प्रथमः प्रश्नः
ॐ नमः परमात्मने । हरिः ओम् ॥
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबंधी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत्सर्वं-वँक्ष्यतीति ते ह समित्पाणयो भगवंतं पिप्पलादमुपसन्नाः ॥1॥
तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवँत्सरं संवँत्स्यथ यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्षाम इति ॥2॥
अथ कबंधी कात्यायन उपेत्य पप्रच्छ भगवन् कुतो ह वा इमाः प्रजाः प्रजायंत इति ॥3॥
तस्मै स होवाच-
प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते।
रयिं च प्राणंचेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥4॥
आदित्यो ह वै प्राणो रयिरेव चंद्रमाः रयिर्वा एतत् सर्वं-यँन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥5॥
अथादित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते।
यद्दक्षिणां-यँत् प्रतीचीं-यँदुदीचीं-यँदधो यदूर्ध्वं-यँदंतरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥6॥
स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते।
तदेतद् ऋचाऽभ्युक्तम् ॥7॥
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपंतम्।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥8॥
संवँत्सरो वै प्रजापतिः स्तस्यायने दक्षिणंचोत्तरं च।
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चांद्रमसमेव लोकमभिजयंते त एव पुनरावर्तंते।
तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यंते। एष ह वै रयिर्यः पितृयाणः ॥9॥
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयंते।
एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तंत इत्येष निरोधः। तदेष श्लोकः ॥10॥
पंचपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥11॥
मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयिः शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वंतीतर इतरस्मिन् ॥12॥
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः।
प्राणं-वाँ एते प्रस्कंदंति ये दिवा रत्या संयुँज्यंते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुँज्यंते ॥13॥
अन्नं-वैँ प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायंत इति ॥14॥
तद्ये ह वै तत्प्रजापतिव्रतं चरंति ते मिथुनमुत्पादयंते।
तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं-येँषु सत्यं प्रतिष्ठितम् ॥15॥
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥16॥