View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6 - पितृमेधमन्त्राः - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - परेयुवांसं प्रवतः

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके षष्ठः प्रपाठकः - पितृमेधमन्त्राः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1
प॒रे॒यु॒वाग्ंस॑-म्प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम् । वै॒व॒स्व॒तग्ं स॒ङ्गम॑न॒-ञ्जना॑नाम् ँय॒मग्ं राजा॑नग्ं ह॒विषा॑ दुवस्यत ॥ इ॒द-न्त्वा॒ वस्त्र॑-म्प्रथ॒म-न्न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा ।
इ॒ष्टा॒पू॒र्तमनु॒ सम्प॑श्य॒ दक्षि॑णा॒म् ँयथा॑ ते द॒त्त-म्ब॑हु॒धा वि ब॑न्धुषु ॥
इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे᳚ ।
याभ्या᳚म् ँय॒मस्य॒ साद॑नग्ं सु॒कृता॒-ञ्चापि॑ गच्छतात् ॥ पू॒षा त्वे॒तश्च्या॑वयतु॒ प्रवि॒द्वा-नन॑ष्टपशु॒-र्भुव॑नस्य गो॒पाः ।
स त्वै॒तेभ्यः॒ परि॑ददा-त्पि॒तृभ्यो॒-ऽग्निर्दे॒वेभ्यः॑ सुवि॒दत्रे᳚भ्यः ॥ पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा॒-स्सो अ॒स्माग्ं अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा अघृ॑णि॒-स्सर्व॑वी॒रो-ऽप्र॑युच्छन्पु॒र ए॑तु॒ प्रवि॒द्वान् ॥ 1 ॥

आयु॑-र्वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता᳚त् । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒व-स्स॑वि॒ता द॑धातु ॥
भुव॑नस्य पत इ॒दग्ं ह॒विः ॥ अ॒ग्नये॑ रयि॒मते॒ स्वाहा᳚ ॥ पुरु॑षस्य सयाव॒र्यपेद॒घानि॑ मृज्महे ।
यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति ॥
पुरु॑षस्य सयावरि॒ वि ते᳚ प्रा॒णम॑सि स्रसम् ।
शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑ पि॒तॄनुप॑ प्र॒जया॒-ऽस्मानि॒हाव॑ह ॥ मैव॑-म्मा॒ग्॒स्ता प्रि॑ये॒-ऽह-न्दे॒वी स॒ती पि॑तृलो॒कम् ँयदैषि॑ ।
वि॒श्ववा॑रा॒ नभ॑सा॒ सं​व्यँ॑यन्त्यु॒भौ नो॑ लो॒कौ
पय॑सा॒-ऽभ्याव॑वृथ्स्व ॥ 2 ॥

इ॒य-न्नारी॑ पतिलो॒कम् ँवृ॑णा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत᳚म् । विश्व॑-म्पुरा॒णमनु॑ पा॒लय॑न्ती॒ तस्यै᳚ प्र॒जा-न्द्रवि॑ण-ञ्चे॒ह धे॑हि ॥ उदी᳚र्​ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑ ।
ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वमे॒त-त्पत्यु॑र्जनि॒त्वम॒भि सम्ब॑भूव ॥
सु॒वर्ण॒ग्ं॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यग्ं सु॒शेवा॒ विश्वा॒-स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥
धनु॒र्॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै क्ष॒त्रायौज॑से॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यग्ं सु॒शेवा॒ विश्वा॒-स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ।
मणि॒ग्ं॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य । अत्रै॒व त्वमि॒ह व॒यग्ं सु॒शेवा॒ विश्वा॒-स्स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥ 3 ॥

इ॒मम॑ग्ने चम॒स-म्मा विजी᳚ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना᳚म् । ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑-न्दे॒वा अ॒मृता॑ मादयन्ताम् ॥
अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ सम्प्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च । नेत्त्वा॑ धृ॒ष्णुर्-हर॑सा॒ जर्​हृ॑षाणो॒ दध॑-द्विध॒क्ष्यन्-पर्य॒ङ्खया॑तै ॥
मैन॑मग्ने॒ विद॑हो॒ मा-ऽभिशो॑चो॒ मा-ऽस्य॒ त्वच॑-ञ्चिक्षिपो॒ मा शरी॑रम् । य॒दा शृ॒त-ङ्क॒रवो॑ जातवे॒दो-ऽथे॑मेन॒-म्प्रहि॑णुता-त्पि॒तृभ्यः॑ ॥
शृ॒तम् ँय॒दा क॒रसि॑ जातवे॒दो-ऽथे॑मेन॒-म्परि॑दत्ता-त्पि॒तृभ्यः॑ । य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वाना᳚म् ँवश॒नीर्भ॑वाति ॥ सूर्य॑-न्ते॒ चक्षु॑-र्गच्छतु॒ वात॑मा॒त्मा द्या-ञ्च॒ गच्छ॑ पृथि॒वी-ञ्च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ॥ अ॒जो भा॒गस्तप॑सा॒ त-न्त॑पस्व॒ त-न्ते॑ शो॒चिस्त॑पतु॒ त-न्ते॑ अ॒र्चिः ।
यास्ते॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑-र्वहे॒मग्ं सु॒कृता॒म् ँयत्र॑ लो॒काः ॥ अ॒यम् ँवै त्वम॒स्मादधि॒ त्वमे॒तद॒यम् ँवै तद॑स्य॒ योनि॑रसि । वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॑क॒कृ-ज्जा॑तवेदो॒ वहे॑मग्ं सु॒कृता॒म् ँयत्र॑ लो॒काः ॥ 4 ॥
(वि॒द्वा-न॒भ्याव॑वृथ्स्वा॒ - भिमा॑तीर्जयेम॒ - शरी᳚रैश्च॒त्वारि॑ च ) (अ. 1)

अनुवाकं 2
य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्य॒-स्स्वाहा॒ य ए॒तस्य॑ प॒थो र॑क्षि॒तार॒स्तेभ्य॒-स्स्वाहा॒ य ए॒तस्य॑ प॒थो॑-ऽभिर॑क्षि॒तार॒स्तेभ्य॒-स्स्वाहा᳚-ऽऽख्या॒त्रे स्वाहा॑-ऽपाख्या॒त्रे स्वाहा॑-ऽभि॒लाल॑पते॒ स्वाहा॑-ऽप॒लाल॑पते॒ स्वाहा॒-ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒ यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा᳚ ॥
यस्त॑ इ॒द्ध्म-ञ्ज॒भर॑-थ्सिष्विदा॒नो मू॒र्धान॑म् ँवा त॒तप॑ते त्वा॒या । दिवो॒ विश्व॑स्मा-थ्सीमघाय॒त उ॑रुष्यः ॥ अ॒स्मात्त्वमधि॑ जा॒तो॑-ऽसि॒ त्वद॒य-ञ्जा॑यता॒-म्पुनः॑ । अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा᳚ ॥ 5 ॥
(य ए॒तस्य॒ त्व-त्पञ्च॑ ) (अ. 2)

अनुवाकं 3
प्र के॒तुना॑ बृह॒ता भा᳚त्य॒ग्निरा॒वि-र्विश्वा॑नि वृष॒भो रो॑रवीति । दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध ॥
इ॒दन्त॒ एक॑-म्प॒र ऊ॑त॒ एक॑-न्तृ॒तीये॑न॒ ज्योति॑षा॒ सं​विँ॑शस्व । सं॒​वेँश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वाना᳚-म्पर॒मे स॒धस्थे᳚ ॥
नाके॑ सुप॒र्णमुप॒ य-त्पत॑न्तग्ं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्ष॒म् ँवरु॑णस्य दू॒तम् ँय॒मस्य॒ योनौ॑ शकु॒न-म्भु॑र॒ण्युम् ॥
अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था । अथा॑ पि॒तॄन्-थ्सु॑वि॒दत्रा॒ग्ं॒ अपी॑हि य॒मेन॒ ये स॑ध॒माद॒-म्मद॑न्ति ॥
यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सा ।
ताभ्याग्ं॑ राज॒-न्परि॑ देह्येनग्ग्​ स्व॒स्ति चा᳚स्मा अनमी॒व-ञ्च॑ धेहि ॥ 6 ॥

उ॒रु॒ण॒सा-व॑सु॒तृपा॑-वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ वशा॒ग्ं॒ अनु॑ । ताव॒स्मभ्य॑-न्दृ॒शये॒ सूर्या॑य॒ पुन॑र्द-त्ता॒वसु॑म॒द्येह भ॒द्रम् ॥
सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताग्​-श्चि॑दे॒वापि॑गच्छतात् ॥
ये युद्ध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नु॒त्यजः॑ । ये वा॑ स॒हस्र॑दक्षिणा॒स्ताग्​ श्चि॑दे॒वापि॑गच्छतात् ॥
तप॑सा॒ ये अ॑नाधृ॒ष्या-स्तप॑सा॒ ये सुव॑र्ग॒ताः ।
तपो॒ ये च॑क्रि॒रे म॒ह-त्ताग्​-श्चि॑दे॒वापि॑गच्छतात् ॥
अश्म॑न्वती रेवती॒-स्सग्ंर॑भद्ध्व॒-मुत्ति॑ष्ठत॒ प्रत॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वा-श्शि॒वान्. व॒यम॒भि वाजा॒नुत्त॑रेम ॥ 7 ॥

यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रग्ं॑ स॒हस्र॑धार॒म् ँवित॑तम॒न्तरि॑क्षे । येनापु॑ना॒दिन्द्र॒मना᳚र्त॒-मार्त्यै॒ तेना॒ह-म्माग्ं स॒र्वत॑नु-म्पुनामि ॥
या रा॒ष्ट्रा-त्प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः । धा॒तुस्ता-स्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒-ऽस्मान्-र॒य्या वर्च॑सा॒ सग्ंसृ॑जाथ ॥
उद्व॒य-न्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒व-न्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥
धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ॥ 8 ॥
(धे॒ - ह्युत्त॑रे - मा॒ष्टौ च॑) (अ. 3)

अनुवाकं 4
य-न्ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे ।
इ॒म-न्तग्ं श॑मयामसि क्षी॒रेण॑ चोद॒केन॑ च ॥
यन्त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑ ।
क्या॒म्बूरत्र॑ जायता-म्पाकदू॒र्वा व्य॑ल्कशा ॥
शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति ।
म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒मग्ग्​ स्व॑ग्निग्ं श॒मय॑ ॥ श-न्ते॑ धन्व॒न्या आप॒-श्शमु॑ ते सन्त्वनू॒क्याः᳚ । श-न्ते॑ समु॒द्रिया॒ आप॒-श्शमु॑ ते सन्तु॒ वर्​ष्याः᳚ ॥
श-न्ते॒ स्रव॑न्ती-स्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः᳚ ।
श-न्ते॑ नीहा॒रो व॑र्​षतु॒ शमु॒ पृष्वा-ऽव॑शीयताम् ॥ 9 ॥

अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ । आयु॒र्वसा॑न॒ उप॑ यातु॒ शेष॒ग्ं॒ सङ्ग॑च्छता-न्त॒नुवा॑ जातवेदः ॥
सङ्ग॑च्छस्व पि॒तृभि॒-स्सग्ग्​ स्व॒धाभि॒-स्समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन्न् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒व-स्स॑वि॒ता द॑धातु ॥ यत्ते॑ कृ॒ष्ण-श्श॑कु॒न आ॑तु॒तोद॑ पिपी॒ल-स्स॒र्प उ॒त वा॒ श्वाप॑दः ।
अ॒ग्निष्ट-द्विश्वा॑दनृ॒ण-ङ्कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा᳚ह्म॒णमा॑वि॒वेश॑ ॥ उत्ति॒ष्ठात॑-स्त॒नुव॒ग्ं॒ सम्भ॑रस्व॒ मेह गात्र॒मव॑हा॒ मा शरी॑रम् ।
यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒व-स्स॑वि॒ता द॑धातु ॥ इ॒द-न्त॒ एक॑-म्प॒र ऊ॑त॒ एक॑-न्तृ॒तीये॑न॒ ज्योति॑षा॒ सं​विँ॑शस्व ।
सं॒​वेँश॑न-स्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वाना᳚-म्पर॒मे स॒धस्थे᳚ ॥ उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन्न् । य॒मेन॒ त्वम् ँय॒म्या॑ सं​विँदा॒नोत्-त॒म-न्नाक॒मधि॑ रोहे॒मम् ॥
अश्म॑न्वती रेवती॒-स्सग्ं र॑भद्ध्व॒ मुत्ति॑ष्ठत॒ प्रत॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वा-श्शि॒वान् व॒यम॒भि वाजा॒नुत्त॑रेम ॥ यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रग्ं॑ स॒हस्र॑धार॒म् ँवित॑तम॒न्तरि॑क्षे । येनापु॑ना॒दिन्द्र॒मना॑र्त॒-मार्त्यै॒ तेना॒ह-म्माग्ं स॒र्वत॑नु-म्पुनामि ॥ या रा॒ष्ट्रा-त्प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः । धा॒तुस्ता-स्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒-ऽस्मान्-र॒य्या वर्च॑सा॒ सग्ंसृ॑जाथ ॥ या रा॒ष्ट्रा-त्प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः । धा॒तुस्ता-स्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒-ऽस्मान्-र॒य्या वर्च॑सा॒ सग्ंसृ॑जाथ ॥ धा॒ता पु॑नातु सवि॒ता पु॑नातु । अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा ॥
अ॒स्मात्त्वमधि॑ जा॒तो᳚-ऽस्य॒य-न्त्वदधि॑जायताम् ।
अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा᳚ ॥ 10 ॥
(अव॑शीयताग्ं - स॒धस्थे॒ पञ्च॑ च) (अ. 4)

अनुवाकं 5
आया॑तु दे॒व-स्सु॒मना॑भि-रू॒तिभि॑-र्य॒मो ह॑वे॒ह प्रय॑ताभिर॒क्ता । आसी॑दताग्ं सुप्र॒यते॑ह ब॒र्॒हिष्यूर्जा॑य जा॒त्यै मम॑ शत्रु॒हत्यै᳚ ॥
य॒मे इ॑व॒ यत॑माने॒ यदैत॒-म्प्रवा᳚म्भर॒-न्मानु॑षा देव॒यन्तः॑ । आसी॑दत॒ग्ग्॒ स्वमु॑ लो॒कम् ँविदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥
य॒माय॒ सोमग्ं॑ सुनुत य॒माय॑ जुहुता ह॒विः ।
य॒मग्ं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अर॑ङ्कृतः ॥
य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत ।
स नो॑ दे॒वेष्वाय॑म-द्दी॒र्घमायुः॒ प्र जी॒वसे᳚ ॥
य॒माय॒ मधु॑मत्तम॒ग्ं॒ राज्ञे॑ ह॒व्य-ञ्जु॑होतन । इ॒द-न्नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ॥ 11 ॥

यो-ऽस्य॒ कौष्ठ्य॒ जग॑तः॒ पार्थि॑व॒स्यैक॑ इद्व॒शी ।
य॒म-म्भ॑ङ्ग्यश्र॒वो गा॑य॒ यो राजा॑-ऽनप॒रोद्ध्यः॑ ॥ य॒म-ङ्गाय॑ भङ्ग्य॒श्रवो॒ यो राजा॑-ऽनप॒रोद्ध्यः॑ । येना॒पो न॒द्यो॑ धन्वा॑नि॒ येन॒ द्यौः पृ॑थि॒वी दृ॒ढा ॥ हि॒र॒ण्य॒क॒क्ष्यान्-थ्सु॒धुरान्॑. हिरण्या॒क्षा-न॑यश्श॒फान् । अश्वा॑-न॒नश्य॑तो दा॒न॒म् ँय॒मो रा॑जा-ऽभि॒तिष्ठ॑ति ॥ य॒मो दा॑धार पृथि॒वीं-यँ॒मो विश्व॑मि॒द-ञ्जग॑त् । य॒माय॒ सर्व॒मित्र॑स्थे॒ य-त्प्रा॒ण-द्वा॒युर॑क्षि॒तम् ॥ यथा॒ पञ्च॒ यथा॒ षड् य॒था पञ्च॑ द॒शर्​ष॑यः । य॒मम् ँयो वि॑द्या॒थ्स ब्रू॑याद्य॒थैक ऋषि॑र्विजान॒ते ॥ 12 ॥

त्रिक॑द्रुकेभिः॒ पत॑ति॒ षडु॒र्वी-रेक॒मि-द्बृ॒हत् ।
गा॒य॒त्री त्रि॒ष्टुप्छन्दाग्ं॑सि॒ सर्वा॒ ता य॒म आहि॑ता ॥
अह॑रह॒र्नय॑मानो॒ गामश्व॒-म्पुरु॑ष॒-ञ्जग॑त् ।
वैव॑स्वतो॒ न तृ॑प्यति॒ पञ्च॑भि॒र्मान॑वैर्य॒मः ॥
वैव॑स्वते॒ विवि॑च्यन्ते॒ यमे॒ राज॑नि ते ज॒नाः ।
ये चे॒ह स॒त्येनेच्छ॑न्ते॒ य उ॒ चानृ॑तवादि॒नः ॥
ते रा॑जन्नि॒ह विवि॑च्यन्ते॒-ऽथा य॑न्ति त्वा॒मुप॑ ।
दे॒वाग्​श्च॒ ये न॑म॒स्यन्ति॒ ब्राह्म॑णाग्​श्चाप॒चित्य॑ति ॥
यस्मि॑न् वृ॒क्षे सु॑पला॒शे दे॒वै-स्स॒पिम्ब॑ते य॒मः ।
अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णा अनु॑वेनति ॥ 13 ॥
(प॒थि॒कृद्भ्यो॑ - विजान॒ते - ऽनु॑वेनति) (अ. 5)

अनुवाकं 6
वै॒श्वा॒न॒रे ह॒विरि॒द-ञ्जु॑होमि साह॒स्र-मुथ्सग्ं॑ श॒तधा॑रमे॒तम् । तस्मि॑न्ने॒ष पि॒तर॑-म्पिताम॒ह-म्प्रपि॑तामह-म्बिभर॒-त्पिन्व॑माने ॥
द्र॒फ्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीय॒म् ँयोनि॒मनु॑ स॒ञ्चर॑न्त-न्द्र॒फ्स-ञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ॥
इ॒मग्ं स॑मु॒द्रग्ं श॒तधा॑र॒मुथ्स॑म् ँव्य॒च्यमा॑न॒-म्भुव॑नस्य॒ मद्ध्ये᳚ ।
घृ॒त-न्दुहा॑ना॒मदि॑ति॒-ञ्जना॒याग्ने॒ मा हिग्ं॑सीः पर॒मे व्यो॑मन्न् ॥ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ ये-ऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भिर॒द्भि-र॒क्तुभि॒-र्व्य॑क्तम् ँय॒मो द॑दा-त्वव॒सान॑मस्मै ॥ स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे ।
तेभि॑-र्युज्यन्ता-मघ्नि॒याः ॥ 14 ॥

शु॒नम् ँवा॒हा-श्शु॒न-न्ना॒रा-श्शु॒न-ङ्कृ॑षतु॒ लाङ्ग॑लम् ।
शु॒नम् ँव॑र॒त्रा ब॑द्ध्यन्ताग्ं शु॒न-मष्ट्रा॒-मुदि॑ङ्गय॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ॥
शुना॑सीरावि॒माम् ँवाच॒म् ँय-द्दि॒वि च॑क्र॒थुः पयः॑ । तेने॒मा-मुप॑सिञ्चतम् ॥
सीते॒ वन्दा॑महे त्वा॒-ऽर्वाची॑ सुभगे भव ।
यथा॑ न-स्सु॒भगा स॑सि॒ यथा॑ न-स्सु॒फला स॑सि ॥
स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभि॑रदिते॒ श-म्भ॑व ॥
विमु॑च्यद्ध्व-मघ्नि॒या दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य ।
ज्योति॑रापाम॒ सुव॑रगन्म ॥ 15 ॥

प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुवः॑ । इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ य-त्प॒र्जन्यः॑ पृथि॒वीग्ं रेत॒सा-ऽव॑ति ॥
यथा॑ य॒माय॑ हा॒र्म्य-मव॑प॒-न्पञ्च॑मान॒वाः ।
ए॒वम् ँव॑पामि हा॒र्म्यम् ँयथा-ऽसा॑म जीवलो॒के भूर॑यः ॥ चितः॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयद्ध्व-म्पि॒तरो॑ दे॒वता᳚ ।
प्र॒जाप॑तिर्व-स्सादयतु॒ तया॑ दे॒वत॑या ॥
आ प्या॑यस्व॒ समॆ॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ स-न्ते॒ पयाग्ं॑सि॒ समु॑ यन्तु॒ वाजा॒-स्सं-वृँष्णि॑या-न्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाग्॑स्युत्त॒मानि॑ धिष्व ॥ 16 ॥
(अ॒घ्नि॒या - अ॑गन्म - +स॒प्त च॑) (अ. 6)

अनुवाकं 7
उत्ते॑ तभ्नोमि पृथि॒वी-न्त्वत्परी॒मम् ँलो॒क-न्नि॒दध॒न्मो अ॒हग्ं रि॑षम् । ए॒ताग्​ स्थूणा᳚-म्पि॒तरो॑ धारयन्तु॒ ते-ऽत्रा॑ य॒म-स्साद॑नात्ते मिनोतु ॥
उप॑सर्प मा॒तर॒-म्भूमि॑मे॒ता-मु॑रु॒व्यच॑स-म्पृथि॒वीग्ं सु॒शेवा᳚म् । ऊर्ण॑म्रदा युव॒ति-र्दक्षि॑णावत्ये॒षा त्वा॑ पातु॒ निर्-ऋ॑त्या उ॒पस्थे᳚ ॥
उच्छ्म॑ञ्चस्व पृथिवि॒ मा विबा॑धिथा-स्सूपाय॒ना-ऽस्मै॑ भव सूपवञ्च॒ना । मा॒ता पु॒त्रम् ँयथा॑ सि॒चा-ऽभ्ये॑न-म्भूमि वृणु ॥ उ॒च्छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि स॒हस्र॒म्मित॒ उप॒ हि श्रय॑न्ताम् ।
ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा᳚स्मै शर॒णा-स्स॒न्त्वत्र॑ ॥ एणी᳚र्धा॒ना हरि॑णी॒रर्जु॑नी-स्सन्तु धे॒नवः॑ । तिल॑वथ्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वन॑पस्फुरन्तीः ॥ 17 ॥

ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे । अक्षि॑ति॒र्नाम॑ ते असौ ॥ इ॒द-म्पि॒तृभ्यः॒ प्रभ॑रेम ब॒र्॒हि-र्दे॒वेभ्यो॒ जीव॑न्त॒ उत्त॑र-म्भरेम ।
तत्त्व॑मारो॒हासो॒ मेघ्यो॒ भव॑म् ँय॒मेन॒ त्वम् ँय॒म्या॑ सं​विँदा॒नः ॥ मा त्वा॑ वृ॒क्षौ सम्बा॑धिष्टा॒-म्मा मा॒ता पृ॑थिवि॒ त्वम् ।
पि॒तॄन्. हि यत्र॒ गच्छा॒स्येधा॑सम् ँयम॒राज्ये᳚ ॥
मा त्वा॑ वृ॒क्षौ सम्बा॑धेथा॒-म्मा मा॒ता पृ॑थि॒वी म॒ही । वै॒व॒स्व॒तग्ं हि गच्छा॑सि यम॒राज्ये॒ विरा॑जसि ॥
न॒ल-म्प्ल॒वमारो॑है॒त-न्न॒लेन॑ प॒थो-ऽन्वि॑हि ।
स त्व॑-न्न॒लप्ल॑वो भू॒त्वा॒ सन्त॑र॒ प्रत॒रोत्त॑र ॥ 18 ॥

स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे । तेभ्यः॑ पृथिवि॒ श-म्भ॑व ॥
षड्ढो॑ता॒ सूर्य॑-न्ते॒ चक्षु॑-र्गच्छतु॒ वात॑मा॒त्मा द्या-ञ्च॒ गच्छ॑ पृथि॒वी-ञ्च॒ धर्म॑णा ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ॥ पर॑-म्मृत्यो॒ अनु॒ परे॑हि॒ पन्था॒म् ँयस्ते॒ स्व इत॑रो देव॒याना᳚त् ।
चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् ॥
शम् ँवात॒-श्शग्ं हि ते॒ घृणि॒-श्शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्ता-म्मे॒ दिशः॑ श॒ग्माः ॥
पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वाता᳚ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ अ॒न्तरि॑क्षस्य त्वा दि॒वस्त्वा॑ दि॒शा-न्त्वा॒ नाक॑स्य त्वा पृ॒ष्ठे ब्र॒द्ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता᳚ ।
प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ 19 ॥
(अन॑पस्फुरन्ती॒ - रुत्त॑र - दे॒वत॑या॒ द्वे च॑) (अ. 7)

अनुवाकं 8
अ॒पू॒पवा᳚-न्घृ॒तवाग्॑श्च॒रुरेह सी॑दतूत्तभ्नु॒व-न्पृ॑थि॒वी-न्द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृतः॑ सपर्यत॒ ये दे॒वाना᳚-ङ्घृ॒तभा॑गा इ॒ह स्थ ।
ए॒षा ते यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑-ऽसौ ।
दशा᳚क्षरा॒ ताग्ं र॑क्षस्व॒ ता-ङ्गो॑पायस्व॒ ता-न्ते॒ परि॑ ददामि॒ तस्या᳚-न्त्वा॒ मा द॑भ-न्पि॒तरो॑ दे॒वता᳚ ।
प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥
अ॒पू॒पवा᳚-ञ्छृ॒तवा᳚न्-क्षी॒रवा॒न्-दधि॑वा॒-न्मधु॑माग्​-श्च॒रुरेह सी॑दतूत्तभ्नु॒वन्-पृ॑थि॒वी-न्द्यामु॒तोपरि॑ । यो॒नि॒कृतः॑ पथि॒कृतः॑ सपर्यत॒ ये दे॒वानाग्ं॑ शृ॒तभा॑गाः, क्षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ । ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑-ऽसौ । श॒ताक्ष॑रा स॒हस्रा᳚क्षरा॒-ऽयुता᳚क्ष॒रा-ऽच्यु॑ताक्षरा॒ ताग्ं र॑क्षस्व॒ ता-ङ्गो॑पायस्व॒ ता-न्ते॒ परि॑ददामि॒ तस्या᳚-न्त्वा॒ मा द॑भ-न्पि॒तरो॑ दे॒वता᳚ । प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या ॥ 20 ॥
(अ॒पू॒पवा॑नसौ॒ दश॑) (अ. 8)

अनुवाकं 9
ए॒तास्ते᳚ स्व॒धा अ॒मृताः᳚ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑ । तास्ते॑ य॒मः पि॒तृभिः॑ सं​विँदा॒नो-ऽत्र॑ धे॒नूः का॑म॒दुघाः᳚ करोतु ॥
त्वामर्जु॒नौष॑धीना॒-म्पयो᳚ ब्र॒ह्माण॒ इद्वि॑दुः ।
तासा᳚-न्त्वा॒ मद्ध्या॒दाद॑दे च॒रुभ्यो॒ अपि॑धातवे ॥
दू॒र्वाणाग्॑ स्त॒म्बमाह॑रै॒ता-म्प्रि॒यत॑मा॒-म्मम॑ । इ॒मा-न्दिश॑-म्मनु॒ष्या॑णा॒-म्भूयि॒ष्ठा-ऽनु॒ वि रो॑हतु ॥ काशा॑नाग्​ स्त॒म्बमाह॑र॒ रक्ष॑सा॒मप॑हत्यै ।
य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒ ते नाभ॑वा॒-न्पुनः॑ ॥ द॒र्भाणाग्॑ स्त॒म्बमाह॑र पितृ॒णामोष॑धी-म्प्रि॒याम् । अन्वस्यै॒ मूल॑-ञ्जीवा॒दनु॒ काण्ड॒मथो॒ फल᳚म् ॥ 21 ॥

लो॒क-म्पृ॑ण छि॒द्र-म्पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीष॒दन्न् ॥ ता अ॑स्य॒ सूद॑दोहस॒-स्सोमग्ग्॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑-न्दे॒वानां॒-विँश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥
शम् ँवात॒-श्शग्ंहि ते॒ घृणि॒-श्शमु॑ ते स॒न्त्वोष॑धीः । कल्प॑न्ता-न्ते॒ दिश॒-स्सर्वाः᳚ ॥ इ॒दमे॒व मेतो-ऽप॑रा॒मार्ति॑माराम॒ काञ्च॒न ।
तथा॒ तद॒श्विभ्या᳚-ङ्कृ॒त-म्मि॒त्रेण॒ वरु॑णेन च ॥
व॒र॒णो वा॑रयादि॒द-न्दे॒वो वन॒स्पतिः॑ ।
आर्त्यै॒ निर्-ऋ॑त्यै॒ द्वेषा᳚च्च॒ वन॒स्पतिः॑ ॥
विधृ॑तिरसि॒ विधा॑रया॒स्मद॒घा द्वेषाग्ं॑सि श॒मि श॒मया॒स्मद॒घा द्वेषाग्ं॑सि य॒व य॒वया॒स्मद॒घा द्वेषाग्ं॑सि ॥
पृ॒थि॒वी-ङ्ग॑च्छा॒न्तरि॑क्ष-ङ्गच्छ॒ दिव॑-ङ्गच्छ॒ दिशो॑ गच्छ॒ सुव॑र्गच्छ॒ सुव॑र्गच्छ॒ दिशो॑ गच्छ॒ दिव॑-ङ्गच्छा॒न्तरि॑क्ष-ङ्गच्छ पृथि॒वी-ङ्ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ॥ लो॒क-म्पृ॑ण छि॒द्र-म्पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीष॒दन्न् ॥ ता अ॑स्य॒ सूद॑दोहस॒-स्सोमग्ग्॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑-न्दे॒वानां॒-विँश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥
अश्म॑न्वती रेवती॒-स्सग्ं र॑भद्ध्व॒ मुत्ति॑ष्ठत॒ प्रत॑रता सखायः । अत्रा॑ जहाम॒ ये अस॒न्नशे॑वा-श्शि॒वान् व॒यम॒भि वाजा॒नुत्त॑रेम ॥ यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्रग्ं॑ स॒हस्र॑धार॒म् ँवित॑तम॒न्तरि॑क्षे । येनापु॑ना॒दिन्द्र॒मना॑र्त॒-मार्त्यै॒ तेना॒ह-म्माग्ं स॒र्वत॑नु-म्पुनामि ॥
धा॒ता या रा॒ष्ट्रा-त्प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः । धा॒तुस्ता-स्सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒-ऽस्मान्-र॒य्या वर्च॑सा॒ सग्ंसृ॑जाथ ॥( ) ॥ 22 ॥
(अथो॒ फल॑म् - धा॒ता पु॑नातु) (अ. 9)

अनुवाकं 10
आरो॑ह॒तायु॑-र्ज॒रस॑-ङ्गृणा॒ना अ॑नुपू॒र्वम् ँयत॑माना॒ यति॒ष्ट । इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः ॥
यथा-ऽहा᳚न्यनुपू॒र्व-म्भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒-र्यन्ति॑ क्लृ॒प्ताः । यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा॑त॒रायूग्ं॑षि कल्पयैषाम् ॥
न हि॑ ते अग्ने त॒नुवै᳚ क्रू॒र-ञ्च॒कार॒ मर्त्यः॑ ।
क॒पि-र्ब॑भस्ति॒ तेज॑न॒-म्पुन॑र्ज॒रायु॒ गौरि॑व ।
अप॑ न॒-श्शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् ।
अप॑ न॒-श्शोशु॑चद॒घ-म्मृ॒त्यवे॒ स्वाहा᳚ ॥
अ॒न॒ड्वाह॑-म॒न्वार॑भामहे स्व॒स्तये᳚ ।
स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ स॒पांर॑णो भव ॥ 23 ॥

इ॒मे जी॒वा वि॑मृ॒तैराव॑व-र्ति॒न्नभू᳚-द्भ॒द्रा दे॒वहू॑ति-न्नो अ॒द्य । प्राञ्जो॑-ऽगामा नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒रा-न्दधा॑नाः ॥
मृ॒त्योः प॒दम् ँयोपय॑न्तो॒ यदैम॒ द्राघी॑य॒ आयुः॑ प्रत॒रा-न्दधा॑नाः । आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः ॥
इ॒म-ञ्जी॒वेभ्यः॑ परि॒धि-न्द॑धामि॒ मा नो नु॑ गा॒दप॑रो॒ अर्ध॑मे॒तम् ।
श॒त-ञ्जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्यु-न्द॑द्महे॒ पर्व॑तेन ॥ इ॒मा नारी॑रविध॒वा-स्सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सम्मृ॑शन्ताम् ।
अ॒न॒श्रवो॑ अनमी॒वा-स्सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे᳚ ॥ यदाञ्ज॑न-न्त्रैककु॒द-ञ्जा॒तग्ं हि॒मव॑त॒स्परि॑ ।
तेना॒मृत॑स्य॒ मूले॒नारा॑ती-र्जम्भयामसि ॥
यथा॒ त्व-मु॑द्भि॒न-थ्स्यो॑षधे पृथि॒व्या अधि॑ ।
ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑ ॥ अ॒जो᳚-ऽस्यजा॒स्मद॒घा द्वेषाग्ं॑सि य॒वो॑-ऽसि य॒वया॒स्मद॒घा द्वेषाग्ं॑सि ॥ 24 ॥
(भ॒व॒ - ज॒म्भ॒या॒म॒सि॒ त्रीणि॑ च) (अ. 10)

अनुवाकं 11
अप॑ न॒-श्शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम् । अप॑ न॒-श्शोशु॑चद॒घम् ॥ सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे । अप॑ न॒-श्शोशु॑चद॒घम् ॥
प्र य-द्भन्दि॑ष्ठ एषा॒-म्प्रास्माका॑सश्च सू॒रयः॑ । अप॑ न॒-श्शोशु॑चद॒घम् ॥ प्रयद॒ग्ने-स्सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑ । अप॑ न॒-श्शोशु॑चद॒घम् ॥
प्रयत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम् ।
अप॑ न॒-श्शोशु॑चद॒घम् ॥ 25 ॥

त्वग्ं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ । अप॑ न॒-श्शोशु॑चद॒घम् ॥ द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय । अप॑ न॒-श्शोशु॑चद॒घम् ॥ स न॒-स्सिन्धु॑मिव ना॒वया-ऽति॑ पर्​षा स्व॒स्तये᳚ । अप॑ न॒-श्शोशु॑चद॒घम् ॥ आपः॑ प्रव॒णादि॑व य॒ती-रपा॒स्म-थ्स्य॑न्दताम॒घम् । अप॑ न॒-श्शोशु॑चद॒घम् ॥ उ॒द्व॒ना-दु॑द॒कानी॒वापा॒स्म-थ्स्य॑न्दताम॒घम् ।
अप॑ न॒-श्शोशु॑चद॒घम् ॥ आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागा॒ग्॒ स्वान्गृ॒हान् । अप॑ न॒-श्शोशु॑चद॒घम् ॥ न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः ।
यत्रे॒द-म्ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कमप॑ न॒-श्शोशु॑चद॒घम् ॥ 26 ॥
(अ॒घ - म॒घ-ञ्च॒त्वारि॑ च) (अ. 11)

अनुवाकं 12
अप॑श्याम युव॒ति-मा॒चर॑न्ती-म्मृ॒ताय॑ जी॒वा-म्प॑रिणी॒यमा॑नाम् । अ॒न्धेन॒ या तम॑सा॒ प्रावृ॑ता-ऽसि॒ प्राची॒मवा॑ची॒-मव॒य-न्नरि॑ष्ट्यै ॥
मयै॒ता-म्मा॒ग्॒स्ता-म्भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कम् ँयदैषि॑ । वि॒श्ववा॑रा॒ नभ॑सा॒ सं​व्यँ॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒सा-ऽऽवृ॑णीहि ॥
रयि॑ष्ठाम॒ग्नि-म्मधु॑मन्तमू॒र्मिण॒मूर्जः॑ सन्त-न्त्वा॒ पय॒सोप॒ सग्ंस॑देम ।
सग्ं र॒य्या समु॒ वर्च॑सा॒ सच॑स्वा न-स्स्व॒स्तये᳚ ॥
ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्त्याः᳚ ।
तेभ्यो॑ घृ॒तस्य॑ धारयितु॒-म्मधु॑धारा व्युन्द॒ती ॥
मा॒ता रु॒द्राणा᳚-न्दुहि॒ता वसू॑ना॒ग्॒ स्वसा॑-ऽऽदि॒त्याना॑म॒-मृत॑स्य॒ नाभिः॑ ।
प्रणु॒वोच॑-ञ्चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिम् ँवधिष्ट ॥
पिब॑तूद॒क-न्तृणा᳚न्यत्तु । ओमु-थ्सृ॒जत ॥ 27 ॥
(व॒धि॒ष्ट॒ द्वे च॑) (अ. 12)

(प॒रे॒यु॒वाग्ंस॒-म्प्र वि॒द्वा-न्भुव॑नस्या॒भ्याव॑ वृथ्स्वा॒ जो भा॒गो॑-ऽयम् ँवै चतुश्चत्वारिग्ंशत् ।
य ए॒तस्य॒ त्व-त्पञ्च॑ । प्रके॒तुने॒दन्ते॒ नाके॑ सुप॒र्णम् ँयौ ते॒ ये युद्ध्य॑न्ते॒ तप॒सा-ऽश्म॑न्वती रेवती॒-स्सग्ंर॑भद्ध्वम॒ष्टाविग्ं॑शतिः । य-न्ते॒ यत्त॒ उत्तिष्ठा॒त॑ इ॒दन्त॒ उत्ति॑ष्ठ॒
प्रेह्यश्म॒न्॒. यद्वा उद्व॒यम॒य-म्पञ्च॑विग्ंशतिः । आया॑तु त्रि॒ग्ं॒शत् । वै॒श्वा॒न॒रे तस्मि॑-न्द्र॒फ्स इ॒ममपे॒ताहो॑भि-र्युज्यन्तामघ्नि॒या अ॑दिते पा॒रम् ँव॒ आ प्या॑यस्व स॒प्तविग्ं॑शतिः । उत्ते॑ गृहे-ऽखाषि॑ति॒स्तेभ्यः॑ पृ॑थि॒व्या अ॒न्तरि॑क्षस्य॒ द्वात्रिग्ं॑शत् । अ॒पू॒पवा॑नसौ॒ दश॑ श॒त द॑श । ए॒तास्ते॑ ते॒ दिश॒-स्सर्वा॑ इ॒दमश्म॑न् विग्ंश॒तिः । ओ॑रोहत त॒नुवै᳚ क्रू॒र-ञ्च॒कार॒ पुन॑र्मृ॒त्यवे॒ मा नो नु॑ गा-द्दद्मह इ॒मा नारीः॒ परि॒ त्रयो॑विग्ंशतिः ।
अप॑ न-स्सुक्षेत्रि॒या प्र यद्भ-न्दि॑ष्ठः॒ प्र यद॒ग्नेः प्र यत्ते॑ अग्ने॒ त्वग्ं हि द्विष॒-स्स न॒-स्सिन्धु॒मापः॑ प्रव॒णादु॑-द्व॒नादा॑न॒न्दाय॒ न वै तत्र॒ यत्रे॒द-ञ्चतु॑र्विग्ंशतिः॒ । अप॑श्या॒मावृ॑णीहि॒ द्वाद॑श द्वादश ।)

(प॒रे॒यु॒वाग्ंस॒ - माया᳚ - त्वे॒तास्ते॑ स॒प्तविग्ं॑शतिः )

(प॒रे॒यु॒वाग्ंस॒ - मोमुथ्सृ॒जत )

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके षष्ठः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: