View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

कठोपनिषद् - अध्याय 2, वल्ली 1

अध्याय 2
वल्ली 1

परांचिखानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नांतरात्मन्‌।
कश्चिद्धीरः प्रत्यगात्मानमैषदावृत्तचक्षुरमृतत्वमिच्छन्‌ ॥ ॥1॥

पराचः कामाननुयंति बालास्ते मृत्योर्यंति विततस्य पाशम्‌।
अथ धीरा अमृतत्वं-विँदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयंते ॥ ॥2॥

येन रूपं रसं गंधं शब्दान्स्पर्​शांश्च मैथुनान्‌।
एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत्‌ ॥ ॥3॥

स्वप्नांतं जागरितांतं चोभौ येनानुपश्यति।
महांतं-विँभुमात्मानं मत्वा धीरो न शोचति ॥ ॥4॥

य इमं मध्वदं-वेँद आत्मानं जीवमंतिकात्‌।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत्‌ ॥ ॥5॥

यः पूर्वं तपसो जातमद्‌भ्यः पूर्वमजायत।
गुहां प्रविश्य तिष्ठंतं-योँ भूतेभिर्व्यपश्यत। एतद्वै तत्‌ ॥ ॥6॥

या प्राणेन संभवत्यदितिर्देवतामयी।
गुहां प्रविश्य तिष्ठंतीं-याँ भूतेभिर्व्यजायत। एतद्वै तत्‌ ॥ ॥7॥

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।
दिवे दिवे ईड्यो जागृवद्भिर्​हविष्मद्भिर्मनुष्येभिरग्निः। एतद्वै तत्‌ ॥ ॥8॥

यतश्चोदेति सूर्योऽस्तं-यँत्र च गच्छति।
तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन। एतद्वै तत्‌ ॥ ॥9॥

यदेवेह तदमुत्र यदमुत्र तदन्विह।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ ॥10॥

मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन।
मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ॥11॥

अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत्‌ ॥ ॥12॥

अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।
ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद्वै तत्‌ ॥ ॥13॥

यथोदकं दुर्गं-वृँष्टं पर्वतेषु विधावति।
एवं धर्मान्पृथक्‌ पश्यंस्तानेवानुविधावति ॥ ॥14॥

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥ ॥15॥




Browse Related Categories: