View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.7 युद्धकांड - सप्तम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तमस्सर्गः ।

इत्युक्ताराक्षसेंद्रेणराक्षसास्तेमहाबलाः ।
ऊचुःप्रान्जलयःसर्वेरावणंराक्षसेश्वरम् ॥ 1 ॥

द्विषत्पक्षमविज्ञायनीतिबाह्यास्त्वबुद्धयः ।
राजन्परिघशक्त्यृष्टिशूलपट्टिशकुंतलम् ॥ 2 ॥

इत्युक्ताराक्षसेंद्रेणराक्षसास्तेमहाबलाः ।
ऊचुःप्रान्जलयःसर्वेरावणंराक्षसेश्वरम् ॥ 3 ॥

द्विषत्पक्षमविज्ञायनीतिबाह्यास्त्वबुद्धयः ।
राजन्परिघशक्त्यृष्टिशूलपट्टिशकुंतलम् ॥ 4 ॥

सुमहन्नोबलंकस्माद्विषादंभजतेभवान् ।
त्वयाभोगवतींगत्वानिर्जिताःपन्नगायुधि ॥ 5 ॥

कैलासशिखरावासीयक्षैर्बहुभिरावृतः ।
सुमहत्कदनंकृत्वावश्यस्तेधनदःकृतः ॥ 6 ॥

समहेश्वरसख्येनश्लाघमानस्त्वयाविभो ।
निर्जितःसमरेरोषाल्लोकपालोमहाबलः ॥ 7 ॥

विनिहत्यचयक्षौघान्विक्षोभ्यचविनिगृह्यच ।
त्वयाकैलासशिखराद्विमानमिदमाहृतम् ॥ 8 ॥

मयेनदानवेंद्रेणत्वद्भयात्सख्यमिच्छता ।
दुहितातवभार्यार्थेदत्ताराक्षसपुंगव ॥ 9 ॥

दानवेंद्रोमधुर्नामवीर्योत्सिक्तोदुरासदः ।
विगृह्यवशमानीतःकुंभीनस्याःसुखावहः ॥ 10 ॥

निर्जितास्तेमहाबाहोनागागत्वारसातलम् ।
वासुकिस्तक्षकःशङखोजटीचवशमाहृताः ॥ 11 ॥

अक्षयाबलवंतश्चशूरालब्धवराःपुनः ।
त्वयासंवत्सरंयुद्ध्वासमरेदानवाविभो ॥ 12 ॥

स्वबलंसमुपाश्रित्यनीतावशमरिंदम ।
मायाश्चाधिगतास्तत्रबह्व्योवैराक्षसाधिप ॥ 13 ॥

शूराश्चबलवंतश्चवरुणस्यसुतारणे ।
निर्जितास्तेमहाभागचतुर्विधबलानुगाः ॥ 14 ॥

मृत्युदंडमहाग्राहंशाल्मलिद्रुममंडितम् ।
कालपाशमहावीचिंयमकिंकरपन्नगम् ॥ 15 ॥

महाज्वरेणदुर्धर्षंयमलोकमहार्णवम् ।
अवगाह्यत्वयाराजन्यमस्यबलसागरम् ॥ 16 ॥

जयश्चविपुलःप्राप्तोमृत्युश्चप्रतिषेधितः ।
सुयुद्धेनचतेसर्वेलोकास्तत्रसुतोषिताः ॥ 17 ॥

क्षत्रियैर्बहुभिर्वीरैःशक्रतुल्यपराक्रमैः ।
आसीद्वसुमतीपूर्णामहद्भिरिवपादपैः ॥ 18 ॥

तेषांवीर्यगुणोत्साहैर्नसमोराघवोरणे ।
प्रसह्यतेत्वयाराजन्हताःसमरदुर्जयाः ॥ 19 ॥

तिष्ठवाकिंमहाराजश्रमे णतववानरान् ।
अयमेकोमहाबाहुरिंद्रजित्क्षपयिष्यति ॥ 20 ॥

अनेनहिमहाराजमहेश्वरमनुत्तमम् ।
इष्ट्वायज्ञंवरोलब्धोलोकेपरमदुर्लभः ॥ 21 ॥

शक्तितोमरमीनंचविनिकीर्णांत्रशैवलम् ।
गजकछपसंबाधमश्वमंडूकसंकुलम् ॥ 22 ॥

रुद्रादित्यमहाग्राहंमरुद्वसुमहोरगम् ।
रथश्वगजतोयौघंपदातिपुलिनंमहत् ॥ 23 ॥

अनेनहिसमासाद्यदेवानांबलसागरम् ।
गृहीतोदैवतपतिर्लंकांचापिप्रवेशितः ॥ 24 ॥

पितामहनियोगाच्चमुक्तःशंबरवृत्रहा ।
गतस्त्रिविष्टपम्राजन्सर्वदेवनमस्कृतः ॥ 25 ॥

तमेवत्वंमहाराजविसृजेंद्रजितंसुतम् ।
यावद्वानरसेनांतांसरामांनयतिक्षयम् ॥ 26 ॥

राजन्नापदयुक्तेयमागताप्राकृताज्जनात् ।
हृदिनैवत्वयाकार्यात्वंवधिष्यसिराघवम् ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तमस्सर्गः ॥




Browse Related Categories: