View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री महान्यासम् - 5.3. दशांग रौद्रीकरणम्

ॐ भूर्भुव॒स्सुवः॑ । ॐ ओम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्रा॒तार॒मिंद्र॑ मवि॒तार॒मिंद्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिंद्र᳚म् ।
हु॒वे नु श॒क्रं पु॑रुहू॒तमिंद्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विंद्रः॑ ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ॐ ओम् ।
पूर्वदिग्भागे ललाटस्थाने इंद्राय नमः ॥ 1 ॥ (तै.सं.1-6-12-50)

ॐ भूर्भुव॒स्सुवः॑ । ॐ नम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वांदे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । नं ओम् ।
आग्नेयदिग्भागे नेत्रयोस्थाने अग्नये नमः ॥ 2 ॥ (तै.सं.2-5-12-72)

ॐ भूर्भुव॒स्सुवः॑ । ॐ मोम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
सु॒गं नः॒ पंथा॒मभ॑यं कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषिं॑चंत दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । मों ओम् ।
दक्षिणदिग्भागे कर्णयोस्थाने यमाय नमः ॥ 3 ॥ (तै.ब्रा.3-1-2-11-23)

ॐ भूर्भुव॒स्सुवः॑ । ॐ भम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
असु॑न्वंत॒ मय॑जमानमिच्छस्ते॒नस्ये॒त्यांतस्क॑र॒स्यान्वे॑षि ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । भं ओम् ।
निर्.ऋतिदिग्भागे मुखस्थाने निर्.ऋतये नमः ॥ 4 ॥ (तै.सं.4-2-5-21)

ॐ भूर्भुव॒स्सुवः॑ । ॐ गम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वंद॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । गं ओम् ।
पश्चिमदिग्भागे बाह्वोस्थाने वरुणाय नमः ॥ 5 ॥ (तै.सं.2-1-11-65)

ॐ भूर्भुव॒स्सुवः॑ । ॐ-वँम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रग्म् । स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । वं ओम् ।
वायव्यदिग्भागे नासिकास्थाने वायवे नमः ॥ 6 ॥ (तै.ब्रा.2-8-1-2)

ॐ भूर्भुव॒स्सुवः॑ । ॐ तेम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
व॒यग्ं सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒बिभ्र॑तः ।
प्र॒जावं॑तो अशीमहि । इं॒द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । तें ओम् ।
उत्तरदिग्भागे जठरस्थाने कुबेराय नमः ॥ 7 ॥ (तै.ब्रा.2-4-2-7-18)

ॐ भूर्भुव॒स्सुवः॑ । ॐ रुम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियं जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । रुं ओम् ।
ईशान्यदिग्भागे नाभिस्थाने ईशानाय नमः ॥ 8 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ द्राम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इंद्र॑ज्येष्ठा अ॒स्माँ अ॑वंतु दे॒वाः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । द्रां ओम् ।
ऊर्ध्वदिग्भागे मूर्ध्निस्थाने आकाशाय नमः ॥ 9 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ-यँम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚ ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । यं ओम् ।
अधोदिग्भागे पादस्थाने पृथिव्यै नमः ॥ 10 ॥
[अप उपस्पृश्य]




Browse Related Categories: