| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
1.4 - सोमादिब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - उभये वा कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके चतुर्थः प्रपाठकः - सोमादिब्राह्मणं ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - ग्रहणा ग्रहणम् दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते । य-द्ग्रहाः᳚ । वि॒दुरे॑न-न्दे॒वाः । यस्यै॒वं-विँ॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते᳚ ॥ ए॒षा वै सोम॒स्याहु॑तिः । यदु॑पा॒ग्ं॒शुः । सोमे॑न दे॒वाग् स्त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते । यदु॑पा॒ग्ं॒शु-ञ्जु॒होति॑ । सोमे॑नै॒व त-द्दे॒वाग् स्त॑र्पयति ॥ यद्ग्रहा᳚ञ्जु॒होति॑ ॥ 2 ॥ दे॒वा ए॒व त-द्दे॒वान्-ग॑च्छन्ति ॥ यच्च॑म॒साञ्जु॒होति॑ । तेनै॒वानु॑रूपेण॒ यज॑मान-स्सुव॒र्गं-लोँ॒कमे॑ति ॥ कि-न्न्वे॑तदग्र॑ आसी॒दित्या॑हुः । य-त्पात्रा॒णीति॑ । इ॒यं-वाँ ए॒तदग्र॑ आसीत् । मृ॒न्मया॑नि॒ वा ए॒तान्या॑सन्न् । तैर्दे॒वा न व्या॒वृत॑-मगच्छन्न् । त ए॒तानि॑ दारु॒मया॑णि॒ पात्रा᳚ण्य-पश्यन्न् । तान्य॑कुर्वत ॥ 3 ॥ तैर्वै ते व्या॒वृत॑-मगच्छन्न् । य-द्दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । व्या॒वृत॑मे॒व तै-र्यज॑मानो गच्छति ॥ यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति । अ॒मुमे॒व तै-र्लो॒क-म॒भिज॑यति । यानि॑ मृ॒न्मया॑नि । इ॒ममे॒व तै-र्लो॒क-म॒भिज॑यति ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । काश्चत॑स्र-स्स्था॒लीर्वा॑य॒व्या᳚-स्सोम॒ग्रह॑णी॒रिति॑ । दे॒वा वै पृश्ञि॑मदुह्रन्न् ॥ 4 ॥ तस्या॑ ए॒ते स्तना॑ आसन्न् । इ॒यं-वैँ पृश्ञिः॑ । तामा॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पदः प॒शून॑दुह्रन्न् । यदा॑दित्यस्था॒ली भव॑ति । चतु॑ष्पद ए॒व तया॑ प॒शून्. यज॑मान इ॒मा-न्दु॑हे । तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒य-म॑दुहत् । यदु॑क्थ्यस्था॒ली भव॑ति । इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मा-न्दु॑हे । तां-विँश्वे॑ दे॒वा आ᳚ग्रयणस्था॒ल्योर्ज॑-मदुह्रन्न् । यदा᳚ग्रयणस्था॒ली भव॑ति ॥ 5 ॥ ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मा-न्दु॑हे । ता-म्म॑नु॒ष्या᳚-द्ध्रुवस्था॒ल्या ऽऽयु॑रदुह्रन्न् । यद्ध्रु॑वस्था॒ली भव॑ति । आयु॑रे॒व तया॒ यज॑मान इ॒मा-न्दु॑हे । स्था॒ल्या गृ॒ह्णाति॑ । वा॒य॒व्ये॑न जुहोति । तस्मा॑द॒न्येन॒ पात्रे॑ण प॒शू-न्दु॒हन्ति॑ । अ॒न्येन॒ प्रति॑गृह्णन्ति । अथो᳚ व्या॒वृत॑मे॒व त-द्यज॑मानो गच्छति ॥ 6 ॥ अनुवाकं 2 - सोत्रामणीशेषा मन्त्राः वा॒ज॒सनिग्ं॑ र॒यिम॒स्मे सु॒वीर᳚म् । प्र॒श॒स्त-न्धे॑हि य॒शस॑-म्बृ॒हन्त᳚म् ॥ यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ । व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚ । हृ॒दाम॒ति-ञ्ज॑नय॒ चारु॑म॒ग्नये᳚ ॥ नाना॒ हि वा᳚-न्दे॒वहि॑त॒ग्ं॒ सदो॑ मि॒तम् । मा सग्ंसृ॑क्षाथा-म्पर॒मे व्यो॑मन्न् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिग्ंसी॒-स्स्वां-योँनि॑मावि॒शन्न् ॥ 8 ॥ यदत्र॑ शि॒ष्टग्ं र॒सिनः॑ सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒ह-न्तद॑स्य॒ मन॑सा शि॒वेन॑ । सोम॒ग्ं॒ राजा॑नमि॒ह भ॑क्षयामि ॥ द्वे स्रु॒ती अ॑शृणव-म्पितृ॒णाम् । अ॒ह-न्दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं-विँश्व॒-म्भुव॑न॒ग्ं॒ समे॑ति । अ॒न्त॒रा पूर्व॒मप॑र-ञ्च के॒तुम् ॥ यस्ते॑ देव वरुण गाय॒त्रछ॑न्दाः॒ पाशः॑ । त-न्त॑ ए॒तेनाव॑यजे ॥ 9 ॥ यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दाः॒ पाशः॑ । त-न्त॑ ए॒तेनाव॑यजे । यस्ते॑ देव वरुण॒ जग॑तीछन्दाः॒ पाशः॑ । त-न्त॑ ए॒तेनाव॑यजे ॥ सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ स-न्रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीग्ंषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाग्ं॑ स॒वाः । त ए॒वास्मै॑ स॒वा-न्प्रय॑च्छन्ति । त ए॑न॒-म्पुनः॑ सुवन्ते रा॒ज्याय॑ । दे॒व॒सू राजा॑ भवति ॥ 10 ॥ अनुवाकं 3 - दोहप्रायश्चित्तम्, अग्निहोत्रे इ॒मामे॒वास्मा॒ उत्था॑पयति ॥ आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑-न्दधाति ॥ इन्द्रा॑य कृण्व॒ती भा॒ग-म्मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ अव॑र्तिं॒-वाँ ए॒षैतस्य॑ पा॒प्मान॑-म्प्रति॒ख्याय॒ निषी॑दति । यस्या᳚-ग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति । ता-न्दु॒ग्ध्वा ब्रा᳚ह्म॒णाय॑ दद्यात् । यस्यान्न॒-न्नाद्यात् । अव॑र्तिमे॒वास्मि॑-न्पा॒प्मान॒-म्प्रति॑मुञ्चति ॥ 12 ॥ दु॒ग्ध्वा द॑दाति । न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यते᳚ ॥ पृ॒थि॒वीं-वाँ ए॒तस्य॒ पयः॒ प्रवि॑शति । यस्या᳚ग्निहो॒त्र-न्दु॒ह्यमा॑न॒ग्ग्॒ स्कन्द॑ति ॥ यद॒द्य दु॒ग्ध-म्पृ॑थि॒वीमस॑क्त । यदोष॑धी-र॒प्यस॑र॒-द्यदापः॑ । पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑ । पयो॑ व॒थ्सेषु॒ पयो॑ अस्तु॒ तन्मयीत्या॑ह । पय॑ ए॒वात्म-न्गृ॒हेषु॑ प॒शुषु॑ धत्ते ॥ अ॒प उप॑सृजति ॥ 13 ॥ अ॒द्भिरे॒वैन॑दाप्नोति ॥ यो वै य॒ज्ञस्यार्ते॒नाना᳚र्तग्ं सग्ं सृ॒जति॑ । उ॒भे वै ते तर्ह्यार्च्छ॑तः । आर्च्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम् । य-द्दु॒ह्यमा॑न॒ग्ग्॒ स्कन्द॑ति । यद॑भिदु॒ह्यात् । आर्ते॒नाना᳚र्तं-यँ॒ज्ञस्य॒ सग्ंसृ॑जेत् । तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य᳚म् । अथा॒न्या-न्दु॒ग्ध्वा पुन॑र्-होत॒व्य᳚म् । अना᳚र्तेनै॒वार्तं॑-यँ॒ज्ञस्य॒ निष्क॑रोति ॥ 14 ॥ य-द्युद्द्रु॑तस्य॒ स्कन्दे᳚त् । य-त्ततो-ऽहु॑त्वा॒ पुन॑रे॒यात् । य॒ज्ञं-विँच्छि॑न्द्यात् । यत्र॒ स्कन्दे᳚त् । तन्नि॒षद्य॒ पुन॑र्गृह्णीयात् । यत्रै॒व स्कन्द॑ति । तत॑ ए॒वैन॒त्-पुन॑र्गृह्णाति । तदे॒व या॒दृक्-की॒दृक्च॑ होत॒व्य᳚म् । अथा॒न्या-न्दु॒ग्ध्वा पुन॑र्-होत॒व्य᳚म् । अना᳚र्तेनै॒वार्तं॑-यँ॒ज्ञस्य॒ निष्क॑रोति ॥ 15 ॥ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । यस्या᳚ग्निहो॒त्रे॑-ऽधिश्रि॑ते॒ श्वा-ऽन्त॒रा धाव॑ति । रु॒द्रः खलु॒ वा ए॒षः । यद॒ग्निः । य-द्गाम॑न्वत्याव॒र्तये᳚त् । रु॒द्राय॑ प॒शू-नपि॑दद्ध्यात् । अ॒प॒शु-र्यज॑मान-स्स्यात् । यद॒पो᳚ ऽन्वतिषि॒ञ्चेत् । अ॒ना॒द्य-म॒ग्नेरापः॑ । अ॒ना॒द्यमा᳚भ्या॒-मपि॑दद्ध्यात् । गार्ह॑पत्या॒-द्भस्मा॒दाय॑ । इ॒दं-विँष्णु॒-र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चा ऽऽह॑व॒नीया᳚द्ध्व॒ग्ं॒ सय॒न्नुद्र॑वेत् । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञेनै॒व य॒ज्ञग्ं सन्त॑नोति । भस्म॑ना प॒दमपि॑वपति॒ शान्त्यै᳚ ॥ 16 ॥ अनुवाकं 4 - अग्निप्रायश्चित्तं अग्निहोत्रे भा॒ग॒धेये॑नै॒वैन॒-म्प्रण॑यति ॥ ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः᳚ । सर्वा॑भिरे॒वैन॑-न्दे॒वता॑भि॒रुद्ध॑रति ॥ अ॒ग्नि॒हो॒त्र-मु॑प॒सा-द्यातमि॑तो-रासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते ॥ अन्तं॒-वाँ ए॒ष आ॒त्मनो॑ गच्छति । यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निमनु॑द्धृत॒ग्ं॒ सूर्यो॒-ऽभिनि॒म्रोच॑ति ॥ 18 ॥ पुनः॑ स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तं॑-यँ॒ज्ञस्य॒ निष्क॑रोति ॥ वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञ-ङ्गृ॑ह्णाति । यस्या॒ग्नि-मनु॑द्धृत॒ग्ं॒ सूर्यो॒-ऽभिनि॒म्रोच॑ति । वा॒रु॒ण-ञ्च॒रु-न्निर्व॑पेत् । तेनै॒व य॒ज्ञ-न्निष्क्री॑णीते ॥ नि वा ए॒तस्या॑हव॒नीयो॒ गार्ह॑पत्य-ङ्कामयते । नि गार्ह॑पत्य आहव॒नीय᳚म् । यस्या॒ग्नि-मनु॑द्धृत॒ग्ं॒ सूर्यो॒-ऽभ्यु॑देति॑ । च॒तु॒र्गृ॒ही॒त-माज्य॑-म्पु॒रस्ता᳚द्धरेत् ॥ 19 ॥ अथा॒ग्निम् । अथा᳚ग्निहो॒त्रम् । यदाज्य॑-म्पु॒रस्ता॒द्धर॑ति । ए॒तद्वा अ॒ग्नेः प्रि॒य-न्धाम॑ । यदाज्य᳚म् । प्रि॒येणै॒वैन॒-न्धाम्ना॒ सम॑र्धयति । यद॒ग्नि-म्पूर्व॒ग्ं॒ हर॒त्यथा᳚-ग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैन॒-म्प्रण॑यति । ब्रा॒ह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः᳚ ॥ 20 ॥ सर्वा॑भिरे॒वैन॑-न्दे॒वता॑भि॒रुद्ध॑रति ॥ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति । यस्या॒ग्नि-मनु॑द्धृत॒ग्ं॒ सूर्यो॒-ऽभ्यु॑देति॑ । उ॒षाः के॒तुना॑ जुषताम् । य॒ज्ञ-न्दे॒वेभि॑रिन्वि॒तम् । दे॒वेभ्यो॒ मधु॑मत्तम॒ग्ग्॒ स्वाहेति॑ प्र॒त्यं-नि॒षद्याज्ये॑न जुहुयात् । प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति ॥ अ॒ग्नि॒हो॒त्र-मु॑प॒साद्यातमि॑तो-रासीत । व्र॒तमे॒व ह॒तमनु॑ म्रियते । अन्तं॒-वाँ ए॒ष आ॒त्मनो॑ गच्छति ॥ 21 ॥ यस्ताम्य॑ति । अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्नि-मनु॑द्धृत॒ग्ं॒ सूर्यो॒-ऽभ्यु॑देति॑ । पुनः॑ स॒मन्य॑ जुहोति । अन्ते॑नै॒वान्तं॑-यँ॒ज्ञस्य॒ निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञ-ङ्गृ॑ह्णाति । यस्या॒ग्नि-मनु॑द्धृत॒ग्ं॒ सूर्यो॒-ऽभ्यु॑देति॑ । मै॒त्र-ञ्च॒रु-न्निर्व॑पेत् । तेनै॒व य॒ज्ञ-न्निष्क्री॑णीते ॥ यस्या॑-हव॒नीये-ऽनु॑द्वाते॒ गार्ह॑पत्य उ॒द्वाये᳚त् ॥ 22 ॥ यदा॑हव॒नीय॒-मनु॑द्वाप्य॒ गार्ह॑पत्य॒-म्मन्थे᳚त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वास्त॒व्य॑-ङ्क्रि॒यते᳚ । तदनु॑ रु॒द्रो-ऽव॑चरति । य-त्पूर्व॑-मन्वव॒स्येत् । वा॒स्त॒व्य॑-म॒ग्निमुपा॑सीत । रु॒द्रो᳚-ऽस्य प॒शू-न्घातु॑क-स्स्यात् । आ॒ह॒व॒नीय॑-मु॒द्वाप्य॑ । गार्ह॑पत्य-म्मन्थेत् ॥ 23 ॥ इ॒तः प्र॑थ॒म-ञ्ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यं-वँ॑हतु प्रजा॒नन्निति॑ । छन्दो॑भिरे॒वैन॒ग्ग्॒ स्वाद्योनेः॒ प्रज॑नयति ॥ गार्ह॑पत्य-म्मन्थति । गार्ह॑पत्यं॒-वाँ अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्ते । स यदु॒द्वाय॑ति । तदनु॑ प॒शवो-ऽप॑क्रामन्ति । इ॒षे र॒य्यै र॑मस्व ॥ 24 ॥ सह॑से द्यु॒म्नाय॑ । ऊ॒र्जे पत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शूने॒वास्मै॑ रमयति ॥ सा॒र॒स्व॒तौ त्वोथ्सौ॒ समि॑न्धाता॒मित्या॑ह । ऋ॒-ख्सा॒मे वै सा॑रस्व॒तावुथ्सौ᳚ । ऋ॒ख्-सा॒माभ्या॑मे॒वैन॒ग्ं॒ समि॑न्धे ॥ स॒म्राड॑सि वि॒राड॒सीत्या॑ह । र॒थ॒न्त॒रं-वैँ स॒म्राट् । बृ॒ह-द्वि॒राट् ॥ 25 ॥ ताभ्या॑मे॒वैन॒ग्ं॒ समि॑न्धे ॥ वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं-विँच्छि॑नत्ति । यस्यानो॑ वा॒ रथो॑ वा-ऽन्त॒रा-ऽग्नी याति॑ । आ॒ह॒व॒नीय॑-मु॒द्वाप्य॑ । गार्ह॑पत्या॒-दुद्ध॑रेत् । यद॑ग्ने॒ पूर्व॒-म्प्रभृ॑त-म्प॒दग्ं हि ते᳚ । सूर्य॑स्य र॒श्मीन-न्वा॑त॒तान॑ । तत्र॑ रयि॒ष्ठामनु॒ सम्भ॑रै॒तम् । स-न्नः॑ सृज सुम॒त्या वाज॑व॒त्येति॑ ॥ 26 ॥ पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒ स-न्त॑नोति ॥ त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह । अ॒ग्नि-स्सर्वा॑ दे॒वताः᳚ । दे॒वता॑भिरे॒व य॒ज्ञग्ं स-न्त॑नोति ॥ अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर्व॑पेत् । अ॒ग्निमे॒व प॑थि॒कृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति । स ए॒वैनं॑-यँ॒ज्ञिय॒-म्पन्था॒मपि॑-नयति । अ॒न॒ड्वान्-दक्षि॑णा । व॒ही ह्ये॑ष समृ॑द्ध्यै ॥ 27 ॥ (नि वै पूर्व॒-न्त्रीणि॑ नि॒म्रोच॑ति द॒र्भेण॒ यद्धिर॑ण्यमग्निहो॒त्र-म्पुन॒र्वरु॑णो अनुवाकं 5 - सोमातिरेकप्रायश्चित्तम् म॒रुत्व॑तीषु कुर्वन्ति । तेनै॒व माद्ध्य॑न्दिना॒-थ्सव॑ना॒न्नय॑न्ति ॥ होतु॑श्च म॒समनून्न॑यन्ते । होता-ऽनु॑शग्ंसति । म॒द्ध्य॒त ए॒व य॒ज्ञग्ं स॒माद॑धाति ॥ यस्य॒ माद्ध्य॑न्दिने॒ सव॑ने॒ सोमो॑-ऽति॒रिच्य॑ते । आ॒दि॒त्य-न्तृ॑तीयसव॒न-ङ्का॒मय॑मानो॒-ऽभ्यति॑रिच्यते । गौ॒रि॒वी॒तग्ं साम॑ भवति । अति॑रिक्तं॒-वैँ गौ॑रिवी॒तम् । अति॑रिक्तं॒-यँ-थ्सव॑नस्या-ति॒रिच्य॑ते ॥ 29 ॥ अति॑रिक्तस्य॒ शान्त्यै᳚ ॥ बण्म॒हाग्ं अ॑सि सू॒र्येति॑ कुर्वन्ति । यस्यै॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते । तेनै॒वैन॒-ङ्कामे॑न॒ सम॑र्धयन्ति ॥ गौ॒रि॒वी॒तग्ं साम॑ भवति । तेनै॒व माद्ध्य॑न्दिना॒-थ्सव॑ना॒न्नय॑न्ति ॥ स॒प्त॒द॒श-स्स्तोमः॑ । तेनै॒व तृ॑तीयसव॒नान्नय॑न्ति ॥ होतु॑श्चम॒समनून्न॑यन्ते । होता-ऽनु॑शग्ं सति ॥ 30 ॥ म॒द्ध्य॒त ए॒व य॒ज्ञग्ं स॒माद॑धाति ॥ यस्य॑ तृतीयसव॒ने सोमो॑-ऽति॒रिच्ये॑त । उ॒क्थ्य॑-ङ्कुर्वीत । यस्यो॒क्थ्ये॑-ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्र-ङ्कु॑र्वीत । यस्या॑-तिरा॒त्रे॑-ऽति॒रिच्य॑ते। तत्त्वै दु॑ष्प्रज्ञा॒नम् । यज॑मानं॒-वाँ ए॒त-त्प॒शव॑ आ॒साह्य॑ यन्ति । बृ॒ह-थ्साम॑ भवति । बृ॒हद्वा इ॒मां-लोँ॒का-न्दा॑धार । बार्ह॑ताः प॒शवः॑ । बृ॒ह॒तैवास्मै॑ प॒शू-न्दा॑धार ॥ शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वाना᳚-म्पु॒ष्टम् । पुष्ट्यै॒वैन॒ग्ं॒ सम॑र्धयन्ति ॥ होतु॑श्चम॒समनून्न॑यन्ते । होता-ऽनु॑शग्ंसति । म॒द्ध्य॒त ए॒व य॒ज्ञग्ं स॒माद॑धाति ॥ 31 ॥ अनुवाकं 6 - सवननिमित्त-म्प्रायश्चित्तम् म॒रुत्व॑तीः प्रति॒पदः॑ । म॒रुतो॒ वै दे॒वाना॒-मप॑राजित-मा॒यत॑नम् । दे॒वाना॑-मे॒वाप॑राजित आ॒यत॑ने यतते ॥उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । इ॒यं-वाँव र॑थन्त॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑-म॒न्तरे॑ति । वा॒चश्च॒ मन॑सश्च । प्रा॒णाच्चा॑-पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्याश्च॑ ॥ 33 ॥ सर्व॑स्मा-द्वि॒त्ता-द्वेद्या᳚त् ॥ अ॒भि॒व॒र्तो ब्र॑ह्मसा॒म-म्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिवृ॑त्त्यै ॥ अ॒भि॒जि-द्भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै । वि॒श्व॒जि-द्भ॑वति । विश्व॑स्य॒ जित्यै᳚ ॥ यस्य॒ भूयाग्ं॑सो यज्ञक्र॒तव॒ इत्या॑हुः । स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒म-स्सोमः॑ प॒रस्ता॒-थ्स्यात् ॥ 34 ॥ उ॒क्थ्य॑-ङ्कुर्वीत । यद्यु॒क्थ्यः॑ स्यात् । अ॒ति॒रा॒त्र-ङ्कु॑र्वीत । य॒ज्ञ॒क्र॒तुभि॑-रे॒वास्य॑ दे॒वता॑ वृङ्क्ते ॥ यो वै छन्दो॑भि-रभि॒भव॑ति । स सग्ं॑ सुन्व॒तो-र॒भिभ॑वति । सं॒वेँ॒शाय॑ त्वोपवे॒शाय॒-त्वेत्या॑ह । छन्दाग्ं॑सि॒ वै सं॑वेँ॒श उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दाग्॑स्य॒-भिभ॑वति ॥ इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑-मद्ध्व॒र्युः ॥ 35 ॥ इ॒ष्टर्गः॒ खलु॒ वै पूर्वो॒-ऽर्ष्टुः, क्षी॑यते । प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह । प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते । प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒मित्या॑ह । नैन॑-म्पु॒रा-ऽऽयु॑षः प्राणापा॒नौ ज॑हितः ॥ आर्तिं॒-वाँ ए॒ते निय॑न्ति । येषा᳚-न्दीक्षि॒ताना᳚-म्प्र॒मीय॑ते । तं-यँद॑व॒वर्जे॑युः । क्रू॒र॒कृता॑मिवैषां-लोँ॒क-स्स्या᳚त् । आह॑र द॒हेति॑ ब्रूयात् ॥ 36 ॥ त-न्द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भि-स्स्तु॑युः । इ॒यं-वैँ सर्प॑तो॒ राज्ञी᳚ । अ॒स्या ए॒वैन॒-म्परि॑ददति ॥ व्यृ॑द्ध॒-न्तदित्या॑हुः । य-थ्स्तु॒त-मन॑नुशस्त॒-मिति॑ । होता᳚ प्रथ॒मः प्रा॑चीनावी॒ती मा᳚र्जा॒लीय॒-म्परी॑यात् । या॒मीर॑नु-ब्रु॒वन्न् । स॒र्प॒रा॒ज्ञीना᳚-ङ्कीर्तयेत् । उ॒भयो॑रे॒वैनं॑-लोँ॒कयोः॒ परि॑ददति ॥ 37 ॥ अथो॑ धु॒वन्त्ये॒वैन᳚म् । अथो॒ न्ये॑वास्मै᳚ ह्नुवते ॥ त्रिः परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनं॑-लोँ॒केभ्यो॑ धुवते । त्रिः पुनः॒ परि॑यन्ति । षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैन॑-न्धुवते ॥ अग्न॒ आयूग्ं॑षि पवस॒ इति॑ प्रति॒पद॑-ङ्कुर्वीरन्न् । र॒थ॒न्त॒रसा॑मैषा॒ग्ं॒ सोमः॑ स्यात् । आयु॑रे॒वात्मन्-द॑धते । अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति ॥ 38 ॥ अनुवाकं 7 - यूपविरोहणादिप्रायश्चित्तम् यदा॑हव॒नीय॑ उ॒द्वाये᳚त् । यत्त-म्मन्थे᳚त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उ॒द्वाये᳚त् । आग्नी᳚द्ध्रा॒-दुद्ध॑रेत् । यदाग्नी᳚द्ध्र उ॒द्वाये᳚त् । गार्ह॑पत्या॒-दुद्ध॑रेत् । य-द्गार्ह॑पत्य उ॒द्वाये᳚त् । अत॑ ए॒व पुन॑-र्मन्थेत् ॥ 40 ॥ अत्र॒ वाव स निल॑यते । यत्र॒ खलु॒ वै निली॑न-मुत्त॒म-म्पश्य॑न्ति । तदे॑न-मिच्छन्ति ॥ यस्मा॒-द्दारो॑रु॒द्वाये᳚त् । तस्या॒रणी॑ कुर्यात् । क्रु॒मु॒कमपि॑ कुर्यात् । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यत्-क्रु॑मु॒कः । प्रि॒ययै॒वैन॑-न्त॒नुवा॒ सम॑र्धयति ॥ गार्ह॑पत्य-म्मन्थति ॥ 41 ॥ गार्ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑ । स्वादे॒वैनं॒-योँने᳚-र्जनयति । नास्मै॒ भ्रातृ॑व्य-ञ्जनयति ॥ यस्य॒ सोम॑ उप॒दस्ये᳚त् । सु॒वर्ण॒ग्ं॒ हिर॑ण्य-न्द्वे॒धा वि॒च्छिद्य॑ । ऋ॒जी॒षे᳚-ऽन्यदा॑धूनु॒यात् । जु॒हु॒याद॒न्यत् । सोम॑मे॒वा-भि॑षु॒णोति॑ । सोम॑-ञ्जुहोति ॥ सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नू-रुद॑क्रामत् ॥ 42 ॥ त-थ्सु॒वर्ण॒ग्ं॒ हिर॑ण्य-मभवत् । य-थ्सु॒वर्ण॒ग्ं॒ हिर॑ण्य-ङ्कु॒र्वन्ति॑ । प्रि॒ययै॒वैन॑-न्त॒नुवा॒ सम॑र्धयन्ति ॥ यस्याक्री॑त॒ग्ं॒ सोम॑-मप॒हरे॑युः । क्री॒णी॒यादे॒व । सैव ततः॒ प्राय॑श्चित्तिः ॥ यस्य॑ क्री॒तम॑प॒हरे॑युः । आ॒दा॒राग्श्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् । गा॒य॒त्री यग्ं सोम॒माह॑रत् । तस्य॒ यो-ऽग्ं॑शुः प॒रा-ऽप॑तत् ॥ 43 ॥ त आ॑दा॒रा अ॑भवन्न् । इन्द्रो॑ वृ॒त्रम॑हन्न् । तस्य॑ व॒ल्कः परा॑-ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन्न् । प॒शवो॒ वै फा᳚ल्गु॒नानि॑ । प॒शव॒-स्सोमो॒ राजा᳚ । यदा॑दा॒राग्श्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति ॥ शृ॒तेन॑ प्रातस्सव॒ने श्री॑णीयात् । द॒द्ध्ना म॒द्ध्यन्दि॑ने ॥ 44 ॥ नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने । अ॒गि॒ष्टो॒म-स्सोमः॑ स्या-द्रथन्त॒रसा॑मा । य ए॒वर्त्विजो॑ वृ॒ता-स्स्युः । त ए॑नं-याँजयेयुः । एका॒-ङ्गा-न्दक्षि॑णा-न्दद्या॒त्तेभ्य॑ ए॒व । पुन॒-स्सोम॑-ङ्क्रीणीयात् । य॒ज्ञेनै॒व त-द्य॒ज्ञ-मि॑च्छति । सैव ततः॒ प्राय॑श्चित्तिः ॥ सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्य॒-स्सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒-मागु॑रते । य-स्स॒त्राया॑गु॒रते᳚ । ए॒तावा॒न्-खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । स॒र्व॒वे॒द॒सेन॑ यजेत । सर्व॑पृष्ठो-ऽस्य॒ सोमः॑ स्यात् । सर्वा᳚भ्य ए॒व दे॒वता᳚भ्य॒-स्सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒-न्निष्क्री॑णीते ॥ 45 ॥ अनुवाकं 8 - पावमानीमन्त्राः (स्मार्ते श्ञानादौ मार्जनार्थाश्च) यत्ते॑ प॒वित्र॑-म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे ॥ उ॒भाभ्या᳚-न्देव सवितः ।प॒वित्रे॑ण स॒वेन॑ च । इ॒द-म्ब्रह्म॑ पुनीमहे ॥ वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वी-स्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्त-स्सध॒माद्ये॑षु । व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ 47 ॥ वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु । वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः । द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः । ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ॥ बृ॒हद्भिः॑ सवित॒स्तृभिः॑ । वर्षि॑ष्ठै-र्देव॒ मन्म॑भिः । अग्ने॒ दक्षैः᳚ पुनाहि मा ॥ येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्य-ङ्कशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥ 48 ॥ इ॒द-म्ब्रह्म॑ पुनीमहे ॥ यः पा॑वमा॒नीर॒द्ध्येति॑ । ऋषि॑भि॒-स्सम्भृ॑त॒ग्ं॒ रस᳚म् । सर्व॒ग्ं॒ स पू॒तम॑श्ञाति । स्व॒दि॒त-म्मा॑त॒रिश्व॑ना ॥ पा॒व॒मा॒नीर्यो अ॒द्ध्येति॑ । ऋषि॑भि॒-स्सम्भृ॑त॒ग्ं॒ रस᳚म् । तस्मै॒ सर॑स्वती दुहे । क्षी॒रग्ं स॒र्पि-र्मधू॑द॒कम् ॥ पा॒व॒मा॒नी-स्स्व॒स्त्यय॑नीः ॥ 49 ॥ सु॒दुघा॒ हि पय॑स्वतीः । ऋषि॑भि॒-स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम् ॥ पा॒व॒मा॒नी-र्दि॑शन्तु नः । इ॒मं-लोँ॒कमथो॑ अ॒मुम् । कामा॒न्-थ्सम॑र्धयन्तु नः । दे॒वी-र्दे॒वै-स्स॒माभृ॑ताः ॥ पा॒व॒मा॒नी-स्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ । ऋषि॑भि॒-स्सम्भृ॑तो॒ रसः॑ ॥ 50 ॥ ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम् ॥ येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मान॑-म्पु॒नते॒ सदा᳚ । तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा ॥ प्रा॒जा॒प॒त्य-म्प॒वित्र᳚म् । श॒तोद्या॑मग्ं हिर॒ण्मय᳚म् । तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒त-म्ब्रह्म॑ पुनीमहे ॥ इन्द्रः॑ सुनी॒ती स॒ह मा॑ पुनातु । सोमः॑ स्व॒स्त्या वरु॑ण-स्स॒मीच्या᳚ । य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ॥ 51 ॥ अनुवाकं 9 - राजसूयगतचातुर्मास्यशेषः तमुपोद॑तिष्ठ॒न्त-म॑जुहवुः । तेन॑-द्व॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒-द्द्विरह्नो॑-मनु॒ष्ये᳚भ्य॒ उप॑ह्रियते । प्रा॒तश्च॑ सा॒य-ञ्च॑ । प॒शवो॑-ऽपश्य-ञ्चम॒स-ङ्घृ॒तस्य॑ पू॒र्णग्ग् स्व॒धाम् । तमुपोद॑तिष्ठ॒न्त-म॑जुहवुः । तेन॑-त्र॒यीमूर्ज॒मवा॑-रुन्धत । तस्मा॒-त्त्रिरह्नः॑ प॒शवः॒ प्रेर॑ते । प्रा॒तस्स॑गं॒वे सा॒यम् । असु॑रा अपश्य-ञ्चम॒स-ङ्घृ॒तस्य॑ पू॒र्णग्ग् स्व॒धाम् ॥ 53 ॥ तमुपोद॑तिष्ठ॒न्त-म॑जुहवुः । तेन॑ संवँथ्स॒र ऊर्ज॒मवा॑-रुन्धत ॥ ते दे॒वा अ॑मन्यन्त । अ॒मी वा इ॒दम॑भूवन्न् । यद्व॒यग्ग्स्म इति॑ । त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन्न् । तानि॒ निर॑वपन्न् । तैरे॒वैषा॒-न्तामूर्ज॑मवृञ्जत । ततो॑ दे॒वा अभ॑वन्न् । परा-ऽसु॑राः ॥ 54 ॥ य-द्यज॑ते । यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । ता-न्तेना-व॑रुन्धे । य-त्पि॒तृभ्यः॑ क॒रोति॑ । यामे॒व पि॒तर॒ ऊर्ज॑म॒वा-रु॑न्धत । ता-न्तेना-व॑रुन्धे । यदा॑वस॒थे-ऽन्न॒ग्ं॒ हर॑न्ति । यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वा-रु॑न्धत । ता-न्तेना-व॑रुन्धे । य-द्दक्षि॑णा॒-न्ददा॑ति ॥ 55 ॥ यामे॒व प॒शव॒ ऊर्ज॑म॒वा-रु॑न्धत । ता-न्तेना-व॑रुन्धे । यच्चा॑तु-र्मा॒स्यै-र्यज॑ते । यामे॒वासु॑रा॒ ऊर्ज॑म॒-वारु॑न्धत । ता-न्तेना-व॑रुन्धे । भव॑त्या॒त्मना᳚ । परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति ॥ वि॒राजो॒ वा ए॒षा विक्रा᳚न्तिः । यच्चा॑तु-र्मा॒स्यानि॑ । वै॒श्व॒दे॒वेना॒स्मिँल्लो॒के प्रत्य॑तिष्ठत् । व॒रु॒ण॒ प्र॒घा॒सै-र॒न्तरि॑क्षे । सा॒क॒मे॒धै-र॒मुष्मि॑ँल्लो॒के । ए॒ष ह॒ त्वावैत-थ्सर्व॑-म्भवति । य ए॒वं-विँ॒द्वाग्श्चा॑तुर्मा॒स्यै-र्यज॑ते ॥ 56 ॥ अनुवाकं 10 - चातुर्मास्यप्रशंसनम् तस्मा᳚-द्वरुण-प्रघा॒सै-र्यज॑मानः । प॒रि॒व॒थ्स॒रीणाग्॑ स्व॒स्ति-माशा᳚स्त॒ इत्याशा॑सीत । य-थ्सा॑कमे॒धै-र्यज॑ते । च॒न्द्रम॑समे॒व तदि॑दावथ्स॒र-मा᳚प्नोति । तस्मा᳚-थ्साकमे॒धै-र्यज॑मानः । इ॒दा॒व॒थ्स॒रीणाग्॑ स्व॒स्ति-माशा᳚स्त॒ इत्याशा॑सीत ॥ य-त्पि॑तृ य॒ज्ञेन॒ यज॑ते । दे॒वाने॒व तद॒न्वव॑स्यति ॥ अथ॒ वा अ॑स्य वा॒युश्चा॑-नुवथ्स॒रश्चा प्री॑ता॒वुच्छि॑ष्येते । यच्छु॑नासी॒रीये॑ण॒ यज॑ते ॥ 58 ॥ वा॒युमे॒व तद॑नुवथ्स॒र-मा᳚प्नोति । तस्मा᳚-च्छुनासी॒रीये॑ण॒ यज॑मानः । अ॒नु॒व॒थ्स॒रीणाग्॑ स्व॒स्ति-माशा᳚स्त॒ इत्याशा॑सीत ॥ सं॒वँ॒थ्स॒रं-वाँ ए॒ष ई᳚फ्स॒तीत्या॑हुः । यश्चा॑तु-र्मा॒स्यै-र्यज॑त॒ इति॑ । ए॒ष ह॒ त्वै स॑वन्थ्स॒र-मा᳚प्नोति । य ए॒वं-विँ॒द्वाग् श्चा॑तुर्मा॒स्यै-र्यज॑ते ॥ विश्वे॑ दे॒वा-स्सम॑यजन्त । ते᳚-ऽग्निमे॒वाय॑जन्त । त ए॒तं-लोँ॒कम॑जयन्न् ॥ 59 ॥ यस्मि॑न्न॒ग्निः । य-द्वै᳚श्वदे॒वेन॒ यज॑ते । ए॒तमे॒व लो॒क-ञ्ज॑यति । यस्मि॑न्न॒ग्निः । अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति ॥ य॒दा वै᳚श्वदे॒वेन॒ यज॑ते । अथ॑ संवँथ्स॒रस्य॑ गृ॒हप॑ति-माप्नोति । य॒दा सं॑वँथ्स॒रस्य॑ गृ॒हप॑ति-मा॒प्नोति॑ । अथ॑ सहस्रया॒जिन॑-माप्नोति । य॒दा स॑हस्रया॒जिन॑-मा॒प्नोति॑ ॥ 60 ॥ अथ॑ गृहमे॒धिन॑-माप्नोति । य॒दा गृ॑हमे॒धिन॑-मा॒प्नोति॑ । अथा॒ग्नि-र्भ॑वति । य॒दा-ऽग्नि-र्भव॑ति । अथ॒ गौर्भ॑वति । ए॒षा वै वै᳚श्वदे॒वस्य॒ मात्रा᳚ । ए॒त-द्वा ए॒तेषा॑मव॒मम् । अतो॑-ऽतो॒ वा उत्त॑राणि॒ श्रेयाग्ं॑सि भवन्ति । य-द्विश्वे॑ दे॒वा-स्स॒मय॑जन्त । त-द्वै᳚श्वदे॒वस्य॑ वैश्वदेव॒त्वम् ॥ 61 ॥ अथा॑दि॒त्यो वरु॑ण॒ग्ं॒ राजा॑नं-वँरुण प्रघा॒सैर॑यजत । स ए॒तं-लोँ॒कम॑जयत् । यस्मि॑न्नादि॒त्यः । य-द्व॑रुण-प्रघा॒सै-र्यज॑ते । ए॒तमे॒व लो॒क-ञ्ज॑यति । यस्मि॑न्नादि॒त्यः । आ॒दि॒त्यस्यै॒व-सायु॑ज्य॒-मुपै॑ति । यदा॑दि॒त्यो वरु॑ण॒ग्ं॒ राजा॑नं-वँरुण प्रघा॒सैरय॑जत । त-द्व॑रुण प्रघा॒सानां᳚-वँरुण प्रघास॒त्वम् ॥ अथ॒ सोमो॒ राजा॒ छन्दाग्ं॑सि साकमे॒धैर॑यजत ॥ 62 ॥ स ए॒तं-लोँ॒कम॑जयत् । यस्मिग्ग्॑ श्च॒न्द्रमा॑ वि॒भाति॑ । य-थ्सा॑कमे॒धै-र्यज॑ते । ए॒तमे॒व लो॒क-ञ्ज॑यति । यस्मिग्ग्॑ श्च॒न्द्रमा॑ वि॒भाति॑ । च॒न्द्रम॑स ए॒व सायु॑ज्य॒-मुपै॑ति । सोमो॒ वै च॒न्द्रमाः᳚ । ए॒ष ह॒ त्वै सा॒क्षा-थ्सोम॑-म्भक्षयति । य ए॒वं-विँ॒द्वान्-थ्सा॑कमे॒धै-र्यज॑ते । य-थ्सोम॑श्च॒ राजा॒ छन्दाग्ं॑सि च स॒मैध॑न्त ॥ 63 ॥ त-थ्सा॑कमे॒धानाग्ं॑ साकमेध॒त्वम् ॥ अथ॒र्तवः॑ पि॒तरः॑ प्र॒जाप॑ति-म्पि॒तर॑-म्पितृय॒ज्ञे-ना॑यजन्त । त ए॒तं-लोँ॒कम॑जयन्न् । यस्मि॑न्नृ॒तवः॑ । य-त्पि॑तृय॒ज्ञेन॒ यज॑ते । ए॒तमे॒व लो॒क-ञ्ज॑यति । यस्मि॑न्नृ॒तवः॑ । ऋ॒तू॒नामे॒व सायु॑ज्य॒-मुपै॑ति । यद्-ऋ॒तवः॑ पि॒तरः॑ प्र॒जाप॑ति-म्पि॒तर॑-म्पितृय॒ज्ञेनाय॑जन्त । त-त्पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम् ॥ 64 ॥ अथौष॑धय इ॒म-न्दे॒व-न्त्र्य॑म्बकै-रयजन्त॒ प्रथे॑म॒हीति॑ । ततो॒ वै ता अ॑प्रथन्त । य ए॒वं-विँ॒द्वाग् स्त्र्य॑म्बकै॒-र्यज॑ते । प्रथ॑ते प्र॒जया॑ प॒शुभिः॑ ॥ अथ॑ वा॒युः प॑रमे॒ष्ठिनग्ं॑ शुनासी॒रीये॑णायजत । स ए॒तं-लोँ॒कम॑जयत् । यस्मि॑न्-वा॒युः । यच्छु॑नासी॒रीये॑ण॒ यज॑ते । ए॒तमे॒व लो॒क-ञ्ज॑यति । यस्मि॑न्-वा॒युः ॥ 65 ॥ वा॒योरे॒व सायु॑ज्य॒-मुपै॑ति ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । प्र चा॑तुर्मास्यया॒जी-मी॑य॒ता(3) न प्रमी॑य॒ता(3) इति॑ । जीव॒न्वा ए॒ष ऋ॒तूनप्ये॑ति । यदि॑ व॒सन्ता᳚ प्र॒मीय॑ते । व॒स॒न्तो भ॑वति । यदि॑ ग्री॒ष्मे ग्री॒ष्मः । यदि॑ व॒र्॒षासु॑ व॒र्॒षाः । यदि॑ श॒रदि॑ श॒रत् । यदि॒ हेम॑न्. हेम॒न्तः । ऋ॒तुर्भू॒त्वा सं॑वँथ्स॒रमप्ये॑ति । सं॒वँ॒थ्स॒रः प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वा वैषः ॥ 66 ॥ (उ॒भये॑ - यु॒वग्ं सु॒राम॒ - मुद॑स्था॒न् - नि वै - यस्य॑ प्रातस्सव॒न - एकै॑को - ऽसु॒र्यम् - पव॑मानः - प्र॒जा वै स॒त्रमा॑स - ता॒ग्निर्वाव सं॑वँथ्स॒रो दश॑ ) (उ॒भये॒ वा - उद॑स्था॒थ् - सर्वा॑भि--र् मद्ध्य॒तो - ऽत्र॒ वाव - ब्रा᳚ह्म॒णेष्व - थ॑ गृहमे॒धिन॒ग्ं॒ षट्-थ्ष॑ष्टिः) (उ॒भये॒ - वावैषः) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके चतुर्थः प्रपाठक-स्समाप्तः ॥ 1 कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टकं
|