View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री महान्यासम् - 3. अंगन्यासः

या ते॑ रुद्र शि॒वा त॒नूरघो॒रा-ऽपा॑पकाशिनी ।
तया॑ न स्त॒नुवा॒ शंत॑मया॒ गिरि॑शंता॒भि चा॑कशीहि ।
शिखायै नमः । 1

अ॒स्मिन् म॑ह॒त्य॑र्ण॒वे᳚-ऽंतरि॑क्षे भ॒वा अधि॑ ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽव॒धन्वा॑नि तन्मसि ।
शिरसे नमः । 2

स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् ।
तेषाग्ं॑ सहस्र-योज॒ने-ऽव॒धन्वा॑नि तन्मसि ।
ललाटाय नमः । 3

ह॒ग्ं॒स-श्शु॑चि॒ष-द्वसु॑रंतरिक्ष॒सद्धोता॑ वेदि॒षदति॑थि-र्दुरोण॒सत् ।
नृ॒षद्व॑र॒-सदृ॑त॒-सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् ।
भ्रुवोर्मद्ध्याय नमः । 4

त्र्य॑बंकं-यँजामहे सुगं॒धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्
मृ॒त्यो-र्मु॑क्षीय॒ माऽमृता᳚त् ।
नेत्राभ्यां नमः । 5

नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च ।
कर्णाभ्यां नमः । 6

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तो व॑धी-र्​ह॒विष्मं॑तो॒ नम॑सा विधेम ते ।
नासिकाभ्यां नमः । 7

अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।
मुखाय नमः । 8

नील॑ग्रीवा श्शिति॒कंठाः᳚ श॒र्वा अ॒धः क्ष॑माच॒राः ।
तेषाग्ं॑ सहस्रयोज॒नेऽ व॒धन्वा॑नि तन्मसि ।
कंठाय नमः । 9.1

नील॑ग्रीवा-श्शिति॒कंठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।
तेषाग्ं॑ सहस्रयोज॒नेऽ व॒धन्वा॑नि तन्मसि ।
उपकंठाय नमः । 9.2

नम॑स्ते अ॒स्त्वायु॑धा॒या-ना॑तताय धृ॒ष्णवे᳚ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ।
बाहुभ्यां नमः । 10

या ते॑ हे॒ति-र्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒ऽस्मान् वि॒श्वत॒स्त्व-म॑य॒क्ष्मया॒ परि॑ब्भुज ।
उपबाहुभ्यां नमः । 11

परि॑णो रु॒द्रस्य॑ हे॒ति-र्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यः तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ।
मणिबंधाभ्यां नमः । 12

ये ती॒र्थानि॑ प्र॒चरं॑ति सृ॒कावं॑तो निषं॒गिणः॑ ।
तेषाग्ं॑ सहस्रयोज॒नेऽ व॒धन्वा॑नि तन्मसि ।
हस्ताभ्यां नमः । 13

स॒द्यो जा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम् । भ॒वोद्-भ॑वाय॒ नमः॑ ॥
अगुंष्ठाभ्यां नमः । 14.1

वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ।
तर्जनीभ्यां नमः । 14.2

अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्र रू॑पेभ्यः ॥
मद्ध्यमाभ्यां नमः । 14.3

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
अनामिकाभ्यां नमः । 14.4

ईशानः सर्व॑विद्या॒ना॒-मीश्वरः सर्व॑भूता॒नां॒
रह्माधि॑पति॒-र्ब्रह्म॒णो ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
कनिष्ठिकाभ्यां नमः । 14.5

नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्ं॒ हृद॑येभ्यः ।
हृदयाय नमः । 15

नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमः॑ ।
पृष्ठाय नमः । 16

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शांच॒ पत॑ये॒ नमः॑ ।
पार्​श्वाभ्यां नमः । 17

विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निषं॒गथिः॑ ।
जठराय नमः । 18

हि॒र॒ण्य॒ग॒र्भ स्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
सदा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
नाभ्यै नमः । 19

मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑स्सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒-वँसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ।
कठ्यै नमः । 20

ये भू॒ताना॒-मधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः ।
तेषाग्ं॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
गुह्याय नमः । 21

ये अन्ने॑षु वि॒विद्ध्यं॑ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
तेषाग्ं॑ सहस्रयोज॒नेऽ व॒धन्वा॑नि तन्मसि ।
अंडाभ्यां नमः । 22

स॒ शि॒रा जा॒तवे॑दा अ॒क्षरं॑ पर॒मं प॒दम् ।
वेदा॑ना॒ग्ं॒ शिर॑सि मा॒ता॒ आ॒यु॒ष्मंतं॑ करोतु॒ माम् ।
अपानाय नमः । 23

मा नो॑ म॒हांत॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्षं॑तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
ऊरुभ्यां नमः । 24

ए॒ष ते॑ रुद्रभा॒ग-स्तंजु॑षस्व॒ तेना॑व॒सेन॑ प॒रो
मूज॑व॒तो-ऽती॒ह्यव॑तत-धन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ।
जानुभ्यां नमः । 25

स॒ग्ं॒ सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हु-श॒र्ध्यू᳚र्ध्व ध॑न्वा॒ प्रति॑हिता-भि॒रस्ता᳚ ।
बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हा-ऽमित्राग्ं॑ अप॒बाध॑मानः ।
जंघाभ्यां नमः । 26

विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्र-स्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
गुल्फाभ्यां नमः । 27

ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ ।
तेषाग्ं॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
पादाभ्यां नमः । 28

अद्ध्य॑वोच-दधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीग्ग्॑श्च॒ सर्वा᳚न् ज॒भं​यँ॒न् थ्सर्वा᳚श्च यातु धा॒न्यः॑ ।
कवचाय हुम् । 29

नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ।
उपकवचाय हुम् । 30

नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न्नमः॑ ।
तृतीय नेत्राय नमः । 31

प्रमुं॑च॒ धन्व॑न॒स्त्व-मु॒भयो॒-रार्त्नि॑यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ।
अस्त्राय फट् । 32

य ए॒तावं॑तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाग्ं॑॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
इति दिग्बंधः । 33

-----------इति प्रथम न्यासः------------
(शिखादि अस्त्रपर्यंतं एकत्रिंशदंगन्यासः दिग्बंध सहितः प्रथमः)





Browse Related Categories: