श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥
वापीतटे वामभागे
वामदेवस्य देवस्य देवि स्थिता त्वम् ।
मान्या वरेण्या वदान्या
पाहि गर्भस्थजंतून् तथा भक्तलोकान् ॥ 1 ॥
श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥
श्रीगर्भरक्षापुरे या
दिव्यसौंदर्ययुक्ता सुमांगल्यगात्री ।
धात्री जनित्री जनानां
दिव्यरूपां दयार्द्रां मनोज्ञां भजे त्वाम् ॥ 2 ॥
श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥
आषाढमासे सुपुण्ये
शुक्रवारे सुगंधेन गंधेन लिप्ता ।
दिव्यांबराकल्पवेषा
वाजपेयादियागस्थभक्तैः सुदृष्टा ॥ 3 ॥
श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥
कल्याणदात्रीं नमस्ये
वेदिकाढ्यस्त्रिया गर्भरक्षाकरीं त्वाम् ।
बालैस्सदा सेवितांघ्रिं
गर्भरक्षार्थमारादुपेतैरुपेताम् ॥ 4 ॥
श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥
ब्रह्मोत्सवे विप्रवीथ्यां
वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् ।
सर्वार्थदात्रीं भजेऽहं
देववृंदैरपीड्यां जगन्मातरं त्वाम् ॥ 5 ॥
श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥
एतत् कृतं स्तोत्ररत्नं
दीक्षितानंतरामेण देव्याश्च तुष्ट्यै ।
नित्यं पठेद्यस्तु भक्त्या
पुत्रपौत्रादि भाग्यं भवेत्तस्य नित्यम् ॥ 6 ॥
श्रीमाधवी काननस्थे गर्भरक्षांबिके पाहि भक्तां स्तुवंतीम् ॥
इति श्रीअनंतरामदीक्षितवर्य विरचितं गर्भरक्षांबिका स्तोत्रम् ॥