View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

कृष्ण स्तुतिः (अक्रूर कृता)

(पद्मपुराण, उत्तरखंड, 245.304-318)

दृष्ट्वा तस्मिन् जले देवं विस्मयं परमं ययौ ।
तुष्टावाथ यदुश्रेष्ठो हरिं सर्वगमीश्वरम् ॥ 304 ॥

अक्रूर उवाच ।
कालात्मने नमस्तुभ्यमनादिनिधनाय च ।
अव्यक्ताय नमस्तुभ्यमविकाराय ते नमः ॥ 305 ॥

भूतभर्त्रे नमस्तुभ्यं भूतव्याघ्र नमो नमः ।
नमस्ते सर्वभूतानां नियंत्रे परमात्मने ॥ 306 ॥

विकारायाविकाराय प्रत्यक्षपुरुषाय च ।
गुणभर्त्रे नमस्तुभ्यं नियमाय नमो नमः ॥ 307 ॥

देशकालादिनिर्भेदरहिताय परात्मने ।
अनंताय नमस्तुभ्यमच्युताय नमो नमः ॥ 308 ॥

गोविंदाय नमस्तुभ्यं त्रयीनाथाय शारंगिणे ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ 309 ॥

विष्णवे पुरुरूपाय शाश्वताय नमो नमः ।
पद्मनेत्राय नित्याय शंखचक्रधराय च ॥ 310 ॥

उद्यत्कोटिरविप्रख्य भूषणांचितवर्चसे ।
हरये सर्वलोकानामीश्वराय नमो नमः ॥ 311 ॥

सवित्रे सर्वजगतां बीजाय परमात्मने ।
संकर्षणाय कृष्णाय प्रद्युम्नाय नमो नमः ॥ 312 ॥

अनिरुद्धाय धात्रे च विधात्रे विश्वयोनये ।
सहस्रमूर्त्तये तुभ्यं बहुमूर्द्धांघ्रिबाहवे ॥ 313 ॥

सहस्रनाम्ने नित्याय पुरुषाय नमो नमः ।
नमस्ते नागपर्यंकशायिने सौम्यरूपिणे ॥ 314 ॥

केशवाय नमस्तुभ्यं पीतवस्त्रधराय च ।
लक्ष्मीघनकुचाश्लेषविमर्दोज्ज्वलवर्चसे ।
श्रीधराय नमस्तुभ्यं श्रीशायानंतरूपिणे ॥ 315 ॥

ईश्वर उवाच ।
स्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् ।
इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ॥ 316 ॥

सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमाप्नुयात् ।
एवमंतर्जले देवं स्तुत्वा भागवतोत्तमः ॥ 317 ॥

अर्चयामास स जलैः कुसुमैश्च सुगंधिभिः ।
कृतकृत्यस्तदाक्रूरो निर्गत्य यमुनाजलात् ॥ 318 ॥

॥ इति श्रीपद्मपुराणे उत्तरखंडे पंचचत्वारिंशाधिकद्विशततमाध्यायांतर्गतं अक्रूरकृता श्रीकृष्णस्तुतिः समाप्ता ॥




Browse Related Categories: