View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

9 - भृगुवल्ली - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - भृगुर्वै वारुणिः

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके नवमः प्रपाठकः - भृगुवल्ली

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

भृगु वल्ली

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

अनुवाकं 15
भृगु॒र्वै वा॑रु॒णिः । वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ॥ तस्मा॑ ए॒त-त्प्रो॑वाच । अन्न॑-म्प्रा॒ण-ञ्चक्षु॒-श्श्रोत्र॒-म्मनो॒ वाच॒मिति॑ ॥
तग्ं हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
येन॒ जाता॑नि॒ जीव॑न्ति । य-त्प्रय॑न्त्य॒भि सं​विँ॑शन्ति ।
त-द्विजि॑ज्ञासस्व । त-द्ब्रह्मेति॑ ॥
स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 35 ॥

अन्न॒-म्ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति । अन्न॒-म्प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥ त-द्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व ।
तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 36 ॥

प्रा॒णो ब्र॒ह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति ।
प्रा॒ण-म्प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥ त-द्वि॒ज्ञाय॑ ।
पुन॑रे॒व वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 37 ॥

मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति । मनः॒ प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥ त-द्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व ।
तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 38 ॥

वि॒ज्ञान॒-म्ब्रह्मेति॒ व्य॑जानात् ।
वि॒ज्ञाना॒-द्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति । वि॒ज्ञान॒-म्प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥
त-द्वि॒ज्ञाय॑ । पुन॑रे॒व वरु॑ण॒-म्पित॑र॒-मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ । तग्ं हो॑वाच । तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ । स तपो॑-ऽतप्यत । स तप॑-स्त॒प्त्वा ॥ 39 ॥

आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒-द्ध्ये॑व-खल्वि॒मानि॒ भूता॑नि॒ जाय॑न्ते ।
आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति । आ॒न॒न्द-म्प्रय॑न्त्य॒भि-सं​विँ॑श॒न्तीति॑ ॥ सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒-न्प्रति॑ष्ठिता ॥ य ए॒वं-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।
म॒हा-न्भ॑वति प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् की॒र्त्या ॥ 40 ॥

अन्न॒-न्न नि॑न्द्यात् । त-द्व्र॒तम् ॥ प्रा॒णो वा अन्न᳚म् । शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑र॒-म्प्रति॑ष्ठितम् । शरी॑रे प्रा॒णः प्रति॑ष्ठितः ।
तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितम् ॥
स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वा-नन्ना॒दो भ॑वति ।
म॒हा-न्भ॑वति प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् की॒र्त्या ॥ 41 ॥

अन्न॒-न्न परि॑चक्षीत । त-द्व्र॒तम् । आपो॒ वा अन्न᳚म् । ज्योति॑रन्ना॒दम् । अ॒फ्सु ज्योतिः॒ प्रति॑ष्ठितम् । ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः ।
तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितम् ॥
स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वा-नन्ना॒दो भ॑वति । म॒हा-न्भ॑वति प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् कीर्त्या ॥ 42 ॥

अन्न॑-म्ब॒हु कु॑र्वीत । त-द्व्र॒तम् ॥ पृ॒थि॒वी वा अन्न᳚म् । आ॒का॒शो᳚-ऽन्ना॒दः । पृ॒थि॒व्या-मा॑का॒शः प्रति॑ष्ठितः । आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता ।
तदे॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितम् ॥
स य ए॒त-दन्न॒-मन्ने॒ प्रति॑ष्ठितं॒-वेँद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति । म॒हा-न्भ॑वति प्र॒जया॑ प॒शुभि॑-र्ब्रह्मवर्च॒सेन॑ ।
म॒हान् की॒र्त्या ॥ 43 ॥

न कञ्चन वसतौ प्रत्या॑चक्षी॒त । त-द्व्र॒तम् ॥
तस्माद्यया कया च विधया बह्व॑न्न-म्प्रा॒प्नुयात् ॥
अराद्ध्यस्मा अन्नमि॑त्याच॒क्षते ॥ एतद्वै मुखतो᳚-ऽन्नग्ं रा॒द्धम् ।
मुखतो-ऽस्मा अ॑न्नग्ं रा॒द्ध्यते । एतद्वै मद्ध्यतो᳚-ऽन्नग्ं रा॒द्धम् ।
मद्ध्यतो-ऽस्मा अ॑न्नग्ं रा॒द्ध्यते ।
एदद्वा अन्ततो᳚-ऽन्नग्ं रा॒द्धम् ।
अन्ततो-ऽस्मा अ॑न्नग्ं रा॒द्ध्यते । ॥ 44-ऽ ॥

य ए॑वं-वेँ॒द ॥ क्षेम इ॑ति वा॒चि । योगक्षेम इति प्रा॑णापा॒नयोः । कर्मे॑ति ह॒स्तयोः । गति-रि॑ति पा॒दयोः । विमुक्ति-रि॑ति पा॒यौ । इति मानुषी᳚-स्समा॒ज्ञाः ॥ अथ दै॒वीः । तृप्ति-रि॑ति वृ॒ष्टौ । बल-मि॑ति वि॒द्युति । ॥ 44.ब् ॥

यश इ॑ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु ।
प्रजाति-रमृत-मानन्द इ॑त्युप॒स्थे । सर्व मि॑त्याका॒शे ॥
त-त्प्रतिष्ठे-त्यु॑पासी॒त । प्रतिष्ठा॑वा-न्भ॒वति । तन्मह इत्यु॑पासी॒त । म॑हा-न्भ॒वति । तन्मन इत्यु॑पासी॒त । मान॑वा-न्भ॒वति । ॥ 44.च् ॥

तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚-ऽस्मै का॒माः । तद्ब्रह्मे-त्यु॑पासी॒त । ब्रह्म॑वा-न्भ॒वति । त-द्ब्रह्मणः परिमर इत्यु॑पासी॒त । पर्येण-म्म्रियन्ते द्विषन्तः॑ सप॒त्नाः । परि ये᳚-ऽप्रिया᳚ भ्रातृ॒व्याः ॥ स यश्चा॑य-म्पु॒रुषे । यश्चासा॑-वादि॒त्ये । स एकः॑ । ॥ 44.द् ॥

स य॑ एवं॒-विँत् । अस्माल्-लो॑का-त्प्रे॒त्य ।
एतमन्नमय-मात्मान-मुप॑सङ्क्र॒म्य ।
एत-म्प्राणमय-मात्मान-मुप॑सङ्क्र॒म्य ।
एत-म्मनोमय-मात्मान-मुप॑सङ्क्र॒म्य ।
एतं-विँज्ञानमय-मात्मान-मुप॑सङ्क्र॒म्य ।
एत मानन्दमय मात्मान मुप॑सङ्क्र॒म्य ।
इमान् ँलोकान् कामान्नी काम-रूप्य॑नुस॒ञ्चरन्न् ।
एत-थ्साम गा॑यन्ना॒स्ते ॥ हा(3) वु॒ हा(3) वु॒ हा(3) वु॑ । ॥ 44ऎ ॥

अ॒ह-मन्न-म॒ह-मन्न-म॒हमन्नम् ।
अ॒हमन्ना॒दो(2)-ऽहमन्ना॒दो(2) ऽहमन्ना॒दः ।
अ॒हग्ग्​ श्लोक॒कृ-द॒हग्ग्​ श्लोक॒कृ-द॒हग्ग्​ श्लोक॒कृत् । अ॒हमस्मि प्रथमजा ऋता(3) स्य॒ ।
पूर्व-न्देवेभ्यो अमृतस्य ना(3) भा॒ इ॒ ।
यो मा ददाति स इदेव मा(3)वाः॒ ।
अ॒ह-मन्न॒-मन्न॑-म॒दन्त॒-मा(3) द्मि॒ ।
अ॒हं-विँश्व॒-म्भुव॑न॒-मभ्य॑भ॒वाम् । सुव॒र्न ज्योतीः᳚ ॥ य ए॒वं-वेँद॑ ॥ इत्यु॑प॒निष॑त् ॥ 44.f ॥

स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

(भृगु॒स्त्रयो॑द॒शा - न्न॑म् - प्रा॒णो - मनो॑ - वि॒ज्ञान॒-न्द्वाद॑श द्वादशा - न॒न्दो दशा - न्न॒-न्न नि॑न्द्या॒ - दन्न॒-न्न परि॑चक्षी॒ता -न्न॑-म्ब॒हुकु॑र्वि॒ तैका॑दशैकादश॒ - न कञ्च नैक॑षष्टि॒र्दश॑ ) (अ. 15)
॥ इति भृगुवल्ली समाप्ता ॥

(श-न्नः॒ - शीक्षाग्ं - स॒ह नौ॒ - य ॑007आ;छन्द॑सा॒म् - भूः - स यः - पृ॑थि॒ - व्योमि - त्यृत-ञ्चा॒ - हम् - ँवेदमनुच्य - श-न्नः॑ - स॒ह ना॑ववतु - ब्रह्म॒वि-द्- भृगुः॒ पञ्च॑दश)

(श-न्नो॒ - मह॒ इत्या॑दि॒त्यो - नो इ॑तरा॒ण्य - स॑न्ने॒वा - न्न॒-न्न नि॑न्द्या॒च्चतु॑श्चत्वारिग्ंशत् )

(शन्न॒ - इत्यु॑प॒निष॑त् )

॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके नवमः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: