तृतीयः प्रश्नः
अथ हैन-ङ्कौशल्यश्चाश्वलायनः पप्रच्छ।
भगवन् कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं-वाँ प्रविभज्य कथ-म्प्रतिष्ठते केनोत्क्रमते कथ-म्बह्यमभिधते कथमध्यात्ममिति ॥1॥
तस्मै स होवाचातिप्रश्चान् पृच्छसि ब्रह्मिष्ठो-ऽसीति तस्मात्ते-ऽह-म्ब्रवीमि ॥2॥
आत्मन एष प्राणो जायते यथैषा पुरुषे छायैतस्मिन्नेतदातत-म्मनोकृतेनायात्यस्मिञ्शरीरे ॥3॥
यथा सम्रादेवाधिकृतान् विनियुङ्क्ते।
एतन् ग्रामानोतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव सन्निधत्ते ॥4॥
पायूपस्थे-ऽपान-ञ्चक्षुस्श्रोत्रे मुखनासिकाभ्या-म्प्राण-स्स्वय-म्प्रातिष्ठते मध्ये तु समानः।
एष ह्येतद्धुतमन्नं सम-न्नयति तस्मादेता-स्सप्तार्चिषो भवन्ति ॥5॥
हृदि ह्येष आत्मा।
अत्रैतदेकशत-न्नाडीना-न्तासां शतं शतमेकैकस्या-न्द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥6॥
अथैकयोर्ध्व उदानः पुण्येन पुण्यं-लोँक-न्नयति।
पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥7॥
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येन-ञ्चाक्षुष-म्प्राणमनुगृह्णानः।
पृथिव्यां-याँ देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाश-स्स समानो वायुर्व्यानः ॥8॥
तेजो ह वाव उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥9॥
यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः।
सहात्मना यथासङ्कल्पितं-लोँक-न्नयति ॥10॥
य एवं-विँद्वान् प्राणं-वेँद।
न हास्य प्रजा हीयते-ऽमृतो भवति तदेष-श्श्लोकः ॥11॥
उत्पत्तिमायतिं स्थानं-विँभुत्व-ञ्चैव पञ्चधा।
अध्यात्म-ञ्चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥12॥