चतुर्थः प्रश्नः
अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ।
भगवन्नेतस्मिन् पुरुषे कानि स्वपंति कान्यस्मिंजाग्रति कतर एष देवः स्वप्नान् पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवंतीति ॥1॥
तस्मै स होवाच। यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमंडल एकीभवंति।
ताः पुनः पुनरुदयतः प्रचरंत्येवं ह वै तत् सर्वं परे देवे मनस्येकीभवति।
तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानंदयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥2॥
प्राणाग्रय एवैतस्मिन् पुरे जाग्रति।
गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः ॥3॥
यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः।
मनो ह वाव यजमानः इष्टफलमेवोदानः स एनं-यँजमानमहरहर्ब्रह्म गमयति ॥4॥
अत्रैष देवः स्वप्ने महिमानमनुभवति।
यद् दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगंतरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पस्यति ॥5॥
स यदा तेजसाभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यत्यथ यदैतस्मिञ्शरीरे एतत्सुखं भवति ॥6॥
स यथा सोभ्य वयांसि वसोवृक्षं संप्रतिष्ठंते एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते ॥7॥
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानंदयितव्यं च पायुश्च विसर्जयितव्यं च यादौ च गंतव्यं च मनश्च मंतव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विद्यारयितव्यं च ॥8॥
एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मंता बोद्धा कर्ता विज्ञानात्मा पुरुषः।
स परेऽक्षर आत्मनि संप्रतिष्ठते ॥9॥
परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरम्लोहितं शुभ्रमक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥10॥
विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भुतानि संप्रतिष्ठंति यत्र।
तदक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥11॥