View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

प्रश्नोपनिषद् - चतुर्थः प्रश्नः

चतुर्थः प्रश्नः

अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ।
भगवन्नेतस्मिन्‌ पुरुषे कानि स्वपंति कान्यस्मिंजाग्रति कतर एष देवः स्वप्नान्‌ पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवंतीति ॥1॥

तस्मै स होवाच। यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमंडल एकीभवंति।
ताः पुनः पुनरुदयतः प्रचरंत्येवं ह वै तत्‌ सर्वं परे देवे मनस्येकीभवति।
तेन तर्​ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानंदयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥2॥

प्राणाग्रय एवैतस्मिन्‌ पुरे जाग्रति।
गार्​हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्​हपत्यात्‌ प्रणीयते प्रणयनादाहवनीयः प्राणः ॥3॥

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः।
मनो ह वाव यजमानः इष्टफलमेवोदानः स एनं-यँजमानमहरहर्ब्रह्म गमयति ॥4॥

अत्रैष देवः स्वप्ने महिमानमनुभवति।
यद् दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगंतरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पस्यति ॥5॥

स यदा तेजसाभिभूतो भवत्यत्रैष देवः स्वप्नान् न पश्यत्यथ यदैतस्मिञ्शरीरे एतत्सुखं भवति ॥6॥

स यथा सोभ्य वयांसि वसोवृक्षं संप्रतिष्ठंते एवं ह वै तत्‌ सर्वं पर आत्मनि संप्रतिष्ठते ॥7॥

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्​शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानंदयितव्यं च पायुश्च विसर्जयितव्यं च यादौ च गंतव्यं च मनश्च मंतव्यं च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विद्यारयितव्यं च ॥8॥

एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मंता बोद्धा कर्ता विज्ञानात्मा पुरुषः।
स परेऽक्षर आत्मनि संप्रतिष्ठते ॥9॥

परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरम्लोहितं शुभ्रमक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥10॥

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भुतानि संप्रतिष्ठंति यत्र।
तदक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥11॥




Browse Related Categories: