श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ द्वितीयस्सर्गः ।
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ।
वरायुधधरौ वीरौ सुग्रीवश्शंकितोऽभवत् ॥ 1 ॥
उद्विग्नहृदयस्सर्वा दिशस्समवलोकयन् ।
न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुंगवः ॥ 2 ॥
नैव चक्रे मनः स्थातुं वीक्षमाणो महाबलौ ।
कपेः परमभीतस्य चित्तं व्यवससाद ह ॥ 3 ॥
चिंतयित्वा स धर्मात्मा विमृश्य गुरुलाघवम् ।
सुग्रीवः परमोद्विग्नस्सर्वैरनुचरैस्सह ॥ 4 ॥
ततस्स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ।
शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ ॥ 5 ॥
एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ।
छद्मना चीरवसनौ प्रचरंताविहागतौ ॥ 6 ॥
ततस्सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ ।
जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥ 7 ॥
ते क्षिप्रमधिगम्याथ यूथपा यूथपर्षभम् ।
हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ॥ 8 ॥
एकमेकायनगताः प्लवमाना गिरेर्गिरिम् ।
प्रकंपयंतो वेगेन गिरीणां शिखराण्यपि ॥ 9 ॥
ततश्शाखामृगास्सर्वे प्लवमाना महाबलाः ।
बभंजुश्च नगांस्तत्र पुष्पितांदुर्गसंश्रितान् ॥ 10 ॥
आप्लवंतो हरिवरास्सर्वतस्तं महागिरिम् ।
मृगमार्जारशार्दूलांस्त्रासयंतो ययुस्तदा ॥ 11 ॥
ततस्सुग्रीवसचिवाः पर्वतेंद्रं समाश्रिताः ।
संगम्य कपिमुख्येन सर्वे प्रांजलय स्थिताः ॥ 12 ॥
ततस्तं भयसंविग्नं वालिकिल्बिषशंकितम् ।
उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ॥ 13 ॥
संभ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान् ।
मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः ॥ 14 ॥
यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुंगव ।
तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥ 15 ॥
यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः ।
स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम् ॥ 16 ॥
अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगम ।
लघुचित्ततयाऽत्मानं न स्थापयसि यो मतौ ॥ 17 ॥
बुद्धिविज्ञानसंपन्न इंगितैस्सर्वमाचर ।
न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥ 18 ॥
सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ।
ततश्शुभतरं वाक्यं हनूमंतमुवाच ह ॥ 19 ॥
दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ।
कस्य न स्याद्भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥ 20 ॥
वालिप्रणिहितावेतौ शंकेऽहं पुरुषोत्तमौ ।
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥ 21 ॥
अरयश्च मनुष्येण विज्ञेयाश्छद्मचारिणः ।
विश्वस्तानामविश्वस्तारंध्रेषु प्रहरंति हि ॥ 22 ॥
कृत्येषु वाली मेधावी राजानो बहुदर्शिनः ।
भवंति परहंतारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥ 23 ॥
तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम ।
इंगितानां प्रकारैश्च रूपव्याभाषणेन च ॥ 24 ॥
लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि ।
विश्वासयन्प्रशंसाभिरिंगितैश्च पुनः पुनः ॥ 25 ॥
ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव ।
प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥ 26 ॥
शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगम ।
व्याभाषितैर्वा विज्ञेया स्याद्दुष्टाऽदुष्टता तयोः ॥ 27 ॥
इत्येवं कपिराजेन संदिष्टो मारुतात्मजः ।
चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥ 28 ॥
तथेति संपूज्य वचस्तु तस्य तत्कपेस्सुभीमस्य दुरासदस्य च ।
महानुभावो हनुमान्ययौ तदा स यत्र रामोऽतिबलश्च लक्ष्मणः ॥ 29 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे द्वितीयस्सर्गः ॥