View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

6.88 युद्धकांड - अष्टाशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टाशीतितमस्सर्गः ।

विभीषणवच्श्रुत्वारावणिःक्रोधमूर्छितः ।
अब्रवीत्परुषंवाक्यंवेगेनाभ्युत्पपात च ॥ 1 ॥

उद्यतायुधनिस्त्रिंशोरथेसुसमलंकृते ।
कालाश्वयुक्तेमहतिस्थितःकालांतकोपमः ॥ 2 ॥

महाप्रमाणमुद्यम्यविपुलंवेगवद्धृढम् ।
धनुर्बीमंपरामृश्यशरांश्चामित्रनाशनान् ॥ 3 ॥

तंददर्शमहेष्वासोरथस्थस्समलंकृतः ।
अलंकृतममित्रघ्नोराघवस्यानुजंबली ॥ 4 ॥

हनुमत्पृष्ठरूढमुदस्थरविप्रभम् ।
उवाचैनंसमारब्धः सौमित्रिंसविभीषणम् ॥ 5 ॥

तांश्चवानरशार्दूलान् पश्यध्वंमेपराक्रमम् ।
अद्यमत्कार्मुकोत्सृष्टंशरवर्षंदुरासदम् ॥ 6 ॥

मुक्तंवर्षमिवाकाशेवारयिष्यथसंयुगे ।
अद्यवोमामकाबाणामहाकार्मुनिस्सृताः ॥ 7 ॥

विधमिष्यंतिगात्राणितूलराशिमिवानलः ।
तीक्षणसायकनिर्भन्नान्शूलशक्त्यृष्टितोमरैः ॥ 8 ॥

अद्यवोगमयिष्यामिसर्वानेनयमक्षयम् ।
क्षिपतश्शरवर्षाणिक्षिप्रहस्तस्यसम्युगे ॥ 9 ॥

जीमूतस्येननदतःकःस्थास्यतिममाग्रतः ।
रात्रियुद्धेमयापूर्वंवज्राशनिसमैःशरैः ॥ 10 ॥

शायितौस्थोमयाभूमौविसंज्ञौसपुरस्सरौ ।
स्मृतिर्नतेऽस्तिवामन्येव्यक्तंवायमसादनम् ॥ 11 ॥

आशीविषमिवक्रुद्धंयन्मांयोद्धुव्यवत्थितः ।
तच्छ्रुत्वाराक्षसेंद्रस्यगर्जितंलक्ष्मणस्तदा ॥ 12 ॥

अभीतवदनःक्रुद्धोरावणिंवाक्यमब्रवीत् ।
उक्तश्चदुर्गमःपारःकार्याणांराक्षसत्वया ॥ 13 ॥

कार्याणांकर्मणांपारंयोगच्छति स बुद्धिमान् ।
सत्वमर्थस्यहीनार्थोदुरवासस्यकेनचित् ॥ 14 ॥

वाचाव्याहृत्यजानीषेकृतार्थोऽस्मीतिदुर्मते ।
अंतर्धानगतेनाजौयस्त्वयाचरितस्तदा ॥ 15 ॥

तस्कराचरितोमार्गःनैषवीरनिषेवितः ।
यथाबाणपथंप्राप्यस्थितोऽहंतवराक्षस ॥ 16 ॥

दर्शयस्वाद्यतत्तेजोवाचात्वंकिंविकत्थसे ।
एवमुक्तोधनुर्भीमंपरामृश्यमहाबलः ॥ 17 ॥

ससर्जनिशितान्बाणानिंद्रजित्समितिंजयः ।
तेनिसृष्टामहावेगाःशराःसर्पविषोपमाः ॥ 18 ॥

संप्राप्यलक्ष्मणंपेतुःश्वसंतैवपन्नगाः ।
रैरतिमहावेगैर्वेगवान्रावणात्मजः ॥ 19 ॥

सौमित्रिमिंद्रजिद्युद्धेविव्याधशुभलक्षणम् ।
सशरैरतिविद्धांगोरुधिरेणसमुक्षितः ॥ 20 ॥

शुशुभेलक्ष्मणःश्रीमान्विधूमैवपावकः ।
इंद्रजित्त्वात्मनःकर्मप्रसमीक्ष्याधिगम्य च ॥ 21 ॥

विनद्यसुमहानादमिदंवचनमब्रवीत् ।
पत्रिणःशितधारास्तेकरामत्कार्मुकच्युताः ॥ 22 ॥

आदास्यंतेऽद्यसौमित्रेजीवितंजीवितांतकाः ।
अद्यगोमायुसंघाश्चश्येनसंघाश्चलक्ष्मण ॥ 23 ॥

गृध्राश्चनिपतंतुत्वांगतासुंनिहतंमया ।
क्षत्रबंधुंसदानार्यंरामःपरमदुर्मतिः ॥ 24 ॥

भक्तंभ्रातरमद्यैवत्वांद्रक्ष्यतिहतंमया ।
विशस्तकवचंभूमौव्यपविद्धशराससनम् ॥ 25 ॥

हृतोत्तमांगंसौमित्रत्वामद्यनिहतंमया ।
इतिब्रुवाणंसंकृद्धः परुषंरावणात्मजम् ॥ 26 ॥

हेतुमद्वाक्यमत्यर्थंलक्ष्मणःप्रत्युवाच ह ।
वाग्बलंत्यजदुर्बुद्धेक्रूरकर्मासिराक्षस ॥ 27 ॥

अथकस्माद्वदस्येतत्संपादयसुकर्मणा ।
कृत्वाकत्थसेकर्मकिमर्थमिहराक्षस ॥ 28 ॥

कुरुतत्कर्मयेनाहंश्रद्धध्यांतवकत्थनम् ।
अनुक्त्वापरुषंवाक्यंकिंचिदप्यनवक्षिपन् ॥ 29 ॥

अविकत्थन्वधिष्यामित्वांपश्यपुरुषाधम ।
इत्युक्त्वापंचनाराचानाकर्णापूरितान् शितान् ॥ 30 ॥

निजघानमहावेगाल्लक्ष्मणोराक्षसोरसि ।
सुपत्रवाजिताबाणाज्वलिताइवपन्नगाः ॥ 31 ॥

नैरृतोरस्यभासंतसवितूरश्मयोयथा ।
सःशरैराहतस्तेनसरोषोरावणात्मजः ॥ 32 ॥

सुप्रयुक्तैस्त्रिभिर्भाणैःप्रतिविव्याधलक्ष्मणम् ।
सःबभूवमहाभीमोनरराक्षससिंहयोः ॥ 33 ॥

विमर्दस्तुमुलोयुद्धेपरस्परजयैषिणोः ।
उभौहिबलसंपन्नावुभौविक्रमशालिनौ ॥ 34 ॥

उभौपरमदुर्ज्ञेयावतुल्यबलतेजसौ ।
युयुधातेतदावीरौग्रहाविवनभोगतौ ॥ 35 ॥

बलवृत्राविवाभीतौयुधितौदुष्प्रधर्षणौ ।
युयुधातेमहात्मानौतदाकेसरिणाविव ॥ 36 ॥

बहूनवसृजंतौहिमार्गणौघानवस्थितौ ।
नरराक्षससिम्होतौप्रहृष्टावभ्ययुध्यताम् ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टाशीतितमस्सर्गः ॥




Browse Related Categories: