अध्याय 2
वल्ली 1
पराञ्चिखानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्।
कश्चिद्धीरः प्रत्यगात्मानमैषदावृत्तचक्षुरमृतत्वमिच्छन् ॥ ॥1॥
पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्।
अथ धीरा अमृतत्वं-विँदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ ॥2॥
येन रूपं रस-ङ्गन्धं शब्दान्स्पर्शांश्च मैथुनान्।
एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत् ॥ ॥3॥
स्वप्नान्त-ञ्जागरितान्त-ञ्चोभौ येनानुपश्यति।
महान्तं-विँभुमात्मान-म्मत्वा धीरो न शोचति ॥ ॥4॥
य इम-म्मध्वदं-वेँद आत्मान-ञ्जीवमन्तिकात्।
ईशान-म्भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥ ॥5॥
यः पूर्व-न्तपसो जातमद्भ्यः पूर्वमजायत।
गुहा-म्प्रविश्य तिष्ठन्तं-योँ भूतेभिर्व्यपश्यत। एतद्वै तत् ॥ ॥6॥
या प्राणेन सम्भवत्यदितिर्देवतामयी।
गुहा-म्प्रविश्य तिष्ठन्तीं-याँ भूतेभिर्व्यजायत। एतद्वै तत् ॥ ॥7॥
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः। एतद्वै तत् ॥ ॥8॥
यतश्चोदेति सूर्यो-ऽस्तं-यँत्र च गच्छति।
त-न्देवा-स्सर्वे-ऽर्पितास्तदु नात्येति कश्चन। एतद्वै तत् ॥ ॥9॥
यदेवेह तदमुत्र यदमुत्र तदन्विह।
मृत्यो-स्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ ॥10॥
मनसैवेदमाप्तव्य-न्नेह नाना-ऽस्ति किञ्चन।
मृत्यो-स्स मृत्यु-ङ्गच्छति य इह नानेव पश्यति ॥ ॥11॥
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥ ॥12॥
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत् ॥ ॥13॥
यथोदक-न्दुर्गं-वृँष्ट-म्पर्वतेषु विधावति।
एव-न्धर्मान्पृथक् पश्यंस्तानेवानुविधावति ॥ ॥14॥
यथोदकं शुद्धे शुद्धमासिक्त-न्तादृगेव भवति।
एव-म्मुनेर्विजानत आत्मा भवति गौतम ॥ ॥15॥