(तै. सं. 4.6.4.1 - तै. सं. 4.6.4.5)
आ॒शु-श्शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः, क्षोभ॑ण-श्चर्षणी॒नाम् ।
स॒॒ङ्क्रन्द॑नो-ऽनिमि॒ष ए॑क वी॒रश्श॒तग्ं सेना॑ अजयथ्सा॒-कमिन्द्रः॑ ।
स॒ङ्क्रन्द॑नेना निमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ ।
तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒-युँधो॑ नर॒ इषु॑ हस्तेन॒ वृष्णा᳚ ।
स इषु॑हस्तै॒-स्स नि॑ष॒ङ्गिभि॑ र्व॒शी सग्ग्स्र॑ष्टा॒ सयुध॒ इन्द्रो॑ ग॒णेन॑ ।
स॒ग्ं॒सृ॒ष्ट॒-जिथ्सो॑म॒पा बा॑हु श॒र्ध्यू᳚र्ध्व-ध॑न्वा॒ प्रति॑हिता-भि॒रस्ता᳚ ।
बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हा-ऽमित्राग्ं॑ अप॒ बाध॑मानः । 1
प्र॒भ॒ञ्ज-न्थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेद्ध्यवि॒ता रथा॑नाम् ।
गो॒त्र॒भिद॑-ङ्गो॒विदं॒-वँज्र॑बाहु॒-ञ्जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒-मोज॑सा ।
इ॒मग्ं स॑जाता॒ अनु॑वीर-यध्व॒मिन्द्रग्ं॑ सखा॒यो-ऽनु॒ सर॑भध्वम् ।
ब॒ल॒वि॒ज्ञा॒य-स्स्थवि॑रः॒ प्रवी॑र॒-स्सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् । 2
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो-ऽदा॒यो वी॒र श्श॒त-म॑न्यु॒रिन्द्रः॑ ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒द्ध्यो᳚-ऽस्माक॒ग्ं॒ सेना॑ अवतु॒ प्रयु॒थ्सु ।
इन्द्र॑ आसा-न्ने॒ता बृह॒स्पति॒ र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॒व॒से॒नाना॑-मभिभ-ञ्जती॒ना-ञ्जय॑न्तीना-म्म॒रुतो॑ य॒न्त्वग्रे᳚ ।
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्याना᳚-म्म॒रुता॒ग्ं॒ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसा-म्भुवनच्य॒वाना॒-ङ्घोषो॑ दे॒वाना॒-ञ्जय॑ता॒ मुद॑स्थात् ।
अ॒स्माक॒-मिन्द्रः॒-समृ॑तेषु-ध्व॒जे-ष्व॒स्माकं॒-याँ इष॑व॒स्ता ज॑यन्तु । 3
अ॒स्माकं॑-वीँ॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु । उद्ध॑र्षय मघव॒न्ना-यु॑धा॒-न्युथ्सत्व॑ना-म्माम॒काना॒-म्महाग्ं॑सि ।
उद्वृ॑त्रहन् वा॒जिनां॒-वाँजि॑ना॒-न्युद्रथा॑ना॒-ञ्जय॑तामेतु॒ घोषः॑ ।
उप॒प्रेत॒ जय॑ता नर-स्स्थि॒रा वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ व॒-श्शर्म॑ यच्छत्वना-धृ॒ष्या यथा-ऽस॑थ । अव॑सृष्टा॒ परा॑पत॒ शर॑व्ये॒ ब्रह्म॑ सग्ंशिता । गच्छा॒मित्रा॒-न्प्रवि॑श॒ मैषा॒-ङ्कञ्च॒नोच्छि॑षः ।
मर्मा॑णि ते॒ वर्म॑भिश्छा-दयामि॒ सोम॑स्त्वा॒ राजा॒-ऽमृते॑ना॒-भिव॑स्ताम् । उ॒रो र्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒-न्त्वामनु॑ मदन्तु दे॒वाः । यत्र॑ बा॒णा-स्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ 4 ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ आशुश्शिशानो-ऽप्रतिरथ-ङ्कवचाय हुम् ।