View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्न सूक्तम्

अ॒हम॑स्मि प्रथ॒मजा ऋ॒तस्य॑ ।
पूर्व॑-न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒ स इदे॒व मा-ऽऽवाः᳚ ।
अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि ।
पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् ।
य॒त्तौ हा॑-ऽऽसाते अहमुत्त॒रेषु॑ ।
व्यात्त॑मस्य प॒शवः॑ सु॒जम्भ᳚म् ।
पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः᳚ ।
जहा᳚म्य॒न्य-न्न ज॑हाम्य॒न्यम् ।
अ॒हमन्नं॒-वँश॒मिच्च॑रामि ॥ 1

स॒मा॒नमर्थ॒-म्पर्ये॑मि भु॒ञ्जत् ।
को मामन्न॑-म्मनु॒ष्यो॑ दयेत ।
परा॑के॒ अन्न॒-न्निहि॑तं-लोँ॒क ए॒तत् ।
विश्वै᳚र्दे॒वैः पि॒तृभि॑र्गु॒प्तमन्न᳚म् ।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ ।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ।
म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ ।
दिव॑-ञ्च॒ पृश्नि॑ पृथि॒वी-ञ्च॑ सा॒कम् ।
तत्सं॒‍पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ ।
नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 2

अन्न॑-म्प्रा॒णमन्न॑मपा॒नमा॑हुः ।
अन्न॑-म्मृ॒त्यु-न्तमु॑ जी॒वातु॑माहुः ।
अन्न॑-म्ब्र॒ह्माणो॑ ज॒रसं॑-वँदन्ति ।
अन्न॑माहुः प्र॒जन॑न-म्प्र॒जाना᳚म् ।
मोघ॒मन्नं॑-विँन्दते॒ अप्र॑चेताः ।
स॒त्य-म्ब्र॑वीमि व॒ध इत्स तस्य॑ ।
नार्य॒मण॒-म्पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।
अ॒ह-म्मे॒घ-स्स्त॒नय॒न्वर्​ष॑न्नस्मि ।
माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 3

[अह॒ग्ं सद॒मृतो॑ भवामि ।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ।]




Browse Related Categories: