View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

प्रश्नोपनिषद् - प्रथमः प्रश्नः

प्रथमः प्रश्नः

ॐ नमः परमात्मने । हरिः ओम् ॥

सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबंधी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत्सर्वं-वँक्ष्यतीति ते ह समित्पाणयो भगवंतं पिप्पलादमुपसन्नाः ॥1॥

तान्‌ ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया सं​वँत्सरं सं​वँत्स्यथ यथाकामं प्रश्नान्‌ पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्षाम इति ॥2॥

अथ कबंधी कात्यायन उपेत्य पप्रच्छ भगवन्‌ कुतो ह वा इमाः प्रजाः प्रजायंत इति ॥3॥

तस्मै स होवाच-
प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते।
रयिं च प्राणंचेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥4॥

आदित्यो ह वै प्राणो रयिरेव चंद्रमाः रयिर्वा एतत्‌ सर्वं-यँन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥5॥

अथादित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान्‌ प्राणान्‌ रश्मिषु सन्निधत्ते।
यद्दक्षिणां-यँत्‌ प्रतीचीं-यँदुदीचीं-यँदधो यदूर्ध्वं-यँदंतरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्‌ प्राणान्‌ रश्मिषु सन्निधत्ते ॥6॥

स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते।
तदेतद् ऋचाऽभ्युक्तम्‌ ॥7॥

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपंतम्‌।
सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥8॥

सं​वँत्सरो वै प्रजापतिः स्तस्यायने दक्षिणंचोत्तरं च।
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चांद्रमसमेव लोकमभिजयंते त एव पुनरावर्तंते।
तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यंते। एष ह वै रयिर्यः पितृयाणः ॥9॥

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयंते।
एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्‌ परायणमेतस्मान्न पुनरावर्तंत इत्येष निरोधः। तदेष श्लोकः ॥10॥

पंचपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्‌।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥11॥

मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयिः शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वंतीतर इतरस्मिन्‌ ॥12॥

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः।
प्राणं-वाँ एते प्रस्कंदंति ये दिवा रत्या सं​युँज्यंते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या सं​युँज्यंते ॥13॥

अन्नं-वैँ प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायंत इति ॥14॥

तद्ये ह वै तत्प्रजापतिव्रतं चरंति ते मिथुनमुत्पादयंते।
तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं-येँषु सत्यं प्रतिष्ठितम्‌ ॥15॥

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥16॥




Browse Related Categories: