View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

8 - ब्रह्मानन्दवल्ली - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - ब्रह्मविदाप्नोति परं

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके अष्टमः प्रपाठकः - ब्रह्मानन्दवल्ली

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

ब्रह्मानन्द वल्ली

अनुवाकं 13
स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 25 ॥
(स॒ह पञ्च॑) (अ. 13)

अनुवाकं 14
ब्र॒ह्म॒विदा᳚प्नोति॒ पर᳚म् ॥
तदे॒षा-ऽभ्यु॑क्ता । स॒त्य-ञ्ज्ञा॒न-म॑न॒न्त-म्ब्रह्म॑ ।
यो वेद॒ निहि॑त॒-ङ्गुहा॑या-म्पर॒मे व्यो॑मन्न् ।
सो᳚-ऽश्नुते॒ सर्वा॒न् कामा᳚न्-थ्स॒ह । ब्रह्म॑णा विप॒श्चितेति॑ ॥
तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒श-स्सम्भू॑तः । आ॒का॒शा-द्वा॒युः । वा॒योर॒ग्निः । अ॒ग्नेरापः॑ । अ॒द्भ्यः पृ॑थि॒वी । पृ॒थि॒व्या ओष॑धयः ।
ओष॑धी॒भ्यो-ऽन्न᳚म् । अन्ना॒-त्पुरु॑षः ॥
स वा एष पुरुषो-ऽन्न॑रस॒मयः ॥ तस्येद॑मेव॒ शिरः । अय-न्दक्षि॑णः प॒क्षः । अयमुत्त॑रः प॒क्षः । अयमात्मा᳚ । इद-म्पुच्छ॑-म्प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ॥ 26 ॥

अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते । याः काश्च॑ पृथि॒वीग्​ श्रि॒ताः । अथो॒ अन्ने॑नै॒व जी॑वन्ति । अथै॑न॒दपि॑यन्त्यन्त॒तः । अन्न॒ग्ं॒ हि भू॒ताना॒-ञ्ज्येष्ठ᳚म् । तस्मा᳚-थ्सर्वौष॒ध मु॑च्यते ।
सर्वं॒-वैँ ते-ऽन्न॑माप्नुवन्ति । ये-ऽन्न॒-म्ब्रह्मो॒पास॑ते । अन्न॒ग्ं॒ हि भू॒ताना॒-ञ्ज्येष्ठ᳚म् । तस्मा᳚-थ्सर्वौष॒ध मु॑च्यते । अन्ना᳚-द्भू॒तानि॒ जाय॑न्ते । जाता॒न्यन्ने॑न वर्धन्ते ।
अद्यते-ऽत्ति च॑ भूता॒नि । तस्मादन्न-न्तदुच्य॑त इ॒ति ॥
तस्माद्वा एतस्मा-दन्न॑रस॒मयात् ।
अन्यो-ऽन्तर आत्मा᳚ प्राण॒ मयः । तेनै॑ष पू॒र्णः ॥
स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑ष वि॒धताम् ।
अन्वय॑-म्पुरुष॒ विधः । तस्य प्राण॑ एव॒ शिरः ॥
व्यानो दक्षि॑णः प॒क्षः । अपान उत्त॑रः प॒क्षः ।
आका॑श आ॒त्मा । पृथिवी पुच्छ॑-म्प्रति॒ष्ठा ॥
तदप्येष श्लो॑को भ॒वति ॥ 27 ॥

प्रा॒ण-न्दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये । प्रा॒णो हि भू॒ताना॒मायुः॑ । तस्मा᳚-थ्सर्वायु॒ष मु॑च्यते । सर्व॑मे॒व त॒ आयु॑र्यन्ति ।
ये प्रा॒ण-म्ब्रह्मो॒पास॑ते ।
प्राणो हि भूता॑नामा॒युः । तस्मा-थ्सर्वायुष-मुच्य॑त इ॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥
तस्माद्वा एतस्मा᳚-त्प्राण॒मयात् । अन्यो-ऽन्तर आत्मा॑ मनो॒मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् ।
अन्वय॑-म्पुरुष॒विधः । तस्य यजु॑रेव॒ शिरः । ऋग् दक्षि॑णः प॒क्षः । सामोत्त॑रः प॒क्षः । आदे॑श आ॒त्मा । अथर्वाङ्गिरसः पुच्छ॑-म्प्रति॒ष्ठा ॥
तदप्येष श्लो॑को भ॒वति ॥ 28 ॥

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्द-म्ब्रह्म॑णो वि॒द्वान् । न बिभेति कदा॑चने॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥
तस्माद्वा एतस्मा᳚-न्मनो॒मयात् । अन्यो-ऽन्तर आत्मा वि॑ज्ञान॒मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑ष वि॒धताम् ।
अन्वय॑-म्पुरुष॒ विधः । तस्य श्र॑द्धैव॒ शिरः । ऋत-न्दक्षि॑णः प॒क्षः । सत्यमुत्त॑रः प॒क्षः । यो॑ग आ॒त्मा । महः पुच्छ॑-म्प्रति॒ष्ठा ॥ तदप्येष श्लो॑को भ॒वति ॥ 29 ॥

वि॒ज्ञानं॑-यँ॒ज्ञ-न्त॑नुते । कर्मा॑णि तनु॒ते-ऽपि॑ च । वि॒ज्ञान॑-न्दे॒वा-स्सर्वे᳚ । ब्रह्म॒ ज्येष्ठ॒-मुपा॑सते । वि॒ज्ञान॒-म्ब्रह्म॒ चे-द्वेद॑ । तस्मा॒च्चेन्न प्र॒माद्य॑ति । श॒रीरे॑ पाप्म॑नो हि॒त्वा । सर्वान्-कामान्-थ्समश्नु॑त इ॒ति ॥ तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ तस्माद्वा एतस्मा-द्वि॑ज्ञान॒मयात् । अन्यो-ऽन्तर आत्मा॑-ऽऽनन्द॒मयः । तेनै॑ष पू॒र्णः ॥ स वा एष पुरुषवि॑ध ए॒व । तस्य पुरु॑षवि॒धताम् ।
अन्वय॑-म्पुरुष॒विधः । तस्य प्रिय॑-मेव॒ शिरः ।
मोदो दक्षि॑णः प॒क्षः ।
प्रमोद उत्त॑रः प॒क्षः । आन॑न्द आ॒त्मा ।
ब्रह्म पुच्छ॑-म्प्रति॒ष्ठा ॥
तदप्येष श्लो॑को भ॒वति ॥ 30 ॥

अस॑न्ने॒व स॑ भवति । अस॒-द्ब्रह्मेति॒ वेद॒ चेत् ।
अस्ति ब्रह्मेति॑ चे-द्वे॒द । सन्तमेन-न्ततो वि॑दुरि॒ति ॥
तस्यैष एव शारी॑र आ॒त्मा । यः॑ पूर्व॒स्य ॥ अथातो॑-ऽनु प्र॒श्नाः ॥ उ॒ता वि॒द्वा न॒मुं-लोँ॒क-म्प्रेत्य॑ । कश्च॒न ग॑च्छ॒ती(3) । आहो॑ वि॒द्वान॒मुं-लोँ॒क-म्प्रेत्य॑ । कश्चि॒-थ्सम॑श्नु॒ता(3) उ॒ ॥ सो॑-ऽकामयत ।
ब॒हुस्या॒-म्प्रजा॑ये॒येति॑ । स तपो॑-ऽतप्यत । स तप॑स्त॒प्त्वा । इ॒दग्ं सर्व॑-मसृजत ॥ यदि॒द-ङ्किञ्च॑ । तथ्सृ॒ष्ट्वा । तदे॒वानु॒ प्रावि॑शत् ॥ तद॑नुप्र॒विश्य॑ । सच्च॒ त्यच्चा॑भवत् । नि॒रुक्त॒-ञ्चा नि॑रुक्त-ञ्च ।
नि॒लय॑न॒-ञ्चा नि॑लयन-ञ्च । वि॒ज्ञान॒-ञ्चा वि॑ज्ञान-ञ्च । सत्य-ञ्चानृत-ञ्च स॑त्य-म॒भवत् ॥ यदि॑द-ङ्कि॒ञ्च ।
तथ्सत्य-मि॑त्या च॒क्षते ॥ तदप्येष श्लो॑को भ॒वति ॥ 31 ॥

अस॒द्वा इ॒दमग्र॑ आसीत् । ततो॒ वै सद॑जायत ।
तदात्मानग्ग्​ स्वय॑-मकु॒रुत । तस्मा-त्त-थ्सुकृतमुच्य॑त इ॒ति ॥ यद्वै॑ त-थ्सु॒कृतम् । र॑सो वै॒ सः । रसग्ग्​ ह्येवायं-लँब्ध्वा-ऽऽन॑न्दी भ॒वति ॥
को ह्येवान्या᳚-त्कः प्रा॒ण्यात् । यदेष आकाश आन॑न्दो न॒ स्यात् । एष ह्येवान॑न्दया॒ति ॥ य॒दा ह्ये॑वैष॒ एतस्मि-न्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं
प्रति॑ष्ठां-विँ॒न्दते । अथ सो-ऽभय-ङ्ग॑तो भ॒वति ॥
य॒दा ह्ये॑वैष॒ एतस्मि-न्नुदर-मन्त॑र-ङ्कु॒रुते ।
अथ तस्य भ॑य-म्भ॒वति ॥ तत्त्वेव भयं-विँदुषो-ऽम॑न्वान॒स्य ॥
तदप्येष श्लो॑को भ॒वति ॥ 32 ॥

भी॒षा-ऽस्मा॒-द्वातः॑ पवते । भी॒षोदे॑ति॒ सूर्यः॑ ।
भीषा-ऽस्मा-दग्नि॑-श्चेन्द्र॒श्च । मृत्यु-र्धावति पञ्च॑म इ॒ति ॥ सैषा-ऽऽनन्दस्य मीमाग्ं॑सा भ॒वति ॥ युवा स्या-थ्साधु यु॑वा-ऽद्ध्या॒यकः । आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः । तस्येय-म्पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात् ।
स एको मानुष॑ आन॒न्दः ॥ ते ये शत-म्मानुषा॑ आन॒न्दाः । ॥ 33-ऽ ॥

स एको मनुष्य-गन्धर्वाणा॑-मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शत-म्मनुष्य-गन्धर्वाणा॑-मान॒न्दाः । स एको देव-गन्धर्वाणा॑-मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥
ते ये शत-न्देव-गन्धर्वाणा॑-मान॒न्दाः ।
स एकः पितृणा-ञ्चिरलोक-लोकाना॑-मान॒न्दः ।
श्रोत्रियस्य चाकाम॑हत॒स्य ॥
ते ये शत-म्पितृणा-ञ्चिरलोक-लोकाना॑-मान॒न्दाः ।
स एक आजानजाना-न्देवाना॑-मान॒न्दः । ॥ 33.ब् ॥

श्रोत्रियस्य चाकाम॑हत॒स्य ॥
ते ये शत-माजान-जाना-न्देवाना॑ मान॒न्दाः ।
स एकः कर्म-देवाना-न्देवाना॑-मान॒न्दः ।
ये कर्मणा देवान॑पि य॒न्ति । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शत-ङ्कर्मदेवाना-न्देवाना॑-मान॒न्दाः । स एको देवाना॑-मान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शत-न्देवाना॑-मान॒न्दाः । स एक इन्द्र॑स्यान॒न्दः । ॥ 33.च् ॥

श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शतमिन्द्र॑-स्या-ऽऽन॒न्दाः । स एको बृहस्पते॑-रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥
ते ये शत-म्बृहस्पते॑ रान॒न्दाः । स एकः प्रजापते॑-रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ ते ये शत-म्प्रजापते॑-रान॒न्दाः । स एको ब्रह्मण॑ आन॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ॥ 33.द् ॥

स यश्चा॑य-म्पु॒रुषे । यश्चासा॑-वादि॒त्ये । स एकः॑ ॥
स य॑ एवं॒-विँत् । अस्माल्लो॑का-त्प्रे॒त्य ।
एतमन्नमय-मात्मान-मुप॑सङ्क्रा॒मति ।
एत-म्प्राणमय-मात्मान-मुप॑सङ्क्रा॒मति ।
एत-म्मनोमय-मात्मान-मुप॑सङ्क्रा॒मति ।
एतं-विँज्ञानमय-मात्मान-मुप॑सङ्क्रा॒मति ।
एतमानन्दमय-मात्मान-मुप॑सङ्क्रा॒मति ॥
तदप्येष श्लो॑को भ॒वति ॥ 33ऎ ॥

यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा᳚प्य॒ मन॑सा स॒ह । आनन्द-म्ब्रह्म॑णो वि॒द्वान् । न बिभेति कुत॑श्चने॒ति ॥ एतग्ं ह वा व॑ न त॒पति । किमहग्ं साधु॑ नाक॒रवम् । किमह-म्पाप-मकर॑व-मि॒ति ॥
स य एवं-विँद्वानेते आत्मा॑नग्ग्​ स्पृ॒णुते ॥
उ॒भे ह्ये॑वैष॒ एते आत्मा॑नग्ग्​ स्पृ॒णुते ।
य ए॒वं-वेँद॑ ॥ इत्यु॑प॒निष॑त् ॥ 34 ॥

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
(ब्र॒ह्म॒विदिदमयमिदमेक॑विग्ंशतिः ।
अन्ना॒ दन्न॑रस॒मया-त्प्राणो॒ व्यानो-ऽपान आका॑शः॒ पृथिवी पुच्छ॒ग्ं॒ षड्विग्ं॑शतिः ।
प्रा॒ण-म्प्रा॑ण॒मया-न्म॑नो॒ यजु॒र्॒ ऋ-ख्सामादे॒शो-ऽथर्वाङ्गिरसः पुच्छ॒-न्द्वाविग्ं॑शतिः ।
यत॑-श्श्र॒द्धर्तग्ं सत्यम् ँयो॑गो॒ महो॑-ऽष्टाद॑श । वि॒ज्ञान॒-म्प्रिय॒-म्मोदः प्रमोद आन॑न्दो॒ ब्रह्म पुच्छ॒-न्द्वाविग्ं॑शतिः ।
अस॑न्ने॒वाथाष्टावि ग्ं॑शतिः । अस॒-थ्षोड॑श ।
भी॒षा-ऽस्मा॒-न्मानुषो॒ मनुष्यगन्धर्वाणा॒-न्देवगन्धर्वाणा॒-म्पितृणाम्चिरलोकलोकाना॒ माजानजाना-ङ्कर्मदेवानाम् ँये कर्मणा देवाना॒मिन्द्र॑स्य॒ बृहस्पतेः॒ प्रजापते॒-र्ब्रह्मण॒-स्स यश्व॑ सङ्क्रा॒मत्येक॑पञ्चा॒शत् ।
यतः॒ कुत॑श्च॒ नैतमेका॑दश॒ नव॑) (अ. 14)
॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥

॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके अष्टमः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: