-न्धृष्टि᳚म् । सम्भ॑रामि सुस॒भृन्ता᳚ ॥ या जा॒ता ओष॑धयः । दे॒वेभ्य॑ स्त्रियु॒ग-म्पु॒रा । तासा॒-म्पर्व॑ राद्ध्यासम् । प॒रि॒स्त॒र-मा॒हरन्न्॑ ॥
अ॒पा-म्मेद्ध्यं॑-यँ॒ज्ञिय᳚म् ।
सदे॑वग्ं शि॒वम॑स्तु मे ॥ 32 ॥

आ॒च्छे॒त्ता वो॒ मा रि॑षम् । जीवा॑नि श॒रद॑-श्श॒तम् ॥ अप॑रिमिताना॒-म्परि॑मिताः । सन्न॑ह्ये सुकृ॒ताय॒कम् । एनो॒ मा निगा᳚-ङ्कत॒मच्च॒ नाहम् । पुन॑रु॒त्थाय॑ बहु॒ला भ॑वन्तु ॥ स॒कृ॒दा॒च्छि॒न्न-म्ब॒र्॒हिरूर्णा॑मृदु ।
स्यो॒न-म्पि॒तृभ्य॑स्त्वा भराम्य॒हम् । अ॒स्मि-न्थ्सी॑दन्तु मे पि॒तर॑-स्सो॒म्याः ।
पि॒ता॒म॒हाः प्रपि॑तामहाश्चानु॒गै-स्स॒ह ॥ 33 ॥

त्रि॒वृ-त्प॑ला॒शे द॒र्भः । इया᳚-न्प्रादे॒श स॑मिन्तः । य॒ज्ञे प॒वित्र॒-म्पोतृ॑तमम् । पयो॑ ह॒व्य-ङ्क॑रोतु मे ॥ इ॒मौ प्रा॑णापा॒नौ ।
य॒ज्ञस्याङ्गा॑नि सर्व॒शः । आ॒प्या॒यय॑न्तौ॒ सञ्च॑रताम् । प॒वित्रे॑ हव्य॒शोध॑ने ॥
प॒वित्रे᳚ स्थो वैष्ण॒वी । वा॒युर्वा॒-म्मन॑सा पुनातु ॥ 34 ॥

अ॒य-म्प्रा॒णश्चा॑पा॒नश्च॑ । यज॑मान॒-मपि॑गच्छताम् । य॒ज्ञे ह्यभू॑ता॒-म्पोता॑रौ ।
प॒वित्रे॑ हव्य॒शोध॑ने ॥ त्वया॒ वेदिं॑-विँविदुः पृथि॒वीम् । त्वया॑ य॒ज्ञो जा॑यते विश्व॒दानिः॑ । अच्छि॑द्रं-यँ॒ज्ञमन्वे॑षि वि॒द्वान् ।
त्वया॒ होता॒ सन्त॑नोत्यर्धमा॒सान् ॥ त्र॒य॒स्त्रि॒ग्ं॒शो॑-ऽसि॒ तन्तू॑नाम् ।
प॒वित्रे॑ण स॒हाग॑हि ॥ 35 ॥

शि॒वेयग्ं रज्जु॑रभि॒धानी᳚ । अ॒घ्नि॒या-मुप॑सेवताम् ॥ अप्र॑स्रग्ंसाय य॒ज्ञस्य॑ ।
उ॒खे उप॑दधाम्य॒हम् । प॒शुभि॒-स्सन्नी॑त-म्बिभृताम् । इन्द्रा॑य शृ॒त-न्दधि॑ ॥
उ॒प॒वे॒षो॑-ऽसि य॒ज्ञाय॑ । त्वा-म्प॑रिवे॒ष-म॑धारयन्न् । इन्द्रा॑य ह॒विः कृ॒ण्वन्तः॑ ।
शि॒व-श्श॒ग्मो भ॑वासि नः ॥ 36 ॥

अमृ॑न्मय-न्देवपा॒त्रम् । य॒ज्ञस्यायु॑षि॒ प्रयु॑ज्यताम् । ति॒रः॒ प॒वि॒त्रमति॑नीताः ।
आपो॑ धारय॒ मा-ऽति॑गुः ॥ दे॒वेन॑ सवि॒त्रोत्पू॑ताः । वसो॒-स्सूर्य॑स्य र॒श्मिभिः॑ । गा-न्दो॑हपवि॒त्रे रज्जु᳚म् । सर्वा॒ पात्रा॑णि शुन्धत ॥ ए॒ता आच॑रन्ति॒ मधु॑म॒द्दुहा॑नाः ।
प्र॒जाव॑ती-र्य॒शसो॑ वि॒श्वरू॑पाः ॥ 37 ॥

ब॒ह्वी र्भव॑न्ती॒रुप॒ जाय॑मानाः । इ॒ह व॒ इन्द्रो॑ रमयतु गावः ॥ पू॒षा स्थ॑ ॥ अ॒य॒क्ष्मा वः॑ प्र॒जया॒ सग्ंसृ॑जामि ।
रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीः । ऊर्ज॒-म्पयः॒ पिन्व॑माना घृ॒त-ञ्च॑ ।
जी॒वो जीव॑न्ती॒रुप॑ व-स्सदेयम् ॥ द्यौश्चे॒मं-यँ॒ज्ञ-म्पृ॑थि॒वी च॒ सन्दु॑हाताम् ।
धा॒ता सोमे॑न स॒ह वाते॑न वा॒युः । यज॑मानाय॒ द्रवि॑ण-न्दधातु ॥ 38 ॥

उथ्स॑-न्दुहन्ति क॒लश॒-ञ्चतु॑र्बिलम् । इडा᳚-न्दे॒वी-म्मधु॑मतीग्ं सुव॒र्विद᳚म् ।
तदि॑न्द्रा॒ग्नी जि॑न्वतग्ं सू॒नृता॑वत् । त-द्यज॑मान-ममृत॒त्वे द॑धातु ॥
काम॑धुक्षः॒ प्रणो᳚ ब्रूहि । इन्द्रा॑य ह॒विरि॑न्द्रि॒यम् ॥ अ॒मूं-यँस्या᳚-न्दे॒वाना᳚म् ।
म॒नु॒ष्या॑णा॒-म्पयो॑ हि॒तम् ॥ ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यः॑ ।
ह॒व्य-माप्या॑यता॒-म्पुनः॑ ॥ 39 ॥

व॒थ्सेभ्यो॑ मनु॒ष्ये᳚भ्यः । पु॒न॒र्दो॒हाय॑ कल्पताम् ॥ य॒ज्ञस्य॒ सन्त॑तिरसि ।
य॒ज्ञस्य॑ त्वा॒ सन्त॑ति॒मनु॒सन्त॑नोमि ॥ अद॑स्तमसि॒ विष्ण॑वे त्वा ।
य॒ज्ञायापि॑ दधाम्य॒हम् । अ॒द्भिररि॑क्तेन॒ पात्रे॑ण । याः पू॒ताः प॑रि॒शेर॑ते ॥
अ॒य-म्पय॒-स्सोम॑-ङ्कृ॒त्वा । स्वां-योँनि॒-मपि॑गच्छतु ॥ 40 ॥

प॒र्ण॒व॒ल्कः प॒वित्र᳚म् । सौ॒म्य-स्सोमा॒द्धि निर्मि॑तः ॥ इ॒मौ प॒र्ण-ञ्च॑ द॒र्भ-ञ्च॑ ।
दे॒वानाग्ं॑ हव्य॒शोध॑नौ । प्रा॒त॒र्वे॒षाय॑ गोपाय । विष्णो॑ ह॒व्यग्ं हि रक्ष॑सि ॥
उ॒भाव॒ग्नी उ॑पस्तृण॒ते । दे॒वता॒ उप॑वसन्तु मे । अ॒ह-ङ्ग्रा॒म्या-नुप॑वसामि ।
मह्य॒-ङ्गोप॑तये प॒शून् ॥ 41 ॥
[आभृ॑त - इ॒मं - गृ॑ह्णामि॒ पूर्व॒ - स्ताः पुर्वः॒ परि॑गृह्णामि - सभापा॒ला - इन्द्र॑ज्येष्ठेभ्य॒-आदि॑त्य व्रतपते-सुस॒भ्रुन्ता॑ - मे - स॒ह - पु॑नातु - गहि - नो - वि॒श्वरू॑पा - दधातु॒ - पुन॑--र् गच्छतु - प॒शुन् ] (अ. 4)

याः पु॒रस्ता॑दि॒मामूर्ज॑मि॒ह प्र॒जा इ॒ह प॒शवो॒-ऽय-म्पि॑तृ॒णाम॒ग्निः

अनुवाकं 5 - ऐष्टिकयाजमानमन्त्राः
देवा॑ दे॒वेषु॒ परा᳚क्रमद्ध्वम् । प्रथ॑मा द्वि॒तीये॑षु । द्विती॑या-स्तृ॒तीये॑षु ।
त्रिरे॑कादशा इ॒ह मा॑-ऽवत । इ॒दग्ं श॑केयं॒-यँदि॒द-ङ्क॒रोमि॑ ।
आ॒त्मा क॑रोत्वा॒त्मने᳚ । इ॒द-ङ्क॑रिष्ये भेष॒जम् । इ॒द-म्मे॑ विश्वभेषजा ।
अश्वि॑ना॒ प्राव॑तं-युँ॒वम् ॥ इ॒दम॒हग्ं सेना॑या अ॒भीत्व॑र्यै ॥ 42 ॥

मुख॒मपो॑हामि ॥ सूर्य॑ज्योति॒ र्विभा॑हि । म॒ह॒त इ॑न्द्रि॒याय॑ ॥ आप्या॑यता-ङ्घृ॒तयो॑निः । अ॒ग्निर्-ह॒व्या-ऽनु॑मन्यताम् ।
खम॑ङ्क्ष्व॒ त्वच॑मङ्क्ष्व । सु॒रू॒प-न्त्वा॑ वसु॒विद᳚म् । प॒शू॒ना-न्तेज॑सा ।
अ॒ग्नये॒ जुष्ट॑-म॒भिघा॑रयामि ॥ स्यो॒न-न्ते॒ सद॑न-ङ्करोमि ॥ 43 ॥

घृ॒तस्य॒ धार॑या सु॒शेव॑-ङ्कल्पयामि ॥
तस्मि᳚न्-थ्सीदा॒मृते॒ प्रति॑तिष्ठ ।
व्री॒ही॒णा-म्मे॑ध सुमन॒स्यमा॑नः ॥
आ॒र्द्रः प्र॑थस्नु॒-र्भुव॑नस्य गो॒पाः ।
शृ॒त उथ्स्ना॑ति जनि॒ता म॑ती॒नाम् ॥
यस्त॑ आ॒त्मा प॒शुषु॒ प्रवि॑ष्टः ।
दे॒वानां᳚-विँ॒ष्ठामनु॒ यो वि॑त॒स्थे ।
आ॒त्म॒न्वा-न्थ्सो॑म घृ॒तवा॒न्॒. हि भू॒त्वा ।
दे॒वा-न्ग॑च्छ॒ सुव॑र्विन्द॒ यज॑मानाय॒ मह्य᳚म् ॥ इरा॒ भूतिः॑ पृथि॒व्यै रसो॒ मोत्क्र॑मीत् ॥ 44 ॥

देवाः᳚ पितरः॒ पित॑रो देवाः । यो॑-ऽहम॑स्मि॒ स सन्. य॑जे । यस्या᳚स्मि॒ न तम॒न्तरे॑मि । स्व-म्म॑ इ॒ष्टग्ग्​ स्व-न्द॒त्तम् । स्व-म्पू॒र्तग्ग्​ स्वग्ग्​ श्रा॒न्तम् । स्वग्ं हु॒तम् । तस्य॑ मे॒-ऽग्नि-रु॑पद्र॒ष्टा । वा॒युरु॑पश्रो॒ता ।
आ॒दि॒त्यो॑-ऽनुख्या॒ता । द्यौः पि॒ता ॥ 45 ॥

पृ॒थि॒वी मा॒ता । प्र॒जाप॑ति॒ र्बन्धुः॑ ।
य ए॒वास्मि॒ स सन्. य॑जे ॥ मा भेर्मा सं​विँ॑क्था॒ मा त्वा॑ हिग्ंसिषम् । मा ते॒ तेजो-ऽप॑क्रमीत् ।
भ॒र॒तमुद्ध॑रे॒ मनु॑षिञ्च । अ॒व॒दाना॑नि ते प्र॒त्यव॑दास्यामि ।
नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः ॥ यद॑व॒दाना॑नि ते-ऽव॒द्यन्न् । विलो॒माका॑र्​षमा॒त्मनः॑ ॥ 46 ॥

आज्ये॑न॒ प्रत्य॑नज्म्येनत् । तत्त॒ आप्या॑यता॒-म्पुनः॑ ॥ अज्या॑यो यवमा॒त्रात् ।
आ॒व्या॒धा-त्कृ॑त्यतामि॒दम् । मा रू॑रुपाम य॒ज्ञस्य॑ । शु॒द्धग्ग्​ स्वि॑ष्टमि॒दग्ं ह॒विः ॥ मनु॑ना दृ॒ष्टा-ङ्घृ॒तप॑दीम् । मि॒त्रावरु॑णसमीरिताम् । द॒क्षि॒णा॒र्धादस॑भिन्न्दन्न् । अव॑द्या-म्येक॒तो मु॑खाम् ॥ 47 ॥

इडे॑ भा॒ग-ञ्जु॑षस्व नः । जिन्व॒ गा जिन्वार्व॑तः । तस्या᳚स्ते भक्षि॒वाण॑-स्स्याम । स॒र्वात्मा॑न-स्स॒र्वग॑णाः ॥ ब्रद्ध्न॒ पिन्व॑स्व ।
दद॑तो मे॒ मा क्षा॑यि । कु॒र्व॒तो मे॒ मोप॑दसत् । दि॒शा-ङ्क्लृप्ति॑रसि । दिशो॑ मे कल्पन्ताम् । कल्प॑न्ता-म्मे॒ दिशः॑ ॥ 48 ॥

दैवी᳚श्च॒ मानु॑षीश्च । अ॒हो॒रा॒त्रे मे॑ कल्पेताम् । अ॒र्ध॒मा॒सा मे॑ कल्पन्ताम् । मासा॑ मे कल्पन्ताम् । ऋ॒तवो॑ मे कल्पन्ताम् । सं॒​वँ॒थ्स॒रो मे॑ कल्पताम् ।
क्लृप्ति॑रसि॒ कल्प॑ता-म्मे ॥
आशा॑ना-न्त्वा-ऽऽशापा॒लेभ्यः॑ ।
च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः ।
इ॒द-म्भू॒तस्या-द्ध्य॑क्षेभ्यः ॥ 49 ॥

वि॒धेम॑ ह॒विषा॑ व॒यम् । भज॑ता-म्भा॒गी भा॒गम् । मा-ऽभा॒गो-ऽभ॑क्त ।
निर॑भा॒ग-म्भ॑जामः । अ॒पस्पि॑न्व । ओष॑धीर्जिन्व । द्वि॒पात्पा॑हि । चतु॑ष्पादव । दि॒वो वृष्टि॒मेर॑य । ब्रा॒ह्म॒णाना॑-मि॒दग्ं ह॒विः ॥ 50 ॥

सो॒म्यानाग्ं॑ सोमपी॒थिना᳚म् । निर्भ॒क्तो ब्रा᳚ह्मणः । नेहा-ब्रा᳚ह्मणस्यास्ति ॥
सम॑ङ्क्ता-म्ब॒र॒ःइर्-ह॒विषा॑ घृ॒तेन॑ । समा॑दि॒त्यै र्वसु॑भि॒-स्स-म्म॒रुद्भिः॑ ।
समिन्द्रे॑ण॒ विश्वे॑भि र्दे॒वेभि॑रङ्क्ताम् ।
दि॒व्य-न्नभो॑ गच्छतु॒ य-थ्स्वाहा᳚ ॥
इ॒न्द्रा॒णी वा॑ विध॒वा भू॑यासम् । अदि॑तिरिव सुपु॒त्रा ।
अ॒स्थू॒रि त्वा॑ गार्​हपत्य ॥ 51 ॥

उप॒निष॑दे सुप्रजा॒स्त्वाय॑ ॥
स-म्पत्नी॒ पत्या॑ सुकृ॒तेन॑ गच्छताम् ।
य॒ज्ञस्य॑ यु॒क्तौ धुर्या॑वभूताम् ।
स॒जा॒न्ना॒नौ विज॑हता॒-मरा॑तीः ।
दि॒वि ज्योति॑र॒ज-र॒मार॑भेताम् ॥
दश॑ ते त॒नुवो॑ यज्ञ य॒ज्ञियाः᳚ ।
ताः प्री॑णातु॒ यज॑मानो घृ॒तेन॑ । ना॒रि॒ष्ठयोः᳚ प्र॒शिष॒मीड॑मानः ।
दे॒वाना॒-न्दैव्ये-ऽपि॒ यज॑मानो॒-ऽमृतो॑-ऽभूत् ॥
यं-वाँ᳚-न्दे॒वा अ॑कल्पयन्न् ॥ 52 ॥

ऊ॒र्जो भा॒गग्ं श॑तक्रतू । ए॒तद्वा॒-न्तेन॑ प्रीणानि । तेन॑ तृप्यतमग्ंहहौ ॥ अ॒ह-न्दे॒वानाग्ं॑ सु॒कृता॑मस्मि लो॒के ।
ममे॒दमि॒ष्ट-न्न मिथु॑ र्भवाति । अ॒ह-न्ना॑रि॒ष्ठा-वनु॑यजामि वि॒द्वान् ।
यदा᳚भ्या॒-मिन्द्रो॒ अद॑धा-द्भाग॒धेय᳚म् ॥ अदा॑रसृद्भवत देव सोम ।
अ॒स्मिन्. य॒ज्ञे म॑रुतो मृडता नः ।
मा नो॑ विदद॒भि भा॒मो अश॑स्तिः ॥ 53 ॥

मा नो॑ विद-द्व॒जना॒ द्वेष्या॒ या ॥
ऋ॒ष॒भं-वाँ॒जिनं॑-वँ॒यम् ।
पू॒र्णमा॑सं-यँजामहे । स नो॑ दोहताग्ं सु॒वीर्य᳚म् । रा॒यस्पोषग्ं॑ सह॒स्रिण᳚म् । प्रा॒णाय॑ सु॒राध॑से । पू॒र्णमा॑साय॒ स्वाहा᳚ ॥
अ॒मा॒वा॒स्या॑ सु॒भगा॑ सु॒शेवा᳚ । धे॒नुरि॑व॒ भूय॑ आ॒प्याय॑माना । सा नो॑ दोहताग्ं सु॒वीर्य᳚म् । रा॒यस्पोषग्ं॑ सह॒स्रिण᳚म् ।
अ॒पा॒नाय॑ सु॒राध॑से । अ॒मा॒वा॒स्या॑यै॒ स्वाहा᳚ ॥ अ॒भिस्तृ॑णीहि॒ परि॑धेहि॒ वेदि᳚म् ।
जा॒मि-म्मा हिग्ं॑सीरमु॒या शया॑ना ।
हो॒तृ॒षद॑ना॒ हरि॑ता-स्सु॒वर्णाः᳚ । नि॒ष्का इ॒मे यज॑मानस्य ब्र॒द्ध्ने ॥ 54 ॥
(अ॒भीत्व॑र्यै - करोमि - क्रमीत् - पि॒ता - ऽऽत्मन॑ - एक॒तोमु॑खां - मे॒ दिशो - ऽध्य॑क्षेभ्यो - ह॒वि--र् गा॑र्​हपत्या - कल्पय॒ - न्नश॑स्तिः॒ - सा नो॑ दोहताग्ं सु॒वीर्यग्ं॑ स॒प्त च॑) (अ. 5)

अनुवाकं 6 - ऐष्टिकयाजमानमन्त्राः
परि॑स्तृणीत॒ परि॑धत्ता॒ग्निम् । परि॑हितो॒-ऽग्नि र्यज॑मान-म्भुनक्तु । अ॒पाग्ं रस॒ ओष॑धीनाग्ं सु॒वर्णः॑ । नि॒ष्का इ॒मे यज॑मानस्य सन्तु काम॒दुघाः᳚ । अ॒मुत्रा॒मुष्मि॑न् ँलो॒के ॥
भूप॑ते॒ भुव॑नपते । म॒ह॒तो भू॒तस्य॑ पते । ब्र॒ह्माण॑-न्त्वा वृणीमहे ॥
अ॒ह-म्भूप॑तिर॒ह-म्भुव॑नपतिः ।
अ॒ह-म्म॑ह॒तो भू॒तस्य॒ पतिः॑ ॥ 55 ॥

दे॒वेन॑ सवि॒त्रा प्रसू॑त॒ आर्त्वि॑ज्य-ङ्करिष्यामि । देव॑ सवितरे॒त-न्त्वा॑ वृणते ।
बृह॒स्पति॒-न्दैव्य॑-म्ब्र॒ह्माण᳚म् । तद॒ह-म्मन॑से॒ प्रब्र॑वीमि । मनो॑ गायत्रि॒यै ।
गा॒य॒त्री त्रि॒ष्टुभे᳚ । त्रि॒ष्टु-ब्जग॑त्यै । जग॑त्यनु॒ष्टुभे᳚ । अ॒नु॒ष्टु-क्प॒ङ्क्त्यै । प॒ङ्क्तिः प्र॒जाप॑तये ॥ 56 ॥

प्र॒जाप॑ति॒ र्विश्वे᳚भ्यो दे॒वेभ्यः॑ । विश्वे॑ दे॒वा बृह॒स्पत॑ये । बृह॒स्पति॒-र्ब्रह्म॑णे ।
ब्रह्म॒ भूर्भुव॒-स्सुवः॑ । बृह॒स्पति॑ र्दे॒वाना᳚-म्ब्र॒ह्मा । अ॒ह-म्म॑नु॒ष्या॑णाम् । बृह॑स्पते य॒ज्ञ-ङ्गो॑पाय ॥ इ॒द-न्तस्मै॑ ह॒र्म्य-ङ्क॑रोमि । यो वो॑ देवा॒श्चर॑ति ब्रह्म॒चर्य᳚म् । मे॒धा॒वी दि॒क्षु मन॑सा तप॒स्वी ॥ 57 ॥

अ॒न्तर्दू॒तश्च॑रति॒ मानु॑षीषु ॥
चतु॑-श्शिखण्डा युव॒ति-स्सु॒पेशाः᳚ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मद्ध्ये᳚ । म॒र्मृ॒ज्यमा॑ना मह॒ते सौभ॑गाय ।
मह्य॑-न्धुक्ष्व॒ यज॑मानाय॒ कामान्॑ ॥
भूमि॑ र्भू॒त्वा म॑हि॒मान॑-म्पुपोष ।
ततो॑ दे॒वी व॑र्धयते॒ पयाग्ं॑सि ।
य॒ज्ञिया॑ य॒ज्ञं-विँच॒यन्ति॒ शञ्च॑ ।
ओष॑धी॒राप॑ इ॒ह शक्व॑रीश्च ॥
यो मा॑ हृ॒दा मन॑सा॒ यश्च॑ वा॒चा ॥ 58 ॥

यो ब्रह्म॑णा॒ कर्म॑णा॒ द्वेष्टि॑ देवाः ।
य-श्श्रु॒तेन॒ हृद॑येनेष्ण॒ता च॑ ।
तस्ये᳚न्द्र॒ वज्रे॑ण॒ शिर॑श्छिनद्मि ॥
ऊर्णा॑मृदु॒ प्रथ॑मानग्ग्​ स्यो॒नम् ।
दे॒वेभ्यो॒ जुष्ट॒ग्ं॒ सद॑नाय ब॒र्॒हिः । सु॒व॒र्गे लो॒के यज॑मान॒ग्ं॒ हि धे॒हि ।
मा-न्नाक॑स्य पृ॒ष्ठे प॑र॒मे व्यो॑मन्न् ॥ चतु॑-श्शिखण्डा युव॒ति-स्सु॒पेशाः᳚ ।
घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।
सा स्ती॒र्यमा॑णा मह॒ते सौभ॑गाय ॥ 59 ॥

सा मे॑ धुक्ष्व॒ यज॑मानाय॒ कामान्॑ ।
शि॒वा च॑ मे श॒ग्मा चै॑धि ।
स्यो॒ना च॑ मे सु॒षदा॑ चैधि ।
ऊर्ज॑स्वती च मे॒ पय॑स्वती चैधि ।
इष॒मूर्ज॑-म्मे पिन्वस्व । ब्रह्म॒ तेजो॑ मे पिन्वस्व । क्ष॒त्रमोजो॑ मे पिन्वस्व ।
विश॒-म्पुष्टि॑-म्मे पिन्वस्व ।
आयु॑र॒न्नाद्य॑-म्मे पिन्वस्व ।
प्र॒जा-म्प॒शू-न्मे॑ पिन्वस्व ॥ 60 ॥

अ॒स्मिन्. य॒ज्ञ उप॒ भूय॒ इन्नु मे᳚ ।
अवि॑क्षोभाय परि॒धीन्द॑धामि ।
ध॒र्ता ध॒रुणो॒ धरी॑यान् ।
अ॒ग्नि र्द्वेषाग्ं॑सि॒ निरि॒तो नु॑दातै ॥
विच्छि॑नद्मि॒ विधृ॑तीभ्याग्ं स॒पत्नान्॑ ।
जा॒ता-न्भ्रातृ॑व्या॒न्॒. ये च॑ जनि॒ष्यमा॑णाः ।
वि॒शो य॒न्त्राभ्यां॒-विँध॑माम्येनान् । अ॒हग्ग्​स्वाना॑-मुत्त॒मो॑-ऽसानि देवाः ।
वि॒शो य॒न्त्रे नु॒दमा॑ने॒ अरा॑तिम् । विश्व॑-म्पा॒प्मान॒मम॑ति-न्दुर्मरा॒युम् ॥ 61 ॥

सीद॑न्ती दे॒वी सु॑कृ॒तस्य॑ लो॒के ।
धृती᳚ स्थो॒ विधृ॑ती॒ स्वधृ॑ती ।
प्रा॒णान्मयि॑ धारयतम् । प्र॒जा-म्मयि॑ धारयतम् । प॒शून्मयि॑ धारयतम् ॥
अ॒य-म्प्र॑स्त॒र उ॒भय॑स्य ध॒र्ता ।
ध॒र्ता प्र॑या॒जाना॑-मु॒तानू॑या॒जाना᳚म् ।
स दा॑धार स॒मिधो॑ वि॒श्वरू॑पाः ।
तस्मि॒न्-थ्स्रुचो॒ अद्ध्यासा॑दयामि ॥
आरो॑ह प॒थो जु॑हु देव॒यानान्॑ ॥ 62 ॥

यत्रर्​ष॑यः प्रथम॒जा ये पु॑रा॒णाः । हिर॑ण्यपक्षा-ऽजि॒रा सम्भृ॑ताङ्गा ।
वहा॑सि मा सु॒कृतां॒-यँत्र॑ लो॒काः ॥
अवा॒ह-म्बा॑ध उप॒भृता॑ स॒पत्नान्॑ ।
जा॒ता-न्भ्रातृ॑व्या॒न्॒. ये च॑ जनि॒ष्यमा॑णाः । दोहै॑ य॒ज्ञग्ं सु॒दुघा॑मिव धे॒नुम् ।
अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मथ्स॒पत्नाः᳚ ॥
यो मा॑ वा॒चा मन॑सा दुर्मरा॒युः ।
हृ॒दा-ऽरा॑ती॒या-द॑भि॒दास॑-दग्ने ॥ 63 ॥

इ॒दम॑स्य चि॒त्तमध॑र-न्ध्रु॒वायाः᳚ । अ॒हमुत्त॑रो भूयासम् । अध॑रे॒ मथ्स॒पत्नाः᳚ ॥
ऋ॒ष॒भो॑-ऽसि शाक्व॒रः । घृ॒ताची॑नाग्ं सू॒नुः । प्रि॒येण॒ नाम्ना᳚ प्रि॒ये सद॑सि सीद ॥
स्यो॒नो मे॑ सीद सु॒षदः॑ पृथि॒व्याम् ।
प्रथ॑यि प्र॒जया॑ प॒शुभि॑-स्सुव॒र्गे लो॒के ।
दि॒वि सी॑द पृथि॒व्या-म॒न्तरि॑क्षे ।
अ॒हमुत्त॑रो भूयासम् ॥ 64 ॥

अध॑रे॒ मथ्स॒पत्नाः᳚ ॥
इ॒यग्ग्​ स्था॒ली घृ॒तस्य॑ पू॒र्णा ।
अच्छि॑न्नपया-श्श॒तधा॑र॒ उथ्सः॑ ।
मा॒रु॒तेन॒ शर्म॑णा॒ दैव्ये॑न ॥
य॒ज्ञो॑-ऽसि स॒र्वत॑-श्श्रि॒तः । स॒र्वतो॒ मा-म्भू॒त-म्भ॑वि॒ष्य-च्छ्र॑यताम् । श॒त-म्मे॑ सन्त्वा॒शिषः॑ । स॒हस्र॑-म्मे सन्तु सू॒नृताः᳚ । इरा॑वतीः पशु॒मतीः᳚ । प्र॒जाप॑तिरसि स॒र्वत॑-श्श्रि॒तः ॥ 65 ॥
स॒र्वतो॒ मा-म्भू॒त-म्भ॑वि॒ष्य-च्छ्र॑यताम् । श॒त-म्मे॑ सन्त्वा॒शिषः॑ ।
स॒हस्र॑-म्मे सन्तु सू॒नृताः᳚ । इरा॑वतीः पशु॒मतीः᳚ ॥ इ॒दमि॑न्द्रि॒य-म॒मृतं॑-वीँ॒र्य᳚म् । अ॒नेनेन्द्रा॑य प॒शवो॑-ऽचिकिथ्सन्न् ।
तेन॑ देवा अव॒तोप॒ माम् । इ॒हेष॒मूर्जं॒-यँश॒-स्सह॒ ओज॑-स्सनेयम् । शृ॒त-म्मयि॑ श्रयताम् ॥ य-त्पृ॑थि॒वी-मच॑र॒त्तत्-प्रवि॑ष्टम् ॥ 66 ॥

येनासि॑ञ्च॒-द्बल॒मिन्द्रे᳚ प्र॒जाप॑तिः ।
इ॒द-न्तच्छु॒क्र-म्मधु॑ वा॒जिनी॑वत् ।
येनो॒-परि॑ष्टा॒दधि॑नो-न्महे॒न्द्रम् ।
दधि॒ मा-न्धि॑नोतु ॥
अ॒यं-वेँ॒दः पृ॑थि॒वी-मन्व॑विन्दत् ।
गुहा॑ स॒ती-ङ्गह॑ने॒ गह्व॑रेषु ।
स वि॑न्दतु॒ यज॑मानाय लो॒कम् ।
अच्छि॑द्रं-यँ॒ज्ञ-म्भूरि॑कर्मा करोतु ॥
अ॒यं-यँ॒ज्ञ-स्सम॑सदद्ध॒विष्मान्॑ ।
ऋ॒चा साम्ना॒ यजु॑षा दे॒वता॑भिः ॥ 67 ॥

तेन॑ लो॒कान्-थ्सूर्य॑वतो जयेम ।
इन्द्र॑स्य स॒ख्य-म॑मृत॒त्व-म॑श्याम् ॥
यो नः॒ कनी॑य इ॒ह का॒मया॑तै ।
अ॒स्मिन्. य॒ज्ञे यज॑मानाय॒ मह्य᳚म् ।
अप॒ तमि॑न्द्रा॒ग्नी भुव॑नान्नुदेताम् ।
अ॒ह-म्प्र॒जां-वीँ॒रव॑तीं-विँदेय ॥
अग्ने॑ वाजजित् । वाज॑-न्त्वा सरि॒ष्यन्त᳚म् ।
वाज॑-ञ्जे॒ष्यन्त᳚म् । वा॒जिनं॑-वाँज॒जित᳚म् ॥ 68 ॥

वा॒ज॒जि॒त्यायै॒ सम्मा᳚र्ज्मि । अ॒ग्निम॑न्ना॒-दम॒न्नाद्या॑य ॥ उप॑हूतो॒ द्यौः पि॒ता ।
उप॒ मा-न्द्यौः पि॒ता ह्व॑यताम् । अ॒ग्नि-राग्नी᳚द्ध्रात् । आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य । उप॑हूता पृथि॒वी मा॒ता । उप॒ मा-म्मा॒ता पृ॑थि॒वी ह्व॑यताम् । अ॒ग्नि-राग्नी᳚द्ध्रात् ॥ 69 ॥

आयु॑षे॒ वर्च॑से । जी॒वात्वै पुण्या॑य ॥
मनो॒ ज्योति॑ र्जुषता॒माज्य᳚म् ।
विच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धातु । बृह॒स्पति॑-स्तनुतामि॒म-न्नः॑ ।
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम् ॥
य-न्ते॑ अग्न आवृ॒श्चामि॑ । अ॒हं-वाँ᳚ क्षिपि॒तश्चरन्न्॑ । प्र॒जा-ञ्च॒ तस्य॒ मूल॑-ञ्च ।
नी॒चैर्दे॑वा॒ निवृ॑श्चत ॥ 70 ॥

अग्ने॒ यो नो॑-ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒द्ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न । यो मा-न्द्वेष्टि॑ जातवेदः । य-ञ्चा॒ह-न्द्वेष्मि॒ यश्च॒ माम् । सर्वा॒ग्॒स्तान॑ग्ने॒ सन्द॑ह ।
याग्​श्चा॒ह-न्द्वेष्मि॒ ये च॒ माम् ॥ अग्ने॑ वाजजित् ।
वाज॑-न्त्वा ससृ॒वाग्ंस᳚म् ॥ 71 ॥

वाज॑-ञ्जिगि॒वाग्ंस᳚म् । वा॒जिनं॑-वाँज॒जित᳚म् । वा॒ज॒जि॒त्यायै॒ सम्मा᳚र्ज्मि । अ॒ग्नि-म॑न्ना॒द-म॒न्नाद्या॑य ॥ वेदि॑ र्ब॒र॒ःइ-श्शृ॒तग्ं ह॒विः ।
इ॒द्ध्मः प॑रि॒धय॒-स्स्रुचः॑ । आज्यं॑-यँ॒ज्ञ ऋचो॒ यजुः॑ । या॒ज्या᳚श्च वषट्का॒राः । स-म्मे॒ सन्न॑तयो नमन्ताम् ।
इ॒द्ध्म॒सं॒-नह॑ने हु॒ते ॥ 72 ॥

दि॒वः खीलो-ऽव॑ततः । पृ॒थि॒व्या अद्ध्युत्थि॑तः । तेना॑ स॒हस्र॑काण्डेन । द्वि॒षन्तग्ं॑ शोचयामसि । द्वि॒षन्मे॑ ब॒हु शो॑चतु ।
ओष॑धे॒ मो अ॒हग्ं शु॑चम् ॥ यज्ञ॒ नम॑स्ते यज्ञ । नमो॒ नम॑श्च ते यज्ञ । शि॒वेन॑ मे॒ सन्ति॑ष्ठस्व । स्यो॒नेन॑ मे॒ सन्ति॑ष्ठस्व ॥ 73 ॥

सु॒भू॒तेन॑ मे॒ सन्ति॑ष्ठस्व । ब्र॒ह्म॒व॒र्च॒सेन॑ मे॒ सन्ति॑ष्ठस्व ।
य॒ज्ञस्यर्धि॒मनु॒ सन्ति॑ष्ठस्व । उप॑ ते यज्ञ॒ नमः॑ । उप॑ ते॒ नमः॑ ।
उप॑ ते॒ नमः॑ ॥ त्रिष्फ॒ली क्रि॒यमा॑णानाम् । यो न्य॒ङ्गो अ॑व॒शिष्य॑ते ।
रक्ष॑सा-म्भाग॒धेय᳚म् । आप॒स्त-त्प्रव॑हतादि॒तः ॥ 74 ॥

उ॒लूख॑ले॒ मुस॑ले॒ यच्च॒ शूर्पे᳚ ।
आ॒शि॒श्लेष॑ दृ॒षदि॒ यत्क॒पाले᳚ ।
अ॒व॒प्रुषो॑ वि॒प्रुष॒-स्सं​यँ॑जामि ।
विश्वे॑ दे॒वा ह॒विरि॒द-ञ्जु॑षन्ताम् ।
य॒ज्ञे या वि॒प्रुष॒-स्सन्ति॑ ब॒ह्वीः ।
अ॒ग्नौ ता-स्सर्वा॒-स्स्वि॑ष्टा॒-स्सुहु॑ता जुहोमि ॥ उ॒द्यन्न॒द्य मि॑त्रमहः ।
स॒पत्ना᳚न्मे अनीनशः । दिवै॑नान्. वि॒द्युता॑ जहि ।
नि॒म्रोच॒न्नध॑रान् कृधि ॥ 75 ॥

उ॒द्यन्न॒द्य वि नो॑ भज । पि॒ता पु॒त्रेभ्यो॒ यथा᳚ । दी॒र्घा॒यु॒त्वस्य॑ हेशिषे । तस्य॑ नो देहि सूर्य ॥ उ॒द्यन्न॒द्य मि॑त्रमहः । आ॒रोह॒न्नुत्त॑रा॒-न्दिव᳚म् । हृ॒द्रो॒ग-म्मम॑ सूर्य । ह॒रि॒माण॑-ञ्च नाशय ॥ शुके॑षु मे हरि॒माण᳚म् ।
रो॒प॒णाका॑सु दद्ध्मसि ॥ 76 ॥

अथो॑ हारिद्र॒वेषु॑ मे । ह॒रि॒माण॒-न्निद॑द्ध्मसि ॥ उद॑गाद॒य-मा॑दि॒त्यः ।
विश्वे॑न॒ सह॑सा स॒ह । द्वि॒षन्त॒-म्मम॑ र॒न्धयन्न्॑ । मो अ॒ह-न्द्वि॑ष॒तो र॑धम् ॥
यो न॒-श्शपा॒दश॑पतः । यश्च॑ न॒-श्शप॑त॒-श्शपा᳚त् । उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॑ । सर्व॑-म्पा॒पग्ं समू॑हताम् ॥ 77 ॥

यो न॑-स्स॒पत्नो॒ यो रणः॑ । मर्तो॑-ऽभि॒दास॑ति देवाः। इ॒द्ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ॥ अव॑सृष्टः॒ परा॑पत । श॒रो ब्रह्म॑सग्ंशितः ।
गच्छा॒-ऽमित्रा॒-न्प्रवि॑श । मैषा॒-ङ्कञ्च॒नोच्छि॑षः ॥ 78 ॥
(पतिः॑ - प्र॒जाप॑तये - तप॒स्वी - वा॒चा - सौभ॑गाय - प॒शून्मे॑ पिन्वस्व - दुर्मरा॒युं - दे॑व॒याना॑ - नग्ने॒ - ऽन्तरि॑क्षे॒-ऽहमुत्त॑रो भूयासं -प्र॒जाप॑तिरसि स॒र्वत॑-श्श्रि॒तः - प्रवि॑ष्टं - दे॒वता॑भि--र् वाज॒जितं॑ -
पृथि॒वी ह्व॑यताम॒ग्निराग्नी᳚द्ध्रा-द्- वृश्चत - ससृ॒वाग्ंसग्ं॑ - हु॒ते - स्यो॒नेन॑ मे॒ सम्ति॑ष्ठस्वे॒ - तः - कृ॑धि- दध्म - स्यूहता - +म॒ष्टौ च॑) (अ. 6)

अनुवाकं 7 - सोमाङ्ग.भूतेषु मन्त्रेषु-दीक्षामारभ्याग्नीषोमयि पशुपर्यन्ते प्रयोगे शेषभूता मन्त्राः
सक्षे॒द-म्प॑श्य । विध॑र्तरि॒द-म्प॑श्य । नाके॒द-म्प॑श्य । र॒मतिः॒ पनि॑ष्ठा ।
ऋ॒तं-वँर्​षि॑ष्ठम् । अ॒मृता॒ यान्या॒हुः । सूर्यो॒ वरि॑ष्ठो अ॒क्षभि॒र्विभा॑ति ।
अन॒ द्यावा॑पृथि॒वी दे॒वपु॑त्रे ॥ दी॒क्षा-ऽसि॒ तप॑सो॒ योनिः॑ । तपो॑-ऽसि॒ ब्रह्म॑णो॒ योनिः॑ ॥ 79 ॥

ब्रह्मा॑सि क्ष॒त्रस्य॒ योनिः॑ । क्ष॒त्रम॑स्यृ॒तस्य॒ योनिः॑ ।
ऋ॒तम॑सि॒ भूरार॑भे । श्र॒द्धा-म्मन॑सा । दी॒क्षा-न्तप॑सा । विश्व॑स्य॒ भुव॑न॒स्याधि॑पत्नीम् । सर्वे॒ कामा॒ यज॑मानस्य सन्तु ॥
वात॑-म्प्रा॒ण-म्मन॑सा॒-ऽन्वार॑भामहे । प्र॒जाप॑तिं॒-योँ भुव॑नस्य गो॒पाः ।
स नो॑ मृ॒त्योस्त्रा॑यता॒-म्पात्वग्ंह॑सः ॥ 80 ॥

ज्योग्जी॒वा ज॒राम॑शीमहि ॥ इन्द्र॑ शाक्वर गाय॒त्री-म्प्रप॑द्ये । ता-न्ते॑ युनज्मि । इन्द्र॑ शाक्वर त्रि॒ष्टुभ॒-म्प्रप॑द्ये । ता-न्ते॑ युनज्मि ।
इन्द्र॑ शाक्वर॒ जग॑ती॒-म्प्रप॑द्ये । ता-न्ते॑ युनज्मि ।
इन्द्र॑ शाक्वरानु॒ष्टुभ॒-म्प्रप॑द्ये । ता-न्ते॑ युनज्मि । इन्द्र॑ शाक्वर प॒ङ्क्ति-म्प्रप॑द्ये ॥ 81 ॥

ता-न्ते॑ युनज्मि ॥ आ-ऽह-न्दी॒क्षाम॑रुह-मृ॒तस्य॒ पत्नी᳚म् । गा॒य॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च । ऋ॒तग्ं स॒त्ये॑-ऽधायि । स॒त्यमृ॒ते॑-ऽधायि ।
ऋ॒त-ञ्च॑ मे स॒त्य-ञ्चा॑भूताम् । ज्योति॑रभूव॒ग्ं॒ सुव॑रगमम् ।
सु॒व॒र्गं-लोँ॒क-न्नाक॑स्य पृ॒ष्ठम् । ब्र॒द्ध्नस्य॑ वि॒ष्टप॑मगमम् ॥
पृ॒थि॒वी दी॒क्षा ॥ 82 ॥

तया॒-ऽग्नि र्दी॒क्षया॑ दीक्षि॒तः । यया॒-ऽग्नि र्दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । अ॒न्तरि॑क्ष-न्दी॒क्षा ।
तया॑ वा॒यु र्दी॒क्षया॑ दीक्षि॒तः ।
यया॑ वा॒यु र्दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । द्यौ र्दी॒क्षा ।
तया॑-ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ।
यया॑-ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒तः ॥ 83 ॥

तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । दिशो॑ दी॒क्षा ।
तया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः ।
यया॑ च॒न्द्रमा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि ।
आपो॑ दी॒क्षा । तया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । यया॒ वरु॑णो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः । तया᳚ त्वा दी॒क्षया॑ दीक्षयामि ।
ओष॑धयो दी॒क्षा ॥ 84 ॥

तया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः। यया॒ सोमो॒ राजा॑ दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । वाग् दी॒क्षा ।
तया᳚ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः ।
यया᳚ प्रा॒णो दी॒क्षया॑ दीक्षि॒तः ।
तया᳚ त्वा दी॒क्षया॑ दीक्षयामि । पृ॒थि॒वी त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् ।
अ॒न्तरि॑क्ष-न्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् ।
द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् ॥ 85 ॥

दिश॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । आप॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
ओष॑धयस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । वाक्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षताम् ।
ऋच॑स्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । सामा॑नि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ।
यजूग्ं॑षि त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चा-प॑चितिश्च ॥ 86 ॥

आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च । तास्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षन्ताम् ॥
स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द । दे॒वानाग्ं॑ सु॒म्नो म॑ह॒ते रणा॑य । स्वा॒स॒स्थ-स्त॒नुवा॒ सं​विँ॑शस्व । पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवः॑ ।
शि॒वो मा॑ शि॒वमावि॑श । स॒त्य-म्म॑ आ॒त्मा । श्र॒द्धा मे ऽक्षि॑तिः ॥ 87 ॥

तपो॑ मे प्रति॒ष्ठा । स॒वि॒तृ-प्र॑सूता मा॒ दिशो॑ दीक्षयन्तु । स॒त्यम॑स्मि ॥ अ॒ह-न्त्वद॑स्मि॒ मद॑सि॒ त्वमे॒तत् । ममा॑सि॒ योनि॒स्तव॒ योनि॑रस्मि । ममै॒व सन्वह॑ ह॒व्यान्य॑ग्ने ।
पु॒त्रः पि॒त्रे लो॑क॒कृ-ज्जा॑तवेदः ॥
आ॒जुह्वा॑न-स्सु॒प्रती॑कः पु॒रस्ता᳚त् ।
अग्ने॒ स्वां-योँनि॒मासी॑द सा॒द्ध्या ।
अ॒स्मिन्-थ्स॒धस्थे॒ अद्ध्युत्त॑रस्मिन्न् ॥ 88 ॥

विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥
एक॑मि॒षे विष्णु॒स्त्वा-ऽन्वे॑तु ।
द्वे ऊ॒र्जे विष्णु॒स्त्वा-ऽन्वे॑तु ।
त्रीणि॑ व्र॒ताय॒ विष्णु॒स्त्वा-ऽन्वे॑तु ।
च॒त्वारि॒ मायो॑ भवाय॒ विष्णु॒स्त्वा-ऽन्वे॑तु ।
पञ्च॑ प॒शुभ्यो॒ विष्णु॒स्त्वा-ऽन्वे॑तु । षड्रा॒यस्पोषा॑य॒ विष्णु॒स्त्वा-ऽन्वे॑तु ।
स॒प्त स॒प्तभ्यो॒ होत्रा᳚भ्यो॒ विष्णु॒स्त्वा-ऽन्वे॑तु ॥
सखा॑य-स्स॒प्तप॑दा अभूम । स॒ख्य-न्ते॑ गमेयम् ॥ 89 ॥

स॒ख्यात्ते॒ मा यो॑षम् । स॒ख्यान्मे॒ मा यो᳚ष्ठाः ॥ सा-ऽसि॑ सुब्रह्मण्ये ।
तस्या᳚स्ते पृथि॒वी पादः॑ । सा-ऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते॒-ऽन्तरि॑क्ष॒-म्पादः॑ ।
सा-ऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते॒ द्यौः पादः॑ । सा-ऽसि॑ सुब्रह्मण्ये । तस्या᳚स्ते॒ दिशः॒ पादः॑ ॥ 90 ॥

प॒रो र॑जास्ते पञ्च॒मः पादः॑ । सा न॒ इष॒मूर्ज॑-न्धुक्ष्व । तेज॑ इन्द्रि॒यम् । ब्र॒ह्म॒व॒र्च॒स-म॒न्नाद्य᳚म् ॥ विमि॑मे त्वा॒ पय॑स्वतीम् । दे॒वाना᳚-न्धे॒नुग्ं सु॒दुघा॒-मन॑प-स्फुरन्तीम् । इन्द्र॒-स्सोम॑-म्पिबतु ।
क्षेमो॑ अस्तु नः ॥ इ॒मा-न्न॑राः कृणुत॒ वेदि॒मेत्य॑ । वसु॑मतीग्ं रु॒द्रव॑ती-मादि॒त्यव॑तीम् ॥ 91 ॥

वर्​ष्म॑न्दि॒वः । नाभा॑ पृथि॒व्याः ।
यथा॒-ऽयं-यँज॑मानो॒ न रिष्ये᳚त् ।
दे॒वस्य॑ सवि॒तु-स्स॒वे ॥
चतु॑-श्शिखण्डा युव॒ति-स्सु॒पेशाः᳚ ।
घृ॒तप्र॑तीका॒ भुव॑नस्य॒ मद्ध्ये᳚ ।
तस्याग्ं॑ सुप॒र्णावधि॒ यौ निवि॑ष्टौ ।
तयो᳚ र्दे॒वाना॒मधि॑ भाग॒धेय᳚म् ॥
अप॒ जन्य॑-म्भ॒य-न्नु॑द । अप च॒क्राणि॑ वर्तय । गृ॒हग्ं सोम॑स्य गच्छतम् ॥
न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि ।
दे॒वाग्ं इदे॑षि प॒थिभि॑-स्सु॒गेभिः॑ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ ।
तत्र॑ त्वा दे॒व-स्स॑वि॒ता द॑धातु ॥ 92 ॥
(ब्रह्म॑णो॒ योनि॒ - रग्ंह॑सः - प॒ङ्क्ति-म्प्रप॑द्ये - दी॒क्षा - ययो॑-ऽऽदि॒त्यो दी॒क्षया॑ दीक्षि॒त - स्तया᳚ त्वा दी॒क्षया॑ दीक्षया॒म्योष॑धयो दी॒क्षा - द्यौस्त्वा॒ दीक्ष॑माण॒मनु॑ दीक्षता॒ - मप॑चिति॒श्चा - क्षि॑ति॒ - रुत्त॑रस्मिन् - गमेयं॒ - दिशः॒ पाद॑ - आदि॒त्यव॑तीं - ँवर्तय॒ पञ्च॑ च) (अ. 7)

अनुवाकं 8 - पशुविषया अच्छिद्रमन्त्राः
यद॒स्य पा॒रे रज॑सः । शु॒क्र-ञ्ज्योति॒-रजा॑यत । तन्नः॑ पर्​ष॒दति॒ द्विषः॑ ।
अग्ने॑ वैश्वानर॒ स्वाहा᳚ ॥ यस्मा᳚द्भी॒षा-ऽवा॑शिष्ठाः । ततो॑ नो॒ अभ॑य-ङ्कृधि ।
प्र॒जाभ्य॒-स्सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ ॥ यस्मा᳚द्भी॒षा न्यष॑दः ।
ततो॑ नो॒ अभ॑य-ङ्कृधि ॥ 93 ॥

प्र॒जाभ्य॒-स्सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ ॥ उदु॑स्र तिष्ठ॒ प्रति॑तिष्ठ॒ मा रि॑षः । मेमं-यँ॒ज्ञं-यँज॑मान-ञ्च रीरिषः । सु॒व॒र्गे लो॒के यज॑मान॒ग्ं॒ हि धे॒हि । श-न्न॑ एधि द्वि॒पदे॒ श-ञ्चतु॑ष्पदे ॥
यस्मा᳚द्भी॒षा-ऽवे॑पिष्ठाः प॒लायि॑ष्ठा-स्स॒मज्ञा᳚स्थाः । ततो॑ नो॒ अभ॑य-ङ्कृधि ।
प्र॒जाभ्य॒-स्सर्वा᳚भ्यो मृड । नमो॑ रु॒द्राय॑ मी॒ढुषे᳚ ॥ 94 ॥

य इ॒दमकः॑ । तस्मै॒ नमः॑ । तस्मै॒ स्वाहा᳚ ॥
न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाग्ं इदे॑षि प॒थिभि॑-स्सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्था-द्वा॒जी धु॒रि रास॑भस्य ॥ । आशा॑ना-न्त्वा ऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः । इ॒द-म्भू॒तस्याध्य॑क्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् ॥
विश्वा॒ आशा॒ मधु॑ना॒ सग्ंसृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु । अ॒यं-यँज॑मानो॒ मृधो॒ व्य॑स्यताम् । अगृ॑भीताः प॒शव॑-स्सन्तु॒ सर्वे᳚ ॥ ॥ य॒ज्ञस्य॒ हि स्थ ऋ॒त्वियौ᳚ ।
इन्द्रा᳚ग्नी॒ चेत॑नस्य च । हु॒ता॒हु॒तस्य॑ तृप्यतम् । अहु॑तस्य हु॒तस्य॑ च । हु॒तस्य॒ चाहु॑तस्य च । अहु॑तस्य हु॒तस्य॑ च । इन्द्रा᳚ग्नी अ॒स्य सोम॑स्य । वी॒त-म्पि॑बत-ञ्जु॒षेथा᳚म् ॥
मा यज॑मान॒-न्तमो॑ विदत् । मर्त्विजो॒ मो इ॒माः प्र॒जाः । मा य-स्सोम॑मि॒म-म्पिबा᳚त् । सग्ंसृ॑ष्टमु॒भय॑-ङ्कृ॒तम् ॥ 95 ॥
(कृ॒धि॒ - मी॒ढुषे - ऽहु॑तस्य च स॒प्त च॑) (अ. 8)

अनुवाकं 9 - उपांश्वभिषवा मन्त्राः
अ॒ना॒गस॑स्त्वा व॒यम् । इन्द्रे॑ण॒ प्रेषि॑ता॒ उप॑ । वा॒युष्टे॑ अस्त्वग्ंश॒भूः । मि॒त्रस्ते॑ अस्त्वग्ंश॒भूः । वरु॑णस्ते अस्त्वग्ंश॒भूः ॥
अपा᳚-ङ्क्षया॒ ऋत॑स्य गर्भाः । भुव॑नस्य गोपा॒-श्श्येना॑ अतिथयः । पर्व॑ताना-ङ्ककुभः प्र॒युतो॑ नपातारः । व॒ग्नुनेन्द्रग्ग्॑ ह्वयत ।
घोषे॒णामी॑-वाग्​श्चातयत ॥ 96 ॥

यु॒क्ता-स्स्थ॒ वह॑त ॥ दे॒वा ग्रावा॑ण॒ इन्दु॒रिन्द्र॒ इत्य॑वादिषुः । एन्द्र॑मचुच्यवुः पर॒मस्याः᳚ परा॒वतः॑ । आ-ऽस्मा-थ्स॒धस्था᳚त् ।
ओरोर॒न्तरि॑क्षात् । आ सु॑भू॒तम॑सुषवुः । ब्र॒ह्म॒व॒र्च॒स-म्म॒ आ-ऽसु॑षवुः ।
स॒म॒रे रक्षाग्॑स्यवधिषुः । अप॑हत-म्ब्रह्म॒ज्यस्य॑ ॥ वाक्च॑ त्वा॒ मन॑श्च श्रिणीताम् ॥ 97 ॥

प्रा॒णश्च॑ त्वा-ऽपा॒नश्च॑ श्रीणीताम् ।
चक्षु॑श्च त्वा॒ श्रोत्र॑-ञ्च श्रीणीताम् ।
दक्ष॑श्च त्वा॒ बल॑-ञ्च श्रीणीताम् । ओज॑श्च त्वा॒ सह॑श्च श्रीणीताम् । आयु॑श्च त्वा ज॒रा च॑ श्रीणीताम् । आ॒त्मा च॑ त्वा त॒नूश्च॑ श्रीणीताम् । शृ॒तो॑-ऽसि शृ॒त-ङ्कृ॑तः । शृ॒ताय॑ त्वा शृ॒तेभ्य॑स्त्वा ॥
यमिन्द्र॑मा॒हु र्वरु॑णं॒-यँमा॒हुः । य-म्मि॒त्रमा॒हु-र्यमु॑ स॒त्यमा॒हुः ॥ 98 ॥

यो दे॒वाना᳚-न्दे॒वत॑मस्तपो॒जाः । तस्मै᳚ त्वा॒ तेभ्य॑स्त्वा ॥ मयि॒ त्यदि॑न्द्रि॒य-म्म॒हत् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्य᳚म् । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू᳚त्या॒ मन॑सा स॒ह ।
वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह ।
तस्य॒ दोह॑मशीमहि ॥ 99 ॥

तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ॥ मि॒त्रो जनान्॑ यातयति प्रजा॒न-न्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒-ऽभि च॑ष्टे स॒त्याय॑ ह॒व्य-ङ्घृ॒तव॑-द्विधेम ॥ प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्. यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मग्ंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ ॥ यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॑ । य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा᳚ ।
प्र॒जाप॑तिः प्र॒जया॑ सं​विँदा॒नः ।
त्रीणि॒ ज्योतीग्ं॑षि सचते॒ स षो॑ड॒शी ॥
ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ ।
इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ॥ 100 ॥

प्र ते॑ म॒हे वि॒दथे॑ ऽशग्ंसिष॒ग्ं॒ हरी᳚ । य ऋ॒त्वियः॒ प्र ते॑ वन्वे ।
व॒नुषो॑ हर्य॒त-म्मद᳚म् ॥ इन्द्रो॒ नाम॑ घृ॒त-न्न यः । हरि॑भि॒श्चारु॒ सेच॑ते ।
श्रु॒तो ग॒ण आ त्वा॑ विशन्तु । हरि॑वर्पस॒गिंरः॑ ॥
इन्द्राधि॑प॒ते-ऽधि॑पति॒स्त्व-न्दे॒वाना॑मसि । अधि॑पति॒-म्माम् । आयु॑ष्मन्तं॒-वँर्च॑स्वन्त-म्मनु॒ष्ये॑षु कुरु ॥ 101 ॥

इन्द्र॑श्च स॒म्रा-ड्वरु॑णश्च॒ राजा᳚ ।
तौ ते॑ भ॒क्ष-ञ्च॑क्रतु॒रग्र॑ ए॒तम् ।
तयो॒रनु॑ भ॒क्ष-म्भ॑क्षयामि ।
वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ॥
प्र॒जाप॑ति र्वि॒श्वक॑र्मा । तस्य॒ मनो॑ दे॒वं-यँ॒ज्ञेन॑ राद्ध्यासम् । अ॒र्थे॒ गा अ॒स्य ज॑हितः । अ॒व॒सान॑पते-ऽव॒सान॑-म्मे विन्द ॥
नमो॑ रु॒द्राय॑ वास्तो॒ष्पत॑ये ।
आय॑ने वि॒द्रव॑णे ॥ 102 ॥

उ॒द्याने॒ यत्प॒राय॑णे । आ॒वर्त॑ने वि॒वर्त॑ने ।
यो गो॑पा॒यति॒ तग्ं हु॑वे ॥
यान्य॑पा॒मित्या॒-न्यप्र॑तीत्ता॒-न्यस्मि॑ ।
य॒मस्य॑ ब॒लिना॒ चरा॑मि ।
इ॒हैव सन्तः॒ प्रति॒ तद्या॑तयामः ।
जी॒वा जी॒वेभ्यो॒ निह॑राम एनत् ॥
अ॒नृ॒णा अ॒स्मिन्न॑-नृ॒णाः पर॑स्मिन्न् ।
तृ॒तीये॑ लो॒के अ॑नृ॒णा-स्स्या॑म ।
ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः᳚ ॥ 103 ॥

सर्वा᳚-न्प॒थो अ॑नृ॒णा आक्षी॑येम ॥
इ॒दमू॒ नु श्रेयो॑-ऽव॒सान॒-माग॑न्म ।
शि॒वे नो॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे । गोम॒द्धन॑-व॒दश्व॑व॒-दूर्ज॑स्वत् ।
सु॒वीरा॑ वी॒रैरनु॒ सञ्च॑रेम ॥ अ॒र्कः प॒वित्र॒ग्ं॒ रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वाना॒-म्भुव॑नानि॒ विश्वा᳚ । द्यावा॑पृथि॒वी पय॑सा सं​विँदा॒ने ।
घृ॒त-न्दु॑हाते अ॒मृत॒-म्प्रपी॑ने ॥ प॒वित्र॑म॒र्को रज॑सो वि॒मानः॑ ।
पु॒नाति॑ दे॒वाना॒-म्भुव॑नानि॒ विश्वा᳚ ।
सुव॒ र्ज्योति॒ र्यशो॑ म॒हत् ।
अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठाम् ॥ 104 ॥
(चा॒त॒य॒त॒ - श्री॒णी॒ता॒ग्ं॒ - स॒त्यमा॒हु - र॑शीमहि - ग॒णे - कु॑रु - वि॒द्रव॑णे - पितृ॒याणा॑ - अ॒र्को रज॑सो वि॒मान॒स्त्रीणि॑ च) (अ. 9)

अनुवाकं 10 - सौमिकप्रायाश्चित्तमन्त्राः
उद॑स्ताम्फ्सी-थ्सवि॒ता मि॒त्रो अ॑र्य॒मा ।
सर्वा॑-न॒मित्रा॑-नवधीद्यु॒गेन॑ ।
बृ॒हन्त॒-म्माम॑कर-द्वी॒रव॑न्तम् । र॒थ॒न्त॒रे श्र॑यस्व॒ स्वाहा॑ पृथि॒व्याम् ।
वा॒म॒दे॒व्ये श्र॑यस्व॒ स्वाहा॒-ऽन्तरि॑क्षे । बृ॒ह॒ति श्र॑यस्व॒ स्वाहा॑ दि॒वि ।
बृ॒ह॒ता त्वोप॑स्तभ्नोमि ॥
आ त्वा॑ ददे॒ यश॑से वी॒र्या॑य च ।
अ॒स्मास्व॑-घ्निया यू॒य-न्द॑धाथेन्द्रि॒य-म्पयः॑ ॥ यस्ते᳚ द्र॒फ्सो यस्त॑ उद॒र्॒षः ॥ 105 ॥

दैव्यः॑ के॒तु र्विश्व॒-म्भुव॑न-मावि॒वेश॑ ।
स नः॑ पा॒ह्यरि॑ष्ट्यै॒ स्वाहा᳚ ॥
अनु॑ मा॒ सर्वो॑ य॒ज्ञो॑-ऽयमे॑तु ।
विश्वे॑ दे॒वा म॒रुत॒-स्सामा॒र्कः ।
आ॒प्रिय॒ ॑007आ;छन्दाग्ं॑सि नि॒विदो॒ यजूग्ं॑षि । अ॒स्यै पृ॑थि॒व्यै यद्य॒ज्ञिय᳚म् ॥
प्र॒जाप॑ते र्वर्त॒निमनु॑ वर्तस्व ।
अनु॑ वी॒रैरनु॑ राद्ध्याम॒ गोभिः॑ ।
अन्वश्वै॒रनु॒ सर्वै॑रु पु॒ष्टैः ।
अनु॑ प्र॒जया-ऽन्वि॑न्द्रि॒येण॑ ॥ 106 ॥

दे॒वा नो॑ य॒ज्ञ-मृ॑जु॒धा न॑यन्तु ॥
प्रति॑ क्ष॒त्रे प्रति॑ तिष्ठामि रा॒ष्ट्रे ।
प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जाया॒-म्प्रति॑ तिष्ठामि॒ भव्ये᳚ ।
विश्व॑म॒न्या-ऽभि॑ वावृ॒धे । तद॒न्यस्या॒-मधि॑श्रि॒तम् । दि॒वे च॑ वि॒श्वक॑र्मणे ।
पृ॒थि॒व्यै चा॑कर॒-न्नमः॑ ॥ अस्का॒न्द्यौः पृ॑थि॒वीम् । अस्का॑नृष॒भो युवा॒ गाः ॥ 107 ॥

स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञः प्रज॑नयतु । अस्का॒नज॑नि॒ प्राज॑नि ।
आ स्क॒न्नाज्जा॑यते॒ वृषा᳚ । स्क॒न्ना-त्प्रज॑निषीमहि ॥ ये दे॒वा येषा॑मि॒द-म्भा॑ग॒धेय॑-म्ब॒भूव॑ । येषा᳚-म्प्रया॒जा उ॒तानू॑या॒जाः । इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यः । अ॒ग्निहो॑तृभ्यो दे॒वेभ्य॒-स्स्वाहा᳚ ॥ उ॒त त्या नो॒ दिवा॑ म॒तिः ॥ 108 ॥

अदि॑तिरू॒त्या-ऽऽग॑मत् । सा शन्ता॑ची॒ मय॑स्करत् । अप॒ स्रिधः॑ ॥ उ॒त त्या दैव्या॑ भि॒षजा᳚ । श-न्न॑स्करतो अ॒श्विना᳚ । यू॒याता॑-म॒स्मद्रपः॑ ।
अप॒ स्रिधः॑ ॥ शम॒ग्नि-र॒ग्निभि॑स्करत् । श-न्न॑स्तपतु॒ सूर्यः॑ । शं-वाँतो॑ वात्वर॒पाः ॥ 109 ॥

अप॒ स्रिधः॑ ॥ तदित्प॒द-न्न विचि॑केत वि॒द्वान् ।
यन्मृ॒तः पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्य-द्भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒त-स्स जी॑वात् ॥ प्रत्य॑स्मै॒ पिपी॑षते । वि॒श्वा॑नि वि॒दुषे॑ भर । अ॒र॒-ङ्ग॒माय॒ जग्म॑वे ।
अप॑श्चाद्दध्वने॒ नरे᳚ (ओ-रप॑श्चाद्दघ्वने॒ नरे᳚) ॥ इन्दु॒रिन्दु॒म-वा॑गात् ।
इन्दो॒रिन्द्रो॑-ऽपात् । तस्य॑ त इन्द॒विन्द्र॑-पीतस्य॒ मधु॑मतः । उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ 110 ॥
(उ॒द॒र्॒ष - इ॑न्द्रि॒येण॒ - गा - म॒ति - र॑र॒पा - अ॑गा॒त्रीणि॑ च) (अ. 10)

अनुवाकं 11 - दर्​शपूर्णमासप्रायश्चित्तमन्त्राः
ब्रह्म॑ प्रति॒ष्ठा मन॑सो॒ ब्रह्म॑ वा॒चः । ब्रह्म॑ य॒ज्ञानाग्ं॑ ह॒विषा॒-माज्य॑स्य ।
अति॑रिक्त॒-ङ्कर्म॑णो॒ यच्च॑ ही॒नम् । य॒ज्ञः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ ।
स्वाहा॑कृ॒ता-ऽऽहु॑तिरेतु दे॒वान् ॥ आश्रा॑वितम॒त्याश्रा॑वितम् ।
वष॑ट्कृत-म॒त्यनू᳚क्त-ञ्च य॒ज्ञे ।
अति॑रिक्त॒-ङ्कर्म॑णो॒ यच्च॑ ही॒नम् ।
य॒ज्ञः पर्वा॑णि प्रति॒रन्ने॑ति क॒ल्पयन्न्॑ ।
स्वाहा॑कृ॒ता-ऽऽहु॑तिरेतु दे॒वान् ॥ 111 ॥

यद्वो॑ देवा अतिपा॒दया॑नि । वा॒चा चि॒त्प्रय॑त-न्देव॒ हेड॑नम् । अ॒रा॒यो अ॒स्माग्ं अ॒भि-दु॑च्छुना॒यते᳚। अ॒न्यत्रा॒स्म-न्म॑रुत॒स्त-न्निधे॑तन ॥ त॒त-म्म॒ आप॒स्तदु॑ तायत॒ पुनः॑ । स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते ।
अ॒यग्ं स॑मु॒द्र उ॒त वि॒श्वभे॑षजः ।
स्वाहा॑-कृतस्य॒ समु॑तृप्णुत र्भुवः ॥
उद्व॒य-न्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒व-न्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ ।
उदु॒ त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ॥ चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑क॒-ञ्चक्षु॑-र्मि॒त्रस्य॒ वरु॑णस्या॒-ऽग्नेः । आ-ऽ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ग्ं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ ॥ 112 ॥

इ॒म-म्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ ।
त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वा-न्दे॒वस्य॒ हेडो-ऽव॑ यासि सीष्ठाः । यजि॑ष्ठो॒ वह्नि॑ तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
स त्वन्नो॑ अग्ने-ऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ग्ं॒ ररा॑णो वी॒हि मृ॑डी॒कग्ं सु॒हवो॑ न एधि ॥ । त्वम॑ग्ने अ॒या-ऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सनःअ॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतः पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒द-न्नमः॑ ॥ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ ॥ इ॒म-ञ्जी॒वेभ्यः॑ परि॒धि-न्द॑धामि । मैषा-न्नु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् । श॒त-ञ्जी॑वन्तु श॒रदः॑ पुरू॒चीः । ति॒रो मृ॒त्यु-न्द॑धता॒-म्पर्व॑तेन ॥
इ॒ष्टेभ्य॒-स्स्वाहा॒ वष॒डनि॑ष्टेभ्य॒-स्स्वाहा᳚ । भे॒ष॒ज-न्दुरि॑ष्ट्यै॒ स्वाहा॒ निष्कृ॑त्यै॒ स्वाहा᳚ । दौरा᳚र्ध्यै॒ स्वाहा॒ दैवी᳚भ्य-स्त॒नूभ्य॒-स्स्वाहा᳚ ॥ 113 ॥

ऋद्ध्यै॒ स्वाहा॒ समृ॑द्ध्यै॒ स्वाहा᳚ ॥
यत॑ इन्द्र॒ भया॑महे ।
ततो॑ नो॒ अभ॑य-ङ्कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये᳚ । वि द्विषो॒ वि मृधो॑ जहि ॥ स्व॒स्ति॒दा वि॒शस्पतिः॑ । वृ॒त्र॒हा विमृधो॑ व॒शी । वृषेन्द्रः॑ पु॒र ए॑तु नः । स्व॒स्ति॒दा अ॑भय-ङ्क॒रः ॥ आ॒भि र्गी॒र्भि र्यदतो॑ न ऊ॒नम् ॥ 114 ॥

आप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ ।
भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम ॥ अना᳚ज्ञातं॒-यँदाज्ञा॑तम् । य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ । अग्ने॒ तद॑स्य कल्पय । त्वग्ं हि वेत्थ॑ यथात॒थम् ॥ पुरु॑ष सम्मितो य॒ज्ञः । य॒ज्ञः पुरु॑ष सम्मितः । अग्ने॒ तद॑स्य कल्पय ।
त्वग्ं हि वेत्थ॑ यथात॒थम् ॥ य-त्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न । य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः । अ॒ग्निष्टद्धोता᳚ कृतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाग्ं ऋ॑तु॒शो य॑जाति ॥ 115 ॥
(दे॒वाग्​ - श्चि॒त्रं - त॒नूभ्य॒-स्स्वाहो॒ - नं - पुरु॑षसम्मि॒तो-ऽग्ने॒ तद॑स्य कल्पय॒ पञ्च॑ च) (अ. 11)

अनुवाकं 12 - अग्निष्टोमादौ यजमानजप्या मन्त्रविशेषाः
यद्दे॑वा देव॒हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒-स्तस्मा᳚न्मा मुञ्चत ।
ऋ॒तस्य॒र्तेन॒ मामु॒त ॥ देवा॑ जीवनका॒म्या यत् । वा॒चा-ऽनृ॑तमूदि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्​ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒ नस᳚म् ॥ 116 ॥
ऋ॒तेन॑ द्यावापृथिवी । ऋ॒तेन॒ त्वग्ं स॑रस्वति । ऋ॒तान्मा॑ मुञ्च॒ताग्ंह॑सः । यद॒न्य कृ॑तमारि॒म ॥ स॒जा॒त॒श॒ग्ं॒सादु॒त वा॑ जामिश॒ग्ं॒सात् । ज्याय॑स॒-श्शग्ंसा॑दु॒त वा॒ कनी॑यसः । अना᳚ज्ञात-न्दे॒वकृ॑तं॒-यँदेनः॑ । तस्मा॒त्त्वम॒स्मा-ञ्जा॑तवेदो मुमुग्धि ॥ यद्वा॒चा यन्मन॑सा । बा॒हुभ्या॑-मू॒रुभ्या॑-मष्ठी॒वद्भ्या᳚म् ॥ 117 ॥

शि॒श्ञै र्यदनृ॑त-ञ्चकृ॒मा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ यद्धस्ता᳚भ्या-ञ्च॒कर॒ किल्बि॑षाणि । अ॒क्षाणां᳚-वँ॒ग्नुमु॑प॒ जिघ्न॑मानः । दू॒रे॒प॒श्या च॑ राष्ट्र॒भृच्च॑ । तान्य॑फ्स॒रसा॒-वनु॑दत्ता-मृ॒णानि॑ ॥
अदी᳚व्यन्नृ॒णं-यँद॒ह-ञ्च॒कार॑ । यद्वा-ऽदा᳚स्यन्-थ्सञ्ज॒गारा॒ जने᳚भ्यः ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ यन्मयि॑ मा॒ता गर्भे॑ स॒ति ॥ 118 ॥

एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ यदा॑ पि॒पेष॑ मा॒तर॑-म्पि॒तर᳚म् ।
पु॒त्रः प्रमु॑दितो॒ धयन्न्॑ । अहिग्ं॑सितौ पि॒तरौ॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि ॥ यद॒न्तरि॑क्ष-म्पृथि॒वीमु॒त द्याम् ।
यन्मा॒तर॑-म्पि॒तरं॑-वाँ जिहिग्ंसि॒म ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा᳚ ॥ 119 ॥

यदेन॑श्च कृ॒मा नूत॑नं॒-यँत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ अति॑क्रामामि दुरि॒तं-यँदेनः॑ । जहा॑मि रि॒प्र-म्प॑र॒मे स॒धस्थे᳚ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमारो॑हामि सु॒कृता॒-न्नु लो॒कम् ॥
त्रि॒ते दे॒वा अ॑मृजतै॒-तदेनः॑ ।
त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मामृजे ।
ततो॑ मा॒ यदि॒ किञ्चि॑दान॒शे ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः ॥ 120 ॥

गार्​ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नस᳚म् ॥ दि॒वि जा॒ता अ॒फ्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः । अथो॒ या अ॑ग्नि॒जा आपः॑ । ता न॑-श्शुन्धन्तु॒ शुन्ध॑नीः ॥
यदापो॒ नक्त॑-न्दुरि॒त-ञ्चरा॑म ।
यद्वा॒ दिवा॒ नूत॑नं॒-यँत्पु॑रा॒णम् ।
हिर॑ण्य-वर्णा॒स्तत॒ उत्पु॑नीत नः ॥
इ॒म-म्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ । त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वा-न्दे॒वस्य॒ हेडो-ऽव॑ यासि सीष्ठाः । यजि॑ष्ठो॒ वह्नि॑ तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥ स त्वन्नो॑ अग्ने-ऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ग्ं॒ ररा॑णो वी॒हि मृ॑डी॒कग्ं सु॒हवो॑ न एधि ॥ । त्वम॑ग्ने अ॒या-ऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सनःअ॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतः पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒द-न्नमः॑ ॥ ॥ 121 ॥
(अ॒ने॒नस॑ - मष्ठी॒वद्भ्याग्ं॑ - स॒ति - प॑रा॒शसा॑-ऽऽन॒शे᳚ - ऽग्निर्मा॒ तस्मा॒देन॑सः - पुनीत न॒स्त्रीणि॑ च) (अ. 12)

(य-द्दे॑वा॒ गार्​ह॑पत्यो॒ यद्धस्ता᳚भ्यां॒-यँन्मयि॑ मा॒ता यदा॑पि॒पेष॒
ँयद॒न्तरि॑क्षं॒-यँदा॒शसा-ऽति॑क्रामामि त्रि॒ते दे॒वा दि॒वि जा॒ता अ॒फ्सु जा॒ता यदाप॑ इ॒म-म्मे॑ वरुणा॒ तत्त्वा॑ यामि॒ त्व-न्नो॑ अग्ने॒ स त्व-न्नो॑ अग्ने॒ त्वम॑ग्ने अ॒या-ऽसि॑)

अनुवाकं 13 - अवभृथे कर्मणि ऋजीषप्रोक्षणमन्त्राः
यत्ते॒ ग्राव्.ण्णा॑ चिच्छि॒दु-स्सो॑म राजन्न् ।
प्रि॒याण्यङ्गा॑नि॒ स्वधि॑ता॒ परूग्ं॑षि । तथ्सन्ध॒-थ्स्वाज्ये॑नो॒त व॑र्धयस्व ।
अ॒ना॒गसो॒ अध॒मिथ्स॒क्षं​येँ॑म ॥ यत्ते॒ ग्रावा॑ बा॒हुच्यु॑तो॒ अचु॑च्यवुः ।
नरो॒ यत्ते॑ दुदु॒हु र्दक्षि॑णेन ।
तत्त॒ आप्या॑यता॒-न्तत्ते᳚ । निष्ट्या॑यता-न्देव
सोम ॥ यत्ते॒ त्वच॑-म्बिभि॒दुर्यच्च॒ योनि᳚म् ।
यदा॒स्थाना॒-त्प्रच्यु॑तो॒ वेन॑सि॒ त्मना᳚ ॥ 122 ॥

त्वया॒ तथ्सो॑म गु॒प्तम॑स्तु नः ।
सा न॑-स्स॒धां-ऽस॑त्पर॒मे व्यो॑मन्न् ॥
अहा॒च्छरी॑र॒-म्पय॑सा स॒मेत्य॑ । अ॒न्यो᳚-ऽन्यो भवति॒ वर्णो॑ अस्य । तस्मि॑न् व॒यमुप॑हूता॒स्तव॑ स्मः । आ नो॑ भज॒ सद॑सि वि॒श्वरू॑पे ॥
नृ॒चक्षा॒-स्सोम॑ उ॒त शु॒श्रुग॑स्तु ।
मा नो॒ विहा॑सी॒द्गिर॑ आवृणा॒नः ।
अना॑गा-स्त॒नुवो॑ वावृधा॒नः ।
आ नो॑ रू॒पं-वँ॑हतु॒ जाय॑मानः ॥ 123 ॥

उप॑क्षरन्ति जु॒ह्वो॑ घृ॒तेन॑ । प्रि॒याण्यङ्गा॑नि॒ तव॑ व॒र्धय॑न्तीः । तस्मै॑ ते सोम॒ नम॒ इद्वष॑ट्च । उप॑ मा राजन्-थ्सुकृ॒ते ह्व॑यस्व ॥
स-म्प्रा॑णापा॒नाभ्या॒ग्ं॒ समु॒ चक्षु॑षा॒ त्वम् । सग्ग्​ श्रोत्रे॑ण गच्छस्व सोम राजन्न् ।
यत्त॒ आस्थि॑त॒ग्ं॒ शमु॒ तत्ते॑ अस्तु । जा॒नी॒तान्न॑-स्स॒गम्म॑ने पथी॒नाम् ॥ ए॒त-ञ्जा॑नीतात्पर॒मे व्यो॑मन्न् । वृका᳚-स्सधस्था वि॒द रू॒पम॑स्य ॥ 124 ॥

यदा॒गच्छा᳚-त्प॒थिभि॑ र्देव॒यानैः᳚ । इ॒ष्टा॒पू॒र्ते कृ॑णुता-दा॒विर॑स्मै ॥
अरि॑ष्टो राजन्नग॒दः परे॑हि । नम॑स्ते अस्तु॒ चक्ष॑से रघूय॒ते । नाक॒मारो॑ह स॒ह यज॑मानेन । सूर्य॑-ङ्गच्छतात्पर॒मे व्यो॑मन्न् ॥
अभू᳚द्दे॒व-स्स॑वि॒ता वन्द्यो॒ नु नः॑ । इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ ।
वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॑ । श्रेष्ठ॑-न्नो॒ अत्र॒ द्रवि॑णं॒-यँथा॒ दध॑त् ॥
उप॑ नो मित्रावरुणा-वि॒हाव॑तम् । अ॒न्वादी᳚द्ध्या-थामि॒ह न॑-स्सखाया । आ॒दि॒त्याना॒-म्प्रसि॑तिर्-हे॒तिः । उ॒ग्रा श॒तापा᳚ष्ठा घ॒विषा॒ परि॑णो वृणक्तु ॥
आ प्या॑यस्व॒ समॆ॑तु ते वि॒श्वत॑-स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ स-न्ते॒ पयाग्ं॑सि॒ समु॑ यन्तु॒ वाजा॒-स्सं-वृँष्णि॑या-न्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाग्॑स्युत्त॒मानि॑ धिष्व ॥ ॥ 125 ॥
(त्मना॒ - जाय॑मानो - ऽस्य॒ - दध॒-त्पञ्च॑ च) (अ. 13)

अनुवाकं 14 - अवभृथे कर्मणि सेचनादिमन्त्राः
यद्दि॑दी॒क्षे मन॑सा॒ यच्च॑ वा॒चा । यद्वा᳚ प्रा॒णैश्चक्षु॑षा॒ यच्च॒ श्रोत्रे॑ण ।
यद्रेत॑सा मिथु॒नेना-प्या॒त्मना᳚ ।
अ॒द्भ्यो लो॒का द॑धि॒रे तेज॑ इन्द्रि॒यम् ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यम् ॥
यदृ॒चा साम्ना॒ यजु॑षा । प॒शू॒ना-ञ्चर्म॑न्. ह॒विषा॑ दिदी॒क्षे ।
यच्छन्दो॑भि॒-रोष॑धीभि॒-र्वन॒स्पतौ᳚ ।
अ॒द्भ्यो लो॒का द॑धि॒रे (द॑धिरे॒) तेज॑ इन्द्रि॒यम् ॥ 126 ॥

शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यम् ॥
येन॒ ब्रह्म॒ येन॑ क्ष॒त्रम् । येने᳚न्द्रा॒ग्नी प्र॒जाप॑ति॒-स्सोमो॒ वरु॑णो॒ येन॒ राजा᳚ ।
विश्वे॑ दे॒वा ऋष॑यो॒ येन॑ प्रा॒णाः ।
अ॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒यम् ।
शु॒क्रा दी॒क्षायै॒ तप॑सो वि॒मोच॑नीः ।
आपो॑ विमो॒क्त्री र्मयि॒ तेज॑ इन्द्रि॒यम् ॥
अ॒पा-म्पुष्प॑म॒स्यो-ष॑धीना॒ग्ं॒ रसः॑ । सोम॑स्य प्रि॒य-न्धाम॑ ॥ 127 ॥

अ॒ग्नेः प्रि॒यत॑मग्ं ह॒वि-स्स्वाहा᳚ ॥ अ॒पा-म्पुष्प॑-म॒स्योष॑धीना॒ग्ं॒ रसः॑ ।
सोम॑स्य प्रि॒य-न्धाम॑ । इन्द्र॑स्य प्रि॒यत॑मग्ं ह॒वि-स्स्वाहा᳚ । अ॒पा-म्पुष्प॑म॒स्यो-ष॑धीना॒ग्ं॒ रसः॑ । सोम॑स्य प्रि॒य-न्धाम॑ ।
विश्वे॑षा-न्दे॒वाना᳚-म्प्रि॒यत॑मग्ं ह॒वि-स्स्वाहा᳚ ॥ व॒यग्ं सो॑म व्र॒ते तव॑ ।
मन॑स्त॒नूषु॒ पिप्र॑तः । प्र॒जाव॑न्तो अशीमहि ॥ 128 ॥

दे॒वेभ्यः॑ पि॒तृभ्य॒-स्स्वाहा᳚ । सो॒म्येभ्यः॑ पि॒तृभ्य॒-स्स्वाहा᳚ । क॒व्येभ्यः॑ पि॒तृभ्य॒-स्स्वाहा᳚ ॥ देवा॑स इ॒ह मा॑दयद्ध्वम् ।
सोम्या॑स इ॒ह मा॑दयद्ध्वम् । कव्या॑स इ॒ह मा॑दयद्ध्वम् ॥ अन॑न्तरिताः पि॒तर॑-स्सो॒म्या-स्सो॑मपी॒थात् ॥ अपै॑तु मृ॒त्युर॒मृत॑-न्न॒ आगन्न्॑ । वै॒व॒स्व॒तो नो॒ अभ॑य-ङ्कृणोतु ।
प॒र्णं-वँन॒स्पते॑रिव ॥ 129 ॥

अ॒भि न॑-श्शीयताग्ं र॒यिः । सच॑ता-न्न॒-श्शची॒पतिः॑ ॥ पर॑-म्मृत्यो॒ अनु॒परे॑हि॒ पन्था᳚म् । यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा नः॑ प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् ॥ इ॒दमू॒ नु श्रेयो॑-ऽव॒सान॒-माग॑न्म । यद्गो॒जि-द्ध॑न॒जि-द॑श्व॒जिद्यत् ।
प॒र्णं-वँन॒स्पते॑रिव । अ॒भि न॑-श्शीयताग्ं र॒यिः । सच॑ता-न्न॒-श्शची॒पतिः॑ ॥ 130 ॥
(वन॒स्पता॑व॒द्भ्यो लो॒का द॑धिरे॒ तेज॑ इन्द्रि॒य-न्धामा॑ - शीमही - वा॒ - भि न॑-श्शीयताग्ं र॒यिरेक॑-ञ्च) (अ. 14)

(सर्वा॒न्॒. - य-द्विष्ष॑ण्णेन॒ - वि वै - याः पु॒रस्ता॒-द्- देवा॑ दे॒वेषु॒ - परि॑स्तणित॒ - सक्षे॒दं - ँयद॒स्य पा॒रे॑ - ऽना॒गस॒ - उद॑स्ता-म्फ्सी॒-द्- ब्रह्म॑ प्रति॒ष्ठा - य-द्दे॑व॒ - यत्ते॒ ग्राव.ण्णा॒ - य-द्दि॑दी॒क्षे चतु॑र्दश)

(सर्वा॒न् - भूति॑मे॒व - यामे॒वाफ्स्वाहु॑तिम् - ँव्र॒तानां᳚ - पर्णव॒ल्कः - सो॒म्याना॑ - म॒स्मिन्. य॒ज्ञे - ऽग्ने॒ यो नो॒ - ज्योग्जी॒वाः - प॒रोर॑जास्ते॒ - प्र ते॑ म॒हे - ब्रह्म॑ प्रति॒ष्ठा - गार्​ह॑पत्या स्त्रि॒ग्ं॒शदु॑त्तरश॒तं)

(सर्वा॒न्॒. वै - शची॒पतिः॑)

॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके सप्तमः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: