View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

सुंदरकांड प्रार्थना श्लोकाः

मनोजवं मारुततुल्यवेगं
जितेंद्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥

अंजनानंदनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहंतारं वंदे लंकाभयंकरम् ॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वंदेऽनिलात्मजम् ॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकांजलिम् ।
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसांतकम् ॥

वंदे वानर-नारसिंह-खगराट्-क्रोडाश्ववक्त्रांचितं
नानालंकरणं त्रिपंचनयनं देदीप्यमानं रुचाम् ।
हस्ताभैरसिखेटपुस्तकसुधाभांडं कुशाद्रीन् हलं
खट्वांगं फणिवृक्षधृद्दशभुजं सर्वारिगर्वापहम् ॥

सर्वारिष्टनिवारकं शुभकरं पिंगाक्षमक्षापहं
सीतान्वेषणतत्परं कपिवरं कोटींदुसूर्यप्रभम् ।
लंकाद्वीपभयंकरं सकलदं सुग्रीवसम्मानितं
देवेंद्रादि समक्तदेवविनुतं काकुत्थदूतं भजे ॥

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमच्छरणाद्भवेत् ॥

नमोऽस्तुरामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेंद्रयमानिलेभ्यो नमोऽस्तु चंद्रार्कमरुद्गणेभ्यः ॥

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥

दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥

अर्दयित्वा पुरीं लंकां अभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥

धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि ।
पौरुषे चाप्रतिद्वंद्वः शरैनं जहि रावणिम् ॥

सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यः ददाम्येतद्व्रतं मम ॥

इति सुंदरकांड प्रार्थना श्लोकाः समाप्ता ।




Browse Related Categories: