View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.6 - राजसूयानुब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - अनुमत्यै पुरोडाशम्

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके षष्ठः प्रपाठकः - राजसूयानुब्राह्मणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1 - अनुमत्याद्या इष्टयः

अनु॑मत्यै पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर्व॑पति । ये प्र॒त्यञ्च॒-श्शम्या॑या अव॒शीय॑न्ते । तन्नैर्॑​ऋ॒त-मेक॑कपालम् । इ॒यं-वाँ अनु॑मतिः । इ॒य-न्निर्-ऋ॑तिः । नै॒र्॒ऋ॒तेन॒ पूर्वे॑ण॒ प्रच॑रति । पा॒प्मान॑मे॒व निर्-ऋ॑ति॒-म्पूर्वा᳚-न्नि॒रव॑दयते । एक॑ कपालो भवति । ए॒क॒धैव निर्-ऋ॑ति-न्नि॒रव॑दयते । यदहु॑त्वा॒ गार्​ह॑पत्य ई॒युः ॥ 1 ॥

रु॒द्रो भू॒त्वा-ऽग्निर॑नू॒त्थाय॑ । अ॒द्ध्व॒र्यु-ञ्च॒ यज॑मान-ञ्च हन्यात् । वीहि॒ स्वाहा ऽऽहु॑ति-ञ्जुषा॒ण इत्या॑ह । आहु॑त्यै॒वैनग्ं॑ शमयति । नार्ति॒मार्च्छ॑-त्यद्ध्व॒र्युर्न यज॑मानः । ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि निर्-ऋ॑त्यै भाग॒धेय᳚म् । इ॒मा-न्दिशं॑-यँन्ति । ए॒षा वै निर्-ऋ॑त्यै॒ दिक् । स्वाया॑मे॒व दि॒शि निर्-ऋ॑ति-न्नि॒रव॑दयते ॥ 2 ॥

स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚ । ए॒तद्वै निर्-ऋ॑त्या आ॒यत॑नम् । स्व ए॒वायत॑ने॒ निर्-ऋ॑ति-न्नि॒रव॑दयते । ए॒ष ते॑ निर्-ऋते भा॒ग इत्या॑ह । निर्दि॑शत्ये॒वैना᳚म् । भूते॑ ह॒विष्म॑त्य॒सीत्या॑ह । भूति॑मे॒वोपाव॑र्तते । मु॒ञ्चेममग्ंह॑स॒ इत्या॑ह । अग्ंह॑स ए॒वैन॑-म्मुञ्चति । अ॒ङ्गु॒ष्ठाभ्या᳚-ञ्जुहोति ॥ 3 ॥

अ॒न्त॒त ए॒व निर्-ऋ॑ति-न्नि॒रव॑दयते । कृ॒ष्णं-वाँसः॑ कृ॒ष्णतू॑ष॒-न्दक्षि॑णा । ए॒त-द्वै निर्-ऋ॑त्यै रू॒पम् । रू॒पेणै॒व निर्-ऋ॑ति-न्नि॒रव॑दयते । अप्र॑तीक्ष॒माय॑न्ति । निर्-ऋ॑त्या अ॒न्तर्​हि॑त्यै । स्वाहा॒ नमो॒ य इ॒द-ञ्च॒कारेति॒ पुन॒रेत्य॒ गार्​ह॑पत्ये जुहोति । आहु॑त्यै॒व न॑म॒स्यन्तो॒ गार्​ह॑पत्य-मु॒पाव॑र्तन्ते । आ॒नु॒म॒तेन॒ प्रच॑रति । इ॒यं-वाँ अनु॑मतिः ॥ 4 ॥

इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑मन्यते । धे॒नु-र्दक्षि॑णा । इ॒मामे॒व धे॒नु-ङ्कु॑रुते । आ॒दि॒त्य-ञ्च॒रु-न्निर्व॑पति । उ॒भयी᳚ष्वे॒व प्र॒जास्व॒भिषि॑च्यते । दैवी॑षु च॒ मानु॑षीषु च । वरो॒ दक्षि॑णा । वरो॒ हि रा॒ज्यग्ं समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒व-मेका॑दशकपाल॒-न्निर्व॑पति । अ॒ग्नि-स्सर्वा॑ दे॒वताः᳚ ॥ 5 ॥

विष्णु॑र्य॒ज्ञः । दे॒वता᳚श्चै॒व य॒ज्ञ-ञ्चाव॑ रुन्धे । वा॒म॒नो व॒ही दक्षि॑णा । य-द्व॒ही । तेना᳚ग्ने॒यः । य-द्वा॑म॒नः । तेन॑ वैष्ण॒व-स्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒-मेका॑दशकपाल॒-न्निर्व॑पति । अ॒ग्नीषोमा᳚भ्यां॒-वाँ इन्द्रो॑ वृ॒त्रम॑ह॒न्निति॑ । यद॑ग्नीषो॒मीय॒-मेका॑दशकपाल-न्नि॒र्वप॑ति ॥ 6 ॥

वार्त्र॑घ्नमे॒व विजि॑त्यै । हिर॑ण्य॒-न्दक्षि॑णा॒ समृ॑द्ध्यै । इन्द्रो॑ वृ॒त्रग्ं ह॒त्वा । दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या᳚र्ध्यत । स ए॒तमै᳚न्द्रा॒ग्न-मेका॑दशकपाल-मपश्यत् । तन्निर॑वपत् । तेन॒ वै स दे॒वता᳚श्चेन्द्रि॒य-ञ्चावा॑रुन्ध । यदै᳚न्द्रा॒ग्न-मेका॑दशकपाल-न्नि॒र्वप॑ति । दे॒वता᳚श्चै॒व तेने᳚न्द्रि॒य-ञ्च॒ यज॑मा॒नो-ऽव॑ रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा ॥ 7 ॥

य-द्व॒ही । तेना᳚ग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्र-स्समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पाल॒-न्निर्व॑पति । ऐ॒न्द्र-न्दधि॑ । यदा᳚ग्ने॒यो भव॑ति । अ॒ग्निर्वै य॑ज्ञमु॒खम् । य॒ज्ञ॒मु॒खमे॒वर्धि॑-म्पु॒रास्ता᳚द्धत्ते । यदै॒न्द्र-न्दधि॑ ॥ 8 ॥

इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । ऋ॒ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना᳚ग्ने॒यः । यदृ॑ष॒भः । तेनै॒न्द्र-स्समृ॑द्ध्यै । याव॑ती॒र्वै प्र॒जा ओष॑धीना॒-महु॑ताना॒-माश्ञन्न्॑ । ताः परा॑-ऽभवन्न् । आ॒ग्र॒य॒ण-म्भ॑वति हु॒ताद्या॑य । यज॑मान॒स्याप॑राभावाय ॥ 9 ॥

दे॒वा वा ओष॑धीष्वा॒जिम॑युः । ता इ॑न्द्रा॒ग्नी उद॑जयताम् । तावे॒तमै᳚न्द्रा॒ग्न-न्द्वाद॑शकपाल॒-न्निर॑वृणाताम् । यदै᳚न्द्रा॒ग्नो भव॒त्युज्जि॑त्यै । द्वाद॑शकपालो भवति । द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रः । सं॒​वँ॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वै॒श्व॒दे॒वश्च॒रु-र्भ॑वति । वै॒श्व॒दे॒वं-वाँ अन्न᳚म् । अन्न॑मे॒वास्मै᳚ स्वदयति ॥ 10 ॥

प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । सौ॒म्यग्ग्​ श्या॑मा॒क-ञ्च॒रु-न्निर्व॑पति । सोमो॒ वा अ॑कृष्टप॒च्यस्य॒ राजा᳚ । अ॒कृ॒ष्ट॒प॒च्यमे॒वास्मै᳚ स्वदयति । वासो॒ दक्षि॑णा । सौ॒म्यग्ंहि दे॒वत॑या॒ वास॒-स्समृ॑द्ध्यै । सर॑स्वत्यै च॒रु-न्निर्व॑पति । सर॑स्वते च॒रुम् । मि॒थु॒नमे॒वाव॑ रुन्धे । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । एति॒ वा ए॒ष य॑ज्ञमु॒खादृद्ध्याः᳚ । यो᳚-ऽग्नेर्दे॒वता॑या॒ एति॑ । अ॒ष्टावे॒तानि॑ ह॒वीग्ंषि॑ भवन्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रो᳚-ऽग्निः । तेनै॒व य॑ज्ञमु॒खादृद्ध्या॑ अ॒ग्नेर्दे॒वता॑यै॒ नैति॑ ॥ 11 ॥
(ई॒यु--र् नि॒रव॑दयते - ऽङ्गु॒ष्ठाभ्या᳚-ञ्जुहो॒ - त्यनु॑मति--र् दे॒वता॑ - नि॒र्वप॑ति - व॒ही दक्षि॑णा॒ - यदै॒न्द्र-न्द - ध्यप॑राभावाय - स्वदयति॒ - गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै॒ षट्च॑) (अ. 1)

अनुवाकं 2 - चातुर्मास्ये वैश्वदेवहवींषि
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता-स्सृ॒ष्टा न प्राजा॑यन्त । सो᳚-ऽग्निर॑कामयत । अ॒हमि॒माः प्रज॑नयेय॒मिति॑ । स प्र॒जाप॑तये॒ शुच॑मदधात् । सो॑-ऽशोचत्-प्र॒जामि॒च्छमा॑नः । तस्मा॒द्य-ञ्च॑ प्र॒जा भु॒नक्ति॒ य-ञ्च॒ न । तावु॒भौ शो॑चतः प्र॒जामि॒च्छमा॑नौ । तास्व॒ग्निमप्य॑ सृजत् । ता अ॒ग्निरद्ध्यै᳚त् ॥ 12 ॥

सोमो॒ रेतो॑-ऽदधात् । स॒वि॒ता प्राज॑नयत् । सर॑स्वती॒ वाच॑मदधात् । पू॒षा ऽपो॑षयत् । ते वा ए॒ते त्रि-स्सं॑​वँथ्स॒रस्य॒ प्रयु॑ज्यन्ते । ये दे॒वाः पुष्टि॑पतयः । सं॒​वँ॒थ्स॒रो वै प्र॒जाप॑तिः । सं॒​वँ॒थ्स॒रेणै॒वास्मै᳚ प्र॒जाः प्राज॑नयत् । ताः प्र॒जा जा॒ता म॒रुतो᳚ घ्नन्न् । अ॒स्मानपि॒ न प्रायु॑क्ष॒तेति॑ ॥ 13 ॥

स ए॒त-म्प्र॒जाप॑तिर्मारु॒तग्ं स॒प्तक॑पाल-मपश्यत् । त-न्निर॑वपत् । ततो॒ वै प्र॒जाभ्यो॑कल्पत । यन्मा॑रु॒तो नि॑रु॒प्यते᳚ । य॒ज्ञस्य॒ क्लृप्त्यै᳚ । प्र॒जाना॒-मघा॑ताय । स॒प्तक॑पालो भवति । स॒प्तग॑णा॒ वै म॒रुतः॑ । ग॒ण॒श ए॒वास्मै॒ विश॑-ङ्कल्पयति । स प्र॒जाप॑ति-रशोचत् ॥ 14 ॥

याः पूर्वाः᳚ प्र॒जा असृ॑क्षि । म॒रुत॒स्ता अ॑वधिषुः । क॒थमप॑रा-स्सृजे॒येति॑ । तस्य॒ शुष्म॑ आ॒ण्ड-म्भू॒त-न्निर॑वर्तत । तद्व्युद॑हरत् । तद॑पोषयत् । त-त्प्राजा॑यत । आ॒ण्डस्य॒ वा ए॒त-द्रू॒पम् । यदा॒मिक्षा᳚ । यद्व्यु॒द्धर॑ति ॥ 15 ॥

प्र॒जा ए॒व त-द्यज॑मानः पोषयति । वै॒श्व॒दे॒व्या॑मिक्षा॑ भवति । वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । प्र॒जा ए॒वास्मै॒ प्रज॑नयति । वाजि॑न॒मान॑यति । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति । द्या॒वा॒पृ॒थि॒व्य॑ एक॑कपालो भवति । प्र॒जा ए॒व प्रजा॑ता॒ द्यावा॑पृथि॒वीभ्या॑-मुभ॒यतः॒ परि॑ गृह्णाति । दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आसन्न् । सा᳚-ऽग्निर॑ब्रवीत् ॥ 16 ॥

मामग्रे॑ यजत । मया॒ मुखे॒नासु॑रा-ञ्जेष्य॒थेति॑ । मा-न्द्वि॒तीय॒मिति॒ सोमो᳚-ऽब्रवीत् । मया॒ राज्ञा॑ जेष्य॒थेति॑ । मा-न्तृ॒तीय॒मिति॑ सवि॒ता । मया॒ प्रसू॑ता जेष्य॒थेति॑ । मा-ञ्च॑तु॒र्थीमिति॒ सर॑स्वती । इ॒न्द्रि॒यं-वोँ॒-ऽह-न्धा᳚स्या॒मीति॑ । मा-म्प॑ञ्च॒ममिति॑ पू॒षा । मया᳚ प्रति॒ष्ठया॑ जेष्य॒थेति॑ ॥ 17 ॥

ते᳚-ऽग्निना॒ मुखे॒नासु॑रानजयन्न् । सोमे॑न॒ राज्ञा᳚ । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒य-म॑दधात् । पू॒षा प्र॑ति॒ष्ठा ऽऽसी᳚त् । ततो॒ वै दे॒वा व्य॑जयन्त । यदे॒तानि॑ ह॒वीग्ंषि॑ निरु॒प्यन्ते॒ विजि॑त्यै । नोत्त॑रवे॒दिमुप॑- वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । अजा॑ता इव॒ ह्ये॑तर्​हि॑ प॒शवः॑ ॥ 18 ॥
(ऐ॒-द्- इत्य॑ - शोच-द्- व्यु॒द्धर॑ - त्यब्रवीत् - प्रति॒ष्ठया॑ जेष्य॒थे ॒ त्ये॒तरःइ॑ प॒शवः॑) (अ. 2)

अनुवाकं 3 - वैश्वदेवपर्गतानि विश्वेषाङ्गानि
त्रि॒वृ-द्ब॒र्॒हि-र्भ॑वति । मा॒ता पि॒ता पु॒त्रः । तदे॒व त-न्मि॑थु॒नम् । उल्ब॒-ङ्गर्भो॑ ज॒रायु॑ । तदे॒व त-न्मि॑थु॒नम् । त्रे॒धा ब॒र्॒हि-स्सन्न॑द्ध-म्भवति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति । ए॒क॒धा पुन॒-स्सन्न॑द्ध-म्भवति । एक॑ इव॒ ह्य॑यं-लोँ॒कः ॥ 19 ॥

अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठति । प्र॒सुवो॑ भवन्ति । प्र॒थ॒म॒जामे॒व पुष्टि॒मव॑ रुन्धे । प्र॒थ॒म॒जो व॒थ्सो दक्षि॑णा॒ समृ॑द्ध्यै । पृ॒ष॒दा॒ज्य-ङ्गृ॑ह्णाति । प॒शवो॒ वै पृ॑षदा॒ज्यम् । प॒शूने॒वाव॑ रुन्धे । प॒ञ्च॒गृ॒ही॒त-म्भ॑वति । पाङ्क्ता॒ हि प॒शवः॑ । ब॒हु॒रू॒प-म्भ॑वति ॥ 20 ॥

ब॒हु॒रू॒पा हि प॒शव॒-स्समृ॑द्ध्यै । अ॒ग्नि-म्म॑न्थन्ति । अ॒ग्निमु॑खा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । यद॒ग्नि-म्मन्थ॑न्ति । अ॒ग्निमु॑खा ए॒व त-त्प्र॒जा यज॑मान-स्सृजते । नव॑ प्रया॒जा इ॑ज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ ह॒वीग्ंषि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ ॥ 21 ॥

त्रि॒ग्ं॒श-थ्सम्प॑द्यन्ते । त्रि॒ग्ं॒शद॑क्षरा वि॒राट् । अन्नं॑-विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे । यज॑मानो॒ वा एक॑कपालः । तेज॒ आज्य᳚म् । यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । प॒शव॒ आज्य᳚म् ॥ 22 ॥

यदेक॑कपाल॒ आज्य॑मा॒नय॑ति । यज॑मानमे॒व प॒शुभि॒-स्सम॑र्धयति । यदल्प॑मा॒नये᳚त् । अल्पा॑ एन-म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेरन्न् । य-द्ब॒ह्वा॑नये᳚त् । ब॒हव॑ एन-म्प॒शवो भु॑ञ्जन्त॒ उप॑तिष्ठेरन्न् । ब॒ह्वा॑नीया॒विः पृ॑ष्ठ-ङ्कुर्यात् । ब॒हव॑ ए॒वैन॑-म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते । यज॑मानो॒ वा एक॑कपालः । यदेक॑कपालस्याव॒द्येत् ॥ 23 ॥

यज॑मान॒स्याव॑द्येत् । उद्वा॒ माद्ये॒-द्यज॑मानः । प्र वा॑ मीयेत । स॒कृदे॒व हो॑त॒व्यः॑ । स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः । हु॒त्वा-ऽभि जु॑होति । यज॑मानमे॒व सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयि॒त्वा । तेज॑सा॒ सम॑र्धयति । यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो लो॒क आ॑हव॒नीयः॑ ॥ 24 ॥

यदेक॑कपाल-माहव॒नीये॑ जु॒होति॑ । यज॑मानमे॒व सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयति । यद्धस्ते॑न जुहु॒यात् । सु॒व॒र्गा-ल्लो॒का-द्यज॑मान॒-मव॑विद्ध्येत् । स्रु॒चा जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । य-त्प्राम्पद्ये॑त । दे॒व॒लो॒कम॒भि ज॑येत् । य-द्द॑क्षि॒णा पि॑तृलो॒कम् । य-त्प्र॒त्यक् ॥ 25 ॥

रक्षाग्ं॑सि य॒ज्ञग्ं ह॑न्युः । यदुदङ्ङ्॑ । म॒नु॒ष्य॒लो॒क-म॒भिज॑येत् । प्रति॑ष्ठितो होत॒व्यः॑ । एक॑कपालं॒-वैँ प्र॑ति॒तिष्ठ॑न्त॒-न्द्यावा॑पृथि॒वी अनु॒ प्रति॑तिष्ठतः । द्यावा॑पृथि॒वी ऋ॒तवः॑ । ऋ॒तून्. य॒ज्ञः । य॒ज्ञं-यँज॑मानः । यज॑मान-म्प्र॒जाः । तस्मा॒त्-प्रति॑ष्ठितो होत॒व्यः॑ ॥ 26 ॥

वा॒जिनो॑ यजति । अ॒ग्निर्वा॒यु-स्सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व त-द्य॑जति । अथो॒ खल्वा॑हुः । छन्दाग्ं॑सि॒ वै वा॒जिन॒ इति॑ । तान्ये॒व त-द्य॑जति । ऋ॒ख्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ᳚ । तयोः᳚ परि॒धय॑ आ॒धान᳚म् । वाजि॑न-म्भाग॒धेय᳚म् ॥ 27 ॥

यदप्र॑हृत्य परि॒धीञ्जु॑हु॒यात् । अ॒न्तरा॑धानाभ्या-ङ्घा॒स-म्प्रय॑च्छेत् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व घा॒स-म्प्रय॑च्छति । ब॒र्॒हिषि॑ विषि॒ञ्चन्वाजि॑न॒-मान॑यति । प्र॒जा वै ब॒र॒ःइः । रेतो॒ वाजि॑नम् । प्र॒जास्वे॒व रेतो॑ दधाति । स॒मु॒प॒हूय॑ भक्षयन्ति । ए॒त-थ्सो॑मपीथा॒ ह्ये॑ते । अथो॑ आ॒त्मन्ने॒व रेतो॑ दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वाजि॑नम् । यज॑मान ए॒व प॒शू-न्प्रति॑ष्ठापयन्ति ॥ 28 ॥
(लो॒को - ब॑हुरू॒प-म्भ॑व॒ - त्याज्य॑भागौ - प॒शव॒ आज्य॑ - मव॒द्ये - दा॑हव॒नीयः॑ - प्र॒त्यक् - तस्मा॒-त्प्रति॑ष्ठितो होत॒व्यो॑ - भाग॒धेय॑ - मे॒ते च॒त्वारि॑ च) (अ. 3)

अनुवाकं 4 - वरुणप्रघासाः
प्र॒जाप॑ति-स्सवि॒ता भू॒त्वा प्र॒जा अ॑सृजत । ता ए॑न॒मत्य॑मन्यन्त । ता अ॑स्मा॒दपा᳚क्रामन्न् । ता वरु॑णो भू॒त्वा प्र॒जा वरु॑णेनाग्राहयत् । ताः प्र॒जा वरु॑णगृहीताः । प्र॒जाप॑ति॒-म्पुन॒रुपा॑धावन्ना॒थ-मि॒च्छमा॑नाः । स ए॒तान्-प्र॒जाप॑ति-र्वरुण प्रघा॒सान॑पश्यत् । तान्निर॑वपत् । तैर्वै स प्र॒जा व॑रुण-पा॒शाद॑मुञ्चत् । य-द्व॑रुण-प्रघा॒सा नि॑रु॒प्यन्ते᳚ ॥ 29 ॥

प्र॒जाना॒मव॑रुणग्राहाय । तासा॒-न्दक्षि॑णो बा॒हु-र्न्य॑क्न॒ आसी᳚त् । स॒व्यः प्रसृ॑तः । स ए॒ता-न्द्वि॒तीया᳚-न्दक्षिण॒तो वेदि॒मुद॑हन्न् । ततो॒ वै स प्र॒जाना॒-न्दक्षि॑ण-म्बा॒हु-म्प्रासा॑रयत् । य-द्द्वि॒तीया᳚-न्दक्षिण॒तो वेदि॑मु॒द्धन्ति॑ । प्र॒जाना॑मे॒व त-द्यज॑मानो॒ दक्षि॑ण-म्बा॒हु-म्प्रसा॑रयति । तस्मा᳚च्चातुर्मास्यया॒ज्य॑मुष्मि॑न् ँलो॒क उ॑भ॒याबा॑हुः । य॒ज्ञाभि॑जित॒ग्ग्॒ ह्य॑स्य । पृ॒थ॒मा॒त्रा-द्वेदी॒ अस॑भिन्न्ने भवतः ॥ 30 ॥

तस्मा᳚त्-पृथमा॒त्रं-व्यँग्ंसौ᳚ । उत्त॑रस्यां॒-वेँद्या॑मुत्तरवे॒दिमुप॑ वपति । प॒शवो॒ वा उ॑त्तरवे॒दिः । प॒शूने॒वाव॑ रुन्धे । अथो॑ यज्ञप॒रुषो-ऽन॑न्तरित्यै । ए॒त-द्ब्रा᳚ह्मणान्ये॒व पञ्च॑ ह॒वीग्ंषि॑ । अथै॒ष ऐ᳚न्द्रा॒ग्नो भ॑वति । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना᳚म् । यदि॑न्द्रा॒ग्नी । यदै᳚न्द्रा॒ग्नो भव॑ति ॥ 31 ॥

प्रा॒णा॒पा॒नावे॒वाव॑ रुन्धे । ओजो॒ बलं॒-वाँ ए॒तौ दे॒वाना᳚म् । यदि॑न्द्रा॒ग्नी । यदै᳚न्द्रा॒ग्नो भव॑ति । ओजो॒ बल॑मे॒वाव॑ रुन्धे । मा॒रु॒त्या॑मिक्षा॑ भवति । वा॒रु॒ण्या॑मिक्षा᳚ । मे॒षी च॑ मे॒षश्च॑ भवतः । मि॒थु॒ना ए॒व प्र॒जा व॑रुणपा॒शा-न्मु॑ञ्चति । लो॒म॒शौ भ॑वतो मेद्ध्य॒त्वाय॑ ॥ 32 ॥

श॒मी॒प॒र्णान्युप॑ वपति । घा॒समे॒वाभ्या॒मपि॑ यच्छति । प्र॒जाप॑तिम॒न्नाद्य॒-न्नोपा॑नमत् । स ए॒तेन॑ श॒तेद्ध्मे॑न ह॒विषा॒ ऽन्नाद्य॒म-वा॑रुन्ध । य-त्प॑र-श्श॒तानि॑ शमीप॒र्णानि॒ भव॑न्ति । अ॒न्नाद्य॒स्याव॑-रुद्ध्यै । सौ॒म्यानि॒ वै क॒रीरा॑णि । सौ॒म्या खलु॒ वा आहु॑ति-र्दि॒वो वृष्टि॑-ञ्च्यावयति । यत्-क॒रीरा॑णि॒ भव॑न्ति । सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्धे । का॒य एक॑कपालो भवति । प्र॒जाना᳚-ङ्क॒त्वां​यँ॑ । प्र॒ति॒पू॒रु॒ष-ङ्क॑रम्भ पा॒त्राणि॑ भवन्ति । जा॒ता ए॒व प्र॒जा व॑रुणपा॒शा-न्मु॑ञ्चति । एक॒-मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा व॑रुणपा॒शा-न्मु॑ञ्चति ॥ 33 ॥
(नि॒रु॒प्यन्ते॑- भवतो॒ - भव॑ति - मेद्ध्य॒त्वाय॑ - रुन्धे॒ षट्च॑) (अ. 4)

अनुवाकं 5 - तच्छेषः
उत्त॑रस्यां॒-वेँद्या॑म॒न्यानि॑ ह॒वीग्ंषि॑ सादयति । दक्षि॑णाया-म्मारु॒तीम् । अ॒प॒धु॒रमे॒वैना॑ युनक्ति । अथो॒ ओज॑ ए॒वासा॒मव॑हरति । तस्मा॒-द्ब्रह्म॑णश्च क्ष॒त्राच्च॒ विशो᳚-ऽन्यतो-ऽपक्र॒मिणीः᳚ । मा॒रु॒त्या पूर्व॑या॒ प्रच॑रति । अनृ॑तमे॒वाव॑ यजते । वा॒रु॒ण्योत्त॑रया । अ॒न्त॒त ए॒व वरु॑ण॒मव॑-यजते । यदे॒वाद्ध्व॒र्युः क॒रोति॑ ॥ 34 ॥

त-त्प्र॑तिप्रस्था॒ता क॑रोति । तस्मा॒-द्यच्छ्रेया᳚न्-क॒रोति॑ । त-त्पापी॑यान्-करोति । पत्नीं᳚ ँवाचयति । मेद्ध्या॑मे॒वैना᳚-ङ्करोति । अथो॒ तप॑ ए॒वैना॒मुप॑ नयति । यज्जा॒रग्ं सन्त॒-न्न प्र॑ब्रू॒यात् । प्रि॒य-ञ्ज्ञा॒तिग्ं रु॑न्ध्यात् । अ॒सौ मे॑ जा॒र इति॒ निर्दि॑शेत् । नि॒र्दिश्यै॒वैनं॑-वँरुणपा॒शेन॑ ग्राहयति ॥ 35 ॥

प्र॒घा॒स्यान्॑. हवामह॒ इति॒ पत्नी॑-मु॒दान॑यति । अह्व॑तै॒वैना᳚म् । यत्-पत्नी॑ पुरोनुवा॒क्या॑मनु ब्रू॒यात् । निर्वी᳚र्यो॒ यज॑मान-स्स्यात् । यज॑मा॒नो ऽन्वा॑ह । आ॒त्मन्ने॒व वी॒र्य॑-न्धत्ते । उ॒भौ या॒ज्याग्ं॑ सवीर्य॒त्वाय॑ । यद्ग्रामे॒ यदर॑ण्य॒ इत्या॑ह । य॒थो॒दि॒तमे॒व वरु॑ण॒मव॑ यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा आ॑हव॒नीयः॑ ॥ 36 ॥

भ्रा॒तृ॒व्य॒ दे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑ जुहु॒यात् । यज॑मानं-वँरुणपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ ऽग्नौ जु॑होति । भ्रातृ॑व्यमे॒व व॑रुणपा॒शेन॑ ग्राहयति । शूर्पे॑ण जुहोति । अन्य॑मे॒व वरु॑ण॒मव॑यजते । शी॒र्॒षन्न॑धि नि॒धाय॑ जुहोति । शी॒र्॒ष॒त ए॒व वरु॑ण॒मव॑ यजते । प्र॒त्यन्तिष्ठ॑ञ्जुहोति ॥ 37 ॥

प्र॒त्यङ्ङे॒व वरु॑णपा॒शा-न्निर्मु॑च्यते । अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒ण-न्नि॑रव॒दाय॑ । अ॒नृ॒णा गृ॒हानुप॒-प्रेतेति॒ वावैतदा॑ह । वरु॑ण गृहीतं॒-वाँ ए॒त-द्य॒ज्ञस्य॑ । य-द्यजु॑षा गृही॒तस्या॑ति॒रिच्य॑ते । तुषा᳚श्च निष्का॒सश्च॑ । तुषै᳚श्च निष्का॒सेन॑ चावभृ॒थमवै॑ति । वरु॑ण-गृहीतेनै॒व वरु॑ण॒मव॑यजते । अ॒पो॑-ऽवभृ॒थमवै॑ति ॥ 38 ॥

अ॒फ्सु वै वरु॑णः । सा॒क्षादे॒व वरु॑ण॒मव॑ यजते । प्रति॑युतो॒ वरु॑णस्य॒ पाश॒ इत्या॑ह । व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्ष॒-माय॑न्ति । वरु॑णस्या॒न्तर्​हि॑त्यै । एधो᳚-ऽस्येधिषी॒महीत्या॑ह । स॒मिधै॒वाग्नि-न्न॑म॒स्यन्त॑ उ॒पाय॑न्ति । तेजो॑-ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह । तेज॑ ए॒वात्मन्ध॑त्ते ॥ 39 ॥
(क॒रोति॑ - ग्राहय - त्याहव॒नीय॒ - स्तिष्ठ॑ञ्जुहो - त्य॒पो॑-ऽवभृ॒थमवै॑ति - धत्ते) (अ. 5)

अनुवाकं 6 - साकमेधाः
दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आसन्न् । सो᳚-ऽग्निर॑ब्रवीत् । ममे॒य-मनी॑कवती त॒नूः । ता-म्प्री॑णीत । अथासु॑रान॒भि भ॑विष्य॒थेति॑ । ते दे॒वा अ॒ग्नये-ऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पाल॒-न्निर॑वपन्न् । सो᳚-ऽग्निरनी॑कवा॒न्-थ्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धा ऽनी॑का-न्यजनयत । ततो॑ दे॒वा अभ॑वन्न् । परा ऽसु॑राः ॥ 40 ॥

यद॒ग्नये-ऽनी॑कवते पुरो॒डाश॑म॒ष्टाक॑पाल-न्नि॒र्वप॑ति । अ॒ग्निमे॒वानी॑कवन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॑न प्रीणाति । सो᳚-ऽग्निरनी॑कवा॒न्-थ्स्वेन॑ भाग॒धेये॑न प्री॒तः । च॒तु॒र्धा ऽनी॑कानि जनयते । अ॒सौ वा आ॑दि॒त्यो᳚-ऽग्नि-रनी॑कवान् । तस्य॑ र॒श्मयो-ऽनी॑कानि । सा॒कग्ं सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति । ते-ऽसु॑राः॒ परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी उपा᳚श्रयन्न् ॥ 41 ॥

ते दे॒वा म॒रुद्भ्यः॑ सान्तप॒नेभ्य॑श्च॒रु-न्निर॑वपन्न् । ता-न्द्यावा॑पृथि॒वीभ्या॑-मे॒वोभ॒यत॒-स्सम॑तपन्न् । यन्म॒रुद्भ्यः॑ सान्तप॒नेभ्य॑श्च॒रु-न्नि॒र्वप॑ति । द्यावा॑पृथि॒वीभ्या॑मे॒व तदु॑भ॒यतो॒ यज॑मानो॒ भ्रातृ॑व्या॒न्-थ्सन्त॑पति । म॒द्ध्यन्दि॑ने॒ निर्व॑पति । तर्​हि॒ हि ते-ऽक्ष्णि॑ष्ठ॒-न्तप॑ति । च॒रुर्भ॑वति । स॒र्वत॑ ए॒वैना॒न्-थ्सन्त॑पति । ते दे॒वा-श्श्वो॑ विज॒यिन॒-स्सन्तः॑ । सर्वा॑सा-न्दु॒ग्धे गृ॑हमे॒धीय॑-ञ्च॒रु-न्निर॑वपन्न् ॥ 42 ॥

आशि॑ता ए॒वाद्योप॑वसाम । कस्य॒ वा-ऽहे॒दम् । कस्य॑ वा॒ श्वो भ॑वि॒तेति॑ । स शृ॒तो॑-ऽभवत् । तस्याहु॑तस्य॒ नाश्ञन्न्॑ । न हि दे॒वा अहु॑तस्या॒श्ञन्ति॑ । ते᳚-ऽब्रुवन्न् । कस्मा॑ इ॒मग्ं हो᳚ष्याम॒ इति॑ । म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒ इत्य॑ब्रुवन्न् । त-म्म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑-ऽजुहवुः ॥ 43 ॥

ततो॑ दे॒वा अभ॑वन्न् । परा-ऽसु॑राः । यस्यै॒वं-विँ॒दुषो॑ म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना᳚ । परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति । यद्वै य॒ज्ञस्य॑ पाक॒त्रा क्रि॒यते᳚ । प॒श॒व्य॑-न्तत् । पा॒क॒त्रा वा ए॒तत्क्रि॑यते । यन्नेद्ध्माब॒र्॒हि-र्भव॑ति । न सा॑मिधे॒नी-र॒न्वाह॑ ॥ 44 ॥

न प्र॑या॒जा इ॒ज्यन्ते᳚ । नानू॑या॒जाः । य ए॒वं-वेँद॑ । प॒शु॒मा-न्भ॑वति । आज्य॑भागौ यजति । य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । म॒रुतो॑ गृहमे॒धिनो॑ यजति । भा॒ग॒धेये॑-नै॒वैना॒न्-थ्सम॑र्धयति । अ॒ग्निग्ग्​ स्वि॑ष्ट॒कृतं॑-यँजति॒ प्रति॑ष्ठित्यै । इडा᳚न्तो भवति । प॒शवो॒ वा इडा᳚ । प॒शुष्वे॒वोपरि॑ष्टा॒-त्प्रति॑ तिष्ठति ॥ 45 ॥
(असु॑रा - अश्रयन् - गृहमे॒धीयं॑ च॒रु-न्निर॑वपन् - नजुहवु - र॒न्वा - हेडा᳚न्तो भवति॒ द्वे च॑) (अ. 6)

अनुवाकं 7 - तच्छेषः
यत्पत्नी॑ गृहमे॒धीय॑-स्याश्ञी॒यात् । गृ॒ह॒मे॒द्ध्ये॑व स्या᳚त् । वि त्व॑स्य य॒ज्ञ ऋ॑ध्येत । यन्नाश्ञी॒यात् । अगृ॑हमेधी स्यात् । नास्य॑ य॒ज्ञो व्यृ॑द्ध्येत । प्रति॑वेश-म्पचेयुः । तस्या᳚श्ञीयात् । गृ॒ह॒मे॒द्ध्ये॑व भ॑वति । नास्य॑ य॒ज्ञो व्यृ॑द्ध्यते ॥ 46 ॥

ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन्न् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑ व॒थ्सा-न॑वासयन्न् । तेभ्यो-ऽसु॑राः॒, क्षुध॒-म्प्राहि॑ण्वन्न् । सा दे॒वेषु॑ लो॒कमवि॑त्त्वा । असु॑रा॒न्-पुन॑रगच्छत् । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒-ऽभ्य॑ञ्जते ॥ 47 ॥

अनु॑ व॒थ्सान्. वा॑सयन्ति । भ्रातृ॑व्यायै॒व त-द्यज॑मानः॒, क्षुध॒-म्प्रहि॑णोति । ते दे॒वा गृ॑हमे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒स-न्न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॒ निहि॑तभाग उपावर्ति॒तेति॑ । तानिन्द्रो॒ निहि॑तभाग उ॒पाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒स-न्निद॑द्ध्यात् । इन्द्र॑ ए॒वैन॒-न्निहि॑तभाग उ॒पाव॑र्तते । गार्​ह॑पत्ये जुहोति ॥ 48 ॥

भा॒ग॒धेये॑ने॒वैन॒ग्ं॒ सम॑र्धयति । ऋ॒ष॒भमाह्व॑यति । व॒ष॒ट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व त-द्वी॒र्यं॑-यँज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते । इन्द्रो॑ वृ॒त्रग्ं ह॒त्वा । परा᳚-म्परा॒वत॑-मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः । सो᳚-ऽब्रवीत् । क इ॒दं-वेँ॑दिष्य॒तीति॑ । ते᳚-ऽब्रुव-न्म॒रुतो॒ वरं॑-वृँणामहै ॥ 49 ॥

अथ॑ व॒यं-वेँ॑दाम । अ॒स्मभ्य॑मे॒व प्र॑थ॒मग्ं ह॒विर्निरु॑प्याता॒ इति॑ । त ए॑न॒मद्ध्य॑-क्रीडन्न् । तत्क्री॒डिना᳚-ङ्क्रीडि॒त्वम् । य-न्म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ प्रथ॒मग्ं ह॒विर्नि॑रु॒प्यते॒ विजि॑त्यै । सा॒कग्ं सूर्ये॑णोद्य॒ता निर्व॑पति । ए॒तस्मि॒न् वै लो॒क इन्द्रो॑ वृ॒त्रम॑ह॒न्-थ्समृ॑द्ध्यै । ए॒त-द्ब्रा᳚ह्मणान्ये॒व पञ्च॑ ह॒वीग्ंषि॑ । ए॒त-द्ब्रा᳚ह्मण ऐन्द्रा॒ग्नः । अथै॒ष ऐ॒न्द्रश्च॒रु-र्भ॑वति ॥ 50 ॥

उ॒द्धा॒रं-वाँ ए॒तमिन्द्र॒ उद॑हरत । वृ॒त्रग्ं ह॒त्वा । अ॒न्यासु॑ दे॒वता॒स्वधि॑ । यदे॒ष ऐ॒न्द्र-श्च॒रु-र्भव॑ति । उ॒द्धा॒रमे॒व तं-यँज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण एक॑कपालो भवति । विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मा॒नो ऽव॑रुन्धे ॥ 51 ॥
(ऋ॒द्ध्य॒ते॒-ऽ-भ्य॑ञ्जते-जुहोति-वृणामहै-भवत्य॒- +ष्टौ च॑) (अ. 7)

अनुवाकं 8 - पितृयज्ञः
वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता व॑रुण-प्रघा॒सै-र्व॑रुणपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धैः प्रत्य॑स्थापयत् । त्र्य॑म्बकै रु॒द्र-न्नि॒रवा॑दयत । पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गं-लोँ॒कम॑गमयत् । य-द्वै᳚श्वदे॒वेन॒ यज॑ते । प्र॒जा ए॒व त-द्यज॑मान-स्सृजते । ता व॑रुण-प्रघा॒सै-र्व॑रुणपा॒शा-न्मु॑ञ्चति । सा॒क॒मे॒धैः प्रति॑ष्ठापयति । त्र्य॑म्बकैरु॒द्र-न्नि॒रव॑दयते ॥ 52 ॥

पि॒तृ॒य॒ज्ञेन॑ सुव॒र्गं-लोँ॒क-ङ्ग॑मयति । द॒क्षि॒ण॒तः प्रा॑चीनावी॒ती निर्व॑पति । द॒क्षि॒णावृ॒द्धि पि॑तृ॒णाम् । अना॑दृत्य॒ तत् । उ॒त्त॒र॒त ए॒वोप॒वीय॒ निर्व॑पेत् । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते᳚ । अथो॒ यदे॒व द॑क्षिणा॒र्धे॑-ऽधि॒ श्रय॑ति । तेन॑ दक्षि॒णावृ॑त् । सोमा॑य पितृ॒मते॑ पुरो॒डाश॒ग्ं॒ षट्क॑पाल॒-न्निर्व॑पति । सं॒​वँ॒थ्स॒रो वै सोमः॑ पितृ॒मान् ॥ 53 ॥

सं॒​वँ॒थ्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ बर्​हि॒षद्भ्यो॑ धा॒नाः । मासा॒ वै पि॒तरो॑ बर्​हि॒षदः॑ । मासा॑ने॒व प्री॑णाति । यस्मि॒न् वा ऋ॒तौ पुरु॑षः प्र॒मीय॑ते । सो᳚-ऽस्या॒मुष्मि॑न् ँलो॒के भ॑वति । ब॒हु॒रू॒पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑-म॒भिजि॑त्यै । पि॒तृभ्यो᳚ ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अ॒र्ध॒मा॒सा वै पि॒तरो᳚-ऽग्निष्वा॒त्ताः ॥ 54 ॥

अ॒र्ध॒मा॒साने॒व प्री॑णाति । अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदेव॒त्य॑-न्दु॒हे । य-त्पू॒र्णम् । त-न्म॑नु॒ष्या॑णाम् । उ॒प॒र्य॒र्धो दे॒वाना᳚म् । अ॒र्धः पि॑तृ॒णाम् । अ॒र्ध उप॑मन्थति । अ॒र्धो हि पि॑तृ॒णाम् । एक॒योप॑मन्थति ॥ 55 ॥

एका॒ हि पि॑तृ॒णाम् । द॒क्षि॒णोप॑मन्थति । द॒क्षि॒णा वृ॒द्धि पि॑तृ॒णाम् । अना॑र॒भ्योप॑मन्थति । तद्धि पि॒तॄन्-गच्छ॑ति । इ॒मा-न्दिशं॒-वेँदि॒मुद्ध॑न्ति । उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते᳚ । चतुः॑ स्रक्तिर्भवति । सर्वा॒ ह्यनु॒ दिशः॑ पि॒तरः॑ । अखा॑ता भवति ॥ 56 ॥

खा॒ता हि दे॒वाना᳚म् । म॒द्ध्य॒तो᳚ ऽग्निराधी॑यते । अ॒न्त॒तो हि दे॒वाना॑-माधी॒यते᳚ । वर्​षी॑यानि॒द्ध्म इ॒द्ध्मा-द्भ॑वति॒ व्यावृ॑त्त्यै । परि॑ श्रयति । अ॒न्तर्​हि॑तो॒ हि पि॑तृलो॒को म॑नुष्यलो॒कात् । यत्-परु॑षि दि॒नम् । त-द्दे॒वाना᳚म् । यद॑न्त॒रा । त-न्म॑नु॒ष्या॑णाम् ॥ 57 ॥

य-थ्समू॑लम् । त-त्पि॑तृ॒णाम् । समू॑ल-म्ब॒र्॒हि-र्भ॑वति॒ व्यावृ॑त्त्यै । द॒क्षि॒णा स्तृ॑णाति । द॒क्षि॒णा वृ॒द्धि पि॑तृ॒णाम् । त्रिः पर्ये॑ति । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । ताने॒व प्री॑णाति । त्रिः पुनः॒ पर्ये॑ति । षट्थ्सम्प॑द्यन्ते ॥ 58 ॥

षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । य-त्प्र॑स्त॒रं-यँजु॑षा गृह्णी॒यात् । प्र॒मायु॑को॒ यज॑मान-स्स्यात् । यन्न गृ॑ह्णी॒यात् । अ॒ना॒य॒त॒न-स्स्या᳚त् । तू॒ष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को॒ भव॑ति । नाना॑यत॒नः । यत्-त्रीन्-प॑रि॒धी-न्प॑रिद॒द्ध्यात् ॥ 59 ॥

मृ॒त्युना॒ यज॑मान॒-म्परि॑ गृह्णीयात् । यन्न प॑रि-द॒द्ध्यात् । रक्षाग्ं॑सि य॒ज्ञग्ं ह॑न्युः । द्वौ प॑रि॒धी परि॑दधाति । रक्ष॑सा॒-मप॑हत्यै । अथो॑ मृ॒त्योरे॒व यज॑मान॒-मुथ्सृ॑जति । य-त्त्रीणि॑ त्रीणि ह॒वीग्​ष्यु॑दा॒हरे॑युः । त्रय॑स्त्रय एषाग्ं सा॒क-म्प्रमी॑येरन्न् । एकै॑क-मनू॒चीना᳚-न्यु॒दाह॑रन्ति । एकै॑क ए॒वैषा॑म॒न्वञ्चः॒ प्रमी॑यते । क॒शिपु॑ कशिप॒व्या॑य । उ॒प॒बर्​ह॑ण-मुपबर्​ह॒ण्या॑य । आञ्ज॑न-माञ्ज॒न्या॑य । अ॒भ्यञ्ज॑न-मभ्यञ्ज॒न्या॑य । य॒था॒भा॒गमे॒वैना᳚-न्प्रीणाति ॥ 60 ॥

(नि॒रव॑दयते - पितृ॒मा - न॑ग्निष्वा॒त्ता - एक॒योप॑ मन्थ॒ - त्यखा॑ता भवति-मनु॒ष्या॑णां - पद्यन्ते - परिद॒द्ध्यान् - मी॑यते॒ पञ्च॑ च) (अ. 8)

अनुवाकं 9 - तच्छेषः
अ॒ग्नये॑ दे॒वेभ्यः॑ पि॒तृभ्यः॑ समि॒द्ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह ।
उ॒भये॒ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते᳚ । एका॒मन्वा॑ह । एका॒ हि पि॑तृ॒णाम् । त्रिरन्वा॑ह । त्रिर्​हि दे॒वाना᳚म् । आ॒घा॒रावाघा॑रयति । य॒ज्ञ॒ प॒रुषो॒रन॑न्तरित्यै । नार्​षे॒यं-वृँ॑णीते । न होता॑रम् ॥ 61 ॥

यदा॑र्​षे॒यं-वृँ॑णी॒त । यद्धोता॑रम् । प्र॒मायु॑को॒ यज॑मान-स्स्यात् । प्र॒मायु॑को॒ होता᳚ । तस्मा॒न्न वृ॑णीते । यज॑मानस्य॒ होतु॑-र्गोपी॒थाय॑ । अप॑बर्​हिषः प्रया॒जान्.-य॑जति । प्र॒जा वै ब॒र्॒हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । आज्य॑भागौ यजति ॥ 62 ॥

य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्तरे॑ति । प्रा॒ची॒ना॒वी॒ती सोमं॑-यँजति । पि॒तृ॒दे॒व॒त्या॑ हि । ए॒षा ऽऽहु॑तिः । पञ्च॒ कृत्वो-ऽव॑द्यति । पञ्च॒ ह्ये॑ता दे॒वताः᳚ । द्वे पु॑रो-ऽनुवा॒क्ये᳚ । या॒ज्या॑ दे॒वता॑ वषट्का॒रः । ता ए॒व प्री॑णाति । सन्त॑त॒मव॑ द्यति ॥ 63 ॥

ऋ॒तू॒नाग्ं सन्त॑त्यै । प्रैवैभ्यः॒ पूर्व॑या पुरो-ऽनुवा॒क्य॑या ऽऽह । प्रण॑यति द्वि॒तीय॑या । ग॒मय॑ति या॒ज्य॑या । तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ । अह्न॑ ए॒वैना॒-न्पूर्व॑या पुरो-ऽनुवा॒क्य॑या॒ ऽत्यान॑यति । रात्रि॑यै द्वि॒तीय॑या । ऐवैनान्॑. या॒ज्य॑या गमयति । द॒क्षि॒ण॒तो॑-ऽव॒दाय॑ । उद॒ङ्ङति॑ क्रामति॒ व्यावृ॑त्त्यै ॥ 64 ॥

आ स्व॒धेत्या-श्रा॑वयति । अस्तु॑ स्व॒धेति॑ प्र॒त्याश्रा॑वयति । स्व॒धा नम॒ इति॒ वष॑ट्करोति । स्व॒धा॒का॒रो हि पि॑तृ॒णाम् । सोम॒मग्रे॑ यजति । सोम॑ प्रयाजा॒ हि पि॒तरः॑ । सोम॑-म्पितृ॒मन्तं॑-यँजति । सं॒​वँ॒थ्स॒रो वै सोमः॑ पितृ॒मान् । सं॒​वँ॒थ्स॒रमे॒व त-द्य॑जति । पि॒तॄन्-ब॑र्​हि॒षदो॑ यजति ॥ 65 ॥

ये वै यज्वा॑नः । ते पि॒तरो॑ बर्​हि॒षदः॑ । ताने॒व त-द्य॑जति । पि॒तॄन॑ग्निष्वा॒त्तान्. य॑जति । ये वा अय॑ज्वानो गृहमे॒धिनः॑ । ते पि॒तरो᳚-ऽग्निष्वा॒त्ताः । ताने॒व त-द्य॑जति । अ॒ग्नि-ङ्क॑व्य॒वाह॑नं-यँजति । य ए॒व पि॑तृ॒णाम॒ग्निः । तमे॒व त-द्य॑जति ॥ 66 ॥

अथो॒ यथा॒-ऽग्निग्ग्​ स्वि॑ष्ट॒कृतं॒-यँज॑ति । ता॒दृगे॒व तत् । ए॒तत्ते॑ तत॒ ये च॒ त्वामन्विति॑ ति॒सृषु॑ स्र॒क्तीषु॒ निद॑धाति । तस्मा॒दा तृ॒तीया॒-त्पुरु॑षा॒न्नाम॒ न गृ॑ह्णन्ति । ए॒ताव॑न्तो॒ हीज्यन्ते᳚ । अत्र॑ पितरो यथाभा॒ग-म्म॑न्दद्ध्व॒मित्या॑ह । ह्लीका॒ हि पि॒तरः॑ । उद॑ञ्चो॒ निष्क्रा॑मन्ति । ए॒षा वै म॑नु॒ष्या॑णा॒-न्दिक् । स्वामे॒व त-द्दिश॒मनु॒ निष्क्रा॑मन्ति ॥ 67 ॥

आ॒ह॒व॒नीय॒-मुप॑तिष्ठन्ते । न्ये॑वास्मै॒ तद्ध्नु॑वते । यथ्स॒त्या॑हव॒नीये᳚ । अथा॒न्यत्र॒ चर॑न्ति । आतमि॑तो॒रुप॑तिष्ठन्ते । अ॒ग्निमे॒वोप॑द्र॒ष्टार॑-ङ्कृ॒त्वा । पि॒तॄ-न्नि॒रव॑दयन्ते । अन्तं॒-वाँ ए॒ते प्रा॒णाना᳚-ङ्गच्छन्ति । य आतमि॑तोरुप॒तिष्ठ॑न्ते । सु॒स॒न्दृश॑-न्त्वा व॒यमित्या॑ह ॥ 68 ॥

प्रा॒णो वै सु॑स॒न्दृक् । प्रा॒णमे॒वात्मन्-द॑धते । योजा॒ न्वि॑न्द्र ते॒ हरी॒ इत्या॑ह । प्रा॒णमे॒व पुन॑रयुक्त । अक्ष॒न्नमी॑मदन्त॒ हीति॒ गार्​ह॑पत्य॒-मुप॑तिष्ठन्ते । अक्ष॒न्नमी॑मद॒न्ताथ॒ त्वोप॑तिष्ठामह॒ इति॒ वावैतदा॑ह । अमी॑मदन्त पि॒तरः॑ सो॒म्या इत्य॒भि प्रप॑द्यन्ते । अमी॑मदन्त पि॒तरो-ऽथ॑ त्वा॒-ऽभि प्रप॑द्यामह॒ इति॒ वावैतदा॑ह । अ॒पः परि॑षिञ्चति । मा॒र्जय॑त्ये॒वैनान्॑ ॥ 69 ॥

अथो॑ त॒र्पय॑त्ये॒व । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । य ए॒वं-वेँद॑ । अप॑ बर्​हिषावनूया॒जौ य॑जति । प्र॒जा वै ब॒र्॒हिः । प्र॒जा ए॒व मृ॒त्योरुथ्सृ॑जति । च॒तुरः॑ प्रया॒जान्. य॑जति । द्वाव॑नूया॒जौ । षट्थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ ॥ 70 ॥

ऋ॒तूने॒व प्री॑णाति । न पत्न्यन्वा᳚स्ते । न सं​याँ॑जयन्ति । यत्पत्न्य॒न्वासी॑त । यथ्सं॑​याँ॒जये॑युः । प्र॒मायु॑का स्यात् । तस्मा॒न्नान्वा᳚स्ते । न सं​याँ॑जयन्ति । पत्नि॑यै गोपी॒थाय॑ ॥ 71 ॥
(होता॑र॒ - माज्य॑भागौ यजति॒ - सन्त॑त॒मव॑द्यति॒ - व्यावृ॑त्त्यै - बर्​हि॒षदो॑ यजति॒ - तमे॒व त-द्य॑ज॒- त्यनु॒ निष्क्रा॑मन्त्या - है - नान् - ऋ॒तवो॒ - +नव॑ च) (अ. 9)

अनुवाकं 10 - त्र्यम्बकहवींषि
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒-न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्र-न्नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रये᳚त् । अ॒न्त॒र॒व॒चा॒रिणग्ं॑ रु॒द्र-ङ्कु॑र्यात् । ए॒को॒ल्मु॒केन॑ यन्ति ॥ 72 ॥

तद्धि रु॒द्रस्य॑ भाग॒धेय᳚म् । इ॒मा-न्दिशं॑-यँन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्र-न्नि॒रव॑दयते । रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्य-न्द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शु-न्निर्दि॑शति । यदि॒ न द्वि॒ष्यात् । आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् ॥ 73 ॥

न ग्रा॒म्या-न्प॒शून्. हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒ना-म्पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति । म॒द्ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रुग्घ्ये॑षा । अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्य᳚म् । अ॒न्त॒त ए॒व रु॒द्र-न्नि॒रव॑दयते ॥ 74 ॥

ए॒ष ते॑ रुद्र भा॒ग-स्स॒ह स्वस्रा-ऽम्बि॑क॒येत्या॑ह । श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा᳚ । तया॒ वा ए॒ष हि॑नस्ति । यग्ं हि॒नस्ति॑ । तयै॒वैनग्ं॑ स॒ह श॑मयति । भे॒ष॒ज-ङ्गव॒ इत्या॑ह । याव॑न्त ए॒व ग्रा॒म्याः प॒शवः॑ । तेभ्यो॑ भेष॒ज-ङ्क॑रोति । अवा᳚म्ब रु॒द्रम॑दिम॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ 75 ॥

त्र्य॑म्बकं-यँजामह॒ इत्या॑ह । मृ॒त्यो-र्मु॑क्षीय॒ मा ऽमृता॒दिति॒ वावैतदा॑ह । उत्कि॑रन्ति । भग॑स्य लीफ्सन्ते । मूते॑ कृ॒त्वा-ऽऽस॑जन्ति । यथा॒ जनं॑-यँ॒ते॑-ऽव॒स-ङ्क॒रोति॑ । ता॒दृगे॒वतत् । ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्त्यै । अप्र॑तीक्ष॒माय॑न्ति । अ॒पः परि॑षिञ्चति । रु॒द्रस्या॒न्तर्​हि॑त्यै । प्र वा ए॒ते᳚-ऽस्मा-ल्लो॒काच्च्य॑वन्ते । ये त्र्य॑म्बकै॒श्चर॑न्ति । आ॒दि॒त्य-ञ्च॒रु-म्पुन॒रेत्य॒ निर्व॑पति । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ॥ 76 ॥
(य॒न्ति॒ - ब्रू॒या॒न् - नि॒रव॑दयते - शास्ते - सिञ्चति॒ षट्च॑) (अ. 10)

(अनु॑मत्यै - वैश्वदे॒वेन॒ ता-स्सृ॒ष्टा - स्त्रि॒वृत् - प्र॒जाप॑ति-स्सवि॒ - तोत्त॑रस्यां - देवासु॒रा-स्सो᳚-ऽग्नि--र् य-त्पत्नी॑ -वैश्वदे॒वेन॒ ता व॑रुणप्रघा॒सै - र॒ग्नये॑ दे॒वेभ्यः॑ - प्रतिपूरु॒ष-न्दश॑)

(अनु॑मत्यै - प्रथम॒जो व॒थ्सो - ब॑हुरू॒पा हि प॒शव॒ - स्तस्मा᳚-त्पृथमा॒त्रं - ँयद॒ग्नये-ऽनी॑कवत - उद्धा॒रं-वाँ - अ॒ग्नये॑ दे॒वेभ्य॑ - ऋ॒तूने॒व षट्थ्स॑प्ततिः)

(अनु॑मत्यै॒ - प्रति॑ तिष्ठन्ति)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके षष्ठः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: