View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मांगल्य स्तवः

दाल्भ्यः
कार्यारंभेषु सर्वेषु दुःस्वप्नेषु च सत्तम ।
अमांगल्येषु दृष्टेषु यज्जप्तव्यं तदुच्यताम् ॥ 1 ॥

येनारंभाश्च सिद्ध्यंति दुःस्वप्नश्चोपशाम्यति ।
अमंगलानां दृष्टानां परिहारश्च जायते ॥ 2 ॥

श्री पुलस्त्यः:
जनार्दनं भूतपतिं जगद्गुरुं स्मरन् मनुष्यः सततं महामुने ।
दुष्टान्यशेषण्यपहंति साधयति अशेषकार्याणि च यान्यभीप्सति ॥ 3 ॥

शृणुष्व चान्यत् गदतो ममाखिलं वदामि यत् ते द्विजवर्य! मंगलम् ।
सर्वार्थसिद्धिं प्रददाति यत् सदा निहंत्य्शेषाणि च पातकानि ॥ 4 ॥

प्रतिष्टितं यत्र जगच्चराचरं जगत्त्रये यो जगतश्च हेतुः ।
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 5 ॥

व्योमांबुवाय्वग्निमहीस्वरूपैः विस्तारवान् योऽणुतरोऽणुभावात् ।
अस्थूलसूक्ष्मः सततं परेश्वरो ममास्तु मांगल्यविवृद्धये हरिः ॥ 6 ॥

यस्मात् परस्मात् पुरुषादनंतात् अनादिमध्यादधिकं न किंचित् ।
स हेतुहेतुः परमेश्वरेश्वरः ममास्तु मांगल्यविवृद्धये हरिः ॥ 7 ॥

हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषं परिपाति हंति ।
गुणाग्रणीर्यो भगवान् स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 8 ॥

परः सुराणां परमोऽसुराणां परो यतीनां परमो मुनीनाम् ।
परः समस्तस्य च यः स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 9 ॥

ध्यातो मुनीनामपकल्मषैर्यो ददाति मुक्तिं परमेश्वरेश्वरः ।
मनोभिरामः पुरुषः स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 10 ॥

सुरेंद्रवैवस्वतवित्तपांबुपस्वरूपरूपी परिपाति यो जगत् ।
स शुद्धशुद्धः परमेश्वरेश्वरो ममास्तु मांगल्यविवृद्धये हरिः ॥ 11 ॥

यन्नामसंकीर्तनतो विमुच्यते ह्यनेकजन्मार्जितपापसंचयात् ।
पापेंधनाग्निः स सदैव निर्मलो ममास्तु मांगल्यविवृद्धये हरिः ॥ 12 ॥

येनोद्धृतेयं धरणी रसातलात् अशेषसृष्टिस्थितिकारणादिकम् ।
बिभर्ति विश्वं जगतः स मूलं ममास्तु मांगल्यविवृद्धये हरिः ॥ 13 ॥

पादेषु वेदा जठरे चराचरं रोमस्वशेषा मुनयो मुखे मखाः ।
यस्येश्वरेशस्य स सर्वदा प्रभुः ममास्तु मांगल्यविवृद्धये हरिः ॥ 14 ॥

समस्त यज्ञांगमयं वपुः प्रभोः यस्यांगमीशेश्वरसंस्तुतस्य ।
वराहरूपी भगवान् स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 15 ॥

विक्षोभ्य सर्वोदधितोयसंभवं दधार धात्रीं जगतश्च यो भुवम् ।
यज्ञेश्वरो यज्ञपुमान् स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 16 ॥

पातालमूलेश्वरभोगिसंहतो विन्यस्य पादौ पृतिवीं च बिभ्रतः ।
यस्योपमानं न बभूव सोऽच्युतो ममास्तु मांगल्यविवृद्धये हरिः ॥ 17 ॥

सघर्घरं यस्य च बृंहितं मुहुः सनंदनाद्यैर्जनलोकसंश्रितैः ।
श्रुतं जयेत्युक्तिपरैः स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 18 ॥

एकार्णवाद् यस्य महीयसौ महीं आदाय वेगेन खमुत्पतिष्यतः ।
नतं वपुर्योगिवरैः स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 19 ॥

हतो हिरण्याक्षमहासुरः पुरा पुराणपुंसा परमेण येन ।
वराहरूपः स पतिः प्रजापतिः ममास्तु मांगल्यविवृद्धये हरिः ॥ 20 ॥

दंष्ट्राकरालं सुरभीतिनाशकं कृतं वपुर्दिव्यनृसिंहरूपिणा ।
त्रातुं जगत् येन स सर्वदा प्रभुः ममास्तु मांगल्यविवृद्धये हरिः ॥ 21 ॥

दैत्येंद्रवक्षःस्थलदारदारुणैः
करेरुहैर्यः क्रकचानुकारिभिः ।
विच्छेद लोकस्य भयानि सोऽच्युतो
ममास्तु मांगल्यविवृद्धये हरिः ॥ 22 ॥

दंतांतदीप्तद्युतिनिर्मलानि यः चकार सर्वाणि दिशां मुखानि ।
निनादवित्रासितदानवो ह्यसौ ममास्तु मांगल्यविवृद्धये हरिः ॥ 23 ॥

यन्नामसंकीर्तनतो महाभयात् विमोक्षमाप्नोति न संशयं नरः ।
स सर्वलोकार्तिहरो नृकेसरी ममास्तु मांगल्यविवृद्धये हरिः ॥ 24 ॥

सटाकरालभ्रमणानिलाहताः स्फुटंति यस्यांबुधराः समंततः ।
स दिव्यसिंहः स्फुरितानलेक्षणो ममास्तु मांगल्यविवृद्धये हरिः ॥ 25 ॥

यदीक्षणज्योतिषि रश्मिमंडलं प्रलीनमीषन्न रराज भास्वतः ।
कुतः शशांकस्य स दिव्यरूपधृक् ममास्तु मांगल्यविवृद्धये हरिः ॥ 26 ॥

अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम् ।
स सर्वलोकार्तिहरो महाहरिः ममास्तु मांगल्यविवृद्धये हरिः ॥ 27 ॥

द्रवंति दैत्याः प्रणमंति देवताः नश्यंति रक्षांसि अपयांति चारयः ।
यत्कीर्तनात् सोऽद्भुतरूपकेसरी ममास्तु मांगल्यविवृद्धये हरिः ॥ 28 ॥

ऋक्पावितं यो यजुषा हि श्रीमत् सामध्वनिध्वस्तसमस्तपातकम् ।
चक्रे जगत् वामनकः स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 29 ॥

यत्पादविन्यासपवित्रतां मही ययौ वियच्चर्ग्यजुषामुदीरणात् ।
स वामनो दिव्यशरीररूपदृं ममास्तु मांगल्यविवृद्धये हरिः ॥ 30 ॥

यस्मिन् प्रयातेऽसुरभूभृतोऽध्वरात् ननाम खेदादवनिः ससागरा ।
स वामनः सर्वजगन्मयः सदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 31 ॥

महाद्भुते दैत्यपतेर्महाध्वरे यस्मिन् प्रविष्टे क्षुभितं महासुरैः ।
स वामनोऽंतस्थितसप्तलोकधृं ममास्तु मांगल्यविवृद्धये हरिः ॥ 32 ॥

संघैः सुराणां दिवि भूतलस्थितैः तथा मनुष्यैर्गगने च खेचरैः ।
स्तुतः क्रमाद् यः प्रच्चार सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 33 ॥

क्रांत्वा धरित्रीं गगनं तथा दिवं मरुत्पतेर्यः प्रददौ त्रिविष्टपम् ।
स देवदेवो भुवनेश्वरेश्वरो ममास्तु मांगल्यविवृद्धये हरिः ॥ 34 ॥

अनुग्रहं चापि बलेरनुत्त्मं चकार यश्चेंद्रपदोपमं क्षणात् ।
सुरांश्च यज्ञांशभुजः स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 35 ॥

रसातलाद् येन पुरा समाहृताः समस्तवेदा जलचाररिरूपिणा ।
स कैटभारिमधुहाऽंबुशायी ममास्तु मांगल्यविवृद्धये हरिः ॥ 36 ॥

निःक्षत्रियं यश्च चकार मेदिनीं अनेकशो बाहुवनं तथाऽच्छिनत् ।
यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु मांगल्यविवृद्धये हरिः ॥ 37 ॥

निहत्य यो वालिनमुग्रविक्रमं
निबद्ध्य सेतुं जलधौ दशाननम् ।
जघान चान्यान् रजनीचरान् असौ
ममास्तु मांगल्यविवृद्धये हरिः ॥ 38 ॥

चिक्षेप बालः शकटं, बभंज यो यमार्जुनं, कंसमरिं जघान च ।
ममर्द चाणूरमुखान् स सर्वदा ममास्तु मांगल्यविवृद्धये हरिः ॥ 39 ॥

प्रातः सहस्रांशुमरीचिनिर्मलं करेण बिभ्रत् भगवान् सुदर्शनम् ।
कौमोदकी चापि गदामनंतो ममास्तु मांगल्यविवृद्धये हरिः ॥ 40 ॥

हिमेंदुकुंदस्फटिकाभनिर्मलं मुखानिलापूरितमीश्वरेश्वरः ।
मध्याह्नकालेऽपि स शन्खमुद्वहन् ममास्तु मांगल्यविवृद्धये हरिः ॥ 41 ॥

तथापराह्णे प्रविकासि पंकजं वक्षस्थलेन श्रियमुद्वहन् हरिः ।
विस्तारिपद्मायतपत्रलोचनो ममास्तु मांगल्यविवृद्धये हरिः ॥ 42 ॥

सर्वेषु कालेषु समस्तदेशेषु अशेषकार्येषु तथेश्वरेश्वरः ।
सर्वैः स्वरूपैर्भगवान् अनादिमान् ममास्तु मांगल्यविवृद्धये हरिः ॥ 43 ॥

एतत् पठन् दाल्भ्य समस्तपापैः
विमुच्यते विष्णुपरो मनुष्यः ।
सिद्ध्यंति कार्याणि तथाऽस्य सर्वान्
अर्थानवाप्नोति यथेच्छते तान् ॥ 44 ॥

दुःस्वप्नः प्रशममुपैति पठ्यमाने
स्तोत्रेऽस्मिन् श्रवणविधौ सदोद्यतस्य ।
प्रारंभो द्रुतमुपयाति सिद्धिमीशः
पापानि क्षपयति चास्य देवदेवः ॥ 45 ॥

मांगल्यं परमपदं सदाऽर्थसिद्धिं
निर्विघ्नामधिकफलां श्रियं ददाति ।
किं लोके तदिह परत्र चापि पुंसां
यद्विष्णुप्रवणधियां न दाल्भ्य! साध्यम् ॥ 46 ॥

देवेंद्रस्त्रिभुवनमर्थमेकपिंगः
संसिद्धिं त्रिभुवनगां च कार्तवीर्यः ।
वैदेहः परमपदं प्रसाद्य विष्णुं
संप्राप्ताः सकलफलप्रदो हि विष्णुः ॥ 47 ॥

सर्वारंभेषु दाल्भ्यैतद् दुःस्वप्नेषु च पंडितः ।
जपेदेकमना विष्णौ तथाऽमंगल्यदर्शने ॥ 48 ॥

शमं प्रयांति दुष्टानि ग्रहपीडाश्च दारुणाः ।
कर्मारंभाश्च सिद्ध्यंति पुण्यमाप्नोति चोत्तमम् ॥ 49 ॥

हरिर्ददाति भद्राणि मंगल्यस्तुतिसंस्तुतः ।
करोत्यखिलरूपैस्तु रक्षामक्षतशक्तिभृत् ॥ 50 ॥

॥ श्रीविष्णुधर्मोत्तरांतर्गतः मांगल्यस्तवः संपूर्णः ॥




Browse Related Categories: