| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
1.8 - राजसूयानुब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - वरुणस्य सुषुवाणस्य कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके अष्टमः प्रपाठकः - राजसूयानुब्राह्मणं ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - संसृपां हवींषि दश सोमे॑न॒ राज्ञा᳚-ऽष्ट॒मे । त्वष्ट्रा॑ रू॒पेण॑ नव॒मे । विष्णु॑ना य॒ज्ञेना᳚प्नोत् । यथ्स॒ग्ं॒ सृपो॒ भव॑न्ति । इ॒न्द्रि॒यमे॒व त-द्वी॒र्यं॑-यँज॑मान आप्नोति । पूर्वा॑ पूर्वा॒ वेदि॑र्भवति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै । पु॒रस्ता॑-दुप॒सदाग्ं॑ सौ॒म्येन॒ प्रच॑रति । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व त-द्द॑धाति । अ॒न्त॒रा त्वा॒ष्ट्रेण॑ । रेत॑ ए॒व हि॒त-न्त्वष्टा॑ रू॒पाणि॒ विक॑रोति । उ॒परि॑ष्टा-द्वैष्ण॒वेन॑ । य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति ॥ 2 ॥ अनुवाकं 2 - दशपेयः अन्नं॑-विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑ । द॒श॒पेयो॑ भवति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै । श॒त-म्ब्रा᳚ह्म॒णाः पि॑बन्ति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । स॒प्त॒द॒शग्ग् स्तो॒त्र-म्भ॑वति । स॒प्त॒द॒शः प्र॒जाप॑तिः ॥ 4 ॥ प्र॒जाप॑ते॒राप्त्यै᳚ । प्रा॒का॒शाव॑द्ध्व॒र्यवे॑ ददाति । प्र॒का॒श-मे॒वैन॑-ङ्गमयति । स्रज॑मु-द्गा॒त्रे । व्ये॑वास्मै॑ वासयति । रु॒क्मग्ं होत्रे᳚ । आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति । अश्व॑-म्प्रस्तोतृप्रतिह॒र्तृभ्या᳚म् । प्रा॒जा॒पत्यो वा अश्वः॑ । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ 5 ॥ द्वाद॑श-पष्ठौ॒ही-र्ब्र॒ह्मणे᳚ । आयु॑रे॒वाव॑-रुन्धे । व॒शा-म्मै᳚त्रावरु॒णाय॑ । रा॒ष्ट्रमे॒व व॒श्य॑कः । ऋ॒ष॒भ-म्ब्रा᳚ह्मणाच्छ॒ग्ं॒सिने᳚ । रा॒ष्ट्र-मे॒वेन्द्रि॑या॒व्य॑कः । वास॑सी नेष्टापो॒तृभ्या᳚म् । प॒वित्रे॑ ए॒वास्यै॒ते । स्थूरि॑ यवाचि॒त-म॑च्छावा॒काय॑ । अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते ॥ 6 ॥ अ॒न॒ड्वाह॑-म॒ग्नीधे᳚ । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑र॒ग्नीत् । वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे । इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यं-वीँ॒र्य॑-म्परा॑-ऽपतत् । भृगु॒-स्तृती॑य-मभवत् । श्रा॒य॒न्तीय॒-न्तृती॑यम् । सर॑स्वती॒ तृती॑यम् । भा॒र्ग॒वो होता॑ भवति । श्रा॒य॒न्तीय॑-म्ब्रह्मसा॒म-म्भ॑वति । वा॒र॒व॒न्तीय॑-मग्निष्टोम-सा॒मम् । सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑-रुद्ध्यै । श्रा॒य॒न्तीय॑-म्ब्रह्मसा॒म-म्भ॑वति । इ॒न्द्रि॒यमे॒वास्मि॑न् वी॒र्य॒ग्ग्॑ श्रयति । वा॒र॒व॒न्तीय॑-मग्निष्टोम-सा॒मम् । इ॒न्द्रि॒यमे॒वास्मि॑न् वी॒र्यं॑-वाँरयति ॥ 7 ॥ अनुवाकं 3 - दिशामवेष्टयः, पशुबन्धः, सात्यदूतहवींषि च आ॒दि॒त्या-म्म॒ल्॒ःआ-ङ्ग॒र्भिणी॒मा ल॑भते । मा॒रु॒ती-म्पृश्ञि॑-म्पष्ठौ॒हीम् । विश॑-ञ्चै॒वास्मै॑ रा॒ष्ट्र-ञ्च॑ स॒मीची॑ दधाति । आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति । मा॒रु॒त्योत्त॑रया । रा॒ष्ट्र ए॒व विश॒मनु॑बद्ध्नाति । उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उ॒पा॒ग्ं॒शु मा॑रु॒त्यै । तस्मा᳚-द्रा॒ष्ट्रं-विँश॒मति॑वदति । ग॒र्भिण्या॑दि॒त्या भ॑वति ॥ 9 ॥ इ॒न्द्रि॒यं-वैँ गर्भः॑ । रा॒ष्ट्र-मे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग॒र्भा मा॑रु॒ती । विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः । दे॒वा॒सु॒रा-स्संयँ॑त्ता आसन्न् । ते दे॒वा अ॒श्विनोः᳚ पू॒षन्-वा॒च-स्स॒त्यग्ं स॑नि॒न्धाय॑ । अनृ॑ते॒नासु॑रा-न॒भ्य॑भवन्न् । ते᳚-ऽश्विभ्या᳚-म्पू॒ष्णे पु॑रो॒डाश॒-न्द्वाद॑शकपाल॒-न्निर॑वपन्न् । ततो॒ वै ते वा॒च-स्स॒त्यमवा॑रुन्धत ॥ 10 ॥ यद॒श्विभ्या᳚-म्पू॒ष्णे पु॑रो॒डाश॒-न्द्वाद॑शकपाल-न्नि॒र्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्या-नभि॒भूय॑ । वा॒च-स्स॒त्यमव॑रुन्धे । सर॑स्वते सत्य॒वाचे॑ च॒रुम् । पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भि गृ॑णाति । स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒-न्द्वाद॑शकपाल॒-म्प्रसू᳚त्यै । दू॒तान्-प्रहि॑णोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑-ङ्गमयन्ति । अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते । ति॒सृ॒ध॒न्वग्ं शु॑ष्कदृ॒ति-र्दक्षि॑णा॒ समृ॑द्ध्यै ॥ 11 ॥ अनुवाकं 4 - प्रयुजां हवींषि द्वादश रू॒पाण्ये॒व तेन॑ कुर्वते । वै॒श्वा॒न॒र-न्द्वाद॑शकपालम् । तस्मा᳚ज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्चः॑ कुरुपञ्चा॒ला या᳚न्ति । सा॒र॒स्व॒त-ञ्च॒रु-न्निर्व॑पति । तस्मा᳚त्-प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते । क्षै॒त्र॒प॒त्येन॑ पाचयन्ते । आ॒दि॒त्येनाद॑धते ॥ 13 ॥ मा॒सिमा᳚स्ये॒तानि॑ ह॒वीग्ंषि॑ नि॒रुप्या॒णीत्या॑हुः । तेनै॒वर्तून्-प्रयु॑ङ्क्त॒ इति॑ । अथो॒ खल्वा॑हुः । क-स्सं॑वँथ्स॒र-ञ्जी॑विष्य॒तीति॑ । षडे॒व पू᳚र्वे॒द्युर्नि॒रुप्या॑णि । षडु॑त्तरे॒द्युः । तेनै॒वर्तून्-प्रयु॑ङ्क्ते । दक्षि॑णो रथवाहनवा॒हः पूर्वे॑षा॒-न्दक्षि॑णा । उत्त॑र॒ उत्त॑रेषाम् । सं॒वँ॒थ्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 14 ॥ अनुवाकं 5 - सौत्रामणिः, पशवः, हवींषि च स शा᳚र्दू॒लः । यत्-कर्ण॑योः । स वृकः॑ । य ऊ॒र्ध्वः । त्विषि॑मे॒वाव॑ रुन्धे । त्रयो॒ ग्रहाः᳚ । वी॒र्य॑मे॒वाव॑ रुन्धे । नाम्ना॑ दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णा इ॑न्द्रि॒यं-वीँ॒र्य᳚म् । प्रा॒णाने॒वेन्द्रि॒यं-वीँ॒र्यं॑-यँज॑मान आ॒त्मन्-ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति । न वा ए॒तदयो॒ न हिर॑ण्यम् ॥ 17 ॥ य-थ्सीस᳚म् । न स्त्री न पुमान्॑ । यत्-क्ली॒बः । न सोमो॒ न सुरा᳚ । य-थ्सौ᳚त्राम॒णी समृ॑द्ध्यै । स्वा॒द्वी-न्त्वा᳚ स्वा॒दुनेत्या॑ह । सोम॑मे॒वैना᳚-ङ्करोति । सोमो᳚-ऽस्य॒श्विभ्या᳚-म्पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वता᳚भ्यः॒ पच्य॑ते । ति॒स्र-स्सग्ंसृ॑ष्टा वसति ॥ 18 ॥ ति॒स्रो हि रात्रीः᳚ क्री॒त-स्सोमो॒ वस॑ति । पु॒नातु॑ ते परि॒स्रुत॒मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै । प॒वित्रे॑ण पुनाति । प॒वित्रे॑ण॒ हि सोम॑-म्पु॒नन्ति॑ । वारे॑ण॒ शश्व॑ता॒ तनेत्या॑ह । वारे॑ण॒ हि सोम॑-म्पु॒नन्ति॑ ।वा॒युः पू॒तः प॒वित्रे॒णेति॒ नैतया॑ पुनीयात् । व्यृ॑द्धा॒ ह्ये॑षा । अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनीयात् । कु॒विद॒ङ्गे-त्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति ॥ 19 ॥ अनि॑रुक्तः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑-न्दधाति । आ॒श्वि॒न-न्धू॒म्रमा ल॑भते । अ॒श्विनौ॒ वै दे॒वाना᳚-म्भि॒षजौ᳚ । ताभ्या॑मे॒वास्मै॑ भेष॒ज-ङ्क॑रोति । सा॒र॒स्व॒त-म्मे॒षम् । वाग्वै सर॑स्वती । वा॒चैवैन॑-म्भिषज्यति । ऐ॒न्द्रमृ॑ष॒भग्ं से᳚न्द्र॒त्वाय॑ ॥ 20 ॥ अनुवाकं 6 - सौत्रामणिः, पशवः, हवींषि च ब्रा॒ह्म॒ण-म्परि॑क्रीणीया-दु॒च्छेष॑णस्य पा॒तार᳚म् । ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता । यदि॑ ब्राह्म॒ण-न्न वि॒न्देत् । व॒ल्मी॒क॒व॒पाया॒मव॑ नयेत् । सैव ततः॒ प्राय॑श्चित्तिः । य-द्वै सौ᳚त्राम॒ण्यै व्यृ॑द्धम् । तद॑स्यै॒ समृ॑द्धम् । ना॒ना॒दे॒व॒त्याः᳚ प॒शव॑श्च पुरो॒डाशा᳚श्च भवन्ति॒ समृ॑द्ध्यै । ऐ॒न्द्रः प॑शू॒नामु॑त्त॒मो भ॑वति । ऐ॒न्द्रः पु॑रो॒डाशा॑ना-म्प्रथ॒मः ॥ 22 ॥ इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति । पु॒रस्ता॑-दनूया॒जाना᳚-म्पुरो॒डाशैः॒ प्रच॑रति । प॒शवो॒ वै पु॑रो॒डाशाः᳚ । प॒शूने॒वाव॑ रुन्धे । ऐ॒न्द्र-मेका॑दशकपाल॒-न्निर्व॑पति । इ॒न्द्रि॒यमे॒वाव॑-रुन्धे । सा॒वि॒त्र-न्द्वाद॑शकपाल॒-म्प्रसू᳚त्यै । वा॒रु॒ण-न्दश॑कपालम् । अ॒न्त॒त ए॒व वरु॑ण॒मव॑-यजते । वड॑बा॒ दक्षि॑णा ॥ 23 ॥ उ॒त वा ए॒षा-ऽश्वग्ं॑ सू॒ते । उ॒ताश्व॑त॒रम् । उ॒त सोम॑ उ॒त सुरा᳚ । य-थ्सौ᳚त्राम॒णी समृ॑द्ध्यै । बा॒र्॒ह॒स्प॒त्य-म्प॒शु-ञ्च॑तु॒र्थ-म॑तिपवि॒तस्याल॑भते । ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पतिः॑ । ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑-वपति । पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति । न ह्ये॑तस्य॒ ग्रह॑-ङ्गृ॒ह्णन्ति॑ । सोम॑प्रतीकाः पितर-स्तृप्णु॒तेति॑ शतातृ॒ण्णायाग्ं॑ स॒मव॑नयति ॥ 24 ॥ श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । दक्षि॑णे॒-ऽग्नौ जु॑होति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । हिर॑ण्यमन्त॒रा धा॑रयति । पू॒तामे॒वैना᳚-ञ्जुहोति । श॒तमा॑न-म्भवति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । यत्रै॒व श॑तातृ॒ण्णा-न्धा॒रय॑ति ॥ 25 ॥ तन्निद॑धाति॒ प्रति॑ष्ठित्यै । पि॒तॄन्. वा ए॒तस्ये᳚न्द्रि॒यं-वीँ॒र्य॑-ङ्गच्छति । यग्ं सोमो॑-ऽति॒पव॑ते । पि॒तृ॒णां-याँ᳚ज्या-नुवा॒क्या॑भि॒रुप॑ तिष्ठते । यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यं-वीँ॒र्य॑-ङ्गच्छ॑ति । तदे॒वाव॑ रुन्धे । ति॒सृभि॒रुप॑ तिष्ठते । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । अथो॒ त्रीणि॒ वै य॒ज्ञस्ये᳚न्द्रि॒याणि॑ । अ॒द्ध्व॒र्युर्-होता᳚ ब्र॒ह्मा । त उप॑तिष्ठन्ते । यान्ये॒व य॒ज्ञस्ये᳚न्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒ज-ङ्क॑रोति ॥ 26 ॥ अनुवाकं 7 - राजसूयस्याग्रे कर्तव्य-म्पवित्राख्यमग्निष्टोममहः ए॒तावा॒न्.॒ वै य॒ज्ञः । यावा॒न्-पव॑मानाः । अ॒न्त॒-श्श्लेष॑ण॒-न्त्वा अ॒न्यत् । य-थ्स॒माः पव॑मानाः । तेनासग्ं॑शरः । तेन॑ यथापू॒र्वम् । आ॒त्मनै॒-वाग्नि॑ष्टो॒मेन॒र्ध्नोति॑ । आ॒त्मना॒ पुण्यो॑ भवति । प्र॒जा वा उ॒क्थानि॑ । प॒शव॑ उ॒क्थानि॑( ) । यदु॒क्थ्यो॑ भव॒त्यनु॒ सन्त॑त्यै ॥ 28 ॥ अनुवाकं 8 - अभिषेचनीये साममन्त्रविशेषः यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑ । तेनै॒व य॑ज्ञमु॒खा-न्नय॑न्ति । अ॒नु॒ष्टुक्-प्र॑थ॒मा भ॑वति । अ॒नु॒ष्टु-गु॑त्त॒मा । वाग्वा अ॑नु॒ष्टुक् । वा॒चैव प्र॒यन्ति॑ । वा॒चोद्य॑न्ति । उद्व॑ती-र्भवन्ति । उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् । आनु॑ष्टुभो राज॒न्यः॑ ॥ 30 ॥ तस्मा॒दुद्व॑ती-र्भवन्ति । सौ॒र्य॑नु॒ष्टु-गु॑त्त॒मा भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै । यो वै स॒वादेति॑ । नैनग्ं॑ स॒व उप॑नमति । य-स्साम॑भ्य॒ एति॑ । पापी॑यान्-थ्सुषुवा॒णो भ॑वति । ए॒तानि॒ खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ । यत्पृ॒ष्ठानि॒ भव॑न्ति ॥ 31 ॥ तैरे॒व स॒वान्नैति॑ । यानि॑ देवरा॒जाना॒ग्ं॒ सामा॑नि । तैर॒मुष्मि॑न् ँलो॒क ऋ॑द्ध्नोति । यानि॑ मनुष्यरा॒जाना॒ग्ं॒ सामा॑नि । तैर॒स्मिन् ँलो॒क ऋ॑द्ध्नोति । उ॒भयो॑रे॒व लो॒कयोर्॑.-ऋद्ध्नोति । दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑ । ए॒क॒वि॒ग्ं॒शो॑ ऽभिषेच॒नीय॑-स्योत्त॒मो भ॑वति । ए॒क॒वि॒ग्ं॒शः के॑शवप॒नीय॑स्य प्रथ॒मः । स॒प्त॒द॒शो द॑श॒पेयः॑ ॥ 32 ॥ विड्वा ए॑कवि॒ग्ं॒शः । रा॒ष्ट्रग्ं स॑प्तद॒शः । विश॑ ए॒वैत-न्म॑द्ध्य॒तो॑-ऽभिषि॑च्यते । तस्मा॒द्वा ए॒ष वि॒शा-म्प्रि॒यः । वि॒शो हि म॑द्ध्य॒तो॑-ऽभिषि॒च्यते᳚ । यद्वा ए॑नम॒दो दिशो-ऽनु॑ व्यास्था॒पय॑न्ति । त-थ्सु॑व॒र्गं-लोँ॒क-म॒भ्यारो॑हति । यदि॒मं-लोँ॒क-न्न प्र॑त्यव॒रोहे᳚त् । अ॒ति॒ ज॒नं-वेँ॒यात् । उद्वा॑ माद्येत् । यदे॒ष प्र॑ती॒चीन॑-स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒क-म्प्र॒त्यव॑रोहति । अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्य-नु॑न्मादाय ॥ 33 ॥ अनुवाकं 9 - अभिषेचनीयविषययो रुक्मयो-स्स्तुतिः अनुवाकं 10 - व्युष्टिद्विरात्रं राजसूयान्ते कर्तव्यम् नानै॒वाहो॑रा॒त्रयोः॒ प्रति॑ तिष्ठति । पौ॒र्ण॒मा॒स्या-म्पूर्व॒मह॑-र्भवति । व्य॑ष्टकाया॒-मुत्त॑रम् । नानै॒वार्ध॑ मा॒सयोः॒ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑या॒-म्पूर्व॒मह॑-र्भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानै॒व मास॑योः॒ प्रति॑ तिष्ठति । अथो॒ खलु॑ । ये ए॒व स॑मानप॒क्षे पु॑ण्या॒हे स्याता᳚म् । तयोः᳚ का॒र्य॑-म्प्रति॑ष्ठित्यै ॥ 36 ॥ अ॒प॒श॒व्यो द्वि॑रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्र-ञ्च॒ त्रैष्टु॑भ-ञ्च । जग॑तीम॒न्तर्य॑न्ति । न तेन॒ जग॑ती कृ॒तेत्या॑हुः । यदे॑ना-न्तृतीयसव॒ने कु॒र्वन्तीति॑ । य॒दा वा ए॒षा-ऽहीन॒स्याह॒-र्भज॑ते । सा॒ह्नस्य॑ वा॒ सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ पश॒व्यः॑ । व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः । य ए॒वं-विँ॒द्वा-न्द्वि॑रा॒त्रेण॒ यज॑ते । व्ये॑वास्मा॑ उच्छति । अथो॒ तम॑ ए॒वाप॑हते । अ॒ग्नि॒ष्टो॒म-म॑न्त॒त आह॑रति । अ॒ग्नि-स्सर्वा॑ दे॒वताः᳚ । दे॒वता᳚स्वे॒व प्रति॑ तिष्ठति ॥ 37 ॥ (वरु॑णस्य - जा॒ - मीश्व॒र - आ᳚ग्ने॒य - मिन्द्र॑स्य॒ - य-त्त्रि॒ - ष्व॑ग्निष्टो॒म - मुप॑ त्वे॒ - यं-वैँ र॑ज॒ता - ऽप्र॑तिष्ठितो॒ दश॑) (वरु॑णस्य॒ - यद॒श्विभ्यां॒ - ँय-त्त्रि॒षु - तस्मा॒दुद्व॑ती-स्स॒प्तत्रिग्ं॑शत्) वरु॑णस्य॒ - प्रति॑ तिष्ठति । ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके अष्टमः प्रपाठक-स्समाप्तः ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टकं समाप्तम् ॥
|