View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री महान्यासम् - 5.2. दिक् संपुटन्यासः (संपुटीकरणम्)

इंद्रादीन् दिक्षुविन्यस्य ।

ॐ भूर्भुव॒स्सुवः॑ । ॐ ओम् ।
त्रा॒तार॒मिंद्र॑ मवि॒तार॒मिंद्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिंद्र᳚म् ।
हु॒वे नु श॒क्रं पु॑रुहू॒तमिंद्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विंद्रः॑ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ॐ ओम् ।
पूर्वदिग्भागे इंद्राय नमः ॥ 1 (तै.सं.1-6-12-50)

ॐ भूर्भुव॒स्सुवः॑ । ॐ नम् ।
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वांदे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
ॐ नमो भगवते॑ रुद्रा॒य । नं ओम् ।
आग्नेयदिग्भागे अग्नये नमः ॥ 2 (तै.सं.2-5-12-72)

ॐ भूर्भुव॒स्सुवः॑ । ॐ मोम् ।
सु॒गं नः॒ पंथा॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषिं॑चंत दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ॥
ॐ नमो भगवते॑ रुद्रा॒य । मों ओम् ।
दक्षिणदिग्भागे यमाय नमः ॥ 3 (तै.ब्रा.3-1-2-11-23)

ॐ भूर्भुव॒स्सुवः॑ । ॐ भम् ।
असु॑न्वंत॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यांतस्क॑र॒स्यान्वे॑षि ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥
ॐ नमो भगवते॑ रुद्रा॒य । भं ओम् ।
निर्​ऋतिदिग्भागे निर्​ऋतये नमः ॥ 4 (तै.सं.4-2-5-21)

ॐ भूर्भुव॒स्सुवः॑ । ॐ गम् ।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वंद॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
ॐ नमो भगवते॑ रुद्रा॒य । गं ओम् ।
पश्चिमदिग्भागे वरुणाय नमः ॥ 5 (तै.सं.2-1-11-65)

ॐ भूर्भुव॒स्सुवः॑ । ॐ-वँम् ।
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रग्म् । स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ॐ नमो भगवते॑ रुद्रा॒य । वं ओम् ।
वायव्यदिग्भागे वायवे नमः ॥ 6 (तै.ब्रा.2-8-1-2)

ॐ भूर्भुव॒स्सुवः॑ । ॐ तेम् ।
व॒यग्ं सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः ।
प्र॒जावं॑तो अशीमहि । इं॒द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ॥
ॐ नमो भगवते॑ रुद्रा॒य । तें ओम् ।
उत्तरदिग्भागे कुबेराय नमः ॥ 7 (तै.ब्रा.2-4-2-7-18)

ॐ भूर्भुव॒स्सुवः॑ । ॐ रुम् ।
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियं जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥
ॐ नमो भगवते॑ रुद्रा॒य । रुं ओम् ।
ईशान्यदिग्भागे ईशानाय नमः ॥ 8

ॐ भूर्भुव॒स्सुवः॑ । ॐ द्राम् ।
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इंद्र॑ज्येष्ठा अ॒स्मां अ॑वंतु दे॒वाः ॥
ॐ नमो भगवते॑ रुद्रा॒य । द्रां ओम् ।
ऊर्ध्वदिग्भागे आकाशाय नमः ॥ 9

ॐ भूर्भुव॒स्सुवः॑ । ॐ-यँम् ।
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚ ॥
ॐ नमो भगवते॑ रुद्रा॒य । यं ओम् ।
अधोदिग्भागे पृथिव्यै नमः ॥ 10
[अप उपस्पृश्य]




Browse Related Categories: