| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
1.5 - नक्षत्रेष्टिकाण्डम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - अग्नेः कृत्तिकाः कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके पञ्चमः प्रपाठकः - नक्षत्रेष्टिकाण्डम् ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - नक्षत्रेष्टकामन्त्राः, विकृतिरूपचयनगताः अ॒ग्नेः कृत्ति॑काः । शु॒क्र-म्प॒रस्ता॒-ज्ज्योति॑-र॒वस्ता᳚त् ॥ प्र॒जाप॑ते रोहि॒णी । आपः॑ प॒रस्ता॒दोष॑धयो॒ ऽवस्ता᳚त् ॥ सोम॑स्येन्व॒का वित॑तानि । प॒रस्ता॒द्वय॑न्तो॒ ऽवस्ता᳚त् ॥ रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यवः॑ प॒रस्ता᳚द्विक्षा॒रो॑-ऽवस्ता᳚त् ॥ अदि॑त्यै॒ पुन॑र्वसू । वातः॑ प॒रस्ता॑दा॒र्द्र-म॒वस्ता᳚त् ॥ 1 ॥ बृह॒स्पते᳚स्ति॒ष्यः॑ । जुह्व॑तः प॒रस्ता॒-द्यज॑माना अ॒वस्ता᳚त् ॥ स॒र्पाणा॑-माश्रे॒षाः । अ॒भ्या॒गच्छ॑न्तः प॒रस्ता॑दभ्या॒नृत्य॑न्तो॒-ऽवस्ता᳚त् ॥ पि॒तृ॒णा-म्म॒घाः । रु॒दन्तः॑ प॒रस्ता॑दपभ्र॒ग्ं॒शो॑-ऽवस्ता᳚त् ॥ अ॒र्य॒म्णः पूर्वे॒ फल्गु॑नी । जा॒या प॒रस्ता॑दृष॒भो॑-ऽवस्ता᳚त् ॥ भग॒स्योत्त॑रे । व॒ह॒तवः॑ प॒रस्ता॒द्वह॑माना अ॒वस्ता᳚त् ॥ 2 ॥ दे॒वस्य॑ सवि॒तुर्-हस्तः॑ । प्र॒स॒वः प॒रस्ता᳚-थ्स॒निर॒वस्ता᳚त् ॥ इन्द्र॑स्य चि॒त्रा । ऋ॒त-म्प॒रस्ता᳚-थ्स॒त्य-म॒वस्ता᳚त् ॥ वा॒यो-र्निष्ट्या᳚ व्र॒ततिः॑ । प॒रस्ता॒-दसि॑द्धि-र॒वस्ता᳚त् ॥ इ॒न्द्रा॒ग्नि॒यो-र्विशा॑खे । यु॒गानि॑ प॒रस्ता᳚त्-कृ॒षमा॑णा अ॒वस्ता᳚त् ॥ मि॒त्रस्या॑-नूरा॒धाः । अ॒भ्या॒रोह॑त्-प॒रस्ता॑-द॒भ्यारू॑ढ-म॒वस्ता᳚त् ॥ 3 ॥ इन्द्र॑स्य रोहि॒णी । शृ॒णत्-प॒रस्ता᳚त्-प्रतिशृ॒ण-द॒वस्ता᳚त् ॥ निर्-ऋ॑त्यै-मूल॒वर्ह॑णी । प्र॒ति॒भ॒ञ्जन्तः॑ प॒रस्ता᳚त्-प्रतिशृ॒णन्तो॒-ऽवस्ता᳚त् ॥ अ॒पा-म्पूर्वा॑ अषा॒ढाः । वर्चः॑ प॒रस्ता॒-थ्समि॑ति-र॒वस्ता᳚त् ॥ विश्वे॑षा-न्दे॒वाना॒-मुत्त॑राः । अ॒भि॒जय॑त्-प॒रस्ता॑-द॒भिजि॑त-म॒वस्ता᳚त् ॥ वि॒ष्णो᳚-श्श्रो॒णा पृ॒च्छमा॑नाः । प॒रस्ता॒त्-पन्था॑ अ॒वस्ता᳚त् ॥ 4 ॥ वसू॑ना॒ग्॒ श्रवि॑ष्ठाः । भू॒त-म्प॒रस्ता॒-द्भूति॑र॒वस्ता᳚त् ॥ इन्द्र॑स्य-श॒तभि॑षक् । वि॒श्वव्य॑चाः प॒रस्ता᳚-द्वि॒श्वक्षि॑ति-र॒वस्ता᳚त् ॥ अ॒जस्यैक॑पदः॒ पूर्वे᳚ प्रोष्ठप॒दाः । वै॒श्वा॒न॒र-म्प॒रस्ता᳚-द्वैश्वावस॒व-म॒वस्ता᳚त् ॥ अहे᳚र्बु॒ध्निय॒-स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्तः॑ प॒रस्ता॑-दभिषु॒ण्वन्तो॒-ऽवस्ता᳚त् ॥ पू॒ष्णो रे॒वती᳚ । गावः॑ प॒रस्ता᳚-द्व॒थ्सा अ॒वस्ता᳚त् ॥ अ॒श्विनो॑रश्व॒युजौ᳚ । ग्रामः॑ प॒रस्ता॒थ्सेना॒ ऽवस्ता᳚त् ॥ य॒मस्या॑प॒भर॑णीः । अ॒प॒कर्ष॑न्तः प॒रस्ता॑-दप॒वह॑न्तो॒-ऽवस्ता᳚त् ॥ पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय । तस्या᳚-न्दे॒वा अधि॑ सं॒वँस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ॥, यत्ते॑ दे॒वा अद॑धु र्भाग॒धेय॒ममा॑वास्ये सं॒वँस॑न्तो महि॒त्वा । सानो॑ य॒ज्ञ-म्पि॑पृहि विश्ववारे र॒यि-न्नो॑ धेहि सुभगे सु॒वीर᳚म् ॥ ॥ 5 ॥ अनुवाकं 2 - कर्मानुष्ठानार्हः नक्षत्ररूपः पुण्यकालः यो वै न॑क्ष॒त्रिय॑-म्प्र॒जाप॑तिं॒-वेँद॑ । उ॒भयो॑रेनं-लोँ॒कयो᳚र्विदुः । हस्त॑ ए॒वास्य॒ हस्तः॑ । चि॒त्रा शिरः॑ । निष्ट्या॒ हृद॑यम् । ऊ॒रू विशा॑खे । प्र॒ति॒ष्ठा ऽनू॑रा॒धाः । ए॒ष वै न॑क्ष॒त्रियः॑ प्र॒जाप॑तिः । य ए॒वं-वेँद॑ । उ॒भयो॑रेनं-लोँ॒कयो᳚र्विदुः ॥ 7 ॥ अ॒स्मिग्ग्श्चा॒-मुष्मिग्ग्॑श्च ॥ या-ङ्का॒मये॑त दुहि॒तर॑-म्प्रि॒या स्या॒दिति॑ । ता-न्निष्ट्या॑या-न्दद्यात् । प्रि॒यैव भ॑वति । नेव॒ तु पुन॒राग॑च्छति ॥ अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् । उ॒परि॑ष्टा-दषा॒ढाना᳚म् । अ॒वस्ता᳚च्छ्रो॒णायै᳚ । दे॒वा॒सु॒रा-स्संयँ॑त्ता आसन्न् । ते दे॒वास्तस्मि॒-न्नक्ष॑त्रे॒-ऽभ्य॑जयन्न् ॥ 8 ॥ यद॒भ्यज॑यन्न् । तद॑भि॒जितो॑-ऽभिजि॒त्त्वम् । य-ङ्का॒मये॑ता-नपज॒य्य-ञ्ज॑ये॒दिति॑ । तमे॒तस्मि॒-न्नक्ष॑त्रे यातयेत् । अ॒न॒प॒ज॒य्यमे॒व ज॑यति । पा॒पप॑राजितमिव॒ तु ॥ प्र॒जाप॑तिः प॒शून॑सृजत । ते नक्ष॑त्र-न्नक्षत्र॒-मुपा॑तिष्ठन्त । ते स॒माव॑न्त ए॒वाभ॑वन्न् । ते रे॒वती॒-मुपा॑तिष्ठन्त ॥ 9 ॥ ते रे॒वत्या॒-म्प्राभ॑वन्न् । तस्मा᳚-द्रे॒वत्या᳚-म्पशू॒ना-ङ्कु॑र्वीत । य-त्किञ्चा᳚र्वा॒चीन॒ग्ं॒ सोमा᳚त् । प्रैव भ॑वन्ति ॥ स॒लि॒लं-वाँ इ॒दम॑न्त॒रासी᳚त् । यदत॑रन्न् । त-त्तार॑काणा-न्तारक॒त्वम् । यो वा इ॒ह यज॑ते । अ॒मुग्ं सलो॒क-न्न॑क्षते । तन्नक्ष॑त्राणा-न्नक्षत्र॒त्वम् ॥ 10 ॥ दे॒व॒गृ॒हा वै नक्ष॑त्राणि । य ए॒वं-वेँद॑ । गृ॒ह्ये॑व भ॑वति ॥ यानि॒ वा इ॒मानि॑ पृथि॒व्याश्चि॒त्राणि॑ । तानि॒ नक्ष॑त्राणि । तस्मा॑-दश्ली॒लना॑मग्ग्-श्चि॒त्रे । नाव॑स्ये॒न्न य॑जेत । यथा॑ पापा॒हे कु॑रु॒ते । ता॒दृगे॒व तत् ॥ दे॒व॒न॒क्ष॒त्राणि॒ वा अ॒न्यानि॑ ॥ 11 ॥ य॒म॒न॒क्ष॒त्राण्य॒न्यानि॑ । कृत्ति॑काः प्रथ॒मम् । विशा॑खे उत्त॒मम् । तानि॑ देवनक्ष॒त्राणि॑ । अ॒नू॒रा॒धाः प्र॑थ॒मम् । अ॒प॒भर॑णी-रुत्त॒मम् । तानि॑ यमनक्ष॒त्राणि॑ । यानि॑ देवनक्ष॒त्राणि॑ । तानि॒ दक्षि॑णेन॒ परि॑यन्ति । यानि॑ यमनक्ष॒त्राणि॑ ॥ 12 ॥ तान्युत्त॑रेण ॥ अन्वे॑षामरा॒थ्स्मेति॑ । तद॑नूरा॒धाः । ज्ये॒ष्ठमे॑षा-मवधि॒ष्मेति॑ । तज्ज्ये᳚ष्ठ॒घ्नी । मूल॑मेषामवृक्षा॒मेति॑ । त-न्मू॑ल॒वर्ह॑णी । यन्नास॑हन्त । तद॑षा॒ढाः । यदश्लो॑णत् ॥ 13 ॥ तच्छ्रो॒णा । यदशृ॑णोत् । तच्छ्रवि॑ष्ठाः । यच्छ॒त-मभि॑षज्यन्न् । तच्छ॒तभि॑षक् । प्रो॒ष्ठ॒प॒देषूद॑यच्छन्त । रे॒वत्या॑मरवन्त । अ॒श्व॒युजो॑रयुञ्जत । अ॒प॒भर॑णी॒ष्व पा॑वहन्न् । तानि॒ वा ए॒तानि॑ यमनक्ष॒त्राणि॑ ॥ यान्ये॒व दे॑वनक्ष॒त्राणि॑ । तेषु॑ कुर्वीत यत्का॒री स्यात् । पु॒ण्या॒ह ए॒व कु॑रुते ॥ 14 ॥ अनुवाकं 3 - कर्मानुष्ठानार्हः दिवसभागरूपः हेयोपादेयकाल विभागः प्रा॒चीन॑-म्म॒द्ध्यन्दि॑नात् । ततो॑ दे॒वा उ॒क्थ्य॑-न्निर॑मिमत । तत्-तदात्त॑वीर्य-न्निर्मा॒र्गः ॥ बृह॒स्पते᳚-र्म॒द्ध्यन्दि॑नः । तत्-पुण्य॑-न्तेज॒स्व्यहः॑ । तस्मा॒त्तर्हि॒ तेक्ष्णि॑ष्ठ-न्तपति ॥ यत्-प्र॑ती॒चीन॑-म्म॒द्ध्यन्दि॑नात् । प्रा॒चीन॑-मपरा॒ह्णात् । ततो॑ दे॒वा-ष्षो॑ड॒शिन॒-न्निर॑मिमत । तत्तदात्त॑वीर्य-न्निर्मा॒र्गः ॥ 16 ॥ भग॑स्यापरा॒ह्णः । तत्-पुण्य॑-न्तेज॒स्व्यहः॑ । तस्मा॑दपरा॒ह्णे कु॑मा॒र्यो॑ भग॑मि॒च्छमा॑ना-श्चरन्ति ॥ यत्-प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीनग्ं॑ सा॒यात् । ततो॑ दे॒वा अ॑तिरा॒त्र-न्निर॑मिमत । तत्तदात्त॑वीर्य-न्निर्मा॒र्गः ॥ वरु॑णस्य सा॒यम् । तत्-पुण्य॑-न्तेज॒स्व्यहः॑ । तस्मा॒त्तर्हि॒ नानृ॑तं-वँदेत् ॥ 17 ॥ ब्रा॒ह्म॒णो वा अ॑ष्टावि॒ग्ं॒शो नक्ष॑त्राणाम् । स॒मा॒नस्याह्नः॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणां॒-यँच्चा॒वस्ता᳚त् । तान्येका॑दश । ब्रा॒ह्म॒णो द्वा॑द॒शः । य ए॒वं-विँ॒द्वान्-थ्सं॑वँथ्स॒रं-व्रँ॒त-ञ्चर॑ति । सं॒वँ॒थ्स॒रेणै॒वास्य॑ व्र॒त-ङ्गु॒प्त-म्भ॑वति ॥ स॒मा॒नस्याह्नः॒ पञ्च॒ पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ । तान्येका॑दश । आ॒दि॒त्यो द्वा॑द॒शः । य ए॒वं-विँ॒द्वान्-थ्सं॑वँथ्स॒रं-व्रँ॒त-ञ्चर॑ति । सं॒वँ॒थ्स॒रेणै॒वास्य॑ व्र॒त-ङ्गु॒प्त-म्भ॑वति ॥ 18 ॥ अनुवाकं 4 - सोमशेषभूता पात्रस्तुतिः.(आध्वरब्राह्मणशेषः) व्या॒नादु॑पाग्ंशु॒ सव॑नम् । वा॒च ऐ᳚न्द्रवाय॒वम् । द॒क्ष॒क्र॒तुभ्या᳚-म्मैत्रावरु॒णम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑ष-श्शु॒क्रा म॒न्थिनौ᳚ । आ॒त्मन॑ आग्रय॒णम् । अङ्गे᳚भ्य उ॒क्थ्य᳚म् । आयु॑षो ध्रु॒वम् । प्र॒ति॒ष्ठाया॑ ऋतुपा॒त्रे ॥ य॒ज्ञं-वाँव त-म्प्र॒जाप॑ति॒-र्निर॑मिमीत । स निर्मि॑तो॒ नाद्ध्रि॑यत॒ सम॑व्लीयत । स ए॒ता-न्प्र॒जाप॑ति-रपिवा॒पान॑-पश्यत् । तान्निर॑वपत् । तैर्वै स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति । य॒ज्ञस्य॒ धृत्या॒ असं॑व्लँयाय ॥ 20 ॥ अनुवाकं 5 - चातुर्मास्यशेषा वपनमन्त्राः, (राजसूयब्राह्मणम्) तप॑सा॒-ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । श॒ग्मेना᳚स्या॒-भिव॑र्तये । तदृ॒त-न्त-थ्स॒त्यम् । त-द्व्र॒त-न्तच्छ॑केयम् । तेन॑ शकेय॒-न्तेन॑ राद्ध्यासम् ॥ य-द्घ॒र्मः प॒र्यव॑र्तयत् । अन्ता᳚-न्पृथि॒व्या दि॒वः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभिः॑ स॒ह ॥ 22 ॥ इन्द्रो॑ म॒रुद्भि॒-स्सखि॑भि-स्स॒ह ॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा᳚ । तप॒ आक्रा᳚न्त-मु॒ष्णिहा᳚ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना᳚स्य॒ निव॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । श॒ग्मेना᳚स्या॒भिव॑र्तये ॥ 23 ॥ तदृ॒त-न्त-थ्स॒त्यम् । त-द्व्र॒त-न्तच्छ॑केयम् । तेन॑ शकेय॒-न्तेन॑ राद्ध्यासम् ॥ यो अ॒स्याः पृ॑थि॒व्यास्त्व॒चि । नि॒व॒र्तय॒त्योष॑धीः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभिः॑ स॒ह । इन्द्रो॑ म॒रुद्भि॒-स्सखि॑भि-स्स॒ह ॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा᳚ । तप॒ आक्रा᳚न्त-मु॒ष्णिहा᳚ ॥ 24 ॥ शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना᳚स्य॒ निव॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । श॒ग्मेना᳚स्या॒-भिव॑र्तये । तदृ॒त-न्त-थ्स॒त्यम् । त-द्व॒त-न्तच्छ॑केयम् । तेन॑ शकेय॒-न्तेन॑ राद्ध्यासम् ॥ 25 ॥ एक॒-म्मास॒-मुद॑सृजत् । प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ । तेना᳚भ्यो॒ मह॒ आव॑हत् । अ॒मृत॒-म्मर्त्या᳚भ्यः । प्र॒जामनु॒ प्रजा॑यसे । तदु॑ ते मर्त्या॒मृत᳚म् । येन॒ मासा॑ अर्धमा॒साः । ऋ॒तवः॑ परिवथ्स॒राः । येन॒ ते ते᳚ प्रजापते । ई॒जा॒नस्य॒ न्यव॑र्तयन्न् ॥ 26 ॥ तेना॒हम॒स्य ब्रह्म॑णा । निव॑र्तयामि जी॒वसे᳚ ॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा᳚ । तप॒ आक्रा᳚न्त-मु॒ष्णिहा᳚ । शिर॒स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना᳚स्य॒ निव॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । श॒ग्मेना᳚स्या॒भिव॑र्तये । तदृ॒त-न्त-थ्स॒त्यम् । त-द्व्र॒त-न्तच्छ॑केयम् । तेन॑ शकेय॒-न्तेन॑ राद्ध्यासम् ॥ 27 ॥ अनुवाकं 6 - चातुर्मास्यशेषा वपनविधिः (राजसूयब्राह्मणम्) अथो॒ परै॒व भ॑वति । अथ॑ दे॒वा ऊ॒र्ध्व-म्पृ॒ष्ठेभ्यो॑-ऽपश्यन्न् । त उ॑पप॒क्षावग्रे॑-ऽवपन्त । अथ॒ श्मश्रू॑णि । अथ॒ केशान्॑ । तत॒स्ते॑-ऽभवन्न् । सु॒व॒र्गं-लोँ॒कमा॑यन्न् । यस्यै॒वं-वँप॑न्ति । भव॑त्या॒त्मना᳚ । अथो॑ सुव॒र्गं-लोँ॒कमे॑ति ॥ 29 ॥ अथै॒त-न्मनु॑-र्व॒प्त्रे मि॑थु॒न-म॑पश्यत् । स श्मश्रू॒ण्यग्रे॑-ऽवपत । अथो॑पप॒क्षौ । अथ॒ केशान्॑ । ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभिः॑ । यस्यै॒वं-वँप॑न्ति । प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते ॥ दे॒वा॒सु॒रा-स्संयँ॑त्ता आसन्न् । ते सं॑वँथ्स॒रे व्याय॑च्छन्त । ता-न्दे॒वाश्चा॑तु-र्मा॒स्यैरे॒वाभि प्रायु॑ञ्जत ॥ 30 ॥ वै॒श्व॒दे॒वेन॑ च॒तुरो॑ मा॒सो॑-ऽवृञ्ज॒तेन्द्र॑राजानः । ताञ्छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । व॒रु॒ण॒ प्र॒घा॒सै-श्च॒तुरो॑ मा॒सो॑-ऽवृञ्जत॒ वरु॑णराजानः । ताञ्छी॒र्॒षन्नि चाव॑र्तयन्त॒ परि॑ च । सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सो॑-ऽवृञ्जत॒ सोम॑राजानः । ताञ्छी॒र॒.षन्नि चाव॑र्तयन्त॒ परि॑ च । या सं॑वँथ्स॒र उ॑पजी॒वा ऽऽसी᳚त् । तामे॑षा-मवृञ्जत । ततो॑ दे॒वा अभ॑वन्न् । परा-ऽसु॑राः ॥ 31 ॥ य ए॒वं-विँ॒द्वाग्-श्चा॑तुर्मा॒स्यै-र्यज॑ते । भ्रातृ॑व्यस्यै॒व मा॒सो वृ॒क्त्वा । शी॒र्॒षन्नि च॑ व॒र्तय॑ते॒ परि॑ च । यैषा सं॑वँथ्स॒र उ॑पजी॒वा । वृ॒ङ्क्ते ता-म्भ्रातृ॑व्यस्य । क्षु॒धा ऽस्य॒ भ्रातृ॑व्यः॒ परा॑ भवति ॥ लो॒हि॒ता॒य॒सेन॒ निव॑र्तयते । यद्वा इ॒माम॒ग्निर्-ऋ॒तावाग॑ते निव॒र्तय॑ति । ए॒तदे॒वैनाग्ं॑ रू॒प-ङ्कृ॒त्वा निव॑र्तयति । सा तत॒-श्श्व-श्श्वो॒ भूय॑सी॒ भव॑न्त्येति ॥ 32 ॥ प्रजा॑यते । य ए॒वं-विँ॒द्वाँल्लो॑हिताय॒सेन॑ निव॒र्तय॑ते । ए॒तदे॒व रू॒प-ङ्कृ॒त्वा निव॑र्तयते । स तत॒-श्श्व-श्श्वो॒ भूया॒न्-भव॑न्नेति । प्रैव जा॑यते ॥ त्रे॒ण्या श॑ल॒ल्या निव॑र्तयेत । त्रीणि॑ त्रीणि॒ वै दे॒वाना॑मृ॒द्धानि॑ । त्रीणि॒ छन्दाग्ं॑सि । त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः ॥ 33 ॥ ऋ॒द्ध्यामे॒व त-द्वी॒र्य॑ ए॒षु लो॒केषु॒ प्रति॑ तिष्ठति ॥ यच्चा॑तुर्मास्यया॒-ज्या᳚त्मनो॒ नाव॒द्येत् । दे॒वेभ्य॒ आवृ॑श्च्येत । च॒तृ॒षु च॑तृषु॒ मासे॑षु॒ निव॑र्तयेत । प॒रोक्ष॑मे॒व त-द्दे॒वेभ्य॑ आ॒त्मनो-ऽव॑द्य॒त्यना᳚ व्रस्काय ॥ दे॒वानां॒-वाँ ए॒ष आनी॑तः । यश्चा॑तुर्मास्यया॒जी । य ए॒वं-विँ॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ रु॒द्रः प्र॒जा-म्प॒शू-न॒भिम॑न्यते ॥ 34 ॥ अनुवाकं 7 - अग्निचयनशेषा इष्टकोपधानमन्त्राः, तत्र सन्तत्याख्येष्टकामन्त्राः अनुवाकं 8 - अग्निचयनशेषा थर्वशिरो-ऽभिधानानामिष्टकाना-म्मन्त्राः इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॒-वाँणी॑रनूषत ॥ इन्द्र॒ इद्धर्यो॒-स्सचा᳚ । सम्मि॑श्ल॒ आव॑चो॒ युजा᳚ । इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥ इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्यग्ं॑ रोहय-द्दि॒वि । वि गोभि॒रद्रि॑मैरयत् ॥ इन्द्र॒ वाजे॑षु नो अव । स॒हस्र॑ प्रधनेषु च ॥ 37 ॥ उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥ तमिन्द्रं॑-वाँजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् ॥ इन्द्र॒-स्सदाम॑ने कृ॒तः । ओजि॑ष्ठ॒-स्स बले॑ हि॒तः । द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ॥ गि॒रा वज्रो॒ न सम्भृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षु-रु॒ग्रो अस्तृ॑तः ॥ 38 ॥ अनुवाकं 9 - सोमशेषभूता इष्टयः. (आध्वरब्राह्मणम्) तं-यँ॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दन्न् । तमिष्टि॑भि॒-रन्वै᳚च्छन्न् । तमिष्टि॑भि॒-रन्व॑विन्दन्न् । तदिष्टी॑ना-मिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ तस्मा॑ ए॒तमा᳚ग्नावैष्ण॒व-मेका॑दशकपाल-न्दीक्ष॒णीय॒-न्निर॑वपन्न् । तद॑प॒द्रुत्या॑तन्वत । तान्प॑त्नी संयाँ॒जान्त॒ उपा॑नयन्न् ॥ 40 ॥ ते तद॑-न्तमे॒व कृ॒त्वोद॑द्रवन्न् ॥ ते प्रा॑य॒णीय॑म॒भि स॒मारो॑हन्न् । तद॑प॒द्रुत्या॑तन्वत । ताञ्छं॒य्वँ॑न्त॒ उपा॑नयन्न् । ते तद॑तम्मे॒व कृ॒त्वोद॑द्रवन्न् ॥ त आ॑ति॒थ्यम॒भि स॒मारो॑हन्न् । तद॑प॒द्रुत्या॑तन्वत । तानिडा᳚न्त॒ उपा॑नयन्न् । ते तद॑तम्मे॒व कृ॒त्वोद॑द्रवन्न् । तस्मा॑ दे॒ता ए॒तद॑न्ता॒ इष्ट॑य॒-स्सन्ति॑ष्ठन्ते ॥ 41 ॥ ए॒वग्ं हि दे॒वा अकु॑र्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै म॑नु॒ष्याः᳚ कुर्वते ॥ ते दे॒वा ऊ॑चुः । यद्वा इ॒दमु॒च्चै-र्य॒ज्ञेन॒ चरा॑म । तन्नो-ऽसु॑राः पा॒प्मा-ऽनु॑विन्दन्ति । उ॒पा॒ग्ं॒शू॑प॒सदा॑ चराम । तथा॒ नो-ऽसु॑राः पा॒प्मा नानु॑वेथ्स्य॒न्तीति॑ । त उ॑पा॒ग्ं॒शू॑प॒सद॑-मतन्वत । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ ॥ 42 ॥ स्रु॒वेणा॑घा॒र-मा॒घार्य॑ । ति॒स्रः परा॑ची॒-राहु॑तीर्-हु॒त्वा । स्रु॒वेणो॑प॒सद॑-ञ्जुह॒वाञ्च॑क्रुः । उ॒ग्रं-वँचो॒ अपा॑वधी-न्त्वे॒षं-वँचो॒ अपा॑वधी॒ग्॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं-वँचः॑ । एन॑श्च॒ वैर॑हत्य-ञ्च त्वे॒षं-वँचः॑ । ए॒तग्ं ह॒ वाव तच्च॑तुर्धाविहि॒त-म्पा॒प्मान॑-न्दे॒वा अप॑जघ्निरे ॥ तथो॑ ए॒वैतदे॑वं॒-विँद्यज॑मानः । ति॒स्र ए॒व सा॑मिधे॒नीर॒नूच्य॑ । स्रु॒वेणा॑घा॒र-मा॒घार्य॑ ॥ 43 ॥ ति॒स्रः परा॑ची॒राहु॑तीर्-हु॒त्वा । स्रु॒वेणो॑प॒सद॑-ञ्जुहोति । उ॒ग्रं-वँचो॒ अपा॑वधी-न्त्वे॒षं-वँचो॒ अपा॑वधी॒ग्॒ स्वाहेति॑ । अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं-वँचः॑ । एन॑श्च॒ वैर॑हत्य-ञ्च त्वे॒षं-वँचः॑ । ए॒तमे॒व तच्च॑तुर्धा-विहि॒त-म्पा॒प्मानं॒-यँज॑मा॒नो-ऽप॑हते ॥ ते॑-ऽभि॒नीयै॒वाहः॑ प॒शुमा-ऽल॑भन्त । अह्न॑ ए॒व त-द्दे॒वा अव॑र्ति-म्पा॒प्मान॑-म्मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीये॑व॒ रात्रेः॒ प्राच॑रन्न् । रात्रि॑या ए॒व त-द्दे॒वा अव॑र्ति-म्पा॒प्मान॑-म्मृ॒त्युमप॑जघ्निरे ॥ 44 ॥ तस्मा॑दभि॒नीयै॒वाहः॑ प॒शुमाल॑भेत । अह्न॑ ए॒व त-द्यज॑मा॒नो ऽव॑र्ति-म्पा॒प्मान॒-म्भ्रातृ॑व्या॒नप॑नुदते । तेना॑भि॒नीये॑व॒ रात्रेः॒ प्रच॑रेत् । रात्रि॑या ए॒व त-द्यज॑मा॒नो ऽव॑र्ति-म्पा॒प्मान॒-म्भ्रातृ॑व्या॒नप॑नुदते ॥ स ए॒ष उ॑पवस॒थीये ऽह॑न्-द्विदेव॒त्यः॑ प॒शुराल॑भ्यते । द्व॒यं-वाँ अ॒स्मिन् ँलो॒के यज॑मानः । अस्थि॑ च मा॒ग्ं॒स-ञ्च॑ । अस्थि॑ चै॒व तेन॑ मा॒ग्ं॒स-ञ्च॒ यज॑मान॒-स्सग्ग् स्कु॑रुते ॥ ता वा ए॒ताः पञ्च॑ दे॒वताः᳚ । अ॒ग्नीषोमा॑-व॒ग्नि-र्मि॒त्रावरु॑णौ ॥ 45 ॥ प॒ञ्च॒प॒ञ्ची वै यज॑मानः । त्वम्मा॒ग्ं॒ सग्ग् स्नावास्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्चधा विहि॒तमा॒त्मानं॑-वँरुणपा॒शा-न्मु॑ञ्चति । भे॒ष॒जता॑यै निर्वरुण॒त्वाय॑ ॥ तग्ं स॒प्तभि॒-श्छन्दो॑भिः प्रा॒तर॑ह्वयन्न् । तस्मा᳚थ्स॒प्त च॑तुरुत्त॒राणि॒ छन्दाग्ं॑सि प्रातरनुवा॒के-ऽनू᳚च्यन्ते ॥ तमे॒तयो॑-पस॒मेत्यो-पा॑सीदन्न् । उपा᳚स्मै गायता नर॒ इति॑ । तस्मा॑ दे॒तया॑ बहिष्पवमा॒न उ॑प॒सद्यः॑ ॥ 46 ॥ (दे॒वा यज॑मानो दे॒वा दे॒वा यज॑मानो॒ यज॑मानो-ऽलभन्त॒ प्राच॑रँल्लभेत॒ प्रच॑रे॒दाल॑भ॒न्ताल॑भेत मृ॒त्युमप॑जघ्निरे॒ भ्रातृ॑व्यान्) अनुवाकं 10 - त्रिवृदादिस्तोमरूपाणि सोमङ्गानि. (आध्वरब्राह्मणम्) अथ॒ य-थ्सु॑वर्णरज॒ताभ्या᳚-ङ्कु॒शीभ्या॒-म्परि॑गृहीत॒ आसी᳚त् । सा-ऽस्य॑ कौशि॒कता᳚ ॥ त-न्त्रि॒वृता॒-ऽभि प्रास्तु॑वत । त-न्त्रि॒वृता ऽऽद॑दत । त-न्त्रि॒वृता ऽऽह॑रन्न् । याव॑ती त्रि॒वृतो॒ मात्रा᳚ ॥ त-म्प॑ञ्चद॒शेना॒भि प्रास्तु॑वत । त-म्प॑ञ्चद॒शेनाद॑दत । त-म्प॑ञ्चद॒शेनाह॑रन्न् । याव॑ती पञ्चद॒शस्य॒ मात्रा᳚ ॥ 48 ॥ तग्ं स॑प्तद॒शेना॒भि प्रास्तु॑वत । तग्ं स॑प्तद॒शेनाद॑दत । तग्ं स॑प्तद॒शेनाह॑रन्न् । याव॑ती सप्तद॒शस्य॒ मात्रा᳚ । तस्य॑ सप्तद॒शेन॑ ह्रि॒यमा॑णस्य॒ तेजो॒ हरो॑-ऽपतत् । तमे॑कवि॒ग्ं॒ शेना॒भि प्रास्तु॑वत । तमे॑कवि॒ग्ं॒शेनाद॑दत । तमे॑कवि॒ग्ं॒शेनाह॑रन्न् । याव॑त्येकवि॒ग्ं॒शस्य॒ मात्रा᳚ ॥ ते यत्-त्रि॒वृता᳚ स्तु॒वते᳚ ॥ 49 ॥ त्रि॒वृतै॒व त-द्यज॑मान॒माद॑दते । त-न्त्रि॒वृतै॒व ह॑रन्ति । याव॑ती त्रि॒वृतो॒ मात्रा᳚ । अ॒ग्निर्वै त्रि॒वृत् । याव॒द्वा अ॒ग्नेर्दह॑तो धू॒म उ॒देत्यानु॒व्येति॑ । ताव॑ती त्रि॒वृतो॒ मात्रा᳚ । अ॒ग्नेरे॒वैन॒-न्तत् । मात्रा॒ग्ं॒ सायु॑ज्यग्ं सलो॒कता᳚-ङ्गमयन्ति ॥ अथ॒ यत्प॑ञ्चद॒शेन॑ स्तु॒वते᳚ । प॒ञ्च॒द॒शेनै॒व त-द्यज॑मान॒-माद॑दते ॥ 50 ॥ त-म्प॑ञ्चद॒शेनै॒व ह॑रन्ति । याव॑ती पञ्चद॒शस्य॒ मात्रा᳚ । च॒न्द्रमा॒ वै प॑ञ्चद॒शः । ए॒ष हि प॑ञ्चद॒श्याम॑पक्षी॒यते᳚ । प॒ञ्च॒दश्या-मा॑पू॒र्यते᳚ । च॒न्द्रम॑स ए॒वैन॒-न्तत् । मात्रा॒ग्ं॒ सायु॑ज्यग्ं सलो॒कता᳚-ङ्गमयन्ति । अथ॒ यथ्स॑प्तद॒शेन॑ स्तु॒वते᳚ । स॒प्त॒द॒शेनै॒व त-द्यज॑मान॒माद॑दते । तग्ं स॑प्तद॒शेनै॒व ह॑रन्ति ॥ 51 ॥ याव॑ती सप्तद॒शस्य॒ मात्रा᳚ । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तेरे॒वैन॒-न्तत् । मात्रा॒ग्ं॒ सायु॑ज्यग्ं सलो॒कता᳚-ङ्गमयन्ति । अथ॒ यदे॑कवि॒ग्ं॒शेन॑ स्तु॒वते᳚ । ए॒क॒वि॒ग्ं॒शेनै॒व त-द्यज॑मान॒-माद॑दते । तमे॑कवि॒ग्ं॒शेनै॒व ह॑रन्ति । याव॑त्येकवि॒ग्ं॒शस्य॒ मात्रा᳚ । अ॒सौ वा आ॑दि॒त्य ए॑कवि॒ग्ं॒शः । आ॒दि॒त्यस्यै॒वैन॒-न्तत् ॥ 52 ॥ मात्रा॒ग्ं॒ सायु॑ज्यग्ं सलो॒कता᳚-ङ्गमयन्ति ॥ ते कु॒श्यौ᳚ । व्य॑घ्नन्न् । ते अ॑होरा॒त्रे अ॑भवताम् । अह॑रे॒व सु॒वर्णा॑ ऽभवत् । र॒ज॒ता रात्रिः॑ । स यदा॑दि॒त्य उ॒देति॑ । ए॒तामे॒व तथ्सु॒वर्णा᳚-ङ्कु॒शीमनु॒ समे॑ति । अथ॒ यद॑स्त॒मेति॑ । ए॒तामे॒व त-द्र॑ज॒ता-ङ्कु॒शीमनु॒ संविँ॑शति ॥ प्र॒ह्रादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑न॒ग्ग्॒ स्व-म्पु॒त्रमुदा᳚स्यत् । स प्र॑द॒रो॑-ऽभवत् । तस्मा᳚-त्प्रद॒रादु॑द॒क-न्नाचा॑मेत् ॥ 53 ॥ अनुवाकं 11 - सवनीयपशुपुरोडाशाः (आध्वरब्राह्मणम्) ए॒तानि॒ वाव तानि॒ ज्योतीग्ं॑षि । य ए॒तस्य॒ स्तोमाः᳚ ॥ सो᳚-ऽब्रवीत् । स॒प्त॒द॒शेन॑ ह्रि॒यमा॑णो॒ व्य॑लेशिषि । भि॒षज्य॑त॒ मेति॑ । तम॒श्विनौ॑ धा॒नाभि॑-रभिषज्यताम् । पू॒षा क॑र॒म्भेण॑ । भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या ॥ तदा॑हुः ॥ 55 ॥ यद॒श्विभ्या᳚-न्धा॒नाः । पू॒ष्णः क॑र॒म्भः । भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोः पय॒स्या-ऽथ॑ । कस्मा॑दे॒तेषाग्ं॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑न-न्दे॒वता॒ इति॑ ब्रूयात् । ए॒तैर्-ह॒विर्भि॒-रभि॑षज्य॒ग्ग्॒-स्तस्मा॒दिति॑ ॥ तं-वँस॑वो॒-ऽष्टाक॑पालेन प्रातस्सव॒ने॑-ऽभिषज्यन्न् । रु॒द्रा एका॑दशकपालेन॒ माद्ध्य॑न्दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृतीयसव॒ने ॥ 56 ॥ स यद॒ष्टाक॑पाला-न्प्रातस्सव॒ने कु॒र्यात् । एका॑दशकपाला॒-न्माद्ध्य॑न्दिने॒ सव॑ने । द्वाद॑शकपालाग् स्तृतीय सव॒ने । विलो॑म॒ त-द्य॒ज्ञस्य॑ क्रियेत । एका॑दशकपालाने॒व प्रा॑तस्सव॒ने कु॑र्यात् । एका॑दशकपाला॒-न्माद्ध्य॑न्दिने॒ सव॑ने । एका॑दशकपालाग् स्तृतीय सव॒ने । य॒ज्ञस्य॑ सलोम॒त्वाय॑ ॥ तदा॑हुः । य-द्वसू॑ना-म्प्रातस्सव॒नम् । रु॒द्राणा॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑नम् । विश्वे॑षा-न्दे॒वाना᳚-न्तृतीयसव॒नम् । अथ॒ कस्मा॑दे॒तेषाग्ं॑ ह॒विषा॒मिन्द्र॑मे॒व य॑ज॒न्तीति॑ । ए॒ता ह्ये॑न-न्दे॒वता॒ इति॑ ब्रूयात् । ए॒तैर्-ह॒विर्भि॒रभि॑षज्य॒ग्ग्॒ स्तस्मा॒दिति॑ ॥ 57 ॥ अनुवाकं 12 - सप्तछन्दांसि प्रपञ्च्यन्ते (आध्वरब्राह्मणम्) स बृ॑ह॒तीमे॒वा-स्पृ॑शत् । द्वाभ्या॑म॒क्षरा᳚भ्याम् । अ॒हो॒रा॒त्राभ्या॑मे॒व ॥ तदा॑हुः । क॒त॒मा सा दे॒वाक्ष॑रा बृह॒ती । यस्या॒-न्त-त्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्यः॑ । द्वाद॒शाष्ट॑काः । द्वाद॑शामावा॒स्याः᳚ । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती ॥ 59 ॥ यस्या॒-न्त-त्प्र॒त्यति॑ष्ठ॒दिति॑ ॥ यानि॑ च॒ छन्दाग्॑-स्य॒त्यरि॑च्यन्त । यानि॑ च॒ नोदभ॑वन्न् । तानि॒ निर्वी᳚र्याणि ही॒नान्य॑मन्यन्त । सा ऽब्र॑वी-द्बृह॒ती । मामे॒व भू॒त्वा । मामुप॒ सग्ग् श्र॑य॒तेति॑ । च॒तुर्भि॑र॒क्षरै॑-रनु॒ष्टुग्-बृ॑ह॒ती-न्नोद॑भवत् । च॒तुर्भि॑र॒क्षरैः᳚ प॒ङ्क्ति-र्बृ॑ह॒ती-मत्य॑रिच्यत । तस्या॑मे॒तानि॑ च॒त्वार्य॒क्षरा᳚ण्य-प॒च्छिद्या॑-दधात् ॥ 60 ॥ ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् ॥ अ॒ष्टा॒भि-र॒क्षरै॑रु॒ष्णिग्-बृ॑ह॒ती-न्नोद॑भवत् । अ॒ष्टा॒भिर॒क्षरै᳚स्त्रि॒ष्टुग्-बृ॑ह॒ती-मत्य॑रिच्यत । तस्या॑मे॒ता-न्य॒ष्टाव॒क्षरा᳚ण्य-प॒च्छिद्या॑दधात् । ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् । द्वा॒द॒शभि॑-र॒क्षरै᳚-र्गाय॒त्री-बृ॑ह॒ती-न्नोद॑भवत् । द्वा॒द॒शभि॑-र॒क्षरै॒-र्जग॑ती-बृह॒ती-मत्य॑रिच्यत । तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षरा᳚ण्य-प॒च्छिद्या॑दधात् ॥ 61 ॥ ते बृ॑ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒ सम॑श्रयताम् ॥ सो᳚-ऽब्रवीत्-प्र॒जाप॑तिः । छन्दाग्ं॑सि॒ रथो॑ मे भवत । यु॒ष्माभि॑-र॒हमे॒त-मद्ध्वा॑न॒मनु॒ सञ्च॑रा॒णीति॑ । तस्य॑ गाय॒त्री च॒ जग॑ती च प॒क्षाव॑भवताम् । उ॒ष्णिक्च॑ त्रि॒ष्टुप्च॒ प्रष्ट्यौ᳚ । अ॒नु॒ष्टुप्च॑ प॒ङ्क्तिश्च॒ धुर्यौ᳚ । बृ॒ह॒त्ये॑वोद्धिर॑भवत् । स ए॒त-ञ्छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमद्ध्वा॑न॒मनु॒ सम॑चरत् । ए॒तग्ं ह॒ वै छ॑न्दोर॒थमा॒स्थाय॑ । ए॒तमद्ध्वा॑न॒मनु॒ सञ्च॑रति । येनै॒ष ए॒त-थ्स॒चंर॑ति । य ए॒वं-विँ॒द्वान्-थ्सोमे॑न॒ यज॑ते । य उ॑चैनमे॒वं-वेँद॑ ॥ 62 ॥ (अ॒ग्नेः कृत्ति॑का॒ - य-त्पुण्यं॑ - दे॒वस्य॑ सवि॒तु--र् ब्र॑ह्मवा॒दिनः॒ क - त्यृ॒तमे॒व - दे॒वा वा - आयु॑षः प्रा॒ण - मिन्द्रो॑ दधी॒चो -दे॑वासु॒रा-स्स प्र॒जाप॑तिः॒ - स स॑मु॒द्रो - ये वै च॒त्वार॒ - स्तस्यावा॑चो॒ द्वाद॑श) (अ॒ग्नेः कृत्ति॑का - देवगृ॒हा - ऋ॒तमे॒व - वै᳚श्वदे॒वेन॒ - ते तद॑न्त॒ - त-म्प॑ञ्चद॒शेन॒ - ते बृ॑ह॒ती ए॒व द्विष॑ष्टिः) (अ॒ग्नेः कृत्ति॑का॒ - य उ ॑चैनमे॒वं-वेँद॑) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके पञ्चमः प्रपाठक-स्समाप्तः ।
|