(तै. सं. 1.8.6.1 - तै. सं. 1.8.6.2)
(तै. ब्रा. 1.6.10.1 - तै. ब्रा. 1.6.10.5)
प्र॒ति॒पू॒रु॒ष मेक॑कपाला॒-न्निर्व॑प॒त्ये-क॒मति॑रिक्तं॒-याँव॑न्तो गृ॒ह्या᳚-स्स्मस्तेभ्यः॒ कम॑कर-म्पशू॒नाग्ं शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे
य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्त-ञ्जु॑षस्वै॒ष ते॑ रुद्र भा॒ग-स्स॒ह स्वस्रां-ऽबि॑कया॒ तञ्जु॑षस्व भेष॒ज-ङ्गवे-ऽश्वा॑य॒
पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्य॑-म्भेष॒जग्ं सुभे॑षजं॒-यँथा-ऽस॑ति । 1
सु॒ग-म्मे॒षाय॑ मे॒ष्या॑ अवा᳚बं रु॒द्रम॑दि-म॒ह्यव॑ दे॒व-न्त्र्य॑बङ्कम् ।
यथा॑ न॒-श्श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑ सः॒ कर॒द्यथा॑ नः पशु॒मतः॒
कर॒द्यथा॑ नो व्यवसा॒यया᳚त् । त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना-न्मृ॒त्यो र्मु॑क्षीय॒ मा-ऽमृता᳚त् । ए॒षते॑ रुद्र भा॒ग स्तञ्जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तो-ऽती॒ह्यव॑तत
धन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ॥ 2
प्र॒ति॒पू॒रु॒ष-मेक॑कपाला॒-न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रा-न्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रा-न्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्र-न्नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रये᳚त् । अ॒न्त॒र॒व॒-चा॒रिणग्ं॑ रु॒द्र-ङ्कु॑र्यात् ।
ए॒को॒ल्मु॒केन॑ यन्ति । 3
तद्धि रु॒द्रस्य॑ भाग॒धेय᳚म् । इ॒मा-न्दिशं॑-यँन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑ मे॒व दि॒शि रु॒द्र-न्नि॒रव॑दयते । रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्य-न्द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ ।
तम॑स्मै प॒शु-न्निर्दि॑शति । यदि॒ न द्वि॒ष्यात् ।
आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् । 4
न ग्रा॒म्या-न्प॒शून् हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒ना-म्पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति ।
म॒द्ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रुग्घ्ये॑षा । अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्य᳚म् । अ॒न्त॒त ए॒व रु॒द्र-न्नि॒रव॑दयते । 5
एष॒ ते॑ रुद्रभा॒ग-स्स॒हस्वस्रां-ऽबि॑क॒येत्या॑ह । श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा᳚ ।
तया॒ वा ए॒ष हि॑नस्ति । यग्ं हि॒नस्ति॑ । तयै॒वैनग्ं॑ स॒ह श॑मयति ।
भे॒ष॒जङ्गव॒ इत्या॑ह । याव॑न्त ए॒व ग्रा॒म्याः प॒शवः॑ । तेभ्यो॑ भेष॒ज-ङ्क॑रोति । अवा᳚बं रु॒द्रम॑दि म॒हीत्या॑ह । आ॒शिष॑मे॒वै-तामा शा᳚स्ते । 6
त्र्य॑बङ्कं-यँजामह॒ इत्या॑ह । मृ॒त्यो र्मु॑क्षीय॒ मा-ऽमृता॒-दिति॒ वा वै तदा॑ह ।
उत्कि॑रन्ति । भग॑स्य लीफ्सन्ते । मूते॑ कृ॒त्वा स॑जन्ति ।
यथा॒ जनं॑-यँ॒ते॑-ऽव॒स-ङ्क॒रोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्रभा॒ग इत्या॑ह नि॒रव॑त्यै । अप्र॑तीक्ष॒-माय॑न्ति । अ॒पः परि॑षिञ्चति । रु॒द्रस्या॒न्त र्हि॑त्यै । प्रवा ए॒ते᳚-ऽस्मा-ल्लो॒का-च्च्य॑वन्ते । ये त्र्य॑बङ्कै॒-श्चर॑न्ति । आ॒दि॒त्य-ञ्च॒रु-म्पुन॒रेत्य॒ निर्व॑पति । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥ 7
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ प्रतिपूरुषं-विँभाडिति नेत्रत्रया॑य वौ॒षट् ॥