View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.57 अरण्यकांड - सप्तपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तपंचाशस्सर्गः ।

राक्षसं मृगरूपेण चरंतं कामरूपिणम् ।
निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत ॥ 1 ॥

तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् ।
क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥ 2 ॥

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।
चिंतयामास गोमायोस्स्वरेण परिशंकितः ॥ 3 ॥

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा ।
स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥ 4 ॥

मारीचेन तु विज्ञाय स्वरमालंब्य मामकम् ।
विक्रुष्टं मृगरूपेण लक्ष्मणश्शृणुयाद्यदि ॥ 5 ॥

स सौमित्रिस्स्वरं श्रुत्वा तां च हित्वाच मैथिलीम् ।
तयेह प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥ 6 ॥

राक्षसैस्सहितैर्नूनं सीताया ईप्सितो वधः ।
कांचनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ॥ 7 ॥

दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छरा हतः ।
हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह ॥ 8 ॥

अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने ।
जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ॥ 9 ॥

निमित्तानि च घोराणि दृश्यंतेऽद्य बहूनि च ।
इत्येवं चिंतयन्रामश्श्रुत्वा गोमायुनिस्स्वनम् ॥ 10 ॥

आत्मनश्चापनयनान्मृगरूपेण रक्षसा ।
आजगाम जनस्थानं राघवः परिशंकितः ॥ 11 ॥

तं दीनमनसो दीनमासेदुर्मृगपक्षिणः ।
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुस्स्वरान् ॥ 12 ॥

तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।
न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ॥ 13 ॥

सीतां स तु वरारोहां लक्ष्मणं च महाबलम् ।
आजगाम जनस्थानं चिंतयन्नेव राघवः ॥ 14 ॥

ततो लक्ष्मणमायांतं ददर्श विगतप्रभम् ।
ततोऽविदूरे रामेण समीयाय स लक्ष्मणः ॥ 15 ॥

विषण्णस्सुविषण्णेन दुःखितो दुःखभागिना ।
संजगर्हेऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम् ॥ 16 ॥

विहाय सीतां विजने वने राक्षससेविते ।
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनंदनः ॥ 17 ॥

उवाच मधुरोदर्कमिदं परुषमार्तिमत् ।
अहो लक्ष्मण गर्ह्यं ते कृतं यस्त्वं विहाय ताम् ॥ 18 ॥

सीतामिहाऽगतस्सौम्य कच्चित्स्वस्ति भवेदिह ।
न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा ॥ 19 ॥

विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ।
अशुभान्येव भूयिष्ठं यथा प्रादुर्भवंति मे ॥ 20 ॥

अपि लक्ष्मण सीतायास्सामग्र्यं प्राप्नुयावहे ।
जीवंत्याः पुरुषव्याघ्र सुताया जनकस्य वै ॥ 21 ॥

यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् ।
वाश्यंते शकुनाश्चापि प्रदीप्तामभितो दिशम् ॥ 22 ॥

अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ।
इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयांतम् ।
हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव ॥ 23 ॥

मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् ।
असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तपंचाशस्सर्गः ॥




Browse Related Categories: