(तै. सं. 1.8.6.1 - तै. सं. 1.8.6.2)
(तै. ब्रा. 1.6.10.1 - तै. ब्रा. 1.6.10.5)
प्र॒ति॒पू॒रु॒ष मेक॑कपाला॒न् निर्व॑प॒त्ये-क॒मति॑रिक्तं॒-याँवं॑तो गृ॒ह्याः᳚ स्मस्तेभ्यः॒ कम॑करं पशू॒नाग्ं शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे
य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्रां-ऽबि॑कया॒ तंजु॑षस्व भेष॒जं गवेऽश्वा॑य॒
पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्यं॑ भेष॒जग्ं सुभे॑षजं॒-यँथाऽस॑ति । 1
सु॒गं मे॒षाय॑ मे॒ष्या॑ अवा᳚बं रु॒द्रम॑दि-म॒ह्यव॑ दे॒वं त्र्य॑बंकम् ।
यथा॑ नः॒ श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑ सः॒ कर॒द्यथा॑ नः पशु॒मतः॒
कर॒द्यथा॑ नो व्यवसा॒यया᳚त् । त्र्य॑बंकं-यँजामहे सुगं॒धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान् मृ॒त्यो र्मु॑क्षीय॒ माऽमृता᳚त् । ए॒षते॑ रुद्र भा॒ग स्तंजु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तो-ऽती॒ह्यव॑तत
धन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ॥ 2
प्र॒ति॒पू॒रु॒ष-मेक॑कपाला॒न् निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान् नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान् नि॒रव॑दयते । एक॑कपाला भवंति । ए॒क॒धैव रु॒द्रं नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रये᳚त् । अं॒त॒र॒व॒-चा॒रिणग्ं॑ रु॒द्रं कु॑र्यात् ।
ए॒को॒ल्मु॒केन॑ यंति । 3
तद्धि रु॒द्रस्य॑ भाग॒धेय᳚म् । इ॒मां दिशं॑-यंँति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑ मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते । रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ ।
तम॑स्मै प॒शुं निर्दि॑शति । यदि॒ न द्वि॒ष्यात् ।
आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् । 4
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒नां पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति ।
म॒द्ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रुग्घ्ये॑षा । अथो॒ खलु॑ । अं॒त॒मेनै॒व हो॑त॒व्य᳚म् । अं॒त॒त ए॒व रु॒द्रं नि॒रव॑दयते । 5
एष॒ ते॑ रुद्रभा॒गः स॒हस्वस्रां-ऽबि॑क॒येत्या॑ह । श॒रद्वा अ॒स्यांबि॑का॒ स्वसा᳚ ।
तया॒ वा ए॒ष हि॑नस्ति । यग्ं हि॒नस्ति॑ । तयै॒वैनग्ं॑ स॒ह श॑मयति ।
भे॒ष॒जंगव॒ इत्या॑ह । यावं॑त ए॒व ग्रा॒म्याः प॒शवः॑ । तेभ्यो॑ भेष॒जं क॑रोति । अवा᳚बं रु॒द्रम॑दि म॒हीत्या॑ह । आ॒शिष॑मे॒वै-तामा शा᳚स्ते । 6
त्र्य॑बंकं-यँजामह॒ इत्या॑ह । मृ॒त्यो र्मु॑क्षीय॒ माऽमृता॒-दिति॒ वा वै तदा॑ह ।
उत्कि॑रंति । भग॑स्य लीफ्संते । मूते॑ कृ॒त्वा स॑जंति ।
यथा॒ जनं॑-यँ॒ते॑ऽव॒सं क॒रोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्रभा॒ग इत्या॑ह नि॒रव॑त्यै । अप्र॑तीक्ष॒-मायं॑ति । अ॒पः परि॑षिंचति । रु॒द्रस्यां॒त र्हि॑त्यै । प्रवा ए॒ते᳚ऽस्मा-ल्लो॒का-च्च्य॑वंते । ये त्र्य॑बंकै॒-श्चरं॑ति । आ॒दि॒त्यं च॒रुं पुन॒रेत्य॒ निर्व॑पति । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठंति ॥ 7
ॐ नमो भगवते॑ रुद्रा॒य ॥ प्रतिपूरुषं-विँभाडिति नेत्रत्रया॑य वौ॒षट् ॥