हि॒र॒ण्य॒ग॒र्भ-स्सम॑वर्त॒-ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
सदा॑धार पृथि॒वी-न्द्यामु॒तेमा-ङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
उरसा नमः ॥ 1 (तै. सं. 4.1.8.3)
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒-श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
शिरसा नमः ॥ 2 (तै. सं. 4.1.8.4)
ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒म-स॑तश्च॒ विवः॑ । (
दृष्या नमः । 3 (तै. सं. 4.2.8.2.)
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं-यँ॒ज्ञ-म्मि॑मिक्षताम् ।
पि॒पृ॒तान्नो॒ भरी॑मभिः ।
मनसा नमः ॥ 4 (तै. सं. 3.3.10.2)
उप॑श्वासय पृथि॒वी-मु॒त द्या-म्पु॑रु॒त्रा ते॑ मनुतां॒-विँष्ठि॑त॒-ञ्जग॑त् ।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वै-र्दू॒राद्दवी॑यो॒ अप॑सेध॒ शत्रून्॑ ।
वचसा नमः ॥ 5 (तै. सं. 4.6.6.6)
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒ण-मेनो॒ भूयि॑ष्ठान्ते॒ नम॑ उक्तिं-विँधेम ॥
पध्भ्या-न्नमः ॥ 6 (तै. सं. 1.1.14.3)
या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा᳚ ।
या ते॑ अग्ने-ऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठोग्रं-वँचो॒ अपा॑वधी-न्त्वे॒षं-वँचो॒ अपा॑वधी॒ग्ं॒ स्वाहा᳚ ॥
कराभ्या-न्नमः ॥ 7 (तै. सं. 1.2.11.2)
इ॒मं-यँ॑मप्रस्त॒रमाहि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविँदा॒नः ।
आत्वा॒ मन्त्राः॑ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥
कर्णाभ्या-न्नमः ॥ 8 (तै. सं. 2.6.12.6)
उरसा शिरसा दृष्ट्या मन॑सा वचसा त॒था ।
पद्भ्या-ङ्कराभ्या-ङ्कर्णाभ्या-म्प्रणामो-ऽष्टाङ्ग॑ उच्यते ॥
उमामहेश्वराभ्या-न्नमः ॥