कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके षष्ठः प्रपाठकः - पशुहौत्रम्
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1 - यूपसंस्काराः
अ॒ञ्जन्ति॒ त्वाम॑द्ध्व॒रे दे॑व॒यन्तः॑ । वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्ति॑ष्ठा॒-द्द्रवि॑णे॒ह ध॑त्तात् । यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे᳚ ॥ उच्छ्र॑यस्व वनस्पते । वर्ष्म॑-न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नः ।
वर्चो॑धा य॒ज्ञवा॑हसे ॥ समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता᳚त् । ब्रह्म॑ वन्वा॒नो अ॒जरग्ं॑ सु॒वीर᳚म् ॥ 1 ॥
आ॒रे अ॒स्मदम॑ति॒-म्बाध॑मानः । उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥ ऊ॒र्ध्व ऊ॒षुण॑ ऊ॒तये᳚ । तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभिः॑ । वा॒घद्भि॑-र्वि॒ह्वया॑महे ॥
ऊ॒र्ध्वो नः॑ पा॒ह्यग्ंह॑सो॒ नि के॒तुना᳚ । विश्व॒ग्ं॒ सम॒त्रिण॑-न्दह ।
कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒ रथा॑य जी॒वसे᳚ ।
वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ॥ 2 ॥
जा॒तो जा॑यते सुदिन॒त्वे अह्ना᳚म् । सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा । दे॒व॒या विप्र॒ उदि॑यर्ति॒ वाच᳚म् ॥ युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा᳚त् । स उ॒ श्रेया᳚-न्भवति॒ जाय॑मानः ।
त-न्धीरा॑सः क॒वय॒ उन्न॑यन्ति । स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ ॥ पृ॒थु॒पाजा॒ अम॑र्त्यः । घृ॒तनि॑र्णि॒ख्-स्वा॑हुतः ॥ 3 ॥
अ॒ग्नि-र्य॒ज्ञस्य॑ हव्य॒वाट् ॥ तग्ं स॒बाधो॑ य॒तस्रु॑चः । इ॒त्था धि॒या य॒ज्ञव॑न्तः । आच॑क्रुर॒ग्नि-मू॒तये᳚ ॥ त्वं-वँरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वां-वँ॑र्धन्ति म॒तिभि॒-र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ सन्तु ।
यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ 4 ॥
(सु॒वीरं॒ - दुवः॒ - स्वा॑हुतो॒ - +-ऽष्टौ च॑) (अ. 1)
अनुवाकं 2 - प्रयाजविषया मैत्रावरुणप्रैषाः
होता॑ यक्षद॒ग्निग्ं स॒मिधा॑ सुष॒मिधा॒ समि॑द्ध॒-न्नाभा॑ पृथि॒व्या-स्स॑ग॒न्थे वा॒मस्य॑ ।
वर्ष्म॑न्दि॒व इ॒डस्प॒दे वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥
होता॑ यक्ष॒त्-तनू॒नपा॑त॒-मदि॑ते॒-र्गर्भ॒-म्भुव॑नस्य गो॒पाम् । मद्ध्वा॒-ऽद्य दे॒वो दे॒वेभ्यो॑ देव॒याना᳚न्प॒थो अ॑नक्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥
होता॑ यक्ष॒-न्नरा॒शग्ंस॑-न्नृश॒स्त्र-न्नॄग्ंः प्र॑णेत्रम् । गोभि॑-र्व॒पावा॒न्-थ्स्या-द्वी॒रै-श्शक्ती॑वा॒न्-रथैः᳚ प्रथम॒यावा॒ हिर॑ण्यैश्च॒न्द्री वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षद॒ग्निमि॒ड ई॑डि॒तो दे॒वो दे॒वाग्ं आव॑क्ष-द्दू॒तो ह॑व्य॒वाडमू॑रः ।
उपे॒मं-यँ॒ज्ञमुपे॒मा-न्दे॒वो दे॒वहू॑तिमवतु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष-द्ब॒र्॒हि-स्सु॒ष्टरी॒मोर्ण॑म्रदा अ॒स्मिन्. य॒ज्ञे वि च॒ प्र च॑ प्रथताग् स्वास॒स्थ-न्दे॒वेभ्यः॑ ।
एमे॑नद॒द्य वस॑वो रु॒द्रा आ॑दित्या-स्स॑दन्तु प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ 5 ॥
होता॑ यक्ष॒-द्दुर॑ ऋ॒ष्वाः क॑व॒ष्यो-ऽको॑षधावनी॒-रुदाता॑भि॒-र्जिह॑तां॒-विँ पक्षो॑भि-श्श्रयन्ताम् । सु॒प्रा॒य॒णा अ॒स्मिन्. य॒ज्ञे विश्र॑यन्ता-मृता॒वृधो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥
होता॑ यक्षदु॒षासा॒नक्ता॑ बृह॒ती सु॒पेश॑सा॒ नॄग्ंः पति॑भ्यो॒ योनि॑-ङ्कृण्वा॒ने ।
स॒ग्ग्॒स्मय॑माने॒ इन्द्रे॑ण दे॒वैरेद-म्ब॒र्॒हि-स्सी॑दतां-वीँ॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥
होता॑ यक्ष॒-द्दैव्या॒ होता॑रा म॒न्द्रा पोता॑रा क॒वी प्रचे॑तसा ।
स्वि॑ष्टम॒द्यान्यः क॑रदि॒षा स्व॑भिगूर्तम॒न्य ऊ॒र्जा सत॑वसे॒मं-यँ॒ज्ञ-न्दि॒वि दे॒वेषु॑ धत्तां-वीँ॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥
होता॑ यक्षत्-ति॒स्रो दे॒वीर॒पसा॑म॒पस्त॑मा॒ अच्छि॑द्र-म॒द्येदमप॑-स्तन्वताम् ।
दे॒वेभ्यो॑ दे॒वी-र्दे॒वमपो॑ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥
होता॑ यक्ष॒त्-त्वष्टा॑र॒-मचि॑ष्टु॒मपा॑कग्ं रेतो॒धां-विँश्र॑वसं-यँशो॒धाम् ।
पु॒रु॒रूप॒मका॑मकर्शनग्ं सु॒पोषः॒ पोषै॒-स्स्या-थ्सु॒वीरो॑ वी॒रै-र्वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥
होता॑ यक्ष॒-द्वन॒स्पति॑-मु॒पाव॑स्रक्षद्धि॒यो जो॒ष्टारग्ं॑ श॒शम॒न्नरः॑ ।
स्वदा॒-थ्स्वधि॑तिर्-ऋतु॒था-ऽद्य दे॒वो दे॒वेभ्यो॑ ह॒व्या-ऽवा॒ड्-वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥
होता॑ यक्षद॒ग्निग्ग् स्वाहा-ऽऽज्य॑स्य॒ स्वाहा॒ मेद॑स॒-स्स्वाहा᳚ स्तो॒काना॒ग्॒ स्वाहा॒ स्वाहा॑ कृतीना॒ग्॒ स्वाहा॑ ह॒व्यसू᳚क्तीनाम् ।
स्वाहा॑ दे॒वाग्ं आ᳚ज्य॒पान्-थ्स्वाहा॒-ऽग्निग्ं हो॒त्राज्जु॑षा॒णा अग्न॒ आज्य॑स्य वियन्तु॒ होत॒र्यज॑ ॥ 6 ॥
(प्रि॒यमिन्द्र॑स्यास्तु॒ वेत्वाज्य्॑स्य॒ होत॒र्यज॑ - सु॒वीरो॑ वी॒रै-र्वेत्वाज्य॑स्य॒ होत॒र्यज॑ च॒त्वारि॑ च) (अ. 2)
(अ॒ग्नि-न्तनू॒नपा॑त॒-न्नरा॒शग्ंस॑म॒ग्निमि॒ड ई॑डि॒तो ब॒र्॒हिर्दुर॑ उ॒षासा॒नक्ता॒ दैव्या॑ ति॒स्रस्त्वष्टा॑रं॒-वँन॒स्पति॑म॒ग्निम् )
(पञ्च॒ वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वियन्तु॒ होत॒र्यज॑)
अनुवाकं 3 - आप्रिय प्रयाजानां-याँज्याः
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे । दे॒वो दे॒वान्. य॑जसि जातवेदः । आ च॒ वह॑ मित्रमह-श्चिकि॒त्वान् । त्व-न्दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥ तनू॑नपात्प॒थ ऋ॒तस्य॒ यानान्॑ । मद्ध्वा॑ सम॒ञ्जन्-थ्स्व॑दया सुजिह्व ।
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्न् । दे॒व॒त्रा च॑ कृणुह्यद्ध्व॒र-न्नः॑ ॥ नरा॒शग्ंस॑स्य महि॒मान॑मेषाम् । उप॑स्तोषाम यज॒तस्य॑ य॒ज्ञैः ॥ 7 ॥
ते सु॒क्रत॑व॒-श्शुच॑यो धिय॒धांः । स्वद॑न्तु दे॒वा उ॒भया॑नि ह॒व्या ॥ आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॑श्च । आया᳚ह्यग्ने॒ वसु॑भि-स्स॒जोषाः᳚ ।
त्व-न्दे॒वाना॑मसि यह्व॒ होता᳚ । स ए॑नान्. यक्षीषि॒तो यजी॑यान् ॥ प्रा॒चीन॑-म्ब॒र्॒हिः प्र॒दिशा॑ पृथि॒व्याः । वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना᳚म् ।
व्यु॑ प्रथते वित॒रं-वँरी॑यः । दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ॥ 8 ॥
व्यच॑स्वतीरुर्वि॒या विश्र॑यन्ताम् । पति॑भ्यो॒ नजन॑य॒-श्शुम्भ॑मानाः । देवी᳚र्द्वारो बृहती-र्विश्वमिन्वाः । दे॒वेभ्यो॑ भवथ सुप्राय॒णाः ॥ आ सु॒ष्वय॑न्ती यज॒ते उपा॑के । उ॒षासा॒नक्ता॑ सदता॒-न्नि योनौ᳚ ।
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे । अधि॒ श्रियग्ं॑ शुक्र॒पिश॒-न्दधा॑ने ॥ दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा᳚ । मिमा॑ना य॒ज्ञ-म्मनु॑षो॒ यज॑द्ध्यै ॥ 9 ॥
प्र॒चो॒दय॑न्ता वि॒दथे॑षु का॒रू । प्रा॒चीन॒-ञ्ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता᳚ ॥ आनो॑ य॒ज्ञ-म्भार॑ती॒ तूय॑मेतु । इडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वी-र्ब॒र्॒हिरेदग्ग् स्यो॒नम् । सर॑स्वती॒ स्वप॑स-स्सदन्तु ॥
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री । रू॒पैरपिग्ं॑श॒-द्भुव॑नानि॒ विश्वा᳚ । तम॒द्य हो॑तरिषि॒तो यजी॑यान् ।
दे॒व-न्त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥ 10 ॥
उ॒पाव॑सृज॒त्-त्मन्या॑ सम॒ञ्जन्न् । दे॒वाना॒-म्पाथ॑ ऋतु॒था ह॒वीग्ंषि॑ । वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः । स्वद॑न्तु ह॒व्य-म्मधु॑ना घृ॒तेन॑ ॥
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम् । अ॒ग्नि-र्दे॒वाना॑-मभवत्-पुरो॒गाः । अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि ।
स्वाहा॑कृतग्ं ह॒विर॑दन्तु दे॒वाः ॥ 11 ॥
(य॒ज्ञैः - स्यो॒नं - ँयज॑द्ध्यै - वि॒द्वान॒ - +ष्टौ च॑) (अ. 3)
अनुवाकं 4 - पर्यग्निकरणीया ऋचः
अ॒ग्निर्-होता॑ नो अद्ध्व॒रे । वा॒जी सन्-परि॑णीयते ।
दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥ परि॑ त्रिवि॒ष्ट्य॑द्ध्व॒रम् । यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥ परि॒ वाज॑पतिः क॒विः । अ॒ग्निर्-ह॒व्या न्य॑क्रमीत् ।
दध॒-द्रत्ना॑नि दा॒शुषे᳚ ॥ 12 ॥
(अ॒ग्निर्-होता॑ नो॒ नव॑) (अ. 4)
अनुवाकं 5 - मैत्रावरुणप्रैषः
अजै॑द॒ग्निः । अस॑न॒द्वाज॒-न्नि । दे॒वो दे॒वेभ्यो॑ ह॒व्या-ऽवा᳚ट् । प्राञ्जो॑भिर्-हिन्वा॒नः ।
धेना॑भिः॒ कल्प॑मानः । य॒ज्ञस्यायुः॑ प्रति॒रन्न् ।
उप॒ प्रेष्य॑ होतः । ह॒व्या दे॒वेभ्यः॑ ॥ 13 ॥
(अजै॑द॒ष्टौ) (अ. 5)
अनुवाकं 6 - होतुरध्रिगुप्रैषः
दैव्या᳚-श्शमितार उ॒त म॑नुष्या॒ आर॑भद्ध्वम् । उप॑ नयत॒ मेद्ध्या॒ दुरः॑ । आ॒शासा॑ना॒ मेध॑पतिभ्या॒-म्मेध᳚म् । प्रास्मा॑ अ॒ग्नि-म्भ॑रत । स्तृ॒णी॒त ब॒र्॒हिः । अन्वे॑न-म्मा॒ता म॑न्यताम् । अनु॑ पि॒ता ।
अनु॒ भ्राता॒ सग॑र्भ्यः । अनु॒ सखा॒ सयू᳚थ्यः ॥
उ॒दी॒चीनाग्ं॑ अस्य प॒दो निध॑त्तात् ॥ 14 ॥
सूर्य॒-ञ्चक्षु॑र्गमयतात् । वात॑-म्प्रा॒णम॒न्व-व॑सृजतात् । दिश॒-श्श्रोत्र᳚म् । अ॒न्तरि॑क्ष॒मसु᳚म् । पृ॒थि॒वीग्ं शरी॑रम् । ए॒क॒धा-ऽस्य॒ त्वच॒माच्छ्य॑तात् । पु॒रा नाभ्या॑ अपि॒शसो॑ व॒पामुत्खि॑दतात् । अ॒न्तरे॒वोष्माणं॑-वाँरयतात् । श्ये॒नम॑स्य॒ वक्षः॑ कृणुतात् । प्र॒शसा॑ बा॒हू ॥ 15 ॥
श॒ला दो॒षणी᳚ । क॒श्यपे॒वाग्ंसा᳚ । अच्छि॑द्रे॒ श्रोणी᳚ ।
क॒वषो॒रू स्रे॒कप॑र्णा-ऽष्ठी॒वन्ता᳚ । षड्विग्ं॑शतिरस्य॒ वङ्क्र॑यः ।
ता अ॑नु॒ष्ठ्योच्च्या॑वयतात् । गात्र॑-ङ्गात्रम॒स्यानू॑न-ङ्कृणुतात् । ऊ॒व॒द्ध्य॒गो॒ह-म्पार्थि॑व-ङ्खनतात् । अ॒स्ना रक्ष॒-स्सग्ंसृ॑जतात् ।
व॒नि॒ष्ठुम॑स्य॒ मा रा॑विष्ट ॥ 16 ॥
उरू॑क॒-म्मन्य॑मानाः ॥ नेद्व॑स्तो॒के तन॑ये । रवि॑ता॒ रव॑च्छमितारः । अद्ध्रि॑गो शमी॒द्ध्वम् । सु॒शमि॑ शमीद्ध्वम् । श॒मी॒द्ध्व-म॑द्ध्रिगो ॥
अद्ध्रि॑गु॒श्चापा॑पश्च । उ॒भौ दे॒वानाग्ं॑ शमि॒तारौ᳚ । तावि॒म-म्प॒शुग्ग् श्र॑पयता-म्प्रवि॒द्वाग्ंसौ᳚ ।
यथा॑ यथा-ऽस्य॒ श्रप॑ण॒-न्तथा॑तथा ॥ 17 ॥
[ध॒त्ता॒-द्- बा॒हू - मा रा॑विष्ट॒ - तथा॑तथा ] (अ. 6)
अनुवाकं 7 - स्तोकविषय-म्मैत्रावरुणानुवचनम्
जु॒षस्व॑ स॒प्रथ॑स्तमम् । वचो॑ दे॒वफ्स॑रस्तमम् ।
ह॒व्या जुह्वा॑न आ॒सनि॑ ॥ इ॒म-न्नो॑ य॒ज्ञम॒मृते॑षु धेहि । इ॒मा ह॒व्या जा॑तवेदो जुषस्व । स्तो॒काना॑मग्ने॒ मेद॑सो घृ॒तस्य॑ । होतः॒ प्राशा॑न प्रथ॒मो नि॒षद्य॑ ॥ घृ॒तव॑न्तः पावक ते ।
स्तो॒कास्श्चो॑तन्ति॒ मेद॑सः । स्वध॑र्म-न्दे॒ववी॑तये ॥ 18 ॥
श्रेष्ठ॑-न्नो धेहि॒ वार्य᳚म् ॥ तुभ्यग्ग्॑ स्तो॒का घृ॑त॒श्चुतः॑ । अग्ने॒ विप्रा॑य सन्त्य । ऋषि॒-श्श्रेष्ठ॒-स्समि॑द्ध्यसे । य॒ज्ञस्य॑ प्रावि॒ता भ॑व ॥
तुभ्यग्ग्॑ श्चोतन्त्यद्ध्रिगो शचीवः । स्तो॒कासो॑ अग्ने॒ मेद॑सो घृ॒तस्य॑ । क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुना-ऽऽगाः᳚ । ह॒व्या जु॑षस्व मेधिर ॥
ओजि॑ष्ठ-न्ते मद्ध्य॒तो मेद॒ उद्भृ॑तम् । प्रते॑ व॒य-न्द॑दामहे । श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि ।
प्रति॒ तान्दे॑व॒शो वि॑हि ॥ 19 ॥
(दे॒ववी॑तय॒-उद्भृ॑त॒-न्त्रीणि॑ च) (अ. 7)
अनुवाकं 8 - वपा पुरोडाशस्विष्टकृता-म्पुरोनुवाक्याः प्रैषाश्च
आ वृ॑त्रहणा वृत्र॒हभि॒-श्शुष्मैः᳚ । इन्द्र॑ या॒त-न्नमो॑भिरग्ने अ॒र्वाक् । यु॒वग्ं राधो॑भि॒रक॑वेभिरिन्द्र । अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥ होता॑ यक्षदिन्द्रा॒ग्नी । छाग॑स्य व॒पाया॒ मेद॑सः । जु॒षेताग्ं॑ ह॒विः । होत॒र्यज॑ ॥ वि ह्यख्य॒-न्मन॑सा॒ वस्य॑ इ॒च्छन्न् । इन्द्रा᳚ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ॥ 20 ॥
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्य᳚म् । स वा॒-न्धियं॑-वाँज॒यन्ती॑मतक्षम् ॥ होता॑ यक्षदिन्द्रा॒ग्नी । पु॒रो॒डाश॑स्य जु॒षेताग्ं॑ ह॒विः । होत॒र्यज॑ ॥
त्वामी॑डते अजि॒र-न्दू॒त्या॑य । ह॒विष्म॑न्त॒-स्सद॒मि-न्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्॒हिर॑ग्ने । अहा᳚न्यस्मै सु॒दिना॑ भवन्तु ॥ होता॑ यक्षद॒ग्निम् । पु॒रो॒डाश॑स्य जु॒षताग्ं॑ ह॒विः ।
होत॒र्यज॑ ॥ 21 ॥
(स॒जा॒ता - न॒ग्नि-न्द्वे च॑) (अ. 8)
अनुवाकं 9 - तेषामेव याज्याः
गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा॑नः । ई॒॑ र॒यिं-यँ॒शस॑-म्पूर्व॒भाज᳚म् । इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा । प्रणो॒ नव्ये॑भिस्तिरत-न्दे॒ष्णैः ॥ माच्छे᳚द्म र॒श्मीग्ंरिति॒ नाध॑मानाः । पि॒तृ॒णाग्ं शक्ती॑रनु॒ यच्छ॑मानाः । इ॒न्द्रा॒ग्निभ्या॒-ङ्कं-वृँष॑णो मदन्ति । ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे᳚ ॥
अ॒ग्निग्ं सु॑दी॒तिग्ं सु॒दृश॑-ङ्गृ॒णन्तः॑ ।
न॒म॒स्याम॒स्त्वेड्य॑-ञ्जातवेदः ।
त्वा-न्दू॒तम॑र॒तिग्ं ह॑व्य॒वाह᳚म् ।
दे॒वा अ॑कृण्व-न्न॒मृत॑स्य॒ नाभि᳚म् ॥ 22 ॥
(जा॒त॒वे॒दो॒ द्वे च॑) (अ. 9)
अनुवाकं 10 - मनोतासूक्तम्
त्वग्ग् ह्य॑ग्ने प्रथ॒मो म॒नोता᳚ । अ॒स्या धि॒यो अभ॑वो दस्म॒ होता᳚ । त्वग्ं सीं᳚-वृँष-न्नकृणो-र्दु॒ष्टरी॑तु । सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑द्ध्यै ॥ अधा॒ होता॒ न्य॑सीदो॒ यजी॑यान् । इ॒डस्प॒द इ॒षय॒न्नीड्य॒-स्सन्न् । त-न्त्वा॒ नरः॑ प्रथ॒म-न्दे॑व॒यन्तः॑ । म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ ग्मन्न् ॥ वृ॒तेव॒ यन्त॑-म्ब॒हुभि॑-र्वस॒व्यैः᳚ ।
त्वे र॒यि-ञ्जा॑गृ॒वाग्ंसो॒ अनु॑ ग्मन्न् ॥ 23 ॥
रुश॑न्तम॒ग्नि-न्द॑र्श॒त-म्बृ॒हन्त᳚म् । व॒पाव॑न्तं-विँ॒श्वहा॑ दीदि॒वाग्ंस᳚म् ॥ प॒द-न्दे॒वस्य॒ नम॑सा वि॒यन्तः॑ । श्र॒व॒स्यव॒-श्श्रव॑ आप॒न्नमृ॑क्तम् ।
नामा॑नि चि-द्दधिरे य॒ज्ञिया॑नि । भ॒द्राया᳚-न्ते रणयन्त॒ सन्दृ॑ष्टौ ॥ त्वां-वँ॑र्धन्ति क्षि॒तयः॑ पृथि॒व्याम् । त्वग्ं राय॑ उ॒भया॑सो॒ जना॑नाम् ।
त्व-न्त्रा॒ता त॑रणे॒ चेत्यो॑ भूः ।
पि॒ता मा॒ता सद॒मि-न्मानु॑षाणाम् ॥ 24 ॥
स प॒र्येण्य॒-स्स प्रि॒यो वि॒क्ष्व॑ग्निः । होता॑ म॒न्द्रो निष॑सादा॒ यजी॑यान् । त-न्त्वा॑ व॒य-न्दम॒ आ दी॑दि॒वाग्ंस᳚म् । उप॑ज्ञु॒बाधो॒ नम॑सा सदेम ॥
त-न्त्वा॑ व॒यग्ं सु॒धियो॒ नव्य॑मग्ने । सु॒म्ना॒यव॑ ईमहे देव॒यन्तः॑ । त्वं-विँशो॑ अनयो॒ दीद्या॑नः । दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥
वि॒शा-ङ्क॒विं-विँ॒श्पति॒ग्ं॒ शश्व॑तीनाम् ।
नि॒तोश॑नं-वृँष॒भ-ञ्च॑र्षणी॒नाम् ॥ 25 ॥
प्रेती॑षणिमि॒षय॑न्त-म्पाव॒कम् । राज॑न्तम॒ग्निं-यँ॑ज॒तग्ं र॑यी॒णाम् ॥ सो अ॑ग्न ईजे शश॒मे च॒ मर्तः॑ । यस्त॒ आन॑ट्-थ्स॒मिधा॑ ह॒व्यदा॑तिम् ।
य आहु॑ति॒-म्परि॒ वेदा॒ नमो॑भिः । विश्वेथ्स वा॒मा द॑धते॒ त्वोतः॑ ॥ अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम । नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।
वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैः ।
आ ते॑ भ॒द्रायाग्ं॑ सुम॒तौ य॑तेम ॥ 26 ॥
आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा । श्रवो॑भिश्च श्रव॒स्य॑स्तरु॑त्रः । बृ॒हद्भि॒-र्वाजै॒-स्स्थवि॑रेभिर॒स्मे । रे॒वद्भि॑रग्ने वित॒रं-विँभा॑हि ॥
नृ॒वद्व॑सो॒ सद॒मिद्धे᳚ह्य॒स्मे । भूरि॑ तो॒काय॒ तन॑याय प॒र्श्वः । पू॒र्वीरिषो॑ बृह॒तीरा॒रे अ॑घाः । अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ॥
पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या । वसू॑नि राजन्-व॒सुता॑ते अश्याम् । पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्ति॑ ।
अग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥ 27 ॥
(जा॒गृ॒वाग्ंसो॒ अनु॑ ग्म॒न् - मानु॑षाणां - चर्षणी॒नां - ँय॑ते - माश्या॒-न्द्वे च॑) (अ. 10)
अनुवाकं 11 - हविर्वनस्पतिस्विष्टकृता-म्पुरोनुवाक्याः प्रैषाश्च
आ भ॑रतग्ं शिक्षतं-वँज्रबाहू ।
अ॒स्माग्ं इ॑न्द्राग्नी अवत॒ग्ं॒ शची॑भिः ।
इ॒मे नु ते र॒श्मय॒-स्सूर्य॑स्य ।
येभिः॑ सपि॒त्व-म्पि॒तरो॑ न॒ आयन्न्॑ ॥
होता॑ यक्षदिन्द्रा॒ग्नी । छाग॑स्य ह॒विष॒ आत्ता॑म॒द्य । म॒द्ध्य॒तो मेद॒ उद्भृ॑तम् । पु॒रा द्वेषो᳚भ्यः । पु॒रा पौरु॑षेय्या गृ॒भः । घस्ता᳚न्नू॒नम् ॥ 28 ॥
घा॒से अ॑ज्राणां॒-यँव॑सप्रथमानाम् । सु॒मत्क्ष॑राणाग्ं श॒तरु॑द्रियाणाम् ।
अ॒ग्नि॒ष्वा॒त्ताना॒-म्पीवो॑पवसनानाम् ।
पा॒र्श्व॒त-श्श्रो॑णि॒त-श्शि॑ताम॒त उ॑थ्साद॒तः । अङ्गा॑दङ्गा॒दव॑त्तानाम् । कर॑त ए॒वेन्द्रा॒ग्नी । जु॒षेताग्ं॑ ह॒विः । होत॒र्यज॑ ॥
दे॒वेभ्यो॑ वनस्पते ह॒वीग्ंषि॑ ।
हिर॑ण्यपर्ण प्र॒दिव॑स्ते॒ अर्थ᳚म् ॥ 29 ॥
प्र॒द॒क्षि॒णि-द्र॑श॒नया॑ नि॒यूय॑ । ऋ॒तस्य॑ वक्षि प॒थिभी॒ रजि॑ष्ठैः ॥ होता॑ यक्ष॒-द्वन॒स्पति॑म॒भि हि । पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नया-ऽऽधि॑त ।
यत्रे᳚न्द्राग्नि॒यो-श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि ।
यत्र॒ वन॒स्पतेः᳚ प्रि॒या पाथाग्ं॑सि ।
यत्र॑ दे॒वाना॑माज्य॒पाना᳚-म्प्रि॒या धामा॑नि । यत्रा॒ग्नेर्-होतुः॑ प्रि॒या धामा॑नि ।
तत्रै॒त-म्प्र॒स्तु-त्ये॑वो-प॒स्तुत्ये॑वो॒पाव॑स्रक्षत् ।
रभी॑याग्ं समिव कृ॒त्वी ॥ 30 ॥
कर॑दे॒व-न्दे॒वो वन॒स्पतिः॑ । जु॒षताग्ं॑ ह॒विः । होत॒र्यज॑ ॥ पि॒प्री॒हि दे॒वाग्ं उ॑श॒तो य॑विष्ठ । वि॒द्वां ऋ॒तूग्ंर्-ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने ।
त्वग्ं होतॄ॑णाम॒स्याय॑जिष्ठः ॥
होता॑ यक्षद॒ग्निग्ग् स्वि॑ष्ट॒कृत᳚म् ।
अया॑ड॒ग्नि-रि॑न्द्राग्नि॒यो-श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि । अया॒ड्वन॒स्पतेः᳚ प्रि॒या पाथाग्ं॑सि ।
अया᳚ड्दे॒वाना॑-माज्य॒पाना᳚-म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्-होतुः॑ प्रि॒या धामा॑नि । यक्ष॒-थ्स्व-म्म॑हि॒मान᳚म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑द्ध्व॒रा जा॒तवे॑दाः । जु॒षताग्ं॑ ह॒विः । होत॒र्यज॑ ॥ 31 ॥
(नू॒न - मर्थं॑ - कृ॒त्वी - पाथाग्ं॑सि स॒प्त च॑) (अ. 11)
अनुवाकं 12 - तेषामेव याज्याः
उपो॑ह॒ यद्वि॒दथं॑-वाँ॒जिनो॒ गूः । गी॒र्भि-र्विप्राः॒ प्रम॑ति-मि॒च्छमा॑नाः । अ॒र्वन्तो॒ न काष्ठा॒-न्नक्ष॑माणाः । इ॒न्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥
वन॑स्पते रश॒नया॑-ऽभि॒धाय॑ । पि॒ष्टत॑मया व॒युना॑नि वि॒द्वान् । वह॑ देव॒त्रा दि॑धिषो ह॒वीग्ंषि॑ । प्र च॑ दा॒तार॑म॒मृते॑षु वोचः ॥ अ॒ग्निग्ग् स्वि॑ष्ट॒कृत᳚म् । अया॑ड॒ग्नि-रि॑न्द्राग्नि॒यो-श्छाग॑स्य ह॒विषः॑ प्रि॒या धामा॑नि ॥ 32 ॥
अया॒ड्वन॒स्पतेः᳚ प्रि॒या पाथाग्ं॑सि ।
अया᳚ड्दे॒वाना॑-माज्य॒पाना᳚-म्प्रि॒या धामा॑नि ।
यक्ष॑द॒ग्नेर्-होतुः॑ प्रि॒या धामा॑नि । यक्ष॒-थ्स्व-म्म॑हि॒मान᳚म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑द्ध्व॒रा जा॒तवे॑दाः । जु॒षताग्ं॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑द्ध्वरस्य होतः ।
पाव॑क शोचे॒ वेष्ट्वग्ं हि यज्वा᳚ ।
ऋ॒ता य॑जासि महि॒ना वि य-द्भूः ।
ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥ 33 ॥
(धामा॑नि॒ - भुरेक॑-ञ्च) (अ. 12)
अनुवाकं 13 - अनूयाजप्रैषाः
दे॒व-म्ब॒र्॒हि-स्सु॑दे॒व-न्दे॒वै-स्स्या-थ्सु॒वीरं॑-वीँ॒रैर्वस्तो᳚-र्वृ॒ज्येता॒क्तोः प्रभ्रि॑-ये॒तात्य॒न्यान्-रा॒या ब॒र्॒हिष्म॑तो मदेम वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ दे॒वी-र्द्वारः॑ सङ्घा॒ते वि॒ड्वीर्याम॑ञ्छिथि॒रा ध्रु॒वा दे॒वहू॑तौ व॒थ्स
ई॑मेना॒स्तरु॑ण॒ आमि॑मीयात्-कुमा॒रो वा॒ नव॑जातो॒ मैना॒ अर्वा॑ रे॒णुक॑काटः॒ पृण॑ग्वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वी उ॒षासा॒ नक्ता-ऽद्या॒स्मिन्. य॒ज्ञे प्र॑य॒त्य॑ह्वेता॒मपि॑ नू॒न-न्दैवी॒र्विशः॒ प्राया॑सिष्टा॒ग्ं॒ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥
दे॒वी जोष्ट्री॒ वसु॑धिती॒ ययो॑र॒न्या-ऽघा द्वेषाग्ं॑सि यु॒यव॒दा-ऽन्या व॑क्ष॒-द्वसु॒ वार्या॑णि॒ यज॑मानाय वसु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥
दे॒वी ऊ॒र्जाहु॑ती॒ इष॒मूर्ज॑म॒न्या व॑क्ष॒थ्सग्धि॒ग्ं॒ सपी॑तिम॒न्या नवे॑न॒ पूर्व॒-न्दय॑माना॒-स्स्याम॑ पुरा॒णेन॒ नव॒-न्तामूर्ज॑मू॒र्जाहु॑ती ऊ॒र्जय॑माने अधातां-वँसु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥
दे॒वा दैव्या॒ होता॑रा॒ नेष्टा॑रा॒ पोता॑रा ह॒ताघ॑शग्ंसा-वाभ॒रद्व॑सू वसु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥
दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीरिडा॒ सर॑स्वती॒ भार॑ती॒ द्या-म्भार॑त्यादि॒त्यै-र॑स्पृक्ष॒-थ्सर॑स्वती॒मग्ं रु॒द्रै-र्य॒ज्ञमा॑वी-दि॒हैवेड॑या॒ वसु॑मत्या
सध॒माद॑-म्मदेम वसु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥
दे॒वो नरा॒शग्ंस॑-स्त्रिशी॒र्॒षा ष॑ड॒क्ष-श्श॒तमिदे॑नग्ं शितिपृ॒ष्ठा आद॑धति स॒हस्र॑मी॒-म्प्रव॑हन्ति मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒
बृह॒स्पतिः॑ स्तो॒त्रम॒श्विना ऽऽद्ध्व॑र्यवं-वँसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥
दे॒वो वन॒स्पति॑-र्व॒र्॒षप्रा॑वा घृ॒तनि॑र्णि॒ग्-द्या-
मग्रे॒णास्पृ॑क्ष॒दा-ऽन्तरि॑क्ष॒-म्मद्ध्ये॑नाप्राः पृथि॒वी-मुप॑रेणादृग्ंही-द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥
दे॒व-म्ब॒र्॒हिर्वारि॑तीना-न्नि॒धे धा॑सि॒ प्रच्यु॑तीना॒म-प्र॑च्युत-न्निकाम॒धर॑ण-म्पुरुस्पा॒र्॒हं-यँश॑स्वदे॒ना ब॒र्॒हिषा॒-ऽन्या ब॒र्॒हीग्ष्य॒भिष्या॑म वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥
दे॒वो अ॒ग्नि-स्स्वि॑ष्ट॒कृ-थ्सु॒द्रवि॑णा म॒न्द्रः क॒वि-स्स॒त्यम॑न्मा-ऽऽय॒जी होता॒ होतु॑र्-होतु॒राय॑जीया॒नग्ने॒ यान्-दे॒वानया॒ड्याग्ं अपि॑प्रे॒र्ये ते॑ हो॒त्रे अम॑थ्सत॒ ताग्ं स॑स॒नुषी॒ग्ं॒ होत्रा᳚-न्देव-ङ्ग॒मा-न्दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मग्ग्
स्वि॑ष्ट॒कृच्चाग्ने॒ होता-ऽभू᳚र्वसु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॒ यज॑ ॥ 34 ॥
(यजैक॑-ञ्च) (अ. 13)
अनुवाकं 14 - अनूयाजयाज्याः
दे॒व-म्ब॒र्॒हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ।
दे॒वीर्द्वारः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु । दे॒वी उ॒षासा॒ नक्ता᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वी जोष्ट्री᳚ । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् ।
दे॒वी ऊ॒र्जाहु॑ती । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् ॥ 35 ॥
दे॒वा दैव्या॒ होता॑रा । व॒सु॒वने॑ वसु॒धेय॑स्य वीताम् । दे॒वीस्ति॒स्र-स्ति॒स्रो दे॒वीः ।
व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु ।
दे॒वो नरा॒शग्ंसः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो वन॒स्पतिः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒व-म्ब॒र्॒हिर्वारि॑तीनाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु ॥ 36 ॥
दे॒वो अ॒ग्नि-स्स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्रः क॒विः । स॒त्यम॑न्मा-ऽऽय॒जी होता᳚ । होतु॑र्-होतु॒राय॑जीयान् ।
अग्ने॒ यान्दे॒वानया᳚ट् । याग्ं अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ताग्ं स॑स॒नुषी॒ग्ं॒ होत्रा᳚-न्देव-ङ्ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होता-ऽभूः᳚ ।
व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥ 37 ॥
(वी॒तां॒ - ँवे॒त्व - भू॒रेक॑-ञ्च) (अ. 14)
अनुवाकं 15 - सूक्तवाकप्रैषाः
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं-यँज॑मानः॒ पच॑-न्प॒क्तीः पच॑-न्पुरो॒डाशं॑
ब॒द्ध्न-न्नि॑न्द्रा॒ग्निभ्या॒-ञ्छागग्ं॑ सूप॒स्था अ॒द्य दे॒वो वन॒स्पति॑-रभव-दिन्द्रा॒ग्निभ्या॒-ञ्छागे॒नाघ॑स्ता॒-न्त-म्मे॑द॒स्तः प्रति॑ पच॒ता-ऽग्र॑भीष्टा॒मवी॑वृधेता-म्पुरो॒डाशे॑न॒ त्वाम॒द्यर्ष॑ आर्षेयर्षीणा-न्नपादवृणीता॒यं-यँज॑मानो ब॒हुभ्य॒ आ सङ्ग॑तेभ्य ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॒ ता या
दे॒वा दे॑व॒-दाना॒न्यदु॒स्तान्य॑स्मा॒ आ च॒ शास्वा च॑ गुरस्वेषि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑ष-स्सूक्तवा॒काय॑ सू॒क्ता ब्रू॑हि ॥ 38 ॥
(अ॒ग्निम॒द्यैक᳚म्) (अ. 15)
(अ॒ञ्जन्ति॒ - होता॑ यक्ष॒थ् - समि॑द्वो अ॒द्या - ग्नि - रजै॒-द्- दैव्या॑ - जु॒षस् - वा वृ॑त्रहणा - गी॒र्भि - स्त्वग्ग् ह्या - भ॑रत॒ - मुपो॑ह॒ य-द्- दे॒व-म्ब॒र्॒हि-स्सु॑दे॒वं - दे॒व-म्ब॒र्॒हि - र॒ग्निम॒द्य पञ्च॑दश)
(अ॒ञ्जन् - त्यु॒पाव॑सृज॒न् - नान्या यु॒वत् - कर॑दे॒व म॒ष्टात्रिग्ं॑शत्)
(अ॒ञ्जन्ति॑ - सू॒क्ता ब्रू॑हि)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके षष्ठः प्रपाठक-स्समाप्तः ॥