प्रथमः प्रश्नः
ओ-न्नमः परमात्मने । हरिः ओम् ॥
सुकेशा च भारद्वाज-श्शैब्यश्च सत्यकाम-स्सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः पर-म्ब्रह्मान्वेषमाणाः एष ह वै तत्सर्वं-वँक्ष्यतीति ते ह समित्पाणयो भगवन्त-म्पिप्पलादमुपसन्नाः ॥1॥
तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवँत्सरं संवँत्स्यथ यथाकाम-म्प्रश्नान् पृच्छत यदि विज्ञास्याम-स्सर्वं ह वो वक्षाम इति ॥2॥
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥3॥
तस्मै स होवाच-
प्रजाकामो वै प्रजापति-स्स तपो-ऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते।
रयि-ञ्च प्राणञ्चेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥4॥
आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः रयिर्वा एतत् सर्वं-यँन्मूर्त-ञ्चामूर्त-ञ्च तस्मान्मूर्तिरेव रयिः ॥5॥
अथादित्य उदयन् य-त्प्राची-न्दिश-म्प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते।
यद्दक्षिणां-यँत् प्रतीचीं-यँदुदीचीं-यँदधो यदूर्ध्वं-यँदन्तरा दिशो यत्सर्व-म्प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥6॥
स एष वैश्वानरो विश्वरुपः प्राणो-ऽग्निरुदयते।
तदेतद् ऋचा-ऽभ्युक्तम् ॥7॥
विश्वरूपं हरिण-ञ्जातवेदस-म्परायण-ञ्ज्योतिरेक-न्तपन्तम्।
सहस्ररश्मि-श्शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥8॥
संवँत्सरो वै प्रजापति-स्स्तस्यायने दक्षिणञ्चोत्तर-ञ्च।
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते।
तस्मादेत ऋषयः प्रजाकामा दक्षिण-म्प्रतिपद्यन्ते। एष ह वै रयिर्यः पितृयाणः ॥9॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते।
एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः। तदेष श्लोकः ॥10॥
पञ्चपाद-म्पितर-न्द्वादशाकृति-न्दिव आहुः परे अर्धे पुरीषिणम्।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥11॥
मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयि-श्शुक्लः प्रणस्तस्मादेत ऋषय-श्शुक्ल इष्ट-ङ्कुर्वन्तीतर इतरस्मिन् ॥12॥
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः।
प्राणं-वाँ एते प्रस्कन्दन्ति ये दिवा रत्या संयुँज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुँज्यन्ते ॥13॥
अन्नं-वैँ प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥14॥
तद्ये ह वै तत्प्रजापतिव्रत-ञ्चरन्ति ते मिथुनमुत्पादयन्ते।
तेषामेवैष ब्रह्मलोको येषा-न्तपो ब्रह्मचर्यं-येँषु सत्य-म्प्रतिष्ठितम् ॥15॥
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृत-न्न माया चेति ॥16॥