अध्याय 2
वल्ली 1
परांचिखानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नांतरात्मन्।
कश्चिद्धीरः प्रत्यगात्मानमैषदावृत्तचक्षुरमृतत्वमिच्छन् ॥ ॥1॥
पराचः कामाननुयंति बालास्ते मृत्योर्यंति विततस्य पाशम्।
अथ धीरा अमृतत्वं-विँदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयंते ॥ ॥2॥
येन रूपं रसं गंधं शब्दान्स्पर्शांश्च मैथुनान्।
एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत् ॥ ॥3॥
स्वप्नांतं जागरितांतं चोभौ येनानुपश्यति।
महांतं-विँभुमात्मानं मत्वा धीरो न शोचति ॥ ॥4॥
य इमं मध्वदं-वेँद आत्मानं जीवमंतिकात्।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥ ॥5॥
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत।
गुहां प्रविश्य तिष्ठंतं-योँ भूतेभिर्व्यपश्यत। एतद्वै तत् ॥ ॥6॥
या प्राणेन संभवत्यदितिर्देवतामयी।
गुहां प्रविश्य तिष्ठंतीं-याँ भूतेभिर्व्यजायत। एतद्वै तत् ॥ ॥7॥
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।
दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः। एतद्वै तत् ॥ ॥8॥
यतश्चोदेति सूर्योऽस्तं-यँत्र च गच्छति।
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन। एतद्वै तत् ॥ ॥9॥
यदेवेह तदमुत्र यदमुत्र तदन्विह।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ ॥10॥
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ॥11॥
अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत् ॥ ॥12॥
अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत् ॥ ॥13॥
यथोदकं दुर्गं-वृँष्टं पर्वतेषु विधावति।
एवं धर्मान्पृथक् पश्यंस्तानेवानुविधावति ॥ ॥14॥
यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ ॥15॥