ओ-न्नम् ॥ तत्पुरु॒षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचोदया᳚त् ॥
संवँर्ताग्नि तटित्प्रदीप्त कनक प्रस्पर्थि तेजोमयम् ।
गम्भीरध्वनि सामवेदजनक-न्ताम्राधरं सुन्दरम् ।
अर्धेन्दुद्युति लोलपिङ्गल जटाभारप्रबद्धोरगम् ।
वन्दे सिद्ध सुरासुरेन्द्रनमित-म्पूर्व-म्मुखं शूलिनः ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ओ-न्नम् ॥ पूर्व मुखाय॒ नमः ॥
अ॒घोरे᳚भ्यो-ऽथघो॒रे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ॥ सर्वे᳚भ्यस्सर्व शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
कालाभ्रभ्रमराञ्जनद्युतिनिभं-व्याँवृत्त पिङ्गेक्षणम्
कर्णोद्भासित भोगिमस्तक मणिप्रोद्गीर्ण दंष्ट्राङ्कुरम् ।
सर्पप्रोत कपाल शुक्ति शकल व्याकीर्ण सच्छेखरम्
वन्दे दक्षिणमीश्वरस्य कुटिल भ्रूभङ्ग रौद्र-म्मुखम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ओ-म्मम् ॥ दक्षिण मुखाय॒ नमः ॥
स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम् । भ॒वो-द्भ॑वाय॒ नमः॑ ॥
प्रालेयाचलमिन्दुकुन्द धवल-ङ्गोक्षीरफेनप्रभम्
भस्माभ्यक्तमनङ्ग देह दहन ज्वालावली लोचनम् ।
ब्रह्मेन्द्रादि मरुद्गणैस्पुतिपदै रभ्यर्चितं-योँगिभिः
वन्दे-ऽहं सकल-ङ्कलङ्करहितं स्थाणोर्मुख-म्पश्चिमम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ॐ शिम् ॥ पश्चिम मुखाय॒ नमः ॥
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥
गौर-ङ्कुङ्कुम पङ्किलं स्तिलकं-व्याँपाण्डु गण्डस्थलम्
भ्रूविक्षेप कटाक्ष लसत्संसक्त कर्णोत्फलम् ।
स्निग्ध-म्बिम्बफलाधर-म्प्रहसित-न्नीलालकाल-ङ्कृतम्
वन्दे पूर्ण शशाङ्क मण्डलनिभं-वँक्त्रं हरस्योत्तरम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ॐ-वाँम् ॥ उत्तर मुखाय॒ नमः ॥
ईशान-स्सर्व॑विद्या॒ना॒-मीश्वर-स्सर्व॑भूता॒ना॒-म्ब्रह्माधि॑पति॒-र्ब्रह्म॒णो ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ (कनिष्ठिकाभ्या-न्नमः)
व्यक्ताव्यक्त गुणेतर-म्परतरं षट्त्रिंशतत्त्वात्मकम्
तस्मादुत्तम तत्त्वमक्षरमिद-न्ध्येयं सदा योगिभिः ।
ओङ्कारादि समस्त मन्त्रजनकं सूक्ष्मादि सूक्ष्म-म्परं
शान्त-म्पञ्चममीश्वरस्य वदन-ङ्खंव्याँप्ति तेजोमयम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ॐ-वाँम् ॥ ऊर्ध्व मुखाय॒ नमः ॥
दिङ्नमस्कारः
पूर्वे पशुपतिः पातु । दक्षिणे पातु शङ्करः ।
पश्चिमे पातु विश्वेशः । नीलकण्ठस्तदोत्तरे ॥
ईशान्या-म्पातु मे शर्वः । आग्नेया-म्पार्वतीपतिः ।
नैऋत्या-म्पातु मे रुद्रः । वायव्या-न्नीललोहितः ॥
ऊर्ध्वे त्रिलोचनः पातु । अधराया-म्महेश्वरः ।
एताभ्यो दश दिग्भ्यस्तु । सर्वतः पातु शङ्करः ॥
(ना रुद्रो रुद्रमर्चये᳚त् ।
न्यासपूर्वक-ञ्जपहोमार्चना-ऽभिषेकविधि व्याख्यास्यामः ।)