चतुर्थः प्रश्नः
अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ।
भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देव-स्स्वप्नान् पश्यति कस्यैतत्सुख-म्भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥1॥
तस्मै स होवाच। यथ गार्ग्य मरीचयो-ऽर्कस्यास्त-ङ्गच्छत-स्सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति।
ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्व-म्परे देवे मनस्येकीभवति।
तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥2॥
प्राणाग्रय एवैतस्मिन् पुरे जाग्रति।
गार्हपत्यो ह वा एषो-ऽपानो व्यानो-ऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः ॥3॥
यदुच्छ्वासनिस्श्वासावेतावाहुती सम-न्नयतीति स समानः।
मनो ह वाव यजमानः इष्टफलमेवोदान-स्स एनं-यँजमानमहरहर्ब्रह्म गमयति ॥4॥
अत्रैष देव-स्स्वप्ने महिमानमनुभवति।
यद् दृष्ट-न्दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूत-म्पुनः पुनः प्रत्यनुभवति दृष्ट-ञ्चादृष्ट-ञ्च श्रुत-ञ्चाश्रुत-ञ्चानुभूत-ञ्चाननुभूत-ञ्च सच्चासच्च सर्व-म्पश्यति सर्वः पस्यति ॥5॥
स यदा तेजसाभिभूतो भवत्यत्रैष देव-स्स्वप्ना-न्न पश्यत्यथ यदैतस्मिञ्शरीरे एतत्सुख-म्भवति ॥6॥
स यथा सोभ्य वयांसि वसोवृक्षं सम्प्रतिष्ठन्ते एवं ह वै तत् सर्व-म्पर आत्मनि सम्प्रतिष्ठते ॥7॥
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्य-ञ्च श्रोत्र-ञ्च श्रोतव्य-ञ्च घ्राण-ञ्च घ्रातव्य-ञ्च रसश्च रसयितव्य-ञ्च त्वक्च स्पर्शयितव्य-ञ्च वाक्च वक्तव्य-ञ्च हस्तौ चादातव्य-ञ्चोपस्थश्चानन्दयितव्य-ञ्च पायुश्च विसर्जयितव्य-ञ्च यादौ च गन्तव्य-ञ्च मनश्च मन्तव्य-ञ्च बुद्धिश्च बोद्धव्य-ञ्चाहङ्कारश्चाहङ्कर्तव्य-ञ्च चित्त-ञ्च चेतयितव्य-ञ्च तेजश्च विद्योतयितव्य-ञ्च प्राणश्च विद्यारयितव्य-ञ्च ॥8॥
एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः।
स परे-ऽक्षर आत्मनि सम्प्रतिष्ठते ॥9॥
परमेवाक्षर-म्प्रतिपद्यते स यो ह वै तदच्छायमशरीरम्लोहितं शुभ्रमक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञ-स्सर्वो भवति तदेष श्लोकः ॥10॥
विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भुतानि सम्प्रतिष्ठन्ति यत्र।
तदक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञ-स्सर्वमेवाविवेशेति ॥11॥