श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तमस्सर्गः ।
इत्युक्ताराक्षसेन्द्रेणराक्षसास्तेमहाबलाः ।
ऊचुःप्रान्जलयःसर्वेरावणंराक्षसेश्वरम् ॥ 1 ॥
द्विषत्पक्षमविज्ञायनीतिबाह्यास्त्वबुद्धयः ।
राजन्परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम् ॥ 2 ॥
इत्युक्ताराक्षसेन्द्रेणराक्षसास्तेमहाबलाः ।
ऊचुःप्रान्जलयःसर्वेरावणंराक्षसेश्वरम् ॥ 3 ॥
द्विषत्पक्षमविज्ञायनीतिबाह्यास्त्वबुद्धयः ।
राजन्परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम् ॥ 4 ॥
सुमहन्नोबलङ्कस्माद्विषादम्भजतेभवान् ।
त्वयाभोगवतीङ्गत्वानिर्जिताःपन्नगायुधि ॥ 5 ॥
कैलासशिखरावासीयक्षैर्बहुभिरावृतः ।
सुमहत्कदनङ्कृत्वावश्यस्तेधनदःकृतः ॥ 6 ॥
समहेश्वरसख्येनश्लाघमानस्त्वयाविभो ।
निर्जितःसमरेरोषाल्लोकपालोमहाबलः ॥ 7 ॥
विनिहत्यचयक्षौघान्विक्षोभ्यचविनिगृह्यच ।
त्वयाकैलासशिखराद्विमानमिदमाहृतम् ॥ 8 ॥
मयेनदानवेन्द्रेणत्वद्भयात्सख्यमिच्छता ।
दुहितातवभार्यार्थेदत्ताराक्षसपुङ्गव ॥ 9 ॥
दानवेन्द्रोमधुर्नामवीर्योत्सिक्तोदुरासदः ।
विगृह्यवशमानीतःकुम्भीनस्याःसुखावहः ॥ 10 ॥
निर्जितास्तेमहाबाहोनागागत्वारसातलम् ।
वासुकिस्तक्षकःशङखोजटीचवशमाहृताः ॥ 11 ॥
अक्षयाबलवन्तश्चशूरालब्धवराःपुनः ।
त्वयासंवत्सरंयुद्ध्वासमरेदानवाविभो ॥ 12 ॥
स्वबलंसमुपाश्रित्यनीतावशमरिन्दम ।
मायाश्चाधिगतास्तत्रबह्व्योवैराक्षसाधिप ॥ 13 ॥
शूराश्चबलवन्तश्चवरुणस्यसुतारणे ।
निर्जितास्तेमहाभागचतुर्विधबलानुगाः ॥ 14 ॥
मृत्युदण्डमहाग्राहंशाल्मलिद्रुममण्डितम् ।
कालपाशमहावीचिंयमकिङ्करपन्नगम् ॥ 15 ॥
महाज्वरेणदुर्धर्षंयमलोकमहार्णवम् ।
अवगाह्यत्वयाराजन्यमस्यबलसागरम् ॥ 16 ॥
जयश्चविपुलःप्राप्तोमृत्युश्चप्रतिषेधितः ।
सुयुद्धेनचतेसर्वेलोकास्तत्रसुतोषिताः ॥ 17 ॥
क्षत्रियैर्बहुभिर्वीरैःशक्रतुल्यपराक्रमैः ।
आसीद्वसुमतीपूर्णामहद्भिरिवपादपैः ॥ 18 ॥
तेषांवीर्यगुणोत्साहैर्नसमोराघवोरणे ।
प्रसह्यतेत्वयाराजन्हताःसमरदुर्जयाः ॥ 19 ॥
तिष्ठवाकिम्महाराजश्रमे णतववानरान् ।
अयमेकोमहाबाहुरिन्द्रजित्क्षपयिष्यति ॥ 20 ॥
अनेनहिमहाराजमहेश्वरमनुत्तमम् ।
इष्ट्वायज्ञंवरोलब्धोलोकेपरमदुर्लभः ॥ 21 ॥
शक्तितोमरमीनञ्चविनिकीर्णान्त्रशैवलम् ।
गजकछपसम्बाधमश्वमण्डूकसङ्कुलम् ॥ 22 ॥
रुद्रादित्यमहाग्राहम्मरुद्वसुमहोरगम् ।
रथश्वगजतोयौघम्पदातिपुलिनम्महत् ॥ 23 ॥
अनेनहिसमासाद्यदेवानाम्बलसागरम् ।
गृहीतोदैवतपतिर्लङ्काञ्चापिप्रवेशितः ॥ 24 ॥
पितामहनियोगाच्चमुक्तःशम्बरवृत्रहा ।
गतस्त्रिविष्टपम्राजन्सर्वदेवनमस्कृतः ॥ 25 ॥
तमेवत्वम्महाराजविसृजेन्द्रजितंसुतम् ।
यावद्वानरसेनान्तांसरामान्नयतिक्षयम् ॥ 26 ॥
राजन्नापदयुक्तेयमागताप्राकृताज्जनात् ।
हृदिनैवत्वयाकार्यात्वंवधिष्यसिराघवम् ॥ 27 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तमस्सर्गः ॥