View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री महान्यासम् - 1. पंचांग रुद्रन्यासः

अथातः पंचांगरुद्राणां
न्यासपूर्वकं जप-होमा-र्चना-भिषेक-विधिं-व्याँ᳚ख्यास्यामः ।
अथातः पंचांगरुद्राणां
न्यासपूर्वकं जप-होमा-र्चनाभिषेकं करिष्यमाणः ।

हरिः ॐ अथातः पंचांग रुद्राणाम् ॥

ॐकारमंत्र सं​युँक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मै ॐकाराय नमो नमः ॥

नमस्ते देव देवेश नमस्ते परमेश्वर ।
नमस्ते वृषभारूढ नकाराय नमो नमः ॥

ॐ नमो भगवते॑ रुद्रा॒य ॥ ॐ भूर्भुव॒स्सुवः॑ ॥ ॐ नम् ॥

नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ।
ॐ नमो भगवते॑ रुद्रा॒य ॥ नं ओम् । पूर्वांग रुद्राय॒ नमः ॥ (प्राच्यै दिश, East)

महादेवं महात्मानं महापातकनाशनम् ।
महापापहरं-वंँदे मकाराय नमो नमः ॥

ॐ भूर्भुव॒स्सुवः॒ ॥ ॐ मम् ॥
ॐ निध॑नपतये॒ नमः । निधनपतांतिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिंगाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिंगाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिंगाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिंगाय॒ नमः ।
भवायः॒ नमः । भवलिंगाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिंगाय॒ नमः ।
शिवाय॒ नमः । शिवलिंगाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिंगाय॒ नमः ।
आत्माय॒ नमः । आत्मलिंगाय॒ नमः ।
परमाय॒ नमः । परमलिंगाय॒ नमः ।
एतथ्सोमस्य॑ सूर्य॒स्य सर्वलिंगग्ग्॑ स्थाप॒य॒ति॒ पाणिमंत्रं पवि॒त्रम् ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ मं ओम् ॥
दक्षिणांग रुद्राय॒ नमः ॥ (दक्षिण दिश, South)

शिवं शांतं जगन्नाथं-लोँकानुग्रहकारणम् ।
शिवमेकं परं-वंँदे शिकाराय नमो नमः ॥

ॐ भूर्भुव॒स्सुवः॒ ॥ ॐ शिम् ॥
अपै॑तुमृ॒त्युरमृतं॑ न॒ आग॑न् वैवस्व॒तो नो॒ अ॑भयं कृणोतु । प॒र्णं-वँन॒स्पतेरिवा॒भिनश्शीयताग्ं र॒यिस्सच॑तां न॒श्शची॒पतिः॑ ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ शिं ओम् ॥ पश्चिमांग रुद्राय॒ नमः ॥ (पश्चिम दिश, West)

वाहनं-वृँषभो यस्य वासुकी कंठभूषणम् ।
वामे शक्तिधरं-वंँदे वकाराय नमो नमः ॥

ॐ भूर्भुव॒स्सुवः॒ ॥ ॐ-वाँम् ॥
प्राणानां ग्रंथिरसि रुद्रो मा॑ विशां॒तकः । तेनान्नेना᳚प्याय॒स्व ॥ ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ वां ओम् ॥ उत्तरांग रुद्राय॒ नमः ॥ (उत्तर दिश, North)

यत्र कुत्र स्थितं देवं सर्वव्यापिनमीश्वरम् ।
यल्लिंगं पूजयेन्नित्यं-यँकाराय नमो नमः ॥

ॐ भूर्भुव॒स्सुवः॒ ॥ ॐ-यँम् ॥
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ यं ओम् ॥ ऊर्ध्वांग रुद्राय॒ नमः ॥ (ऊर्ध्व दिश, Up)




Browse Related Categories: