View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.36 अरण्यकांड - षट्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षट्त्रिंशस्सर्गः ।

मारीच श्रूयातां तात वचनं मम भाषतः ।
आर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः ॥ 1 ॥

जानीषे त्वं जनस्थाने यथा भ्राता खरो मम ।
दूषणश्च महाबाहु स्वसा शूर्पणखा च मे ॥ 2 ॥

त्रिशिराश्च महातेजा राक्षसः पिशिताशनः ।
अन्ये च बहवश्शूरा लब्धलक्षा निशाचराः ॥ 3 ॥

वसत्नि मन्नियोगेन नित्यवासं च राक्षसाः ।
बाधमाना महारण्ये मुनीन्वै धर्मचारिणः ॥ 4 ॥

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥ 5 ॥

ते त्विदानीं जनस्थाने वसमाना महाबलाः ।
संगताः परमायत्ता रामेण सह संयुगे ॥ 6 ॥

नानाप्रहरणोपेताः खरप्रमुखराक्षसाः ।
तेन संजातरोषेण रामेण रणमूर्धनि ।
अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः ॥ 7 ॥

चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् ।
निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना ॥ 8 ॥

खरश्च निहतस्संख्ये दूषणश्च निपातितः ।
हतश्च त्रिशिराश्चापि निर्भया दंडकाः कृताः ॥ 9 ॥

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ।
स हंता तस्य सैन्यस्य रामः क्षत्रियपांसनः ॥ 10 ॥

दुश्शीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेंद्रियः ॥ 11 ॥

त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ।
येन वैरं विनाऽरण्ये सत्वमाश्रित्य केवलम् ॥ 12 ॥

कर्णनासापहरणाद्भगिनी मे विरूपिता ।
तस्यभार्यां जनस्थानात्सीतां सुरसुतोपमाम् ॥ 13 ॥

आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ।
त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ॥ 14 ॥

भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिंतये ।
तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस ॥ 15 ॥

वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव ।
उपायज्ञो महान्शूरस्सर्वमायाविशारदः ॥ 16 ॥

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ।
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ 17 ॥

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिंदुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ 18 ॥

त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम् ।
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ 19 ॥

ततस्तयोरपाये तु शून्ये सीतां यथासुखम् ।
निराबाधो हरिष्यामि राहुश्चंद्रप्रभामिव ॥ 20 ॥

ततः पश्चात्सुखं रामे भार्याहरणकर्शिते ।
विस्रब्धः प्रहरिष्यामि कृतार्थेनांतरात्मना ॥ 21 ॥

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः ।
शुष्कं समभवद्वक्त्रं परितप्ता बभूव ह ॥ 22 ॥

ओष्ठौ परिलिहंचुष्कौ नेत्रैरनिमिषैरिव ।
मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥ 23 ॥

स रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः ।
कृतांजलिस्तत्वमुवाच वाक्यं हितं च तस्मै हितमात्मनश्च ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षट्त्रिंशस्सर्गः ॥




Browse Related Categories: